ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 471–480

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 471–480

पृष्ठ 471

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 471 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: १३२५ प्रायश्चित्त है ॥ सा ० भा ० — आहिताग्नेः स्नानमन्तरेणाग्निहोमे ' वरुण ' - गुणकोऽग्निः पुरोडाशदेवता ॥ चतुस्त्रिंशे प्रश्नोत्तरे दर्शयति— ( सूतकान्नप्राशने प्रायश्चित्तम् ) तदाहुर्य आहिताग्निर्यदि सूतकान्नं प्राश्नीयात्, का तत्र प्रायश्चित्ति-रिति; सोऽग्नये तन्तुमतेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्या याज्या-नुवाक्ये ' तन्तुं तन्वन् रजसो भानुमन्विहि ' - ' अक्षानहो नह्यतनोत सोम्या ' इत्याहुतिं ' वाहवनीये जुहुयादग्नये तन्तुमते स्वाहेति; सा तत्र प्रायश्चित्तिः ॥६ ॥

हिन्दी — ( चतुस्त्रिंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं- यः आहिताग्नि जो आहिताग्नि यदि सूतकान्नं प्राश्नीयात् यदि अपवित्र अन्न को खा ले तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये तन्तुमते वह तन्तुमान् अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करें । तस्या याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' तन्तुं तन्वन् राजसो भानुमन्विहि ' और ' अक्षानहो नह्यतनोत सोम्या ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अग्नये तन्तुमते स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की

आहुति देवें । सा तत्र प्रायश्चितिः वहीं इस विषय में प्रायश्चित्त है ।

सा ० भा ० – आहिताग्नेः सूतकान्नप्राशने ' तन्तुमद्'- गुणकोऽग्निर्देवता ' ॥

पञ्चत्रिंशे प्रश्नोत्तर दर्शयति— ( स्वमृत्युप्रावादे श्रुते प्रायश्चित्तम् ) तदाहुर्य आहिताग्निर्जीवे मृतशब्दं श्रुत्वा, का तत्र प्रायश्चित्तिरिति; सोऽग्नये सुरभिमतेऽष्टाकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' अग्निर्होता न्यसीदद्यजीयान्साध्वीमकर्देववीतिं नो अद्येत्याहुतिं ' ३ वाहवनीये जुहुयादग्नये सुरभिमते स्वाहेति; सा तत्र प्रायश्चित्तिः ॥७ ॥

हिन्दी —– ( पञ्चत्रिंश प्रश्नोत्तर — ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — यः आहिताग्निः जो आहिताग्नि जीवे मृतशब्दं श्रुत्वा ( अपने ) जीवित रहते हुए ( अपने ) मृत्यु के शब्द को सुने तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( १ ) ऋ ० १०.५३.६-७ ( २ ) द्र ० आश्व ० श्री ० सू ० ९.८.५ । शाङ्खा ० श्रौ ० ५.४ । ( ३ ) ऋ ० ५.१.६, १०.५३.३ ।

पृष्ठ 472

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 472 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२६: ऐतरेयब्राह्मणम् [ ३२.८ सप्तमपञ्चिकायां ( उत्तर- ) सः अग्नये सुरभिमते वह सुरभिमान् अग्नि के लिए अष्टाकपालं पुरोडाशं निर्वपेत् आठ कपालों वाले पुरोडाश का निर्वाप करे । तस्य याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' अग्निहोंता न्यसीदद्यजीयान् ' और ' साध्वीमकर्देवतीतिं नो अद्य ' । आहवनीये वा अथवा आहवनीय अग्नि में ' अग्नये सुरभिमते स्वाहा ' इस मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है ॥ सा ० भा ० — आहिताग्निः स्वस्मिञ्जीवत्येव स्वकीयमरणशब्दं यदा द्वेषिमुखाच्छृणुयात् तदानीं ‘ सुरभिमतद् ’ – गुणयुक्तोऽग्निर्देवता ' ॥ षट्त्रिंशे प्रश्नोत्तरे दर्शयति— ( भार्यायाः गोर्वा यमापत्यजनने प्रायश्चित्तम् ) तदाहुर्य आहिताग्निर्यस्य भार्या गौर्वा यमौ जनयेत्, का तत्र प्राय-श्चित्तिरिति; सोऽग्नये मरुत्वते त्रयोदशकपालं पुरोळाशं निर्वपेत्, तस्य याज्यानुवाक्ये ' मरुतो यस्य हि क्षये ' ऽरा इवेदचरमा अहेवे-त्याहुतिं वाहनीये जुहुयादग्नये मरुत्वते स्वाहेति, सा तत्र प्रायश्चित्तिः ॥ ८ ॥

