ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 501–510
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 501–510
पृष्ठ 501
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३५५ ( नीतिज्ञों से ) सुना है । वरो जनः ( विद्या इत्यादि में ) श्रेष्ठ ( एक ही स्थान पर रहने वाला ) व्यक्ति भी नृषत् पुरुषों में पापः तुच्छ हो जाता है । इन्द्रः एव इत् चरतः सखा इन्द्र ( रूप परमात्मा ) ही इस ( सर्वत्र ) विचरण करने वाले के साथ रहने वाला मित्र होता है अत एव चरैव इति सर्वत्र विचरण करते रहो ॥ सा ० भा ० — ‘ अथ ' रोहितस्यारण्ये संवत्सरवासानन्तरमेव ' ऐक्ष्वाकम् ' इक्ष्वाकु-वंशोत्पन्नं हरिश्चन्द्रं ‘ वरुणः ' देवो रोगरूपेण जग्राह । वरुणेन गृहीतस्य हरिश्चन्द्रस्य ' उदरं जज्ञे ' जलेन पूरितमुच्छूनं महोदरनामकं रोगस्वरूपमुत्पन्नम् । ' तदु ह ' तदपि सर्वमरण्ये स्थितो ' रोहितः ' पुत्रो मनुष्यमुखाच्छुश्राव I । श्रुत्वा च ' सः ' रोहितः पितरं द्रष्टुमरण्याद् ग्रामं प्रत्याजगाम । आगच्छन्तं रोहितं मार्गमध्य इन्द्रः केनचिद्ब्राह्मणपुरुषरूपेण प्राप्येदमुक्त-वान् – आ समन्ताच्छ्रान्तः, आश्रान्तः, सर्वत्र पर्यटनेन प्राप्तः, तद्विपरीतोऽनाश्रान्त एकत्रैव निवासशीलः, तादृशाय, तथाविधस्य पुरुषस्य ' श्री: ' बहुविधा सम्पन्नास्ति । यद्वा, नानेति पदच्छेदः । ‘ श्रान्ताय ' सर्वत्र पर्यटनेन श्रान्तस्य ' नाना श्रीः ' बहुविधा सम्पदस्ति ' इति ' अनेन, प्रकारेण रोहित! वयं नीतिकुशलानां पुरुषाणां मुखाच्छुश्रुम । ' वरो जनः ' विद्यादिभिः श्रेष्ठोऽपि पुरुषो ‘ नृषत्पापः ’ नृषु मनुष्येषु सीदतीति नृषत् ' । श्रेष्ठोऽपि बन्धुगृहेषु सर्वदाऽ-वस्थितस्तैरवज्ञातः ‘ पापः ’ तुच्छो भवेत् । अतस्तव पितृगृहे वासो न युक्तः । न चारण्ये चरतो मम सहायो नास्तीति शङ्कनीयम् । ' इन्द्र एव ' परमेश्वर एव ' चरतः ' तव सखा भविष्यति । तस्मात् ‘ चरैव ’ सर्वथाऽरण्ये चरस्वेत्येवमुवाच । एवं बहुष्वपि पर्यायेषु द्रष्टव्यम् ॥ तत्रेन्द्ररोहितयोः संवादे प्रथमं पर्यायं दर्शयित्वा द्वितीयं पर्यायं दर्शयति— ' चरैवेति वै मा ब्राह्मणोऽवोचदिति ह द्वितीयं संवत्सरमरण्ये चचार; सोऽरण्याद् ग्राममेयाय; तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-पुष्पिण्यौ चरतो जङ्घे, भूष्णुरात्मा फलग्रहिः । शेरेऽस्य सर्वे पाप्मानः, श्रमेण प्रपथे हतश्चरैवेति ॥ २ ॥
हिन्दी— ( द्वितीय पर्याय - ) चरैवेति विचरण करते रहो - इस प्रकार ब्राह्मणः ब्राह्मण ( रूप धारण करने वाले इन्द्र ) ने मा अवोचत् मुझसे कहा है इति ह ऐसा विचार करके ( रोहित ) द्वितीयं संवत्सरम् दूसरे वर्ष भी अरण्ये चचार जङ्गल में विचरण करता रहा । पुनः सः वह रोहित अरण्यात् ग्रामम् एयाय जङ्गल से ग्राम में आने लगा । ( तब फिर ) पुरुषरूपेण इन्द्रः पुरुष रूप में इन्द्र ने तं पर्येत्य उवाच उस ( रोहित ) के समीप आकर कहा— चरतः विचरण करने वाले की जङ्घे दोनों जाँघे पुष्पिण्यौ पुष्पयुक्त ( वृक्ष अथवा लता ) के समान सेवनीय अथवा सुगन्ध - सम्पन्न होती है और आत्मा ( मध्यशरीर ) भूष्णुः फलग्रहिः वर्धित होता हुआ ( स्वास्थ्य रूप ) फल से सम्पन्न होता है । अस्य इस ( विचरण
पृष्ठ 502
पाठ पढ़ें पाठ छिपाएँ
