ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 481–490

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 481–490

पृष्ठ 481

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 481 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः दशमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३३५ इयात् प्राप्त करके ( सूर्य ) अस्त है तथा अभ्युदियात् अभिलक्षित करके. ( सूर्य ) उदित होता है सा तिथिः वह तिथि है । सा ० भा ० — अमावास्यां पौर्णमासीं वा, यां परिप्राप्य सूर्योऽस्तमियात् । तथा याम-भिलक्ष्य सूर्यं उदियात्, सेयमुदयास्तमयव्यापिनी कर्मोपयुक्ता तिथिः । तादृश्यां तिथौ उदया-स्तमययोर्मध्ये पूर्वोत्तराभ्यां चतुर्दशीप्रतिपद्भ्यां मिश्रणे सति पर्वणो द्वैविध्यं भवति । तस्मिन् द्वैविध्ये पूर्वोक्तमतद्वयं द्रष्टव्यम् ॥ तदेतदुपसंहरति— पूर्वां पौर्णमासीमुपवसेदनिर्ज्ञाय पुरस्तादमावास्यायां चन्द्रमसं यदुपैति, यद् यजते, तेन सोमं क्रीणन्ति, तेनोत्तरामुत्तरामुपवसेदुत्तराणि ह वै सोमो यजते, सोममनु दैवतमेतद्वै देवसोमं यच्चन्द्रमास्तस्मादुत्तरा-मुपवसेत् ॥ ५ ॥

हिन्दी— ( उपर्युक्त कथन का उपसंहार कर रहे हैं - ) पूर्वां पौर्णमासीम् उपवसेत् पूर्ववर्ती दिन की पौर्णमासी को उपवास करना चाहिए । अमावास्यायाम् अमावास्या में पुरस्तात् चन्द्रमसम् अनिर्ज्ञाय पूर्व दिशा में चन्द्रमा को न देखकर ( चन्द्रोदय नहीं होगा-ऐसा निश्चय करके ) यदुपैति जो उपवास करता है, वह वह यद् यजते जो यजन करता है, तेन सोमं क्रीणन्ति उस ( उपवास ) से जो सोम का क्रय करते हैं तथा तेन उत्तरामुत्तराम् उपवसेत् उस ( उपवास ) से आने वाली ( पौर्णमासी और अमावास्या ) को उपवास करें और उत्तराणि वै यजते परवर्ती दिन यजन करें । सोमः वह याग सोम सदृश होता है । सोमम् अनु ( उस ) सोम के बाद दैवतम् सभी देवताओं को ( तृप्त करता है ) । यत् चन्द्रमा जो चन्द्रमा है एतद् वै देवसोमम् वह ही देवताओं का सोम है । तस्मात् इस कारण उत्तराम् उपवसेत् बाद वाली ( पोर्णमासी ) को उपवास करना चाहिए ॥ सा ० भा ० — पूर्वामिति पैङ्गिमतस्योपसंहारः । अमावास्यादिने ‘ पुरस्तात् ’ पूर्वस्यां दिशचन्द्रमसम् ‘ अनिर्ज्ञाय ’ च शास्त्रमार्गेण चन्द्रमदृष्ट्वा चन्द्रोदयो न भविष्यतीति निश्चित्य ‘ यदुपैति ’ उपवसति प्रारभत इति यदस्ति; ‘ यद्यजते ' परेद्युर्यागं करोतीति यदस्ति, ‘ तेन ' उपवासेन यागेन च ‘ उत्तरामुत्तराम् ' आगामिपक्षगतां पौर्णमासीममावास्यां चोपवसेत् । ‘ उत्तराणि ’ उपवासदिनादुत्तरेषु दिनेषु यजते । स यागः ' सोमो ' भवति । सोमयागसदृशो भवति । तं सोममनु सर्वमपि दैवतं, तृप्यतीति शेषः । योऽयं चन्द्रमा अस्ति, एतदेव ‘ सोमं ’ देवानामपेक्षितं ‘ सोमद्रव्यसदृशं वस्तु । यस्माच्चन्द्रमण्डलं देवानां प्रियं, तस्मात्मण्डलं सम्पूर्णमभिलक्ष्योत्तरां पौर्णमासीमुपवसेदिति कौषीतकिमतस्योपसंहारः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वित्रिंशाध्याये ) दशमः खण्डः ॥१० ॥ ( ११ ) ( २३४ )

पृष्ठ 482

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 482 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३३६: ऐतरेयब्राह्मणम् [ ३२.११ सप्तमपञ्चिकायां ॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के दशम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ एकादश: खाण्डः सा ० भा ० — इत्थमग्निहोत्रप्रायश्चित्तप्रसङ्गादागतमपत्नीकाग्निहोत्रादिकं परिसमाप्य प्रकृत-मेव प्रायश्चित्तमनुसरन् प्रश्नमुत्थापयति— ( वह्निकालोत्क्रमे प्रायश्चित्तविधानम् ) तदाहुर्यस्याग्निमनुद्धृतमादित्योऽभ्युदियाद्वाऽभ्यस्तमियाद्वा प्रणीतो वा प्राग्घोमादुपशाम्येत् का तत्र प्रायश्चित्तिरिति ॥ १ ॥