हिन्दी – ( षट्त्रिंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— यः आहिताग्निः जो आहिताग्नि, यस्य भार्या जिसकी पत्नी गौर्वा अथवा गाय यमौ जनयेत् जुड़वा बच्चा पैदा करे तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) सः अग्नये मरुत्वते वह मरुत्वान् अग्नि के लिए त्रयोदशकपालं पुरोडाशं निर्वपेत् तेरह कपालों वाले पुरोडाश का निर्वाप करे । तस्य याज्यानुवाक्ये उसके याज्या और अनुवाक्या इस प्रकार हैं— ' मरुतो यस्य क्षये ' और ' अरा इवेदचरमा अहेव ' । आहवनीये वा अथवा आहवनीयाग्नि में ' अग्नये मरुत्वते स्वाहा ' मन्त्र से आहुतिं जुहुयात् घृत की आहुति देवें । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है || सा ० भा ० – आहिताग्निर्योऽस्ति, तस्येत्यस्मिन्नर्थे यस्येति शब्दः प्रयुक्तः । ' तस्य ' आहिताग्नेर्भार्या वा तद्गृहावस्थिता गौर्वा ' यमौ ' अपत्यद्वयं सह जनयेत्, तदानीं ' मरुत्वद्'-गुणयुक्तोऽग्निर्देवता ॥ सप्तत्रिंशे पर्याये कञ्चिद्विचारमुद्भावयति— ( १ ) ‘ सुरभय एव यस्मिञ्जीवे मृतशब्द: ' इति आश्व ० श्रौ ० सू ० ३.१३.११ । ( २ ) ऋ ० १.८६.१; ५.५८.५ । ( ३ ) ' यस्य भार्या गौर्वा यमौ जनयेदिष्टिर्मरुतः ' इति आश्व ० श्री ० सू ० ३.१३.१२ ।

पृष्ठ 473

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 473 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३२७ ( अपत्नीकस्याग्निहोत्रकर्त्तव्यविचारः )

तदाहुरपत्नीकोऽप्यग्निहोत्रमाहरे ३ त् । नाऽऽहरे ३ त् ॥ ९ ॥

हिन्दी— ( सप्तत्रिंश पर्याय— ) ( प्रश्न- ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — अपत्नीकः ( पत्नी के मर जाने पर ) अपत्नीक ( अग्निहोत्री ) को अग्निहोत्रम् आहरेत् अग्निहोत्र करना चाहिए नाऽऽ हरेत् अथवा नहीं करना चाहिए? ॥ सा ० भा०- — पुरुषे जीवति सति यदा भार्या म्रियते, तदानीमाहितैरग्निभिर्भार्या दाह इत्येकः पक्षः । तथा च मनुः -भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि । पुनर्दारक्रियां कुर्यात् पुनराधानमेव च ॥ इति । आहितेभ्योऽग्निभ्योऽन्येनाग्निना भार्यां दहेदिति द्वितीयः पक्षः । तथा च आश्वला-यनः — ‘ आहार्येणानाहिताग्निं पत्नीं च ' इति । भारद्वाजोऽप्याह - निर्मन्थेन ' पत्नीम् ' इति । अस्मिन् पक्षे पुनरपि विवाहेच्छारहितत्वादयमपत्नीक एव वर्तते, सोऽग्निहोत्रम् ‘ आहरेत् ' अनुतिष्ठेन्न वेति प्लुतिद्वयं विचारार्थम् ' ॥ तत्र निर्णयं दर्शयति-आहरेदित्याहुः ॥१० ॥

हिन्दी – ( उत्तर - ) आहरेद् इत्याहुः ( अग्निहोत्र ) करना चाहिए ऐसा कहा गया है ॥ अननुष्ठाने बाधं दर्शयति— यदि ना हरेदनद्धा पुरुषः ॥ ११ ॥

हिन्दी —– यदि नाऽऽहरेत् यदि ( अग्निहोत्र ) न करें तो अनद्धा पुरुषः वह सत्य पुरुष नहीं होता ॥ सा ० भा ० — अद्धेति सत्यनाम ' । तद्वैपरीत्यादनृतः पुरुषः ‘ अनद्धा पुरुषः ’ अननु-ष्ठानेनानृतो भवेदित्यर्थः ॥ प्रश्नोत्तराभ्यां शब्दार्थं निश्चिनोति— कोऽनद्धा पुरुष इति, न देवान्न पितॄन् मनुष्यानिति ॥ १२ ॥