१३५६: ऐतरेयब्राह्मणम् [ ३३.३ सप्तमपञ्चिकायां करने वाले ) के सर्वे पाप्मानः सभी पाप शेरे ( परिश्रम से ) शयन करते हुए के समान हो जाते हैं और प्रपथे तीर्थादि प्रकृष्ट मार्ग पर श्रमेण चलने के परिश्रम से हतः विनष्ट हो जाते हैं अतः चरैवेति विचरण करते रहो ॥ सा ० भा ० — ब्राह्मणरूपस्येन्द्रस्य वाक्यं श्रुत्वा ब्राह्मणोऽयमरण्ये चरैवेत्येवं मामु-क्तवानिति मनसि ब्राह्मणवाक्ये महान्तमादरं कृत्वा पुनरप्येकं संवत्सरमरण्ये चरित्वा पश्चात् पितरं द्रष्टुं तमागच्छन्तं पुनरपीन्द्रो ब्राह्मणरूपेणाऽऽगत्यैवमुवाच । ‘ चरतः ’ पर्यटनं कुर्वतः पुरुषस्य ‘ जङ्घे ’ ‘ पुष्पिण्यौ ’ भवतः । यथा पुष्पयुक्तो वृक्षः शाखा लता वाऽथवा सुगन्धोपेता सेव्या भवति । एवं चरतो जङ्घे श्रमजयेन सेव्ये भवतः । तथैव ' आत्मा ' मध्यदेहो ' भूष्णुः ' वर्धिष्णुः ‘ फलग्रहिः ’ आरोग्यरूपफलयुक्तो भवति । यथा वर्धमानो वृक्षः कालेन फलानि गृह्णाति, एवं चरतः पुरुषः पुरुषस्य बीजादिदीपनादिपाटवेन मध्यदेह आरोग्यरूपं फलं गृह्णाति । तथैव ‘ अस्य ’ चरतः पुरुषस्य ' सर्वे पाप्मानः ' सर्वपापानि ' प्रपथे ' प्रकृष्टे तीर्थक्षेत्रादिमार्गे ‘ श्रमेण ’ तत्तद्देवतादिदर्शने तीर्थयात्रादिप्रयासेन ' हता: ' विनाशिताः सन्तः ‘ शेरे ’ शेरते, शयाना इव भवन्ति । यथा शयानाः पुरुषाः स्वकार्यं कृषिवाणिज्यादिकं कर्तु-मशक्ता:, एवं पुण्येन विनष्टाः पाप्ममानो नरकं दातुमसमर्था इत्यर्थः । तस्मात् सर्वथाऽरण्ये चर, न पितुर्गृहेऽवतिष्ठस्व ॥ तृतीयं पर्यायं दर्शयति— चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं संवत्सरमरण्ये चचार; सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य चराति चरतो भगश्चरैवेति ॥ ३ ॥
हिन्दी – ( तृतीय पर्याय— ) चरैव इति विचरण करते रहो- इस प्रकार ब्राह्मणः ब्राह्मण ( रूपधारी इन्द्र ) ने मा अवोचत् मुझसे कहा है— इति ह ऐसा विचार करके वह तृतीयं संवत्सरम् तीसरे वर्ष भी अरण्ये चचार जङ्गल में विचरण करता रहा । सः वह ( रोहित ) अरण्याद् जङ्गल से ग्रामम् एयाय ग्राम को पुनः लौटने लगा । पुनः पुरुषरूपेण इन्द्रः पुरुषरूपधारी इन्द्र ने तं पर्येत्य उवाच उस ( रोहित ) के समीप आकर कहा-आसीनस्य बैठे हुए व्यक्ति का भगः सौभाग्य ( कर्म के अभाव के कारण ) बैठा हुआ रहता है, तिष्ठतः ऊर्ध्वः तिष्ठति खड़े हुए व्यक्ति का ( भाग्य उसी प्रकार वृद्धि की ओर उन्मुख रहता है, निपद्यमानस्य शेते शयन करते हुए व्यक्ति का ( भाग्य ) सोया रहता है और चरतः भगः सर्वत्र विचरण करने वाले का भाग्य चराति बढ़ता जाता है, अतः चरैवेति विचरण करते रहो ॥
पृष्ठ 503
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३५७ सा ० भा ० — ' भग ' सौभाग्यम् ' आसीनस्य ' उपविष्टस्य ' आस्ते ' तथैव तिष्ठति, न तु वर्धते । अभिवृद्धिहेतोरुद्योगस्याभावात् । ' तिष्ठतः ' उपवेशनं परित्यज्योत्थापनं कुर्वतः पुरुषस्य भगः ‘ ऊर्ध्वः ' अभिवृद्धेरुन्मुखस्तिष्ठति । कृषिवाणिज्याद्युद्योगस्य सम्भा-वितत्वात् । ‘ निपद्यमानस्य ' भूमौ शयानस्य भगः ' शेते ' निद्रां करोति, विद्यमानधनरक्षादि-चिन्ताया अप्यभावात् सर्वथैव विनश्यति । ' चरतः ' तेषु तेषु देशेष्वर्जनाय पर्यटनं कुर्वतः पुरुषस्य ‘ भगः ’ सौभाग्यं ‘ चराति ' दिने वर्धते । तस्मात्त्वं चरैवेति, न त्वेकत्र तिष्ठ ॥ चतुर्थं पर्यायं दर्शयति— चरैवेति वै मा ब्राह्मणोऽवोचदिति ह चतुर्थं संवत्सरमरण्ये चचार; सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-कलिः शयानो भवति, संजिहानस्तु द्वापरः । उत्तिष्ठस्त्रेता भवति, कृतं सम्पद्यते चरंश्चरैवेति ॥४ ॥
