ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 491–500

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 491–500

पृष्ठ 491

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 491 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १३४५ तृतीयां गाथामाह—

शश्वत् पुत्रेण पितरोऽत्यायन् बहुलं तमः ।

आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी ॥ ६ ॥

हिन्दी— ( तृतीया गाथा— ) पितरः माता और पिता पुत्रेण पुत्र के द्वारा शश्वत् निरन्तर बहुलं तमः अत्यधिक ( ऐहिक और आमुष्मिक ) अन्धकार ( दुःख ) को अत्यायन् अतिक्रमित करते हैं हि क्योंकि आत्मनः आत्मा जज्ञे ( पिता पुत्ररूप में ) अपने से ही अपने को उत्पन्न करता है । अतः सः वह ( पुत्र ) इरावती अतितारिणी अन्न से सम्पन्न ( संसार-सागर को ) पार करने वाली विस्तृत नौका के समान होता है ॥ सा ० भा ० – ‘ पितरः ’ जनकाः, उत्पन्नेन पुत्रेण ' शश्वत् ' सर्वदा लोकद्वयेऽपि ‘ बहुलम् ' अभ्यधिकं ‘ तमः ' ऐहिकमामुष्मिकं चं दुःखम् ' अत्यायन् ' अतिक्रामन्ति । तथा च बौधा-यन आह-' पुदिति नरकस्याऽऽख्या, दुःखं च नरकं विदुः । पुत्तस्त्राणात्ततः पुत्रमिहेच्छन्ति परत्र च ॥ इति ' । किञ्च ‘ हि ’ यस्मात्कारणात् पितुः पुत्र उत्पन्न इत्युक्ते सति पिता स्वस्मात् स्वयमेव ‘ जज्ञे ’ उत्पन्न इत्युक्तं भवति । ततः पिता यथा ' स्वयं ' स्वकीयं दुःखं विनाशयति, तथा पुत्रोऽप्येतद्दुःखं विनाशयतीति द्रष्टव्यम् । तस्मात् ' सः ' पुत्रः ‘ इरावती ’ अन्नयुक्ता ‘ अति-तारिणी ' नदीसमुद्रादेरतितरणहेतुनौरिति शेषः । यथा नौर्दुर्घटं नद्यादिकं तारयति एवं पुत्रोऽ-प्यैहिकमामुष्मिकं च दुःखं तारयतीत्यर्थः ॥ चतुर्थी गाथामाह—

किं तु मलं, किमजिनं, किमु श्मश्रूणि, किं तपः ।

पुत्रं ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः ॥७ ॥

हिन्दी – ( चतुर्थी गाथा — ) मलं किं नु मल ( गृहस्थाश्रम ) कौन - सा सुख देगा ( अर्थात् कोई नहीं ), किम् अजिनम् अजिन ( को धारण करने वाला ब्रह्मचर्याश्रम ) कौन-सा सुख देगा ( अर्थात् कोई नहीं ), किमु श्मश्रूणि दाढ़ी, मूँछ ( बढ़ाने वाला वानप्रस्था-श्रम ) कौन - सा सुख देगा ( अर्थात् कोई नहीं ) और किं तपः तपस्या ( करने वाला संन्यासाश्रम ) कौन - सा सुख देगा ( अर्थात् कोई नहीं ) । अतः ब्रह्माण हे द्विज! पुत्रम् इच्छध्वम् पुत्र उत्पन्न करने की कामना करो । सः वै क्योंकि वह ( पुत्र ) ही अवदावदः लोकः अवाचनीय ( अनिन्दनीय ) लोक है ॥ ( १ ) एष श्लोको हरिवंशेऽप्युद्धृतः । मनु ० ९.१३८ । महा ० भा ० १४.२७५२ । वा ० रामा ० २.१०७.१२ । मार्क ० पु ० ७५.१६ । ऐ.ब्रा.उ.- ३१