हिन्दी – ( प्रश्नोतर द्वारा शब्दार्थ का निर्णय ) ( प्रश्न- ) कः अनद्धा पुरुषः कौन असत्य पुरुष है? ( उत्तर- ) जो न देवान् न पितॄन् न मनुष्यान् न देवताओं की, न पितरों ( १ ) मनु ० ५.१६८ ( २ ) आश्व ० श्रौ ० सू ० ६.१०.९ -१० ( ३ ) विचार्यमाणानाम् - इति पा ० सू ० ८.२.९ ७ ( ४ ) निघ ० ३.१०.४

पृष्ठ 474

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 474 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२८: ऐतरेयब्राह्मणम् [ ३२.८ सप्तमपञ्चिकायां की और न अतिथियों की पूजा करता ॥ सा ० भा ० — ‘ अनद्धापुरुषः ' शब्देन को विविक्षितः? इति प्रश्नः । यः पुमान् ‘ देवान्न ’ पूजयेदिति शेषः । पितॄनपि न पूजयेत् । ' मनुष्यान् ' अतिथीनपि न पूजयेत् । तादृशः पुमान् ‘ अनद्धापुरुष: ’ इत्युत्तरम् ॥ अग्निहोत्रस्याननुष्ठाने सत्यनद्धा पुरुषो भवेदिति ' ॥ विपक्षे बाधमुक्त्वा स्वपक्षमुपसंहरति— तस्मादपत्नीकोऽप्यग्निहोत्रमाहरेत् ॥ १३ ॥

हिन्दी - तस्मात् इसी कारण अपत्नीकः अपि ( पत्नी के मर जाने पर ) अपत्नीक भी अग्निहोत्रम् आहरेत् अग्निहोत्र को करे ॥ उक्तार्थदार्थ्याय शाखान्तरगतां गाथामुदाहरति— तदेषाऽभि यज्ञगाथा गीयते ॥ १४ ॥

हिन्दी - तत् तो इस विषय में एषा अभि यज्ञगाथा यह यज्ञ को गाथा गीयते कही गयी है । सा ० भा ० — ‘ तत् ’ तस्मिन्नवश्यानुष्ठानरूपेऽर्थे ' एषा ' वक्ष्यमाणा सर्वैर्गीयमाना ‘ यज्ञगाथा ' याज्ञिकै: ' गीयते ' पठ्यते ॥ तां गाथां दर्शयति— यजेत् सौत्रामण्यामपत्नीकोऽप्यसोमपः ‘ मातापितृभ्यामनृणार्थाद्यजेति ' वचनाच्छुतिरिति हिन्दी— ( उस गाथा को दिखला रहे हैं — ) सौत्रामण्याम् अपत्नीकः अपि अपत्नीक और असोमपः असोमप ( सोम का पान यजेत् यजन करे । मातापितृभ्याम् अनृणार्थात् माता और पिता के अभिलक्षित करके ‘ यज्ञम् ’ अभिलिक्ष्य ॥ । इति ॥१५ ॥

सौत्रामणि याग में न करने वाला ) भी ऋण से मुक्त होने के लिए यजेत् यजन करना चाहिए इति श्रुतिः ऐसा श्रुति कहती है - इति वचनात् इस कथन के अनुसार यजन करना चाहिए ॥ सा ० भा ० — अपत्नीकोऽपि पुमान् ' सौत्रामण्यां यजेत् ' सौत्रामणीयागमपि कुर्यात्, किमुताग्निहोत्रादिकम्? हविर्यज्ञेष्वस्याधिकारोऽस्तीत्यर्थः । तद्वत्सोमयागेष्वधिकारशङ्कायां ( १ ) अनद्धापुरुषं पुरुषादेव ह वा अनद्धापुरुषो यो न देवानवति, न पितॄन् न मनुष्यान्– इति शत ० ब्रा ० ६.३.१.२४ । ' अनद्धापुरुषमीक्षते देवपितृमनुष्यानर्थकम् ' – इति कात्या ० श्रौ ० १६.२.१३ । ( २ ) ' सायंप्रातहोंमौ स्थालीपाको नवश्च यः । बलिश्च पितृयज्ञश्चाष्टका सप्तमः पशुः । - इत्येते पाकयज्ञाः ।