हिन्दी – ( चत्वारिंश प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— अस्य जिस ( अग्निहोत्री ) के अग्निम् अनुघृतम् अग्नि न लाने के पूर्व ही आदित्यः अभ्युदियाद् वा सूर्य उदित हो जाय अथवा अस्तम् इयाद् वा अस्त हो जाय, प्रणीतः वा अथवा लायी गई ( अग्नि ) प्राग् होमाद् उपशाम्येत् होम से पहले शान्त हो जाय ( बुझ जाय ) तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ॥ सा ० भा ० — सायंकाले आदित्यस्यास्तमयात् पुराऽग्निहोत्रार्थं गार्हपत्यादग्निमुद्धरेत् । प्रातःकाले, तु सूर्योदयात् पुरोद्धरेदित्याम्नातम् ' । एवं सति ' यस्य ' अग्निहोत्रणोऽनुद्धृत-मग्निमभिलक्ष्याऽऽदित्यः ‘ उदियाद्वाऽस्तमियाद्वा ' अग्न्युद्धरणात् प्रागेवोदयास्तमयौ भवत इत्यर्थः । अथवा स्वस्वकाले प्रणीतोऽग्निराहवनीयदेशे स्थित्वा होमात् पूर्वमुपशाम्येत् । तेषु त्रिषु विषयेषु प्रायश्चित्तं पृच्छति ॥ तस्योत्तरमाह— हिरण्यं पुरस्कृत्य सायमुद्धरेज्ज्योतिर्वै शुक्रं हिरण्यं, ज्योतिः शुक्रमसौ, तदेव तज्ज्योतिः शुक्रं पश्यन्नुद्धरति, रजतमन्तर्धाय प्रातरुद्धरेदेतद् रात्रिरूपम्, पुरा संभेदाच्छायानामाहवनीयमुद्धरेन्मृत्युर्वै तमश्छाया, तेनैव तज्ज्योतिषा मृत्युं तमश्छायां तरति सा तत्र प्रायश्चित्तिः ॥ २ ॥

हिन्दी— ( उत्तर- ) ( i ) हिरण्यं पुरस्कृत्य सुवर्ण को सामने रखकर सायम् उद्धरेत् सायंकाल लाना चाहिए; क्योंकि ज्योतिर्वै शुक्रं हिरण्यम् सुवर्ण भास्वर प्रकाश है । असौ ज्योतिः शुक्रम् यह ( आदित्य ) भास्वर ज्योति है । तत् ज्योतिः शुक्रं पश्यन् उस भास्वर ज्योति को देखता हुआ उद्धरति ( अग्नि को ) ले जाता है । ( ii ) रजतम् अन्तर्घाय चाँदी ( १ ) आश्व ० श्री ० २.२.१-१८