पृष्ठ 492

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 492 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४६: ऐतरेयब्राह्मणम् [ ३३.१ सप्तमपञ्चिकायां सा ० भा०—– अत्र मलाजिनश्मश्रुतपः शब्दैराश्रयचतुष्टयं विवक्षितम् । मलरूपा-भ्यां शुक्रशोणिताभ्यां संयोगात् ' मल ' शब्देन गार्हस्थ्यं विवक्षितम् । कृष्णाजिनसंयोगाद-जिनशब्देन ब्रह्मचर्यं विवक्षितम् । क्षौरकर्मराहित्याच्छ्मश्रुशब्देन वानप्रस्थ्यं विवक्षितम् । इन्द्रियनियमसद्भावात् तपः शब्देन पारिव्राज्यं विवक्षितम् । ' मलं ' गार्हस्थ्यं किं नु ' किं नाम सुखं करिष्यति? न किञ्चिदित्यर्थः । एवमुत्तरत्रापि योज्यम् । हे ‘ ब्राह्मणः ’ विप्राः, विप्र-क्षत्त्रियाद्याः सर्वे यूयं सुखहेतुत्वात् पुत्रमिच्छध्वम् । ' स वै ' स एव पुत्रः ' अवदावदो लोकः ’ वदितुमयोग्यानि निन्दावाक्यान्यवदाः तैर्वाक्यैर्नोद्यते न कथ्यत इत्यवदावदः । एवं प्रघट्टेन तेन कथ्यत इति — ‘ अवदावदः ' दोषराहित्यान्निन्दानर्हं इत्यर्थः । तादृशो ' लोक: ' भोगहेतुः पुत्रः । तस्मादाश्रमेभ्योऽप्याधिक्येन पुत्रेच्छा कर्तव्या । यद्यपि हरिश्चन्द्र एवात्र प्रष्टा, तथाऽपि तेन सह ऋषीणां बहूनां सभायामवस्थानात् ब्रह्माण इति सम्बोधनम् ॥ पञ्चमीं गाथामाह—

अन्नं ह प्राणः, शरणं ह वासो, रूपं हिरण्यं, पशवो विवाहाः ।

सखा ह जाया, कृपणं ह दुहिता, ज्योतिर्ह पुत्रः परमे व्योमन् ॥८ ॥

हिन्दी — ( पञ्चमी गाथा - ) अन्नं ह प्राणः ( प्राणों की रक्षा करने के कारण ) अन्न ही प्राण है । शरणं ह वासः ( गर्मी आदि से रक्षा करने के कारण ) वस्त्र ही आश्रय है । रूपं हिरण्यम् ( सौन्दर्य - वृद्धि करने के कारण ) सुवर्ण ही रूप है । पशवः विवाहाः पशु ही विशेषरूप से निर्वाहक हैं । सखा ह जाया ( सर्वदा सुख - दुःख में साथ देने के कारण ) पत्नी ही सखा है । कृपणं ह दुहिता ( केवल दुःख देने के कारण ) पुत्री ही दीनता है । ज्योतिर्ह पुत्रः पुत्र तो ज्योतिस्वरूप है जो परमे व्योमन् ( पिता को ) उत्कृष्ट आकाश में ( स्थापित करता है ) ॥ सा ० भा ० — अन्नादयो लोके सुखहेतुत्वेन प्रसिद्धाः । तथा हि शरीरे प्राणावस्थिति-हेतुत्वादन्नमेव प्राणः । वासः शीतोपद्रवाद् रक्षकत्वेन ' शरणं ’ गृहसमानम् । ‘ हिरण्यं ’ कर्णाभरणादिकं दृष्टिप्रियत्वाद् रूपसम्पादकम् । ' पशवः ' गवाश्वादयो विवाहार्विशेषेण नि-र्वाहकाः । जाया भोगे सहकारित्वात् ' सखा ह ' सखिस्वरूपैव । एवमेते सुखहेतुत्वेन प्रसिद्धा अपि तात्कालिकमल्पमव सुखं प्रयच्छन्ति । ' दुहिता ह ' पुत्री इति ' कृपणं ' ‘ केवलदुःखकारित्वाद् दैन्यहेतुः । तथा च स्मर्यते—

“ सम्भवे स्वजनदुःखकारिका सम्प्रदानसमयेऽर्थहारिका ।

यौवनेऽपि बहुदोषकारिका दारिका हृदयदारिका पितुः " ॥ इति ॥

‘ पुत्रो हि ’ पुत्रस्तु ज्योतिःस्वरूपं; तमोनिवारकत्वेन प्रकाशरूपत्वेन स हि पितरं ‘ परमे व्योमन् ' उत्कृष्टे आकाशे परमब्रह्मस्वरूपेऽवस्थापयति । ‘ आकाशस्तल्लिङ्गात् ' इत्यनेन

पृष्ठ 493

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 493 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३४७ व्यासूत्रेण ' आकाशव्योमादिशब्दानां ब्रह्मपरत्वं निर्णीतम् ' । पुत्रस्य च ब्रह्मज्ञानहेतुत्वं पूर्व-मेवामृतत्वं च गच्छतीत्यत्र प्रतिपादितम् ॥ षष्ठीं गाथामाह—