पृष्ठ 475

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 475 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३२ ९ तद्व्यावृत्त्यर्थमसोमप इत्युच्यते । यथा पत्नीरहितोऽपि मात्रे पित्रे चाशनाच्छादनादिकं ददाति, तद्वदग्निहोत्रमपि कुर्यादिति शेषः । अत्र हेतुः ' अनृणार्थात् ' इति ऋणपरिहारनिमित्तम् । तथा च शाखान्तरे श्रूयते— ' जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते । ब्रह्मचर्येणर्षिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः, एष वा अनृणो यः पुत्रो यज्वा ब्रह्मचारी वासी इति । अनेनैवाभि-प्रायेण ‘ श्रुतिः ' ' । श्रुतेः यजेति वचनमस्ति ' यज देवान् अधीष्व वेदान् प्रजामुत्पादयेति ' शाखान्तरे वचनमस्ति । तस्माद्वचनादनुष्ठानपक्ष एव युक्ता इति गाथाया अर्थः ॥ तथा च विष्णुः २ स्मरति — मृतायामपि भार्यायां वैदिकं न त्यजेद् द्विज: । उपाधिनाऽपि यत्कर्मं यावज्जीवं समापयेत् ॥ इति । उपाधिः कुशमयादिपत्नीकल्पना । यथा च स्मृत्यन्तरम्'– अन्ये कुशमयीं पत्नीं कृत्वा तु गृहमेधिनः । अग्निहोत्रमुपासन्ते यावज्जीवमनुव्रताः ॥ इति । तथा च मैत्रायणीयश्रुतौ अप्याम्नायते४—

यस्तु स्वैरग्निभिर्भार्यां संस्करोति कथञ्चन ।

असौ मृतः स्त्री भवति स्त्री चैवास्य पुमान् भवेत् ॥

तस्मान्मृतभार्योऽपि स्वकीयानग्नीनवस्थाप्याग्निहोत्रमाहरेत् ॥

तदेतदभिप्रेत्योपसंहरति— तस्मात् सौम्यं याजयेत् ॥ १६ ॥

हिन्दी — तस्मात् इसी ( ऋणमुक्ति ) के कारण सौम्यम् याजयेत्सोम से सम्बन्धित अग्न्याधेयमग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धोऽत्र सप्तमः । - इत्येते हविर्यज्ञाः । अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस्ततः । वाजपेयोऽतिरात्रश्चाप्तोर्यामात्र सप्तमः । - इत्येते सुत्याः - इति गो ० ब्रा ० १.२३ अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः । अग्न्याधेयमग्निहोत्र दर्शपूर्णमासावाग्रयणं हविर्यज्ञसंस्थाः । अग्निष्टोमो ऽत्यग्निष्टोम सप्त सोमसंस्था: ' – इति गो ० धर्म ० ८ । ( १ ) तै ० सं ० ६.३.१०.५ ( २-३ ) आकरे नोपलभ्यते । ( ४ ) मैत्रायणीयशाखायां ब्राह्मणं चामनन्ति । ऐ.ब्रा.उ.- ३० चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति

पृष्ठ 476

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 476 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३३०: ऐतरेयब्राह्मणम् [ ३२.९ सप्तमपञ्चिकायां अनुष्ठान करना चाहिए ॥ सा ० भा०- -ऋणापाकरणार्थी दोषराहित्यात् ' सौम्यः ' । तादृशमवश्यमग्निहोत्राद्य-नुष्ठापयेत् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वित्रिंशाध्याये ) अष्टमः खण्डः ॥८ ॥ ( ९ ) ( २३२ )

॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के अष्टम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्यां समाप्त ॥ तवमः खण्डः सा ० भा ० – अत ऊर्ध्वं खण्डद्वयं देशविशेषेण केचिदामनन्ति, केचिन्नाऽऽमनन्ति । अत एव पूर्वनिबन्धकाराः ` पाठरहितदेशानुसारेण तद्व्याख्यानमुपेक्षितवन्तः । अस्माभिस्तु पाठोपेतदेशानुसारेण तद्व्याख्यायते— पूर्वम् अपत्नीकस्याग्निहोत्रादिहविर्यज्ञानुष्ठानं प्रतिपादितम् । अथ तस्यैवापत्नीकस्य वाचिकं मानसं च द्विविधमग्निहोत्रं प्रतिपादनीयम् । तंत्र वाचिकविषयं प्रश्नमुद्भावयति— ( अपत्नीकस्य द्विविधमग्निहोत्रविधानम् ) ( तत्र वाचिकाग्निहोत्रकथनम् ) तदाहुर्वाचाऽपत्नीकोऽग्निहोत्रं कथमेव जुहोति ॥१ ॥