पृष्ठ 483

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 483 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः एकादश: खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १३३७ को ऊपर रखकर प्रातः उद्धरेत् प्रातः काल ( अग्नि को ) ले जाना चाहिए । एतत् यह ( चाँदी ) रात्रिरूपम् रात्रि का स्वरूप है । ( iii ) छायानां सम्भेदात् पूर्वम् छाया के सम्भेद ( भेद न होने ) से पहले आहवनीयम् उद्धरेत् आहवनीयाग्नि को ले आना चाहिए । मृत्युर्वै तमः छाया अन्धकार और छाया मृत्युरूप है । तेनैव उसी ही तद् ज्योतिषा प्रकाश से . मृत्युं तमः छायां तरति तम और छाया रूप मृत्यु को पार करता है । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्त है ॥ सा ० भा ० — यदा सूर्यास्तमयादूर्ध्वमुद्धरणीयं तदानीं हिरण्यं ‘ पुरस्कृत्य ' उपर्यव-स्थाप्य, वह्निमुद्धरेत् । यदेतद्धिरण्यमस्ति, तदेतत् ' शुक्रं ज्योतिर्वै ' अत्यन्तभास्वरः प्रकाशः । ' असौ ' आदित्योऽपि ' शुक्रं ज्योतिः ' अत्यन्तं भास्वरः प्रकाशः । तथा सति ' तदेव ' हिरण्य-मेव ‘ तज्ज्योतिः ’ आदित्यप्रकाशः । अतः ' शुक्रः ' दीप्तिमद्धिरण्यं पश्यन्त्रेवाग्निमुद्धरेत् । प्रात: काले तु रजतम् ‘ अन्तर्धाय ' उपर्यवस्थाप्याग्निमुद्धरेत् । ' एतत् ' च रजतं रात्रेः स्वरूपम् । रात्रौ हि चन्द्रतारादिकं रजतसमानं दृश्यते । अतो रजतेन सूर्योदयात् प्राचीनो रात्रिकाल एवं सम्पद्यते । यदाऽप्येतावतैव त्रिविधप्रश्नोत्तरं सम्पन्नम्, तथापि तत्प्रसङ्गानित्यमुद्धरणं पुरे-त्यादिना प्रदर्श्यते । छायानां ' सम्भेदः ' एकीभावः । सूर्यास्तमये सत्येषा मनुष्यच्छाया एषा वृक्षच्छायेति विभागो न जायते, सोऽयं सम्भेदः । तस्मात् पुरा सूर्यप्रकाशवशाच्छाया-विशेषो विज्ञायते । तस्मिन्नेव काले सायंहोमार्थमाहवीयमुद्धरेत् । तत्रोपपत्तिर्मृत्युरित्यादिः । यदिदं तमः, या च च्छाया, तदुभयं मृत्युस्वरूपमेव । अतः तस्यादित्यप्रकाशे तेनैव ज्योतिषा मृत्युरूपं तमस्तद्रूपां छायां च ' तरति ' उल्लङ्घयति ' । सेयमुक्ता तत्र वैकल्ये प्रायश्चित्तिः । नित्योद्धरणस्यापि वैकल्यविरोधित्वादुपचरितं प्रायश्चित्तत्वम् । पूर्वत्र सप्तत्रिंशे पर्याये पत्नीरहितस्याग्निहोत्रं विधाय, अष्टात्रिंशे पर्याये दर्शपूर्णमासयोरुपवासनिर्णयः, एकोनचत्वारिंशे पर्याये वाचिकं मानसं वाऽग्निहोत्रमपत्नीकस्य विधाय, चत्वारिंशे वह्न्यु-द्धरणकालातिक्रमे प्रायश्चित्तमुक्तम् ॥ अथैकचत्वारिंशे प्रश्नोत्तरे दर्शयति— ( गार्हपत्याहवनीययोर्मध्यें शकटादिगमने प्रायश्चित्तम् ) तदाहुर्यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वाऽश्वा वा प्रतिपद्येत, का तत्र प्रायश्चित्तिरिति? नैनन्मनसि कुर्यादित्याद्दुरात्मन्यस्य हि ता भवन्तीति, तच्चेन्मनसि कुर्वीत, गार्हपत्यादविच्छिन्नामुदकधारां हरेत्तन्तुं तन्वन् रजसो भानुमन्विहीत्याहवनीयात्, सा तत्र प्रायश्चित्तिः ॥ ३ ॥

हिन्दी – ( एकचत्वारिंश प्रश्नोत्तर - ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं— अस्य जिस ( अग्निहोत्री ) के गार्हपत्याहवनीयौ अन्तरेण गार्हपत्य और आहवनीय अग्नि के मध्य में आनः वा रथो वाऽश्वाः वा प्रतिपद्येत् शकट, रथ अथवा ( १ ) आश्व ० श्रौ ० ३.१२.१६-२०

पृष्ठ 484

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 484 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३३८: ऐतरेयब्राह्मणम् [ ३२.११ सप्तमपञ्चिकायां अश्व पड़ जाय तो का तत्र प्रायश्चित्तिः उस विषय में क्या प्रायश्चित्त है? ( उत्तर- ) न एनं मनसि कुर्यात् इसका मन में विचार नहीं करना चाहिए हि इत्याहुः ऐसा कहा गया है; क्योंकि अस्य इस अग्निहोत्री के आत्मनि स्वयं ( परमार्थिक स्वरूप ) में ताः वे ( शकट इत्यादि ) रहते हैं । तत् चेद् मनसि कुर्वीत और यदि मन में विचार करे तो गार्हपत्यात् गार्हपत्याग्नि से लेकर आहवनीयात् हवनीयाग्नि तक अविच्छिन्नाम् उदक धारां अविच्छिन्न जल की धारा को ' तन्तुं तन्वन् रजसोभानुमन्विहि ' अर्थात् ' हे अग्नि! तुम यज्ञ का विस्तार करते हुए सूर्य का अनुगमन करो ' इस मन्त्र से हरेत् गिराये । सा तत्र प्रायश्चित्तिः वहीं इस विषय में प्रायश्चित्ति है । सा ० भा ० — गार्हपत्याहवनीययोर्मध्ये शकटं वा रथो वाऽश्वा वा यदा गच्छेत्, तदानीमेतच्छकटकादिकं मनसि न कुर्यात् । ' अस्य ' अनुष्ठातुः ' आत्मनि ' स्वकीये पार-मार्थिकस्वरूपे वेदान्तप्रतिपाद्ये वस्तुनि ' हि ता भवन्ति ' तानि शकटादीन्यवतिष्ठन्ते । अतः शकटादिरूपबुद्धिं पत्यिज्य परमात्मबुद्धिं कुर्यात् । यद्यात्मविवेकाभावेन तच्छकटादिकं मनसि कुर्वीत, शकटादिबुद्धिं न परित्यजेत्, तदानीं गार्हपत्यादारभ्याऽऽहवनीयपर्यन्तमविच्छिन्ना-मुदकधारां हरेत् ' । तत्र ' तन्तुं तन्वन्निति ’ मन्त्रः ’ ॥ अथ द्विचत्वारिंशे पर्याये कञ्चिद्विचारमुद्भावयति—-( दक्षिणाग्निप्रज्ज्वलनविचारः ) तदाहुः कथमग्नीनन्वादधानोऽन्वाहार्यपचनमाहारये ३ त्, नाऽऽहार-ये ३ त्? इति ॥४ ॥

