ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 511–520
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 511–520
पृष्ठ 511
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३६५ इति; सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या ॥७ ॥
हिन्दी— ( उस वरुणदेव की सहकारिता के कारण पुनः अग्नि की उपासना को दिखला रहे हैं— ) तं वरुणः उवाच उस ( शुनःशेप ) से वरुणदेव ने कहा- अग्निर्वै अग्नि ही देवानाम् देवताओं का मुखम् मुख- स्थानीय अर्थात् प्रमुख और सुहृदयतमः ( हविर्वहन करने के कारण ) अतिशय प्रिय हैं, अतः तं नु स्तुहि उस ( अग्नि ) की शीघ्र ही स्तुति करो । अथ इसके बाद त्वा उत्स्त्रक्ष्यामः तुमको हम छोड़ देगे । सः उस ( शुनःशेप ) ने अतः उत्तराभिः द्वाविंशत्या उस ( वरुण को तुष्ट करने वाली ऋचाओं ) के बाद वाली बाइस ऋचाओं के साथ अग्निं तुष्टाव अग्नि को तुष्ट किया ( स्तुति किया ) ॥ सा ० भा ० — अयमग्निः सर्वेषां देवानां ' मुखं ' मुखस्थानीयः । अग्निद्वारेणैव सर्वै-र्देवैर्हविःस्वीकारात् । अत एव प्रीत्या हविर्वहनादतिशयेन सुहृदय: । ' सुहृदयतमः ' ‘ तम् ’ अग्नि ' नु ' क्षिप्रं स्तुहीति वरुणेनोक्तः पूर्वोक्ताभ्य ऋग्भ्य उत्तराभिर्द्वाविंशतिसंख्याकाभि-र्ऋग्भिरग्निं तुष्टाव | ‘ वसिष्वा हि ' - इत्यादिकं दशर्चं सूक्तम् ', ‘ अश्वं न त्वा ' इत्यादिकं त्रयोदशर्चं सूक्तम् ' । तत्रान्त्यां परित्यज्य वसिष्वसूक्तद्वयगता ऋचो द्वाविंशतिसंख्याकाः ॥ अग्नेः सहाकारित्वेन विश्वेषां देवानामुपासनं दर्शयति— तमग्निरुवाच, विश्वान्नु देवान् स्तुह्यथ त्वोत्स्त्रक्ष्याम इति; स विश्वान् देवांस्तुष्टाव, नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा ॥८ ॥
हिन्दी – ( अग्नि की सहकारिता के कारण विश्वेदेवों की आराधना को कह रहे हैं— ) तं अग्निः उवाच उस ( शुनःशेप ) से अग्नि ने कहा- विश्वान् नु देवान् स्तुहि विश्वेदेवों की स्तुति करो । अथ इस ( विश्वेदेवों की स्तुति ) के बाद त्वा उत्स्त्रक्ष्यामः तमुको हम लोग छोड़ देंगे । सः उस ( शुनःशेप ) ने ' नमो महद्भ्यो नमो अर्भकेभ्यः ' अर्थात् महान्, बालक, युवा तथा वृद्ध सभी देवताओं के लिए नमस्कार है, एतया ऋचा इस ऋचा द्वारा विश्वान् देवान् सभी देवताओं को तुष्टाव तुष्ट किया । सा ० भा ० — यद्यपि वरुणपाशेन बद्धत्वाद् वरुण एव शुनःशेपमुत्स्रष्टुं समर्थः तथाऽप्यग्न्यादीनां सहकारित्ववचनं दायर्थं द्रष्टव्यम् । विश्वे देवा गणरूपा न भवन्ति किंतु सर्वे देवास्तान् ‘ नमो महद्भ्यः ' इत्येतयर्चा ' उपासितवान् ॥ तेषां च विश्वेषां देवानां सहकारित्येनेन्द्रस्योपासनं दर्शयति— तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्त्रक्ष्याम इति; स इन्द्रं तुष्टाव ( १ ) ऋ ० १.२६ ( २ ) ऋ ० १.२७.१-१२ ( ३ ) ऋ ० १.२७.१३