हिन्दी – ( प्रश्न - ) तदाहुः इस ( अपत्नीक के वाचिक अग्निहोत्र के ) विषय में ( कुछ वेदज्ञ ) पूछते हैं — अपत्नीकः ( पत्नी के मर जाने के कारण ) पत्नीरहित ( अग्निहोत्री ) वाचा वाणी से कथमेव अग्निहोत्रं जुहोति किस प्रकार अग्निहोत्र होम करता है?॥ सा ० भा ० — योऽपत्नीकः पुरुषः, तस्य वाचा निष्पाद्यं यद्यग्निहोत्रं तत् केन प्रकारे-णानुष्ठातव्यंम्? इति प्रश्नः ॥ , तमेव प्रश्नं पुनर्विस्पष्टयति— ' निविष्टे मृता पत्नी नष्टा वाऽग्निहोत्रं कथमग्निहोत्रं जुहोति? ॥ २ ॥

हिन्दी - ( प्रश्न को विशेष रूप से स्पष्ट करते हैं— ) निविष्टे ( विवाह के बाद अग्निहोत्र में अनुष्ठान का ) उपक्रम हो जाने के बाद मृता पत्नी जब पत्नी मर जाती है तब नष्टा वा अग्निहोत्रम् अग्निहोत्र विनष्ट हो जाता है कथमेव अग्निहोत्रं जुहोति फिर वह ( अपत्नीक ) कैसे अग्निहोत्र होम करता है? ॥

पृष्ठ 477

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 477 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३३१ सा ० भा ० — नैष्ठिकब्रह्मचर्यादावप्यपत्नीकत्वमस्ति, तत्राग्निहोत्रप्रसङ्ग एव नास्ति, विघ्यभावात् । अतोऽपत्नीकत्वं विशेष्यते । विवाहादूर्ध्वमग्निहोत्रे ' निविष्टे ' अनुष्ठामुपक्रान्ते सति, पश्चात् पत्नी मृता भवति । तादृशोऽत्रापत्नीकः । तस्याग्निहोत्रं ' नष्टा वा ' नष्टमेव भवति, पूर्वसिद्धैरग्निभिः पत्नीदाहपक्षे पुनरग्निहोत्रहेतूनामग्नीनामभावात् । अतोऽपत्नीकः कथमग्निहोत्रं जुहोति? इति प्रश्नः ॥ तस्योत्तरमाह— पुत्रान् पौत्रान्नप्तृनित्याहुरस्मिंश्च लोकेऽमुष्मिंश्चास्मिँल्लोकेऽयं स्वर्गेऽस्वर्गेण स्वर्गं लोकमारुरोहेत्यमुष्यैव लोकस्य संततिं धारयति, यस्यैषां पत्नीं नैच्छेत्, तस्मादपत्नीकस्याऽऽधानं कुर्वन्ति ॥ ३ ॥

हिन्दी – ( उत्तर- ) पुत्रान् पौत्रान् नप्तृन् इति आहुः वह ( अपने ) पुत्रों, पौत्रों ( पुत्र के पुत्रों ) और नातियों ( पुत्रियों के पुत्रों ) से इस प्रकार कहे —अस्मिन् च लोके अमुष्मिन् च लोके इस ( पृथिवी ) लोक में और उस ( स्वर्ग ) लोक में ( कल्याण सम्पादन करना चाहिए ) । अस्मिन् लोके इस लोक में रहते हुए अयं स्वर्गलोकः ( जो वेदविहित ) स्वर्ग लोक है, स्वर्गं लोकम् ( इस ) स्वर्गलोक को अस्वर्गेण विलक्षण अनुष्ठान के द्वारा आरुरोहति प्राप्त करता है । अमुष्यैव लोकस्य इस लोक की सन्ततिम् अविच्छेदता को धारयति धारण करता है । यस्य जिस ( पुरुष ) की एषां पत्नीं इस पत्नी की न ऐच्छेत् ( अशक्तता होने के कारण ) इच्छा न होवे, तस्मात् इसी कारण अपत्नीकस्य आधानं कुर्वन्ति अपत्नीक का ( वाणी से प्रेरित पुत्र - पौत्रादि ) आधान करते हैं । सा ० भा ० — योपत्नीकोऽग्निरहितः स्थविरत्वेनानुष्ठातुमशक्तश्च, तादृशः पुमान् पुत्रादीन् प्रत्येवं ब्रूयात् । आहुरिति बहुवचनं छान्दसम् । हे पुत्रपौत्रप्रपौत्राः! शृणुत । अस्मिँल्लोके, ‘ अमुष्मिन् ' स्वर्गे लोके च श्रेयः सम्पादनीयम् | अस्मिँल्लोके तु स्थितैः पुरुषैर्योऽयं स्वर्गः शास्त्रेण श्रुत इति शेषः । तं स्वर्गलोकम् ' अस्वर्गेण ' स्वर्गविलक्षणेन कामकर्मानुष्ठानेन ‘ आरुरोह ’ आरोहेदित्येवं पुत्रादीन् प्रति वाचोपदिशति । एतदेव वाजसनेयिभिर्विस्पष्टमा-म्नायते — ‘ तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः । तस्मादेनमनुशासति ' ' इति । अनेन पुत्राद्य-नुशासनेनामुष्यैव लोकस्य ‘ संततिम् ' अविच्छेदं ' धारयति ' सम्पादयति । कुलपरम्परया-ऽग्निहोत्रानुष्ठानेन सर्वेषां स्वर्गप्राप्तौ तद्विच्छेदाभावात् । ' यस्य ' यः पुमान् ‘ एषां पत्नीं नैच्छेत् ' स्वस्यानुष्ठातुमशक्तत्वेन पुनर्विवाहसाध्यामेतां पत्नीं नापेक्षेत् । तस्मात्तस्यापत्नीकस्य वाचा प्रेरिताः पुत्रपौत्रादय आधानं कुर्वते । तदाधानपूर्वकमग्निहोत्रमपत्नीकस्य वाचिक-मित्युच्यते ॥ अथ मानसमग्निहोत्रं प्रश्नोत्तराभ्यां दर्शयति— ( १ ) शत ० ब्रा ० १४.४.३.२६