हिन्दी— ( द्विचत्वारिंश पर्याय में कुछ विचार की उद्भावना कर रहे हैं— ) तदाहुः इस विषय में कुछ वेदज्ञ पूछते हैं— अग्नीन् अन्वादधानः दक्षिणाग्नि का ( अन्वाहार्य पचन के लिए ) अन्वाधान करता हुआ अन्वाहार्यपचनम् उस दक्षिणाग्नि को आहारयेत् प्रज्ज्वलित करे अथवा न आहारयेत् प्रज्ज्वलित न करें? ॥ सा ० भा ० — अन्वाहार्यनामक ओदनः पच्यते यस्मिन् दक्षिणाग्नौ, सोऽयम् ‘ अन्वा-हार्यपचनः ’ । तस्य ‘ आहरणम् ' अभिज्वलनम् । इष्टेरादावन्वाधानकाले दक्षिणाग्नेरभिज्वलनं कुर्यान्न वेति विचारार्थं प्लुतिद्वयम् ॥ तत्र निर्णयं दर्शयति— आहारयेदित्याहुः,, प्राणान् वा एषोऽभ्यात्मन् धत्ते, योऽग्नीनाधत्ते तेषामेषोऽऽन्नादतमो भवति, यदन्वाहार्यपचनस्तस्मिन्नेतामाहुतिं जुहोत्यग्नयेऽन्नादायान्नपतये स्वाहेति ॥ ५ ॥

( १ ) आश्व ० श्रौ ० ३.१०.१५ । शाङ्खा ० श्र ० २.६.१३ । ( २ ) ऋ ० १०.५३.६

पृष्ठ 485

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 485 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः एकादश: खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १३३ ९ हिन्दी — ( उत्तर- ) आहरयेद् इत्याहुः प्रज्ज्वलित करना चाहिए ऐसा कहा गया है । योऽग्नीन् आधत्ते जो अग्नियों का आधान करता है, एषः वह अभ्यात्मन् प्राणान् वै यत्ते अपने स्वरूप में प्राणों को धारण करता है । यद् अन्वाहार्यपचनः जो अन्वाहार्य पचन है । एषः अन्नादतमः भवति वह अन्न देने में श्रेष्ठ होता है; क्योंकि तस्मिन् उस ( अन्वाहार्य-पचन वाली दक्षिणाग्नि ) में ' अग्नये अन्नादायान्नपतये स्वाहा ' ( अर्थात् अन्न का भक्षण करने वाले अन्न के स्वामी अग्नि के लिए स्वाहा ' मन्त्र से आहुतिं जुहोति आहुति देता है । सा ० भा ० — ' आहारयेत् ' प्रज्वलयेदित्येवमभिज्ञा आहुः । तत्रेयमुपपत्तिः– ' यः ' पुमानग्नीनाधत्ते, ' एष: ' एव पुमान् ' अभ्यात्मन् ' ' स्वात्मस्वरूपे प्राणानेव धारयति । ‘ य: ’ अयमन्वाहार्यपचनोऽस्ति, एषः ' तेषाम् ' आहितानां चाग्नीनां मध्येऽतिशयेनान्नादः । तस्मात् प्राणधारिणामन्नभक्षणसिद्धये सोऽयं प्रज्वलनीयः । प्रज्वलिते ' तस्मिन् ' दक्षिणाग्नौ ‘ अग्नयेऽन्नादाय ’ इत्यादिमन्त्रेणैतामाहुतिं जुहुयात् ॥ वेदनं प्रशसति-अन्नादो हान्नपतिर्भवत्यश्नुते प्रजयाऽन्नाद्यं य एवं वेद ॥ ६ ॥

हिन्दी – ( इसके वेदन की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह अन्नादः ह अन्नपतिः भवति ( स्वस्थ्य होकर ) अन्न का भक्षण करने वाला और अन्न का स्वामी होता है तथा प्रजया अन्नाद्यम् अश्नुते प्रजा के साथ अन्न को खाने वाले ( कुटुम्बियों ) को प्राप्त करता है । सा ० भा ० — वेदिता स्वयम् ' अन्नादः ' रोगराहित्येन भोक्तुं समर्थः, ' अन्नपतिः ' अन्न-स्वामी च भवति । तथा ‘ प्रजया ' हि पुत्रादिरूपया सहान्नाद्यं प्राप्नोति ॥ पूर्वं गार्हपत्याहवनीययोर्मध्ये शकटादिगमनं निषिद्धम्, तद्वद्यागकर्तुरपि मध्ये सञ्चारनिषेधशङ्कायां तद्व्यावर्तयितुमाह— ( गार्हपत्याहवनीययोर्मध्ये यज्ञकर्तुः सञ्चरणविधिः ) अन्तरेण गार्हपत्याहवनीयौ होष्यन् सञ्चरेतैनेन ह वा एनं सञ्चरमाण-मग्नयो विदुरयमस्मासु होष्यतीत्येतेन ह वा अस्य सञ्चरमाणस्य गार्हपत्याहवनीयौ पाप्मानमपहतः सोऽपहतपाप्मोर्ध्वः स्वर्गं लोक-मेतीति वै ब्राह्मणमुदाहरन्ति ॥७ ॥