हिन्दी – ( चतुर्थ पर्याय — ) चरैवेति विचरण करते रहो - इस प्रकार ब्राह्मणः ब्राह्मण ने मा अवोचत् मुझसे कहा है – इति ह ऐसा विचार करके ( रोहित ) चतुर्थं संवत्सरम् चतुर्थ वर्ष भी अरण्ये चचार जङ्गल में विचरण करता रहा । पुनः सः आरण्याद् ग्रामम् एयाय वह रोहित जङ्गल से ग्राम को लौटने लगा । तब पुरुष-रूपेण इन्द्रः पुरुष रूप धारण करके इन्द्र ने तं पर्येत्य उवाच उस ( रोहित ) के समीप आकर कहा-कलिः शयानः भवति कलयुग सोया हुआ रहता है, संजिहानस्तु द्वापरः द्वापर जगा हुआ रहता है, उत्तिष्ठन् त्रेता भवति त्रेता उठा हुआ रहता है और कृतं सम्पद्यते चरन् और कृतयुग विचरण करता हुआ रहता है अतः चरैवेति सर्वत्र विचरण करते रहो । सा ० भा ० — चतस्रः पुरुषस्यावस्थाः । निद्रा, तत्परित्यागः, उत्थानं, सञ्चरणं चेति । ताश्चोत्तरोत्तरश्रेष्ठत्वात् कलि - द्वापर त्रेता - कृतयुगैः समानाः । ततश्च सञ्चरणस्य सर्वोत्तमत्वाच्चरैवेति ॥ पञ्चमं पर्यायं दर्शयति— चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं संवत्सरमरण्ये चचार; सोऽरण्याद् ग्राममेयाय, तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-चरन् वै मधु विन्दति चरन् स्वादुमुदुम्बरम् । सूर्यस्य पश्य माणं यो न तन्द्रयते चरंश्चरैवेति ॥ ५ ॥
हिन्दी — ( पञ्चम पर्याय — ) चरैवेति सर्वत्र विचरण करते रहो - इस प्रकार ब्राह्मणः
पृष्ठ 504
पाठ पढ़ें पाठ छिपाएँ
१३५८: ऐतरेयब्राह्मणम् [ ३३.३ सप्तमपञ्चिकायां मा अवोचत् ब्राह्मण ने मुझसे कहा है— इति ह इस प्रकार विचार करके ( रोहित ) पञ्चमं संवत्सरम् पाँचवें वर्ष भी अरण्ये चचार जङ्गल में विचरण करता रहा । सः अरण्याद् ग्रामम् एयाय पुन वह ( रोहित ) जङ्गल से ग्राम को वापस आने लगा । पुरुषरूपेण इन्द्रः पुरुष रूप धारण करके इन्द्र ने तम् पर्येत्य उवाच उस रोहित के समीप आकर कहा— चरन् वै विचरण करता हुआ व्यक्ति ही मधु विन्दति मधु को प्राप्त करता है, चरन् स्वादुम् उदुम्बरम् विचरण करता हुआ व्यक्ति स्वादिष्ट गूलर ( इत्यादि फलों ) को ( प्राप्त करता है ) । सूर्यस्य श्रमाणं पश्य सूर्य की श्रेयता ( जगत् द्वारा वन्दनीयता ) को देखों यः न तन्द्रयते जो ( कभी भी विचरण करने में ) आलस्य नहीं करता है अतः चरैवेति विचरण करते रहो || सा ० भा ० — - ' चरन् ' एव पुरुषः क्वचिद्वृक्षाग्रे ' मधु ' माक्षिकं लभते । ‘ क्वचित् ‘ स्वादु ' मधुरमुदुम्बरादिफलविशेषं लभते । एतदुभयमुपलक्षणम् । तत्र तत्र विद्यमानं भोग-विशेषं लभते । तत्र सूर्यो दृष्टान्तः । ' य: ' सूर्यः सर्वत्र चरन्नपि ' न तन्द्रयते ' कदाचिदप्यलसो न भवति । तस्य सूर्यस्य ' श्रमाणं ' श्रेष्ठत्वं जगद्वन्द्यत्वं पश्य । तस्माच्चरैव ॥ इत्थमिन्द्रकृतेन रोहितोपदेशेन चरतो रोहितस्य स्वजीवने पितुरारोग्ये च कारण-भूतं श्रेयोलाभं दर्शयति— ( रोहितस्य श्रेयोलाभकथनम् ) चरैवेति वै मा ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सरमरण्ये चचार; सोऽजीगर्तं सौयवसिमृषिमशनया परीतमरण्य उपेयाय ॥६ ॥