पतिर्जायां प्रविशति, गर्भो भूत्वा स मातरम् ।

तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ॥९ ॥

हिन्दी – ( षष्ठी गाथा — ) पतिः जायां प्रविशति पति ( वीर्य रूप से ) पत्नी में प्रवेश करता है । सः वह ( पति ) गर्भः भूत्वा गर्भ होकर मातरम् ( पत्नीरूप ) माता को प्राप्त करता है । तस्याम् उस ( पत्नी ) रूप माता के गर्भ में पुनः नवः भूत्वा पुनः नया होकर दशमे मासि जायते दशवें महीने में उत्पन्न होता है ॥ सा ० भा ० — पत्युराकारद्वयमस्ति - – वर्तमानपुरुषाकार एकः, रेतोरूपेण गर्भा-कारो द्वितीयः । जायाया अप्याकारद्वयमस्ति " – पतिरूपमाकारं प्रति जाया भवति । गर्भरूपमाकारं प्रति माता भवति । अतः ' सः ' तादृशः पतिः, स्वयं रेतोरूपेण गर्भो भूत्वा, पूर्वमवस्थितां जायां भविष्यदाकारेण मातरं सतीं प्रविशति । ' तस्यां ' भूत्वा ' पूर्वमन्यस्यां मातर्युत्पन्नो जरठः । इदानीं पुनर्नूतनबालो भूत्वा ' तन्यामस्यां मातरि गर्भपाके सति दशमे मास्युत्पद्यते । तस्मात् पुत्रः न भवति ॥ सप्तमीं गाथामाह—

तज्जाया जाया भवति, यदस्यां जायते पुनः ।

आभूतिरेषा भूतिर्बीजमेतन्निधीयते ॥ १० ॥

हिन्दी – ( सप्तमी गाथा — ) यत् जिस कारण से अस्याम् इस वाली पत्नी के गर्भ ) में पुनः जायते ( पति पुत्र के रूप में ) पुन: उत्पन्न मातरि ' पुनर्नवो तस्याम् ' इदानीं-स्वस्माद् अन्यो · ( गर्भधारण करने होता है तत् उसी कारण से जाया जाया भवति जाया ( पत्नी ) जाया ( उत्पन्न करने वाली ) होती है । एषा यह ( पत्नी ) भूतिः ( इसमें पुत्र रूप में पति के होने के कारण ) भूति और आभूतिः इससे पुत्ररूप से पति के उत्पन्न होने के कारण ) आभूति है अतः एतद् बीजं निधीयते इस ( पत्नी ) में बीज ( रूप रेत ) को धारण कराया जाता है ॥ ( १ ) ब्रह्म ० सू ० १.२.२२ ।

( २ ) आकाश इति होवाचेत्यत्र खं ब्रह्म वात्र खम् ।

शब्दस्य तत्र रूढत्वात्, वायादेः सर्जनादपि ॥

साकाशजगदुत्पत्तिहेतुत्वाच्छ्रौतरूढितः एवकारादिना चात्र ब्रह्मैवाकाशशब्दितम् ॥ इति तत्राष्टमाधिकरणम् ।

पृष्ठ 494

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 494 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४८: ऐतरेयब्राह्मणम् [ ३३.१ सप्तमपञ्चिकायां सा ० भा ० – ‘ यद् ’ यस्मात्कारणाद् ‘ अस्यां ' गर्भधारिण्याम् ‘ अयं ’ पिता पुत्ररूपेण पुनर्जायते, ‘ तत् ’ तस्मात्कारणात् लोकप्रसिद्धा या जायाऽस्ति, सा जायतेऽस्यामिति व्यु-त्पत्त्या जायाशब्दवाच्या भवति । किं चैषा भूत्याभूतिशब्दाभ्यामभिधीयते । भवत्यस्यां पुत्ररूपेण पतिरित्येषा ‘ भूति’शब्दवाच्या, रेतोरूपेणाऽऽगत्यास्यां पुत्ररूपेण भवति ‘ आ-भूति’शब्दवाच्या । ‘ एतत् ’ एतस्यां स्त्रियां ' बीजं ' रेतोरूपं ' निधीयते ' प्रक्षिप्यते । तस्मादुक्ताः शब्दा उपपद्यन्ते ॥

अष्टमीं गाथामाह-देवाश्चैतामृषयश्च, तेजः समभरन् महत् ।

देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः ॥ ११ ॥

हिन्दी— ( अष्टमी गाथा— ) एताम् इस ( स्त्री ) में देवाश्च ऋषयश्च देवताओं और ऋषियों ने महत् तेजः समभरन् महान् तेज ( रूप रेत को पुत्रोत्पत्ति के लिए ) धारण कराया और फिर देवाः देवताओं ने मनुष्यान् मनुष्यों से अब्रुवन् कहा कि एषा यह ( स्त्री ) पुनः फिर वः तुम लोगों को जननी जन्म देने वाली है ॥ सा ० भा०- - ' एताम् ' एतस्यां योषिति देवाश्च महर्षयश्च स्वकीयं ' महत्तेजः ' रेतो-रूपं सारं ‘ समभरन् ’ पुत्रोत्पादनाय सम्पादितवन्तः । स्वयमेव सम्पाद्य ततो मनुष्यानित्य-ब्रुवन् — हे मनुष्याः! येयमिदानीं जायारूपेण वर्तते, सेयं पुनः ‘ वः ’ युष्माकं पुत्ररूपे जन्मनि जननी भवति ॥ नवमीं गाथामाह—