हिन्दी — होष्यन् होम करने वाला व्यक्ति गार्हपत्याहवनीयौ अन्तरेण गार्हपत्य और आहवनीय अग्नि के मध्य के मार्ग में सञ्चरेत् सञ्चरण करने लगे तो एतेन एनं सञ्चरणमानम् इस ( मार्ग ) से सञ्चरण करते इस ( व्यक्ति ) को देखकर अग्नयः विदुः ( १ ) ' अभ्यात्मं ' इति मूले, ' अध्या ( भ्या ) त्मं ' इति भाष्ये आनन्दाश्रमसंस्कारणे मुद्रितपाठः । ( २ ) ब्राह्मणोक्त एष एव मन्त्रः ।

पृष्ठ 486

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 486 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४०: ऐतरेयब्राह्मणम् [ ३२.११ सप्तमपञ्चिकायां अग्नियाँ समझती है कि अस्मासु होष्यति हमारे में होम करेगा । एतेन ह वै इसी कारण से ही गार्हपत्याहवनीयौ गार्हपत्य और आहवनीय अग्नियाँ अस्य सञ्चरणमाणस्य इस सञ्चरण करने वाले के पाप्मानम् अपहतः पापों को विनष्ट कर देती है । सः अपहतपाप्मा वह विनष्ट पापों वाला व्यक्ति ऊर्ध्वः स्वर्गं लोकम् एति ऊर्ध्वगामी स्वर्गलोक को जाता है । इति वै ब्राह्मणम् उदाहरन्ति इस विषय में ( अन्य ब्राह्मणवचन को वेदविज्ञ कहते हैं । सा ० भा ० — यः पुमान् होष्यति स पुमान् ' गार्हपत्याहवनीयावन्तरेण ' तन्मध्यगतेन मार्गेण सञ्चरेत । ‘ एतेन ' मार्गेण सञ्चरणमाणम् ' एनं ' होमकर्तारमग्नयः स्वमनसैवं विदुः । ' अयमस्मासु होष्यति'- इति । तस्मादग्नीनामभीष्टत्वात् तस्य सञ्चारो युक्तः । किञ्च होमार्थं सञ्चरणस्य पाप्मानमुभावग्नी विनाशयतः । स च पापरहित ऊर्ध्वगामी स्वर्गं लोकं प्राप्नोति । अस्मिन्नर्थे शाखान्तरगतं बहुविधं ब्राह्मणमभिज्ञा उदाहरन्ति ॥ अथ त्रिचत्वारिंशे प्रश्नोत्तरे दर्शयति— ( प्रवासकालेऽग्न्युपस्थापनविचारः ) तदाहुः कथमग्नीन् प्रवत्स्यन्नुपतिष्ठेत, प्रोष्य वा, प्रत्येत्याहरहर्वेति? तूष्णीमित्याहुः; तूष्णीं वै श्रेयस आकाङ्क्षन्ते, अथाप्याहुरहरहर्वा एते यजमानस्याश्रद्धयोद्वासनात् प्रप्लावनाद् बिभ्यति, तानुपतिष्ठेतैवाभयं वोऽभयं मेऽस्त्वित्यभयं हैवास्मै भवत्यभयं हैवास्मै भवति ॥८ ॥

हिन्दी— ( त्रिचत्वारिंश प्रश्नोत्तर — ) ( प्रश्न - ) तदाहुः इस विषय में ( कुछ वेदज्ञ ) पूछते हैं — प्रवस्यन् प्रवास पर गया हुआ ( अग्निहोत्री ) कथम् अग्नीन् उपतिष्ठेत् अग्नियों का उपस्थान किस प्रकार करें - प्रोष्य वा प्रत्येत्य प्रवास पर जाकर पुनः वापस लौटकर अहरहः वा अथवा ( अपने घर पर ही रहकर ) प्रतिदिन ( अग्नियों का उपस्थापन किस प्रकार करे? ( उत्तर- ) तूष्णीम् इत्याहुः मौन होकर ( उपस्थान करना चाहिए ) -ऐसा कहा गया है । तूष्णीं वै ( लोक में भी ) मौन होकर श्रेयसः आकाङ्क्षन्तं ( सेवक इत्यादि स्वामियों से अपने ) कल्याण की प्रार्थना करते हैं । अथापि आहुः कुछ वेदज्ञ इस प्रकार भी कहते हैं कि एते ये ( अग्नियाँ ) अहरहः प्रतिदिन यजमानस्य यजमान की अश्रद्धया अश्रद्धा होने के कारण, उद्वासनात् उद्वासित होने से तथा प्रप्लावनात् पाकादि कार्य में ले ली जाने से विभ्यति भयभीत रहती है अत: ' अभयं वोऽभयम् ' इत्यादि मन्त्र से तान् उपतिष्ठेत् उन ( अग्नियों ) का उपस्थान करना चाहिए । मन्त्रार्थ- ' हे अग्नियो! अभयं वः तुम लोग ( मुझसे ) भयभीत न होवो, मेऽभयम् अस्तु हम भी अभय होवें । अभयं ह अस्मै भवति ( इस प्रकार उपस्थान करने पर ) इस ( यजमान ) के लिए अभय होता है ॥ सा ० भा ० – यदाऽग्निहोत्री स्वगृह एवाग्नीनवस्थाप्य स्वयं ग्रामान्तरं प्रति प्रवसति, तदानीं ‘ प्रवत्स्यन् ’ अग्निहोत्री प्रवासकाले कथमग्नीनुपतिष्ठेत? अथवा ‘ प्रोष्य ’ ग्रामान्तरे