हिन्दी— ( इस प्रकार इन्द्र द्वारा दिये गये उपदेश के अनुसार आचरण करते हुए रोहित के जीवन में तथा उसके पिता के आरोग्य के विषय में हुए कल्याण के लाभ को दिखला रहे हैं— ) चरैवेति विचरण करते रहो - इस प्रकार ब्राह्मणः मा अवोचत् ब्राह्मण ने मुझसे कहा है— इति ह इस प्रकार विचार करके षष्ठं संवत्सरम् छठें वर्ष अरण्ये चचार जङ्गल में विचरण करता रहा । सः उस ( रोहित ) ने अरण्ये जङ्गल में अशनया परीतम् ( अन्न प्राप्त न होने के कारण ) क्षुधा से पीड़ित सौयवसिम् अजीगर्तम् ऋषिम् सूयवस के पुत्र अजीगर्त ऋषि को उपेयाय पाया ॥ सा ० भा ० — षष्ठे संवत्सरे पूर्ववदरण्यसञ्चारी ' स ह ' रोहितः कञ्चिदृषिं तस्मिन्न-रण्ये ‘ उपेयाय ’ प्राप्तवान् । कीदृशमृषिम्? अजीगर्तनामकं सूयवसस्य पुत्रम्, ‘ अशनया परीतम् ' अन्नालाभेन क्षुत्पीडितम् ॥ अथाजीगर्तरोहितयोः संवादं दर्शयति-( तत्राजीगर्तरोहितयोः संवादकथनम् ) तस्य ह त्रयः पुत्रा आसुः, शुनः पुच्छः शुनःशेपः शुनोलाङ्गूल इति;
पृष्ठ 505
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३५ ९ तं होवाच, ऋषेऽहं ते शतं ददाभ्यहमेषामेकेनाऽऽत्मानं निष्क्रीणा इति; स ज्येष्ठं पुत्रं निगृह्णान उवाच, न न्विममिति; नो एवेममिति कनिष्ठं माता; तौ ह मध्यमे सम्पादयांचक्रतुः शुनःशेपे, तस्य ह शतं दत्त्वा स तमादाय सोऽरण्याद् ग्राममेयाय ॥७ ॥
हिन्दी – ( अजीगर्त और रोहित के संवाद को दिखला रहे हैं - ) तस्य ह उस ( अजीगर्त ) के शुनःपुच्छः शुनःशेपः शुनोलाङ्गूलः शुनःपुच्छ, शुनःशेप और शुनो-लाङ्गूल ( इस प्रकार नाम वाले ) त्रयः पुत्राः आसुः तीन पुत्र थे । तं ह उवाच ( रोहित ने ) उस ( ऋषि ) से कहा- ऋषे हे ऋषे! अहं ते शतं ददामि मैं तुम्हें एक सौ ( गाएँ ) दे रहा हूँ और अहम् मैं एषाम् इन ( तीन पुत्रों ) में से निष्क्रीण ( एक को ) मूल्य देकर खरीद रहा हूँ और एकेन आत्मानम् ( उस खरीदे गये ) एक ( पुत्र ) के द्वारा ( वरुण के लिए याग कराकर ) अपने को ( वरुण से मुक्त कराऊँगा ) । ज्येष्ठं पुत्रं निगृह्णानः ज्येष्ठ पुत्र ( शुनः-पुच्छ ) को अपने समीप में खींचते हुए सः उवाच उस ( अजीगर्त ) ने ( रोहित से ) कहा— इमं नु न इस ( पुत्र ) को निश्चित रूप से नहीं दूँगा । कनिष्ठं माता माता ने कनिष्ठ पुत्र ( शुनोलाङ्गूल को अपने समीप खींचते हुए कहा- ) नः एव इमम् इस कनिष्ठ पुत्र ( शुनोलाङ्गूल ) को ( मैं नहीं दूँगी ) । तौ ह वे दोनों ( माता और पिता ) मध्यमे शुनःशेपे मध्यम ( पुत्र ) शुनःशेप ( को देने ) में सम्पादयाँच स्वीकृति प्रदान कर दिया । तस्य ह शतं दत्वा उस ( अजीगर्त ) को एक सौ गायें देकर सः वह ( रोहित ) तम् आदाय उस ( शुनःशेप ) को लेकर अरण्यात् जङ्गल से गामम् एयाय ग्राम को लौट आया ॥ सा ० भा ० — ' तस्य ' अजीगर्तस्य शुनः पुच्छादिनामकास्त्रयः पुत्रा आसुः । ‘ तं ' पुत्र-वन्तमृषिं रोहितः उवाच- हे ऋषे, ' ते ' तुभ्यमहं गवां शतं ददामि । ( दत्त्वा चाहमेषां पुत्राणां मध्य एकेन केनचित्पुत्रेणाऽऽत्मानं मद्देहं वरुणान्निष्क्रीणै मूल्यं दत्त्वाऽऽत्मानं मोच-यामीति । एवमुक्तः सोऽजीगर्तो ' ज्येष्ठपुत्रं ' शुनः पुच्छनामकं हस्तेन ‘ निगृह्णानः ’ स्वसमीपे समाकर्षन् रोहितं प्रत्येवमुवाच – तुभ्यमेकः पुत्रो दीयते, ' इमं नु ' शुनःपुच्छं तु ' न ' ददामि, मम प्रियत्वादीति । ततो माता कनिष्ठं हस्तेनं गृहीत्वैवमुवाच — ' इमं ' शुनोलाङ्गुलं तु मम प्रियं ‘ नो एव ’ सर्वथा न ददामीति । ततः तौ उभौ मातापितरौ ' मध्यमे ' पुत्रे शुनःशेपे दानं ‘ सम्पादयांचक्रतुः ’ अङ्गीकृतवन्तौ । ततः तस्य अजीगर्तस्य ' सः ' रोहितो गवां शतं दत्त्वा ‘ तं ’ शुनःशेपम् आदायावस्थिता ' । ततः ‘ सः ’ रोहितः तेन शुनःशेपेन सहारण्यात् स्वकीयं ( १ ) ‘ षष्ठ्या आक्रोशे ’ – इति पा ० सू ० ६.३.२१ । ' शेपपुच्छलाङ्गुलेषु शुनः ' - तत्रव वा ० ५ । ‘ उभे वनस्पत्यादिषु युगपत् ’ - इति पा ० सू ० ३.२.१४० । शुनःशेषम् । ‘ शुनःशेफ’-इति वा पाठः ( महा ० भा ० १३.३.६ ) । शेषः इति, वैतसः इति च द्वे परे निघण्टु-समाम्नाये पठिते । ‘ शेपो वैतस इति पुंस्त्रजननस्य । ' शेपः शपतेः स्पृशतिकर्मणो, वैतसो