नापुत्रस्य लोकोऽस्तीति, तत्सर्वे पशवो विदुः ।

तस्मात्तु पुत्रा मातर, स्वसारं चाधिरोहति ॥ १२ ॥

हिन्दी – ( नवमी गाथा — ) अपुत्रस्य पुत्रविहीन के लिए लोकः न अस्ति ( इस ) लोक ( का कोई सुख ) नहीं होता इति तत् सर्वे पशवः विदुः इसे सभी पशु भी जानते हैं । तस्मात् तु इसी कारण से पुत्रः ( पशुओं से उत्पन्न ) पुत्र मातरं स्वसारं च अपनी माता और बहन में भी अधिरोहति ( पुत्रोत्पादन के लिए वीर्य का ) आधान करते हैं । सा ० भा०- -'लोको ' लोकजन्यं सुखम्, अपुत्रस्य नास्ति । न हि पुत्रदर्शनेन यत्सुखं तदन्यदर्शनेन क्वचिदपि दृश्यते । ' इति ' यदस्ति तत् ' सर्वे ' गोमहिष्यादयो जानन्ति यस्माद् तस्मादेव कारणात्पशुजातौ जातः ‘ पुत्रः ' वत्सः स्वकीयां मातरं भगिनीं वा पुत्रोत्पादनार्थ-मधिरोहति ॥ दशमीं गाथामाह— एष पन्था उरुगायः सुशेवो, यं पुत्रिण आक्रमन्ते विशोकाः ।

पृष्ठ 495

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 495 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३४ ९ तं पश्यन्ति पशवो वयांसि च, तस्मात्ते मात्राऽपि मिथुनीभवन्ति ॥ १३ ॥

हिन्दी— ( दशमी गाथा — ) यम् जिस ( सुख के अनुभव रूप मार्ग ) को पुत्रिणः पुत्रवान् मनुष्य विशोकाः शोकविहीन होकर आक्रमन्ते प्राप्त करते हैं एषः पन्था वह मार्ग उरुगायः ( महान् व्यक्तियों द्वारा ) गेय ( प्रशंसनीय ) और सुशेवः सुष्ठुरूप से सेवनीय है । तम् उस ( मार्ग ) को पशवः वयांसि च पशु और पक्षी गण भी पश्यन्ति जानते हैं । तस्मात् इसी कारण ( वे पश्वादि ) मात्रा अपि मिथुनीभवन्ति माता से भी मैथुन करते हैं । सा ० भा ० - ' पुत्रिणः ' पुत्रवन्तो देवमनुष्यादयो ' विशोकाः ' शोकरहिताः सन्तो ' यं ' पन्थानं सुखानुभवरूपं मार्गम् ' आक्रमन्ते ' प्राप्नुवन्ति, ' एष पन्थाः ' पुत्रसुखानुभवरूपो मार्गः ‘ उरुगायः ’ उरुभिर्महद्भिः शास्त्रज्ञै राजामात्यादिभिश्च गीयते । तथा ' सुशेवः ' सुष्ठु सेवितुं योग्यः, सुखाधिक्यस्य विद्यमानत्वात् । ' तं ' पुत्रसुखानुभवरूपं ' पशवः ' गवादयो ‘ वयांसि ’ पक्षिणः ‘ पश्यन्ति ' जानन्ति । तस्मात् ' ते ' पशुपक्ष्यादयः पुत्रसुखार्थं ' मात्रा ' सह मिथुनीभवन्ति, किं किमुतान्यया स्त्रिया सहेत्यर्थः ॥ नारदेनोक्तां दशगाथां निगमयति— • इति हास्मा आख्याय ॥ १३ ॥

. हिन्दी - ( दशम गाथा — ) इति ह इस प्रकार से अस्मै इस ( राजा हरिश्चन्द्र ) के लिए आख्याय कह कर ( नारद चुप हो गये ) ॥ सा ० भा०- - ' इति ह ' अनेनैव प्रकारेण ' अस्मै ' तस्मै हरिश्चन्द्राय ' आख्याय ' उत्तर-मभिधाय, अवस्थित इति शेषः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये सप्तमपञ्चिकायां तृतीयाध्याये ( त्रयस्त्रिंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( १३ ) ( २३६ )

॥ इस प्रकार ऐतरेयब्राह्मण के तैतीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ द्वितीयः खण्डः सा ० भा ० — पुत्रनिमित्तलाभप्रतिपादिका नारदोक्ता दश गाथा उदाहृत्य पुत्रजन्मो-पायोपदेशपरं नारदवाक्यवतारयति—