पृष्ठ 512
पाठ पढ़ें पाठ छिपाएँ
१३६६: ऐतरेयब्राह्मण [ ३३.४ सप्तमपञ्चिकायां यच्चिद्धि सत्य सोमपा इति चैतेन सूक्तेनोत्तरस्य च पञ्चदशभिः ॥९ ॥
हिन्दी — तं विश्वेदेवाः ऊचुः उस ( शुनःशेप ) से विश्वेदेवों ने कहा – इन्द्रो वै इन्द्र ही देवानाम् सभी देवताओं में ओजिष्ठः बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमः ओजस्वी, बल - सम्पन्न, सहिष्णु, वीर्य सम्पन्न और पार लगाने वालों में श्रेष्ठ है । अत: तं नु स्तुहि उस ( इन्द्र ) की ही स्तुति करो । अथ त्वा उत्स्त्रक्ष्यामः इसके बाद हम तुम्हें छोड़ देंगे । सः उस ( शुनःशेप ) ने ' यश्चिद्धि सत्य सोमपा ' एतेन सूक्तेन इस सूक्त से उत्तरस्य च पञ्चदशिभिः और उत्तरवर्ती सूक्त की पन्द्रह ऋचाओं से इन्द्रं तुष्टाव इन्द्र को तुष्ट किया ॥ सा ० भा ० – ओजोबलादिशब्दाः पूर्वाचार्यैरेवं व्याख्याताः— " ओजो दीप्तिर्बलं दाक्ष्यं प्रसह्यकरणं सहः । सुजनः सन्पारयिष्णुरुपक्रान्तसमाप्तिकृत ” ॥ इति । इष्ठप्रत्यय - तमप्प्रत्ययाभ्यां तत्र तत्रातिशय उच्यते । तादृशमिन्द्रं ' यच्चिद्धि सत्य सोमपाः ' इत्यनेन सप्तर्चेन सूक्तेन ' उत्तरस्मिन्नपि ' आ व इन्द्रम् ' इत्यादिके द्वाविंशत्यृचे सूक्ते ' पञ्चदशभिर्ऋग्भिश्च तुष्टाव ॥ पूर्वमप्यनुग्रहेण चरैवेत्येवमिन्द्रो रोहितं प्रत्युपदिदेश । तस्योपदेशस्य फलपर्यव-सायित्वमनुस्मरतः सत्येन्द्रस्य शुनःशेपस्तुतौ प्रीत्यतिशयं दर्शयति— तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ, तमेतया प्रतीयाय शश्वदिन्द्र इति ॥ १० ॥
हिन्दी — स्तूयमानः इन्द्रः स्तुति किये गये इन्द्र ने ( प्रसन्न होकर ) मनसा अपने मन से तस्मै उस ( शुनःशेप ) के लिए हिरण्यरथं ददौ सुवर्णमय दिव्य - रथ प्रदान किया । ( शुनःशेप ने ) ‘ शश्वदिन्द्र ' एतया इस ( उत्तरवर्ती ऋचा ) से तम् उस ( दिव्य - रंथ ) को ' प्रतीयाय मन से स्वीकार कर लिया ॥ सा ० भा ० – शुनःशेपेनेन्द्रः स्तूयमानः प्रीतो भूत्वा ' तस्मै ' शुनःशेपाय सुवर्णमयं दिव्यं रथमारोहणार्थं स्वकीयेन मनसैव ददौ । शुनःशेपोऽपि तदीयमनुग्रहमवगत्य पूर्वो-क्ताभ्यः पञ्चदशभ्य ‘ उत्तरया ’ ' शश्वदिन्द्रः ' इत्येतयर्चा ' ' तं ' रथं ' प्रतीयाय ' मनसैव प्रति-जगाम ॥ ( १ ) ऋ ० १.२ ९ ( २ ) ऋ ० १.३०१-१५ ( ३ ) ऋ ० १.३०.१६ ( ४ ) स्तूयमानः शश्वदिति प्रीतस्तु मनसा ददौ । शुनःशेपाय दिव्यं तु रथं सर्वं हिरण्ययम् ॥ - इति बृहद्दे ० ३.१०१