पृष्ठ 506
पाठ पढ़ें पाठ छिपाएँ
१३६०: ऐतरेयब्राह्मणम् [ ३३.३ सप्तमपञ्चिकायां ग्रामं प्रत्याजगाम ॥ तदागमनादूर्ध्वकालीनं वृत्तान्तं दर्शयति— ( राजानं वरुणद्वारा राजसूययज्ञव्रिधिकथनम् ) स पितरमेत्योवाच, -तत हन्ताहमनेनाऽऽत्मानं निष्क्रीणा इति; स वरुणं राजानमुपससारानेन त्वा यजा इति; तथेति, भूयान् वै ब्राह्मणः क्षत्रियादिति वरुण उवाच; तस्मा एतं राजसूयं यज्ञक्रतुं प्रोवाच, तमेतमभिषेचनीये पुरुषं पशुमालेभे ॥ ८ ॥
हिन्दी— ( रोहित के ग्राम में आने के बाद के वृत्तान्त को कह रहे हैं - ) सः पितरम् एत्य उवाच उस ( रोहित ) ने पिता ( हरिश्चन्द्र ) के समीप जाकर कहा- तत हे पिताजी! हन्त प्रसन्नता की बात है कि अहम् मैंने अनेन निष्क्रीणै इस ( शुनःशेप रूप ) मूल्य से खरीदकर आत्मानम् अपने को ( वरुण से मुक्त कराता हूँ ) । तदनन्तर सः वे ( हरिश्चन्द्र ) वरुणं राजानम् उपससार राजा वरुण के समीप गये ( और कहे कि ) अनेन इस ( शुनःशेप रूप पशु ) से त्वा यजै ( मैं ) तुम्हारा याग करूँगा । तथेति ( वरुण ने ) उसी प्रकार ( स्वीकृति दे दिया; क्योंकि ) क्षत्रियात् क्षत्रियरूप ( पशु ) की अपेक्षा ब्राह्मणः ब्राह्मण रूप पशु भूयान् वै उत्कृष्ट होता है— इति वरुणः उवाच इस प्रकार वरुण ने ( राजा से ) कहा और तस्मै उस ( राजा ) के लिए एतं राजसूयं यज्ञक्रतुम् इस राजसूय नामक यज्ञ-विधि को प्रोवाच प्रकृष्ट रूप से कहा ( समझाया ) । ( उस हरिश्चन्द्र ने ) अभिषेचनीये ( एकाहिक ) अभिषेचनीय ( नामक सोमयाग ) में तम् एतम् उस इस ( शुनःशेप नामक ) पुरुषम् पुरुष को पशुम् पशु के रूप में आलेभे आलभन ( करने का निश्चय ) किया ॥ सा ० भा ० -- -'सः ' रोहितः पितरमागत्यैवमुवाच । हे ' तत ' पितः ' हन्त ' आवयो-र्हर्षः सम्पन्नः । अहम् ‘ अनेन ' शुनःशेपरूपेण मूल्येन ' आत्मानं ’ मद्देहं वरुणात् ‘ निष्क्रीणै ’ मूल्यं दत्त्वाऽऽत्मानं मोचयामीत्यर्थः । तथोक्ते ' सः ' हरिश्चन्द्रो वरुणमुपेत्य ' अनेन ' शुनः-शेपेन ब्राह्मणेन ‘ त्वा ’ त्वां यक्ष्यामीत्युक्तवान् । ' सः ' वरुणोऽपि तथेत्यङ्गीकृत्यैवमु-वाच- - ' ' क्षत्रियात् '. तव पुत्राद् रोहितादप्ययं ब्राह्मणो ' भूयान् ' अभ्यधिक एव, मम प्रियः, इति, उक्त्वा ‘ तस्मै ’ हरिश्चन्द्राय कर्तव्यत्वेन राजसूयमुपदिदेश च । ‘ सः ' हरिश्चन्द्रो राज-सूर्य प्रक्रम्य तस्य मध्ये योऽयमभिषेचनीयाख्यः ' एकाहः सोमयागः, तस्मिन् ‘ तमेतं ' शुनः-वितस्तं भवति ' इति निरु ० ३.४.४ । स्त्रीणां दानविक्रयातिसर्गा विद्यन्ते, न पुंसः; पुंसोऽपीत्येके, शौन: शेपे दर्शनात् - इति यास्कः ( निरु ० ३.१.४ ) । ( १ ) संवत्सरान्ते समानपक्षेऽभिषेचनीय - दर्शपेयौ, ' उक्थ्यो बृहत्पृष्ठ उभयसामाभिषेचनीयः'-इति आश्व ० श्री ० ९.३.७, ८ । तत्राहनि अभिषेकार्थानामपां ग्रहणं भवति । तद्-विशेषास्तु कात्या ० श्रौ ० १५.४.२१-५.६ सूत्रेषु द्रष्टव्यानि । ' राजानो भविष्यन्त्य-भिषेचनीयाः... विशोऽनभिषेकनीया: ' - इति च शत ० ब्रा ० १३.४.२.१७ ।
पृष्ठ 507