पृष्ठ 487

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 487 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः एकादश: खण्ड: ] सायणाचार्यकृतभाष्योपेतम् ः १३४१ गत्वा ‘ प्रत्येत्य ’ पुनरागत्य कथमुपतिष्ठेत? अथवा स्वगृहे तिष्ठन्नपि ' अहरहः ' प्रतिदिनं कथमुपतिष्ठेत? इत्येतस्य प्रश्नत्रयस्य तूष्णीमित्यादिकमुत्तरम् । नात्र मन्त्रपाठः कश्चिदस्ति, किंतु तूष्णीमेवाञ्जल्यादिना विनयं प्रदर्शयन्नुपतिष्ठेत् । लोकेऽपि सेवकास्तूष्णींभूता एव सन्तो विनीताः ‘ श्रेयसः ’ श्रेष्ठान् राजगुर्वादीन् पुरुषान् ' आकाङ्क्षन्ते ' आगत्य स्वाभीष्टं प्रार्थयन्ते । तस्मात्तूष्णीमुपस्थानमित्येकः पक्षः ॥ ‘ अथाप्याहुः ' अपि चाभिज्ञा: केचिदेवं पक्षान्तरं वदन्ति — ' अहरहर्वै ' प्रतिदिनमेव ' एते ' अग्नयो ' बिभ्यते ' । भयकारणं, यजमानस्येत्यादिनोच्यते । होमे निष्पन्ने सति पश्चा-दुपयोगाभावाद् यजमानस्याग्निष्वश्रद्धा भवति, अतोऽयमग्नीनुद्वासयेदित्येको भयहेतुः ' । ‘ प्रप्लावयेत् ’ लौकिकपाकार्थं नीत्वा प्रप्लावनं वा कुर्यादिति द्वितीयो भयहेतुः । अतो भयपरिहाराय तानेतेन मन्त्रेण सर्वत्रोपतिष्ठेत । हे अग्नयः! मत्तः सकाशाद् ' वः ' युष्मा-कमभयमस्तु । युष्मत्सकाशान्ममाप्यभयमस्त्विति मन्त्रार्थः । एवमुपस्थानं कुर्वते ' अस्मै '

यजमानायाभयमेव भवति । अभ्यासोऽध्यायसमाप्त्यर्थः ॥

॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां द्वितीयाध्याये ( द्वात्रिंशाध्याये ) एकादशः खण्डः ॥११ ॥ ( १२ ) ( २३५ )

॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय के एकादश खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधर-माधवाचार्यादेशतो श्रीमत्सारणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाशे ' नामभाष्ये ऐतरेयब्राह्मणभास्ये सप्तमपञ्चिकायाः द्वितीयाध्यायः ( द्वात्रिंशोऽध्यायः ) ॥३२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के बत्तीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) प्रमापणादिवधान्तेषु त्रिंशद्वधनामसु पठितममरसिंहेन उद्वासनमिति ( २.८.११२-१५५ ) । वस्तुतः उद्वासनं निर्वासनमित्यनर्थान्तरम् । ' प्रोषितश्चेत् प्रेयात् प्राचीना-वीती निवान्यां दुग्ध्वा दक्षिणतोऽधिश्रयणोद्वासने ' - इति कात्या ० श्रौ ० २५.८.९ । ‘ उष्णे भस्मन्यधिश्रयणमुद्वासनं च गार्हपत्याद् दिशि कुर्यात् ’ - इति तट्टीकायाम् । ( २ ) प्रप्लावनशब्दार्थः यस्मिन् कुम्भे ऋजीषं भवति, त प्रप्लावयति समुद्रे'- इति शत ० ब्रा ० ४.४.५.२०

पृष्ठ 488

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 488 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ सप्तमपञ्चिकायां तृतीयोऽध्यायः सायणभाष्यम्— [ अथ त्रयस्त्रिंशोऽध्यायः ] ( शुनःशेपोपाख्यानं हरिश्चन्द्रोपाख्यानम् वा ) प्रथमः खण्डः