पृष्ठ 496

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 496 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३५०: ऐतरेयब्राह्मणम् [ ३३.२ सप्तमपञ्चिकायां ( पुत्रोत्पत्तिनिमित्तं नारदस्योपदेशः ) अथैनमुवाच, -वरुणं राजानमुपधाव, पुत्रो मे जायतां तेन त्वा यजा इति ॥ १ ॥

हिन्दी – अथ इस ( पुत्रेच्छारूप हेतु के कथन ) के बाद एनम् इस ( पुत्र की इच्छा करने वाले हरिश्चन्द्र ) से उवाच ( ऋषि नारद ने कहा- वरुणं राजानम् उपधाव हे राजन्! राजा वरुण से प्रार्थना करो कि पुत्रः मे जायताम् मेरे पुत्र उत्पन्न हो जाय । तेन उस ( पुत्र ) से त्वा यजै इति तुम्हारे लिए यजन करूँगा ॥ सा ० भा ० - -'अथ ' पुत्रेच्छानिमित्तकथनानन्तम् ' एनं ' पुत्रार्थिनं हरिश्चन्द्रं नारद उवाच — हे हरिश्चन्द्र, वरुणं राजानम् ' उपधाव ' प्रार्थयस्व । येन प्रकारेण प्रार्थनीयः, सोऽभिधीयते । हे वरुण त्वत्प्रसादात् मे पुत्रो जायतां तनस्तेन पुत्रेण ' त्वां यजै ' त्वामुद्दिश्य यज्ञं करवाणीति ॥ प्रार्थनाप्रकारं नारदोपदेशमुक्त्वा हरिश्चन्द्रवृत्तान्तं दर्शयति— ( हरिश्चन्द्रवृत्तान्तकथनम् ) तथेति; स वरुणं राजानमुपससार, पुत्रो मे जायतां तेन त्वाप यजा इति; तथेति; तस्य ह पुत्रो जज्ञे रोहितो नाम ॥२ ॥

हिन्दी— ( अब हरिश्चन्द्र के वृत्तान्त को कह रहे हैं— ) तथा ( हरिश्चन्द्र ने कहा- ) वैसा ही करूँगा । सः उस ( राजा हरिश्चन्द्र ) ने राजानं वरुणम् उपससार राजा वरुण से प्रार्थना किया कि पुत्रः मे जायताम् ( हे वरुण! ) मेरे पुत्र उत्पन्न हो जाय । तेन त्वा अप यजै इति उस ( पुत्र ) से मैं तुम्हारा यजन करूँगा । तथा इति ( तब वरुण ने प्रसन्न होकर कहा- ) वैसा ही हो । तस्य उनके ( प्रभाव से ) उस ( राजा हरिश्चन्द्र ) को रोहितः नाम रोहित नामक पुत्रः जज्ञे पुत्र उत्पन्न हुआ ॥ सा ० भा ० – नारदोपदेशमङ्गीकृत्य हरिश्चन्द्रो वरुणम् ' उपससार ' प्रार्थयामास । ‘ सः ’ वरुणोऽपि तथाऽस्त्विति तदीयपुत्रोत्पत्त्यै वरं दत्तवान् । तेन च वरेणोत्पन्नस्य ' रोहितः’-इत्येतन्नामाभूत् ॥ अथ बहुभिः पर्यायैर्वरुणस्योक्तिर्हरिश्चन्द्रस्य प्रत्युक्तिवेत्युभयं प्रतिपाद्यते । तत्र प्रथमं पर्यायं दर्शयति— ( वरुणहरिश्चन्द्रयोरुक्तिप्रत्युक्तिप्रतिपादनम् ) तं होवाचाजनि वै ते पुत्रो यजस्व माऽनेनेति; स होवाच, यदा वै पशुर्निर्देशो भवत्यथ स मेध्यो भवति, निर्दशो न्वस्त्वथ त्वा यजा इति; तथेति ॥३ ॥