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३६१ ' शेपं पुरुषं पशुम् ' आलेभे ' सवनीयपशुत्वेनाऽऽलब्धुं निश्चितवान् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये सप्तमपञ्चिकायां तृतीयाध्याये ( त्रयस्त्रिंशाध्याये ) तृतीयः खण्डः || ३ || ( १५ ) ( २३८ ) ॥ इस प्रकार ऐतरेयब्राह्मण के तैतीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ चतुर्थः खण्डः सा ० भा ० – हरिश्चन्द्रस्य राजसूयानुष्ठानं दर्शयति— ( हरिश्चन्द्रस्य राजसूयानुष्ठानम् ) ( तत्र शुनःशेपस्य नियोजनम् ) तस्य ह विश्वामित्रो होताऽऽ सीज्जमदग्निरध्वर्युर्वसिष्ठो ब्रह्माऽ -यास्य उद्गाता; तस्मा उपाकृताय नियोक्तारं न विविदुः; स होवा-चाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं नियोक्ष्यामीति; तस्मा अपरं शतं ददुस्तं स निनियोज ॥ १ ॥
हिन्दी – ( हरिश्चचन्द्र के राजसूय अनुष्ठान को दिखला रहे हैं ) तस्य उस ( हरिश्चन्द्र ) के ( यज्ञ में ) विश्वामित्रः होता आसीत् विश्वामित्र होता ( नामक ऋत्विक ) थे, जमदग्निः अध्वर्युः महर्षि जमदग्नि अध्वर्यु ( नामक ऋत्विक् ), वसिष्ठः ब्रह्मा महर्षि वसिष्ठ ब्रह्मा और अयास्य उद्गाता महर्षि अयास्य उद्गाता ( नामक ऋत्विक् ) थे । उपाकृताय तस्मै उपाकरण किये गये ( कुश से युक्त प्लक्ष की शाखा से मन्त्र के साथ सम्यक् रूप से स्पर्श किये गये ) उस ( शुनःशेप रूप पशु को बाँधने ) के लिए ( हरिश्चन्द्र किसी ) नियोक्तारं न विविदुः नियोक्ता ( यूप में बाँधने वाले व्यक्ति ) को नहीं प्राप्त कर सके । तब सः सौयवसि अजीगर्तः उवाच उस सौयवस के पुत्र अजीगर्त ने ( उस राजा से ) कहा— ( हे राजन्! ) मह्यम् अपरं दत्त मुझे अन्य एक सौ गाएँ दो तो अहम् एनम् मैं इस ( पशुरूप शुनःशेप ) को नियोक्ष्यामि ( बलि के लिए ) नियुक्त कर दूँगा ( यूप में बाँध दूँगा ) । तस्मै ( उस राजा ने ) उस ( अजीगर्त ) के लिए अपरं शतं ददुः अन्य एक सौ गाएँ प्रदान किया । तब सः उस ( अजीगर्त ) ने तम् उस ( पशुरूप शुनःशेप ) को निनियोज यज्ञयूप में बाँध दिया ॥ सा ० भा०- — विश्वामित्रादयो महर्षयः ' तस्य ' हरिश्चन्द्रस्य यागे राजसूये होत्रादयश्च-ऐ.ब्रा.उ.- ३२
पृष्ठ 508
पाठ पढ़ें पाठ छिपाएँ
१३६२: ऐतरेयब्राह्मणम् [ ३३.४ सप्तमपञ्चिकायां त्वारो महर्त्विज आसन् । तत्र जमदग्निरध्वर्युरभिषेचनीये सोमयागे ' तं ' शुनःशेषं सवनीय-पशुत्वेनोपाकृतवान् । बर्हियुक्तया प्लक्षशाखया मन्त्रपुरःसरं समुत्पस्पृश्य स्वीकारः ‘ उपा-करणम् ' । तत ऊर्ध्वं यूपबन्धनं ' नियोजनं ', तस्य क्रूरकर्मत्वादध्वर्युर्मं नियोजने प्रवृत्तः । ततः ‘ उपाकृताय तस्मै ’ ’ उपाकरणेन संस्कृतस्य शुनःशेपस्य ' नियोक्तारं ' यूपे बन्धनकर्तारं क्रूरं कञ्चिदपि पुरुषं ‘ न विविदुः ' न लेभिरे । तदानीं सूयवसस्य पुत्रः, शुनःशेपस्य पिता ‘ सः ’ ‘ अजीगर्त: ' ( उवाच ) मह्यं पूर्वस्माच्छताद् ' अपरं ' गोशतं हे यजमानर्त्विजः, दत्त, ततोऽहम् ' एनं ' शुनःशेपं यूपे ' नियोक्ष्यामि ' रशनया शिरसि पादयोर्बद्ध्वा रशनाग्रस्य यूपे बन्धनं ' नियोजनं ' तदहं करिष्यामीति । ' तस्मै ' अजीगर्तायापरं गोशतं ददुः । ' तं ’ च शुचःशेपं ‘ सः ’ अजीगत ‘ निनियोज ' । धातोर्द्विर्भावं परित्यज्योपसर्गस्य द्विर्भावश्छान्दसः ॥ अथ विशसनप्रवृत्तिं दर्शयति— तस्मा उपाकृताय नियुक्तायाऽऽ प्रीताय पर्यग्निकृताय विशसितारं न विविदुः; स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं विशसिष्यामीति; तस्मा अपरं शतं ददुः, सोऽसिं निःशान एयाय ॥ २ ॥