पृष्ठ 478

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 478 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३३२: ऐतरेयब्राह्मणम् [ ३२.१० सप्तमपञ्चिकायां ( मानसाग्निहोत्रकथनम् ) अपत्नीकोऽग्निहोत्रं कथमग्निहोत्रं जुहोति? श्रद्धा पत्नी, सत्यं यजमानः; श्रद्धा सत्यं तदित्युत्तमं मिथुनं, श्रद्धया सत्येन मिथुनेन स्वर्गाल्लोकाञ्जयतीति ॥४ ॥

हिन्दी - ( प्रश्नोत्तर द्वारा मानस अग्निहोत्र को दिखला रहे हैं - ) ( प्रश्न - ) अपत्नीकः पत्नी के रहित अग्निहोत्रम् ( अशक्त किन्तु मन से ) अग्निहोत्र को ( करता हुआ ) कथम् अग्निहोत्रं जुहोति किस प्रकार अग्निहोत्र करता है? ( उत्तर - ) श्रद्धा पत्नी ( जो उसकी श्रद्धा है, ( वह ) पत्नी स्थानीय है और सत्यं यजमानः जो सत्य है, वह यजमान स्थानीय है । श्रद्धा सत्यम् जो श्रद्धा और सत्य है तद् उत्तमं मिथुनम् वह उत्तम मिथुन है । श्रद्धया सत्येन मिथुनं श्रद्धा और सत्य के मिथुन से स्वर्गान् लोकान् जयति स्वर्गलोक को जीत लेता है । सा ० भा०- - पूर्वोक्तस्थविरोऽपत्नीको वा अग्निहोत्रं स्वयमेव मनसा जुहोमीति, यदीच्छेदिति शेषः । तदानीं केन प्रकारेण तस्य मानसो होम:? इति प्रश्नः । श्रद्धेत्यादिकं तदुत्तरम् । येयं कर्मश्रद्धा, सैव पत्नी । यत्तु ' सत्यं ' सत्यवाक्यं वैदिकमन्त्रोच्चारणं, स एव यजमानः । श्रद्धा सत्यं चेति यदुभयमस्ति, तदुक्तेन प्रकारेण भावितं सदुत्तमं मिथुनं भवति । तादृशेन श्रद्धासत्यरूपेण ‘ मिथुनेन ' मानसमनुष्ठानं निष्पाद्य स्वर्गाल्लोकाञ्जयतीत्येवमुत्तरं सम्पन्नम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वित्रिंशाध्याये ) नवमः खण्डः ॥९ ॥ ( १० ) ( २३३ )

॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के नवम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ दशमः खण्डः सा ० भा ० — तद्व्रतनिमित्तमुपवासं विधत्ते— ( दर्शपूर्णमासव्रतनिमित्तोपवासविधानम् ) तदाहुर्यद्दर्शपूर्णमासयोरुपवसति, न ह वा अव्रतस्य देवा हविरश्नन्ति; तस्मादुपवसत्युत मे देवा हविरश्नीयुरिति ॥ १ ॥