पृष्ठ 497

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 497 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३५१ हिन्दी— ( अनेक पर्यायों द्वारा वरुण और हरिश्चन्द्र की उक्ति - प्रत्युक्ति का प्रतिपादन किया जा रहा है । उनमें प्रथम पर्याय - ) तं ह उवाच उस ( हरिश्चन्द्र ) से ( वरुण ने ) कहा- - ते पुत्रः अजनि ( हे हरिश्चन्द्र! ) तुम्हारे पुत्र हो गया । अनेन इस ( पुत्र ) के द्वारा मा यजस्व मेरे लिए याग करो । सः ह उवाच उस ( हरिश्चन्द्र ) ने प्रत्युत्तर दिया कि यदा वै पशुनिर्दशः भवति जब पशु दश दिन का ( अशौच - रहित ) होता है अथ सः मेध्यः भवति तब वह ( रोहितरूप पशु ) याग के योग्य होता है । निर्दशः नु अस्तु ( यह पशु ) दश दिन का हो जाय अथ त्वा यजै इसके बाद तुम्हारे लिए यजन करूँगा । तथा ( तब वरुण ने हरिश्चन्द्र से कहा -- ) वैसा ही हो ॥ सा ० भा ० -'तं ' हरिश्चन्द्रं वरुण उवाच - हे हरिश्चन्द्र, ते पुत्रः ' अजनि वै ' उत्पन्न एव, अनेन पुत्रेण मामुद्दिश्य यागं कुर्विति । एवं वरुणेनोक्ते हरिश्चन्द्रः पुनः प्रत्युवाच । यागार्थः पशुर्यदा निर्दशो भवति, तदा स पशु ' मेध्या ' यागयोग्यो भवति । निर्गतान्य-शौचदिनानि दशसंख्याकानि यस्मात् पशोः सोऽयं ' निर्दशः ' । तस्मादयं ' नु ' क्षिप्रं नि-र्दशोऽस्तु, ' अथ ' अनन्तरं त्वा प्रति अहं ' यजै ' इत्येतद्वाक्यम् । वरुणः ' तथास्तु ' इत्यङ्गीचकार ॥ द्वितीयमुक्तिप्रत्युक्तिपर्यायं दर्शयति— सह निर्दश आस तं होवाच निर्दशो न्वभूद्यजस्व माऽनेनेति; स होवाच, यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति; दन्ता न्वस्य जायन्तामथ त्वा यजा इति; तथेति ॥४ ॥

हिन्दी— ( द्वितीय पर्याय— ) सः ह वह ( पुत्र रोहित ) निर्दशः आसः दश दिन का हो गया । तं ह उवाच तब उस ( राजा ) से ( वरुण देव ने ) कहा- निर्दशः नु अभूत् यह ( पुत्र ) दश दिन का हो गया है अतः अनेन मा यजस्व इस ( पुत्र ) से मेरा यजन करो । सः ह उवाच उस ( राजा ) ने ( वरुण से ) कहा कि यदा वै पशोः दन्ताः जायन्ते जब ( यज्ञीय ) पशु के दाँत उत्पन्न हो जाते हैं अथ सः मेध्यः जायते इसके बाद वह यज्ञ के योग्य होता है । अस्य नु दन्ताः जायन्ताम् इस ( पुत्र ) के दाँत निकल जाँय अथ त्वा

यजै इसके बाद तुम्हारा यजन करूँगा । तथा इति ( तब वरुण ने कहा कि वैसा ही हो ॥

सा ० भा ० — दशदिनाशौचापगमे शुद्धत्वाद् यथा यागयोग्यत्वं, तथा दन्तोत्पन्न-त्वादवयवसंपूर्त्या यागयोग्यत्वमित्यभिप्रायः । स्पष्टमन्यत् ॥ तृतीयं पर्यायं दर्शयति— तस्य ह दन्ता जज्ञिरे; तं होवाचाज्ञत वा अस्य दन्ता यजस्व माऽनेनेति; स होवाच, यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति; दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति, तथेति ॥५ ॥

पृष्ठ 498

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 498 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३५२: ऐतरेयब्राह्मणम् [ ३३.२ सप्तमपञ्चिकायां हिन्दी— ( तृतीय पर्याय— ) तस्य दन्ताः जज्ञिरे उस ( पुत्र रोहित ) के दाँत उत्पन्न हो गये तब तं ह उवाच ( वरुण ने उस ( हरिश्चन्द्र ) से कहा- अस्य दन्ताः अज्ञते वै इस ( पुत्र ) के दाँत निकल आये हैं अतः अनेन मा यजस्व इस ( पुत्र ) के द्वारा मेरा यजन : करो । सः ह उवाच उस ( राजा ) ने ( वरुण से ) कहा कि यदा वै पशोः दन्ताः पद्यन्ते जब पशु के दूध के दाँत टूटकर गिर जाते हैं अथ सः मेध्यः भवति इसके बाद वह ( पशु ) याग के योग्य होता है अतः अस्य दन्ताः नु पद्यन्ताम् इस ( पुत्ररूप पशु ) के ( दूध के ) दाँत गिर जाँय अथ त्वा यजै इसके बाद तुम्हारा यजन करूँगा । तथा इति ( तब वरुण ने कहा — ) वैसा ही हो ॥ सा ० भा०- ' अज्ञत वै ' जाता एव । ' पद्यन्ते ' पतन्ति । प्रथमोत्पन्नानां दन्तानामस्था-यित्वेन मुख्यपश्ववयवत्वाभावात् तत्पाते सति पशोर्मेध्यत्वम् ॥ चतुर्थं पर्यायं दर्शयति— तस्य ह दन्ताः पेदिरे; तं होवाचापत्सत वा अस्य दन्ता, यजस्व माऽनेनेति; स होवाच, यदा वै पशोर्दन्ताः पुनर्जायन्तेऽथ स मेध्यो भवति; दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति, तथेति ॥ ६ ॥