हिन्दी — उपाकृताय उपाकरण किये गये ( कुशयुक्त प्लक्ष की शाखा से मन्त्र द्वारा स्पर्श किये गये ) नियुक्ताय ( वध के लिए ) यज्ञयूप में बाँधे गये आप्रीताय आप्रीणान ( आप्री संज्ञक एकादश प्रयाज और याज्याओं के पाठ ) कर लिए जाने वाले पर्यन्नि-कृताय पर्यग्निकरण ( दर्भरूप उल्मुक के साथ तीन बार प्रदक्षिणा ) कर लिये गये तस्मै उस ( पशुरूप शुनःशेप ) के लिए विशसितारं न विविदुः विशेष रूप से वध करने वाला नहीं प्राप्त हुआ । तब सः सौयवसि अजीगर्तः उवाच उस सुयवस के पुत्र अजीगर्त ने ( राजा से ) कहा— हे राजन्! मह्यम् अपरं शतं दत्त मेरे लिए अन्य एक सौ गाएँ दो तो अहम् एनं विशसिष्यामि मैं इस ( पशुरूप शुनःशेप ) का विशेषरूप से वध कर दूँगा । तस्मै अपरं शतं ददुः ( राजा ने उस ( अजीगर्त ) के लिए अन्य सौ गाएँ प्रदान किया और सः असिं निःशानः एयांय वह ( अजीगर्त ) तलवार ( की धार को ) तीक्ष्ण करता हुआ आ गया || सा ० भा ० — उपाकरणनियोजने पूर्वयुक्ते । आप्रीसंज्ञिताभिरेकादशभिः प्रयाज - या-ज्याभिर्यद् यजनं तद् ‘ आप्रीणनम् । दर्शरूपेणोल्मुकेन त्रिः प्रदक्षिणीकरणं तत् ‘ पर्यग्नि-करणम् ' । तथाविधसंस्कारचतृष्टययुक्ताय तस्मै तस्य शुनःशेपस्य ‘ विशसितारं ’ हिंसितारं पुरुषं क्रूरात्मानं कञ्चिदपि पुरुषं न लेभिरे । ततोऽजीगर्तः पूर्ववदपरं गोशतं गृहीत्वा मार-यितुम् ‘ असिं ' खड्गं ' नि: शानः ' निशितं तीक्ष्णं कुर्वन्नेव ' एयाय ' जगाम || ( १ ) ' षष्ठ्यर्थेति चतुर्थीति वाच्यम् ' - इति पा ० सू ० २.३.६२ वा ० ।
पृष्ठ 509
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३६३ पितुरजीगर्तस्य ( शुनःशेपस्य ) वृत्तान्तं दर्शयति— ( शुनःशेपद्वारा देवानां स्तुतयः ) अथ ह शुनःशेप ईक्षांचक्रेऽमानुषमिव वै मा विशसिष्यन्ति, हन्ताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं देवतानामुपससार, कस्य नूनं कतमस्यामृतानामित्येतयर्चा ॥ ३ ॥
हिन्दी - अथ अब ( पिता द्वारा मारने के उद्योग करने बाद ) शुनःशेपः ( पशुरूप में बद्ध ) शुनःशेप ने ईक्षांचक्रे विचार किया कि अमानुषम् इव ( ये लोग तो ) मनुष्य से व्यतिरिक्त ( बकरे इत्यादि पशु ) के समान मा विशसिष्यन्ति मुझको विशेष रूप से मार डालेंगे — हन्त यह महान् कष्टकर है अतः अहं देवता उपधावामि इति ' मैं देवता के समीप दौड़कर जाता प्रजापतिम् देवताओं देवताओं श्रेष्ठ किस उपससार समीप में सा ० भा ० – ' चक्रे ' विचारितवान् । ग्निकरणादूर्ध्वं मनुष्यं हूँ - इस प्रकार ( विचार करके ) सः वह ( शुनःशेप ) देवतानां प्रथमं में प्रमुख प्रजापति के ' कस्य नूनं कतमस्यामृतानाम् ' अर्थात् मैं देवता का सुन्दर नाम पुकारूँ, इत्येतयर्चा इस ऋचा के साथ गया ( स्तुति किया ) | अथ ' पितुः पुत्रमारणोद्योगानन्तरं ' शुनःशेप: ' पुत्रो मनस्येवं ' ईक्षां-‘ अन्यत्र पर्यग्निकृतं पुरुषमारण्यांश्चोत्सृजन्त्यहिंसायै ' इतिश्रुतेः पर्य-परित्यजन्ति । एते तु ' मा ' माम् ' अमानुषमिव ' मनुष्यव्यतिरिक्तम-जादिपशुमिव ' विशसिष्यन्ति ' मारयिष्यन्ति । ' हन्त ' हा कष्टमेतत्सम्पन्नम् । अहमितः परं रक्षार्थं देवताः ‘ उपधावामि ' भजामि ' इति ' एतद् विचार्य देवानां मध्ये ' प्रथमं ' मुख्यं प्रजापतिमेव ‘ कस्य नूनम् - इत्यृच ' उपससार ' सेवितवान् ॥ तस्य प्रजापतेः सहकारित्वेनाग्नेः सेवां दर्शयति — तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्नि-मुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा ॥४ ॥