हिन्दी— ( उस व्रत के लिए उपवास का विधान कर रहे हैं - ) ( प्रश्न- ) तदाहुः इस

पृष्ठ 479

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 479 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३३३ विषय में ( कुछ वेदज्ञ ) पूछते हैं— यद् दर्शपूर्णमासयोः उपवसति जो दर्शपूर्णमास में उपवास ( गार्हपत्याग्नि के समीप में निवास करता है, ह वा देवाः अव्रतस्य हविः क्योंकि देवता ( नियमरूप ) व्रत से रहित की हवि का न अश्नन्ति भक्षण नहीं करते हैं । तस्मात् इसी कारण उपवसति उपवास करता है उत देवाः जिससे देवता मे हविः हमारी हविः का अश्नीयुः भक्षण करें । सा ० भा ० — ' तत् ' तस्मिन्निष्ट्यनुष्ठान विषये ब्रह्मवादिन एवमाहुः । यः कोऽप्य-नुष्ठाता दर्शपूर्णमासयोरुपवासं कुर्यात् । यागरूपं व्रतं निश्चित्य गार्हपत्याद्यग्निसमीपे यो वासः स उपवासः । यद्वा, देवा अस्यापि यज्ञे समीपे वसन्तीत्येतदीयोऽनुष्ठानसङ्कल्प उपवासः । अग्न्युपस्तरणादिना तदीयोऽनुष्ठाननिश्चयोऽवगन्तव्यः । अत एव शाखान्तरे श्रूयते — उपास्मिञ्छ्वो वक्ष्यमाणे देवतावसन्ति । य एवं विद्वानग्निमुपस्तृणाति ' इति । ‘ अव्रतस्य ’ नियमविशेषस्वीकाररूपव्रतरहितस्य पुरुषस्य हविर्देवा नैवाश्नन्ति । तस्मात्का-रणादुत ' मे ' ममापि हविर्देवा अश्नीयुरित्यभिप्रेत्य नियमं स्वीकृत्याग्निसमीप उपवसेत् । एतदेवाभिप्रेत्य आपस्तम्ब आह— ' आहवनीयागारे गार्हपत्यागारे वा शेते ' इति । यद्वा, ग्राम्याशनपरित्याग उपवासः । तत्परित्यज्याऽऽरण्याशनरूपं नियमं स्वीकुर्यात् । अत एव शाखान्तरीया आहुः — ' यद्माम्यानुपवसति, तेन ग्राम्यानवरुन्धते; यदारण्यस्याश्नाति, तेनारण्यान्; यदनाश्नानुपवसेत् पितृदेवत्यः स्यादारण्यस्याश्नाति'३ – इति ॥ अत्रोपवासतिथिविषये शाखाभेदवचनमाश्रित्य विकल्पं दर्शयति— पूर्वां पौर्णमासीमुपवसेदिति पैङ्गयमुत्तरामिति कौषीतकं; या पूर्वा पौर्णमासी साऽनुमतिर्योत्तरा सा राका ॥ २ ॥

हिन्दी— ( उपवासतिथि के विषय में विकल्प — ) पूर्वां पौर्णमासीम् उपवसेत् ( यदि दो दिन पौर्णमासी हो तो ) पूर्ववर्ती दिन की पौर्णमासी में उपवास ( समीप में निवास ) करना चाहिए ( और दूसरे दिन याग करना चाहिए ) इति पैङ्ग्यम् यह ( सामशाखाप्रवर्तक ) पैङ्गी ऋषी का कथन है । उत्तराम् उत्तरवर्ती दिन की ( पौर्णमासी में उपवास करना चाहिए ) इति कौषीतकम् यह ( ऋक्शाखाप्रवर्तक ) कौषीतकि ऋषि का कथन है । या पूर्वा पौर्णमासी जो पूर्व दिन की पौर्णमासी है सा अनुमतिः वह अनुमति संज्ञक होती है और या उत्तरा जो उत्तरवर्ती ( दिन की पौर्णमासी ) है सा राका वह राका संज्ञक होती है । सा ० भा०- खण्डतिथिवशाद् यदा दिनद्वये पौर्णमासी तिथि: सम्पद्यते, तदानीं पूर्वां ‘ पौर्णमासीमुपवसेत् पूर्वदिने उपवासं कृत्वा परेद्युर्यजेतेति सामशाखाप्रवर्तकस्य पैङ्गेर्म-( १ ) तै ० सं ० १.६.७.३ ( २ ) आप ० श्रौ ० ४.३.१७ । ' अहं ग्राम्यानुपवसामि ’ - इत्यादीति एतदादि सूत्राणि च द्रष्टव्यानि । ( ३ ) तै ० सं ० १.६.७.३