हिन्दी— ( चतुर्थ पर्याय— ) तस्य ह दन्ताः पेदिरे उस ( पुत्ररूप पशु ) के ( दूध के ) दाँत गिर गये तब तं ह उवाच उस ( राजा ) से ( वरुण ने कहा कि अस्य दन्ताः वै इसके ( दूध के ) दाँत उत्पस्यते गिर गये हैं अतः अनेन मा यजस्व इस ( पुत्ररूप पशु ) से मेरा यजन करो । सः ह उवाच उस ( राजा ) ने ( वरुण से ) कहा - यदा वै पशोः दन्ताः पुनर्जायन्ते जब पशु के दाँत ( दूध के दाँत गिरने के बाद ) पुनः उत्पन्न हो जाते हैं अथ सः मेध्यः भवति इसके बाद वह यजन के योग्य होता है अतः दन्ताः नु अस्य पुनर्जायन्ताम् इस ( पुत्ररूप पशु ) के दाँत पुनः उत्पन्न हो जाँय अथ त्वा यजै इसके बाद

तुम्हारा यजन करूँगा । तथा इति ( तब वरुण ने कहा — ) ठीक है ॥

सा ० भा ० – ‘ अपत्सत वै ’ पतिताः । पुनरुत्पन्नानां दन्तानां स्थिरत्वेन सम्पूर्णा-वयवत्वात् पशोर्मेध्यत्वम् ॥ पञ्चमं पर्यायं दर्शयति— तस्य ह दन्ताः पुनर्जज्ञिरे; तं होवाचाज्ञत वा अस्य पुनर्दन्ता, यजस्व माऽनेनेति; स होवाच, यदा वै क्षत्रियः सान्नाहुको भवत्यथ स . मेध्यो भवति; सन्नाहं नु प्राप्नोत्वथ त्वा यजा इति, तथेति ॥७ ॥

हिन्दी– ( पञ्चम पर्याय— ) तस्य दन्ताः पुनः जज्ञिरे उस ( पुत्ररूप पशु ) के दाँत पुनः निकल आये तब तं ह उवाच उस ( राजा ) से ( वरुण ने कहा- अज्ञते वै अस्य

पृष्ठ 499

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 499 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

तृतीयोऽध्यायः द्वितीयः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १३५३ पुनर्दन्ताः इस ( पुत्र ) के ( दूध के दाँत टूटने के बाद ) पुनः दाँत निकल गये हैं अतः अनेन मा यजस्व इस ( पुत्ररूप पशु ) से मेरा यजन करो । सः ह उवाच उस ( राजा ) ने ( वरुण से ) कहा – यदा वै क्षत्रियः सान्नाहुकः भवति जब क्षत्रिय ( अपने वर्ण के अनुसार धनुष - बाण इत्यादि ) शस्त्र धारण करने वाला हो जाता है अथ सः मेध्यः भवति इसके बाद वह याग के योग्य होता है अतः सन्नाहं नु प्राप्नोतु यह शस्त्र धारण कर ले अथ त्वा यजै इसके बाद तुम्हारा यजन करूँगा । तथा इति ( तब वरुण ने कहा- ) वैसा ही होवे ॥ सा ० भा०- -'अज्ञत वै ' जाता एव । पश्वन्तरस्य पुनर्दन्तोत्पत्तिमात्रेण मेध्यत्वेऽ-प्यस्य पशोः क्षत्त्रियत्वात् स्वजात्युचितधनुर्बाणकवचादिसन्नाहशीलित्वे सति जात्युचित-व्यापारसम्पूर्तौ मेध्यत्वम्, तस्मात् ' नु ' क्षिप्रमेवासौ सन्नाहं प्राप्नोतु, अनन्तरमेव यजा इत्युत्तरं वरुणोऽङ्गीचकार ॥ षष्ठं पर्यायं दर्शयति— स ह सन्नाहं प्रापत्, तं होवाच, सन्नाहं नु प्रान्नोद्यजस्व माऽनेनेति, स तथेत्युक्त्वा पुत्रमामन्त्रयामास; ततायं वै मह्यं त्वामददाद्धन्त त्वयाऽहमिमं यजा इति ॥८ ॥