हिन्दी - ( उस प्रजापति की सहकारिता के कारण अग्नि की उपासना को दिखला रहे हैं— ) तं प्रजापतिः उवाच उस ( शुनःशेप ) से प्रजापति ने कहा — अग्निः वै देवानां नेदिष्ठः अग्नि ही देवताओं में ( हविः - वहन करने के कारण ) समीपवर्ती है अतः तम् एव उपधाव उस ( अग्नि ) के ही समीप दौड़कर जाओ ( स्तुति करो ) । सः ( तब ) वह ( शुनः-शेप ) ‘ अग्नेर्वयं प्रथमस्यामृतानाम् ' अर्थात् मैं देवताओं में प्रथम अग्नि का नाम पुकारता हूँ — इत्येतयर्चा इस ऋचा के साथ अग्निम् उपससार अग्नि की स्तुति किया ॥ सा ० भा०– ' तं ' सेवकं शुनःशेपं प्रजापतिरेवमुक्तवान् । अग्निः सर्वेषां देवानां ( १ ) ऋ ० १.२४.१
पृष्ठ 510
पाठ पढ़ें पाठ छिपाएँ
१३६४: ऐतरेयब्राह्मणम् [ ३३.४ सप्तमपञ्चिकायां ‘ नेदिष्ठः ’ हविर्वहनेनातिसमीपवर्ती । अतस्तमेवोपास्स्वेत्युक्तः ‘ सः ’ शुनःशेपः ‘ अग्नेर्व-यम् ” इत्यृचाऽग्निमुपासितवान् ॥ तस्य चाग्नेः सहकारित्वेन सवितुरुपासनं दर्शयति— तमग्निरुवाच, सविता वै प्रसवानामीशे तमेवोपधावेति; स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन ॥ ५ ॥
हिन्दी— ( अग्नि की सहकारिता के कारण सविता की उपासना को दिखला रहे हैं— ) तम् अग्निः उवाच उस ( शुनःशेप ) से अग्नि ने कहा - सविता वै प्रसवानाम् ईशे सविता ही प्रेरित करने वालों का स्वामी है अतः तमेव उपधाव उस ( सविता ) के समीप दौड़कर जाओ । तब सः वह ( शुनःशेप ) ' अभि त्वा देव सवितः ' अर्थात् हे सर्वदा रक्षा करने वाले सविता देव ' एतेन तृचेन इस तृच ( तीन ऋचाओं के समूह ) के साथ सवितारम् उपससार सविता देव की उपासना किया ॥ सा ० भा ० – ' प्रसवानां ' सर्वेषु कार्येषु प्रेरणारूपाणामनुज्ञानात् सविता ' ईशे ' स्वामी भवति । तस्मात्तमेवोपधावेत्यग्निनोपदिष्टः ' अभि त्वा ' इति तृचेन सवितारमुपासितवान् ॥ तस्य च सवितुः सहकारित्वेन वरुणस्योपासनं दर्शयति— तं सवितोवाच, वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति; स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता ॥ ६ ॥
हिन्दी -- ( उस सविता की सहकारिता के कारण वरुण की उपासना को दिखला रहे हैं— ) तं सविता उवाच उस ( शुनःशेप ) से सविता ने कहा - वरुणाय वै राज्ञे नियुक्तः असि राजा वरुण के लिए तुम ( यज्ञयूप में ) बाँधे गये हो, अतः तमेव उपधाव उसी ( वरुण ) के समीप में दौड़कर जाओ । तब सः उस ( शुनःशेप ) ने अतः उत्तराभिः एकत्रिंशता इस ( ‘ अभित्वा देव ' - इस तृच ) से परवर्ती इकतीस ( ऋचाओं ) के साथ वरुणं राजानम् उपससार राजा वरुण देव की स्तुति किया ॥ सा ० भा ० — हे शुनःशेप वरुणार्थं त्वं यूपे बद्धोऽसि, अतो वरुणमुपास्स्वेति सवि-त्रोक्तः पूर्वस्मात् सवितृविषयात् तृचाद् उत्तराभिरेकत्रिंशत् संख्याकाभिर्ऋग्भिर्वरुणमुपा-सितवान् । ‘ नहि ते क्षत्त्रम् ' इत्याद्याः सूक्तशेषभूता दशच ' यच्चिद्धि ते विशः ’ इत्यादि-कमेकविंशत्यृचं सूक्तम् ' इत्येवमेकत्रिंशत् संख्या द्रष्टव्या ॥ तस्य च वरुणस्य सहकारित्वेन पुनरप्यग्नेरुपासनं दर्शयति — तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्त्रक्ष्याम ( १ ) ऋ ० १.२४.२ ( २ ) ऋ ० १.२४.३-५ ( ३ ) ऋ ० १.२४.६-१५ ( ४ ) ऋ ० १.२५