आहिताग्नेर्मृतावग्निहोत्राङ्गे विकले तथा ।

प्रायश्चित्तमपत्नीकहोम इत्यादि वर्णितम् ॥१ ॥

उक्तं द्वात्रिंशदध्यायैः कर्मवर्णत्रयान्वितम् ।

अथ त्वष्टभिरध्यायैर्वर्ण्यते राजकर्तृकम् ॥२ ॥

तत्र क्रतौ राजसूये बह्विष्टिपशुसोमके ।

मध्येऽभिषेचनीयेऽह्नि शौनः शेपं श्रुतं श्रुतौ ॥३ ॥

त्रयस्त्रिंशोऽयमध्यायः शौनःशेपेति नामवान् ।

हरिश्चन्द्रकथा तत्र कथिता बहुपुत्रदा ॥४ ॥

तदेतदुपाख्यानं दर्शयति— हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस, तस्य हशतं जाया बभूवुस्तासु पुत्रं न लेभे, तस्य ह पर्वतनारदौ गृह ऊषतुः, स ह नारदं पप्रच्छ ॥ १ ॥

हिन्दी – ( शुनःशेपोपाख्यान अथवा हरिश्चन्द्रोपाख्यान को कह रहे हैं - ) ऐक्ष्वाकः वैधसः हरिश्चद्रः ह राजा इक्ष्वाकु वंश में उत्पन्न वेधस के पुत्र हरिश्चन्द्र ( नामक ) राजा ' अपुत्रः आस पुत्रविहीन थे । तस्य उस ( हरिश्चन्द्र राजा ) की शतं जायाः बभूवुः सौ पत्नियाँ थीं । तासु उन पत्नियों में किसी से भी पुत्रं न लेभे पुत्र को नहीं प्राप्त किया ( अर्थात् उनमें से किसी को भी पुत्र नहीं हुआ ) । पर्वतनारदौ पर्वत और नारद ( नामक ऋषि ) तस्य गृहे उस ( राजा हरिश्चन्द्र ) के घर ऊषतुः ( किसी समय ) निवास किये । सः ह उस ( राजा हरिश्चन्द्र ) ने नारदं पप्रच्छ ( निम्नलिखित गाथा के द्वारा ) नारद ( ऋषि ) से पूछा- ॥ सा ० भा ० – हरिश्चन्द्रो नाम राजर्षिः, ' प्रस्कण्वहरिश्चन्द्रावृषी ' इति पाणिनिना ’ सूत्रितत्वात् । स च वेधसो नृपतेः पुत्रः, इक्ष्वाकुवंशोद्भवो राजा ' अपुत्रः ' पुत्रहीनः ‘ आस ' । स च शतसंख्यानां जायानां मध्ये कस्याञ्चिदपि जायायां पुत्रं न लेभे । तस्य राज्ञो गृहे ( १ ) द्र ० पा ० सू ० ६.१.१५३

पृष्ठ 489

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 489 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३४३ पर्वतनारदनामानौ यावृषी, तौ निवासं चक्रतुः । तयोर्मध्ये नारदमृषिमेतया गाथया राजा पप्रच्छ । तां गाथां दर्शयति-( पुत्रप्राप्तिफलकथनम् )

यं विमं पुत्रमिच्छन्ति, ये विजानन्ति, ये च न ।

किंस्विद् पुत्रेण विन्दते, तन्म आचक्ष्व नारदेति ॥ २ ॥

हिन्दी— ( उस गाथा को दिखला रहे हैं - ) ये जो ( देव, मनुष्यादि ) विजानन्ति विवेकज्ञान से सम्पन्न हैं, ये च न और जो ( पश्वादि विवेकज्ञान से सम्पन्न ) नहीं है, ( वे सभी ) यं नु इमं पुत्रम् जिस इस पुत्र की इच्छन्ति अभिलाषा करते हैं, पुत्रेण ( तो उस ) पुत्र से किंस्विद् विन्दते कौन - सा ( लाभ ) प्राप्त करते हैं । नारद हे नारद! तद् मे आचक्ष्व उस ( फल ) को मुझसे कहो । सा ० भा ० – ‘ ये ’ देवमनुष्यादयो ' विजानन्ति ' विवेकज्ञानयुक्ताः । ‘ ये ’ च पश्वादयो ' न विजानन्ति ' विवेकज्ञानरहिताः । ते सर्वेऽपि ' नु ' क्षिप्रं ' यमिमं ' पुत्रमिच्छन्ति, तेन पुत्रेण ‘ किस्विद्विन्दते ’ किंनाम फलं पिता लभते? हे नारद! ' मे ' मह्यं ' तत् ' फलमाचक्ष्व ' इति ' राज्ञः प्रश्नः ॥ तस्योत्तरमवतारयति— स एकया पृष्टो दशभिः प्रत्युवाच ॥ ३ ॥

हिन्दी - ( उस प्रश्न के उत्तर की अवतारणा कर रहे हैं - ) सः उस ( नारद ) ने एकया एक गाथा द्वारा पृष्टः पूछे गये ( प्रश्न ) को दशभि: दश ( गाथाओं ) द्वारा प्रत्युवाच प्रच्युत्तर दिया ॥ सा ० भा०- -'सः ' नारदः ' एकया ' गाथया पृष्टः सन् ' दशभि: ' गाथाभिः प्रत्युत्तर-मुक्तवान् ॥