हिन्दी – ( षष्ठ पर्याय— ) सः ह सन्नाहं प्रापत् वह ( पुत्र ) शस्त्रधारी हो गया । तं ह उवाच उस ( राजा ) से ( वरुण ने कहा – सन्नाहं धारण कर लिया है । यजस्व मानेन इस ( पुत्ररूपी ( राजा ) तथा इत्युक्त्वा अच्छा - इस प्रकार कहकर को बुलाया ( और कहा— ) तत हे पुत्र! अयम् इस तुमको अददात् ( पुत्र के रूप में ) दिया है अतः हन्त द्वारा अहम् मैं इमम् इस वरुण के लिए यजै याग सा ० भा०- -सन्नाहप्राप्तेरूर्ध्वं ' सः ' हरिश्चन्द्रो नु प्राप्नोत् ( पुत्र रूप पशु ने ) शस्त्र पशु ) से मेरा यजन करो । सः वह पुत्रम् आमन्त्रयामास पुत्र ( रोहित ) ( वरुण ) ने मह्यम् मेरे लिए त्वम् खेद है कि त्वया ( पशुरूप ) तुम्हारे करूँ ॥ वरुणोक्तिमङ्गीकृत्य पुत्रमामन्त्र्यैव-मुवाच । उपलालनार्थं पुत्रे पितृवाचि ततशब्दप्रयोगः । हे ' तत ' हे पुत्र! ' अयम् ' एव वरुणो मह्यं ‘ त्वां ’ पुत्रवरेण दत्तवान् ' हन्त ' दुष्टोऽहम् ' हन्त ' दुष्टोऽहम् ' इमं ' वरुणं यत् त्वया पुत्रेण ‘ यजै ’ यागरूपां पूजां करवाणीति हरिश्चन्द्रस्योक्तिः ॥ अथ रोहितनाम्नः पुत्रस्य कृत्यं दर्शयति— ( रोहितकृत्यकथनम् ) स ह नेत्युक्त्वा धनुरादायारण्यमुपतस्थौ; स संवत्सरमरण्ये चचार ॥९ ॥

पृष्ठ 500

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 500 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३५४: ऐतरेयब्राह्मणम् [ ३३.३ सप्तमपञ्चिकायां हिन्दी - सः उस ( पुत्र रोहित ) ने न इत्युक्त्वा ( इस कथन को ) अस्वीकार करके धनुः आदाय धनुष लेकर अरण्यम् उपतस्थौ जङ्गल में चला गया और सः संवत्सरम् अरण्ये चचार वह एक वर्ष तक जङ्गल में विचरण करता रहा ॥ सा ० भा ० – ‘ स ह ’ स खलु रोहिताख्यः पुत्रः पितुर्वाक्यं निषिध्य, स्वरक्षणार्थं धनुः स्वीकृत्यारण्यं प्रत्युपगतोऽभूत् । कस्मिंश्चिदरण्ये नैरन्तर्येण ' सः ' रोहितः संवत्सरं चचार ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां तृतीयाध्याये ( त्रयस्त्रिंशाध्याये ) द्वितीयः खण्डः ॥ २॥ ( १४ ) ( २३७ )

॥ इस प्रकार ऐतरेयब्राह्मण के तैतीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ तृतीयः खण्डः सा ० भा ० — रोहितस्यारण्ये संवत्सरचरणानन्तरभाविनं हरिश्चन्द्रादीनां वृत्तान्तं दर्शयति— ( क्रमेण हरिश्चन्द्रोपाख्यानम् ) ( तत्र रोहितायेन्द्रस्योपदेशः ) अथ हैक्ष्वाकं वरुणो जग्राह, तस्य होदरं जज्ञे तदु ह रोहितः शुश्राव सोऽरण्याद् ग्राममेयाय, तमिन्द्रः पुरुषरूपेण नानाश्चान्ताय श्रीरस्तीति रोहित पापो नृषद्वरो जन, इन्द्र इच्चरतः सखा, हिन्दी – ( रोहित के जङ्गल में एक वर्ष तक विचरण इत्यादि के वृत्तान्त का दिखला रहे हैं - ) अथ इसके इक्ष्वाकुवंशीय ( राजा हरिश्चन्द्र ) को वरुण देव ने ( रोग के उदरं जज्ञे उस ( राजा ) को जलोदर उत्पन्न हो गया ।

पर्येत्योवाच-शुश्रुम ।

चरैवैति ॥ १ ॥

करते समय होने वाले हरिश्चन्द्र बाद ऐक्ष्वाकं वरुणः जग्राह रूप में ) पकड़ लिया । तस्य ह तदु ह रोहितः शुश्राव उस ( समाचार ) को रोहित ने सुना । सः वह ( रोहित ) अरण्यात् जंगल से ग्रामम् एया ( पिता को देखने के लिए ) ग्राम को वापस आने लगा । इन्द्रः पुरुषरूपेण पर्येत्य ( मध्य मार्ग में ) इन्द्र ने पुरुष - रूप में आकर तम् उवाच उस ( रोहित ) से कहा— रोहित हे रोहित! अनाश्नान्ताय सभी ओर से अश्रान्त रहते हुए ( सर्वत्र पर्यटन करने वाले ) को नानाश्रीः बहुत प्रकार की सम्पत्ति प्राप्त होती है इति शुश्रुम इस प्रकार हमने