पृष्ठ 480

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 480 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३३४: ऐतरेयब्राह्मणम् [ ३२.१० सप्तमपञ्चिकायां हर्षेर्मतम् ' । ‘ उत्तरां पौर्णमासीमुपवसेत् उत्तरस्मिन्दिन उपवासं कृत्वा ततोऽपि परेद्युर्यजे-तेत्यृक्शाखाप्रवर्तकस्य कौषीतकिमहर्षेर्मतम् ॥ एतदेव मतद्वयमुपजीव्य स्मार्ता एवं वर्णयन्ति—

‘ पर्वप्रतिपदोः सन्धिर्मध्याह्ने पूर्वतोऽपि वा ।

अन्वाधानं पूर्वदिने तद्दिने याग इष्यते ॥

परतश्चेत्यपरेऽह्रीष्टिस्तद्दिनेऽन्वाहितिर्भवेत् ' ॥ इति । एतच्च पौर्णमासीद्वयसद्भावे वेदितव्यम् । अनुमतिराकाशब्दाभ्यां पौर्णमासीभेदस्य सर्वत्र व्यवहृतत्वात् । तयो स्वरूपमभिधानकार आह— “ कलाहीने साऽनुमतिः, पूर्णे राका निशाकरे’३ इति । चतुर्दशीसंयोगाच्चन्द्रमसि कलाहीने सत्यनुमतिरित्युच्यते । तत् संयोगा-भावेन चन्द्रमण्डले पूर्वे सति राकेत्युच्यते || पौर्णमासीन्यायममावास्यायामपि दर्शयति— या पूर्वाऽमावास्या सा सिनीवाली, योत्तरा सा कुहूः ॥ ३ ॥

हिन्दी— ( पौर्णमासी के समान अमावास्या को भी दिखला रहे हैं — ) या पूर्वा अमावास्या ( दो दिन अमावास्या होने पर ) जो पूर्व दिन की अमावास्या है सा सिनीवाली वह सिनीवाली संज्ञक होती है और या उत्तरा जो उत्तर दिन ( की अमावास्या ) है सा कुहूः वह कुहू संज्ञक है | सा ० भा ० — अत्रापि चतुर्दशीसंयोगाच्चन्द्रदर्शने सत्यमावास्या सिनीवाल्युच्यते । तद्योगराहित्येन चन्द्रदर्शनाभावे कुहूरिति । तदप्यभिधानकारेणोक्तम् — सा दृष्टेन्दुः सिनी-वाली, सा नष्टेन्दुकला कुहुः " इति । अत्राप्युपवासयागनिश्चये मतभेदः पूर्ववद्द्रष्टव्यः ॥ अत्र पूर्वोत्तरविभागनिर्णयाय कर्मोपयोगिन्यास्तिथेः स्वरूपं दर्शयति— यां पर्यस्तमियादभ्युदियादिति सा तिथिः ॥ ४ ॥

हिन्दी — ( तिथि के स्वरूप को दिखला रहे हैं - ) यां जिस तिथि को पर्यस्तम् ( १ ) पा ० सू ० ४.३.१०५ । ' पिङ्गेन प्रोक्तः पैङ्गीकल्प: ' । अनु ० सू ० १.२; ४; १०; ६.७; ११.८ । शाङ्खा ० ब्रा ० ३.१; १ ९.९; २४.९ । शाङ्खा ० श्री ० ४.२.११ इत्यादि । ‘ मधुकः पैङ्गयः ' इति शत ० ब्रा ० १४.९.२.१७ । ' मधुकः कोयष्टिकाख्यः पक्षी, तद्वल्लोच्यते यस्य; मध्वेव प्रधमं, क्षौद्रं, तद्वत् पिङ्गनेत्र इति वा ' - इति महाभारत १३.११८ श्लोकव्याख्याने नीलकण्ठः । ( २ ) ऋग्वेदस्तु एकविंशतिशाखोऽपि वस्तुतो द्विविधः । तत्र शैशिरीयादयः पञ्चदशाकलभेदा; कौषीतक्यायदस्तु षोडश शाङ्खायनभेदाः । ( ३ ) अमरकोश १.४.८ ( ४ ) अमरकोश १.४.९