तत्र प्रथमां गाथामाह-ऋणमस्मिन् संनयत्यमृतत्वं च गच्छति ।

पिता पुत्रस्य जातस्य, पश्येच्चेज्जीवतो मुखम् ॥४ ॥

हिन्दी - ( प्रथमा गाथा — ) जीवतः पिता चेत् यदि जीवित रहते हुए पिता जातस्य पुत्रस्य उत्पन्न हुए पुत्र के मुखं पश्येत् मुख को देख ले ( तो वह ) अस्मिन् इस ( पुत्र ) पर ऋणं संनयति ( अपने वैदिक और लौकिक ) ऋण को सम्यग् रूप से स्थापित कर देता है अमृतत्वं च और ( अपने वैदिक और लौकिक कर्त्तव्य को पुत्र को समर्पित करके ) अमरता को प्राप्त कर लेता है ।

पृष्ठ 490

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 490 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४४: ऐतरेयब्राह्मणम् [ ३३.१ सप्तमपञ्चिकायां सा ० भा ० — उत्पन्नस्य सुखेन जीवतः पुत्रस्य मुखं पिता यदि पश्येत्, तदानीम् ‘ अस्मिन् ’ पुत्रे स्वकीयमृणं लौकिकं वैदिकं च ' संनयति ' सम्यगवस्थापयति । लौकि-कस्यावस्थापनात् पुत्रपौत्रादिभिर्ऋणं प्रत्यर्पणीयमिति स्मृतिकारा आहुः । वैदिकं तु ' त्रिभि-ऋणवा जायते ' इत्यादिश्रुत्युक्तं पूर्वमेवोदाहृतम् । तस्य च पुत्रावस्थापनं सम्प्रत्तिनामकेन कर्मणा सम्पद्यते । तच्च कर्म वाजसनेयिभिराम्नातम् — ' अथातः सम्प्रत्तिः यदा प्रैष्यन् मन्यते, अथ पुत्रमाह, त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याह- अहं ब्रह्म अहं यज्ञोऽहं लोकः ' इति । ‘ ब्रह्म ' मया कर्तव्यं वेदाध्ययनं, मयाऽनुष्ठेया यज्ञाश्च मया सम्पाद्या. उत्तमा लोकाश्चेत्येतत्सर्वं पुत्रेण त्वयैव सम्पादनीयमिति पितृवाक्यस्यार्थः । सर्वमहं स-म्पादयिष्यामीति पुत्रवाक्यस्यार्थः । अत्रापि आरण्यककाण्डे सङ्क्षिप्य संदर्शयिष्यते— ‘ सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते ' इति । एवमृणं पुत्रे समर्पयति । तथैव ‘ अमृतत्वं ’ मरणरहितं मुक्तिपदं च गच्छति । पुत्रार्पितलौकिकवैदिकभारस्याविघ्नेन तत्त्व-ज्ञानसम्पादनात् ॥ द्वितीयां गाथामाह—

यावन्तः पृथिव्यां भोगा, यावन्तो जातवेदसि ।

यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः ॥ ५ ॥

हिन्दी — ( द्वितीया गाथा - ) प्राणिनाम् प्राणियों के पृथिव्याम् पृथिवी पर यावन्तः भोगाः जितने ( अन्न, निवास इत्यादि ) भोग हैं, यावन्तः जातवेदसि जितने भी जातवेदस ( अग्नि ) में ( दहन, पचन इत्यादि भोग ) हैं, यावन्तः अप्सु और जितने जल में ( स्नान, पान इत्यादि भोग ) हैं ततः भूयान् उन ( सभी भोगों ) से अधिक पितुः पिता के लिए पुत्रे पुत्र में ( निहित भोग ) है ॥ सा ० भा ० – पृथिव्यां भोगाः ' सस्यनिवासादयः । ' जातवेदसि ' अग्नौ भोगा दहन-पचनादयः । ‘ अप्सु ' भोगाः स्नानपानादयः । प्राणिनामेति सर्वे भोगा यावन्तः सन्ति । तत-स्तावद्भ्यः सर्वेभ्यो भोगेभ्यो ' भूयान् ' अभ्यधिकः पितुः पुत्रे भोगो विद्यते, अत्यन्तसुख-हेतुत्वात् ॥ तथा च आहुः— ‘ पुत्रोत्पत्तिविपत्तिभ्यां नापरं सुखदुःखयोः ' इति । ( १ ) शत ० ब्रा ० १४.४.३.२५ । ' अथ त्रयो वाव लोकाः । मनुष्यलोकः, पितृलोको देव-लोक इति । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो, नान्येन कर्मणा, कर्मणा पितृलोको, विद्यया देवलोको; देवलोको वै लोकानां श्रेष्ठस्तस्माद् विद्यां प्रशंसन्ति ' इति च तत्पुर-स्तात् तत्रैव । ( २ ) ऐ ० ब्रा ० २.५.४.१०