पृष्ठ 513
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३६७ इन्द्रस्य सहाकारित्वेनाश्विनोरुपासनं दर्शयति— तमिन्द्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्त्रक्ष्याम इति; सोऽश्विनौ तुष्टावात उत्तरेण तृचेन ॥ ११ ॥
हिन्दी – ( इन्द्र की सहकारिता के कारण अश्विनों की उपासना को दिखला रहे हैं— ) तम् इन्द्रः उवाच उस ( शुनःशेप ) से इन्द्र ने कहा - अश्विनौ नु स्तुहि अश्विन्-देवों की स्तुति करो । अथ त्वा उत्स्त्रक्ष्यामः उसके बाद हम तुमको छोड़ देंगे । सः उस ( शुनःशेप ) ने अतः उत्तरेण तृचेन इससे उत्तरवर्ती ( अश्विनावश्वावत्या ) तृच से अश्विनौ तुष्टौ अश्विदेवों को तुष्ट किया ॥ सा ० भा०- - पूर्वोक्तायाः शश्वदिन्द्र इत्यस्या ' उत्तरेण ' ' आश्विनाश्वावत्या ' इति तृचेन ' अश्विनौ स्तुतवान् ॥ अश्विनोः सहकारित्वेनोषस उपास्तिं दर्शयति-तमश्विना ऊचतुरुषसं नु स्तुाथ त्वोत्स्त्रक्ष्याम इति; स उषसं तुष्टावात उत्तरेण तृचेन ॥ १२ ॥
हिन्दी – ( अश्विन्देवों के सहकारिता के कारण उषा की उपासना को दिखला रहे हैं— ) तम् अश्विना ऊचतुः उस ( शुनःशेप ) से अश्विन्देवों ने कहा- उषसं नु स्तुहि उषा की स्तुति करो । अथ त्वा उत्स्त्रक्ष्यामः इस ( उषा की स्तुति ) के बाद हम तुमको छोड़ देंगे । सः उस ( शुनःशेप ) ने अतः उत्तरेण तृचेन इस ( अश्विन् के तृच ) के बाद वाले तृच ( ' कस्त उष: ' ) से उषसं तुष्टौ उषा को तुष्ट किया ॥ सा ० भा ० — - ' कस्त उषः ' इत्यादिक उत्तरस्तृचः ॥ यथोक्तानां सर्वासां देवतानामनुग्रहेण शुनःशेपस्य बन्धमोक्षं हरिश्चन्द्रस्याऽऽरोग्यं च दर्शयति-( शुनःशेपस्य बन्धनमोक्षकथनम् ) तस्य ह स्मर्च्यूच्युक्तायां वि पाशो मुमुचे, कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्व्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस ॥ १३ ॥
हिन्दी – ( उस पूर्वोक्त तृच की एक - एक ऋचा से सभी देवताओं के अनुग्रह से शुनःशेप के एक - एक बन्धन के खुलने और हरिश्चन्द्र की नीरोगता को दिखला रहे - ) तस्य ऋचि ऋचि उक्तायाम् उस ( पूर्वोक्त तृच ) की एक - एक ऋचा के कहने पर ( १ ) ऋ ० १.३०.१७-१९ ( २ ) ऋ ० १.३०.२०-२२
पृष्ठ 514
पाठ पढ़ें पाठ छिपाएँ
१३६८: ऐतरेयब्राह्मणम् [ ३३.५ सप्तमपञ्चिकायां ( उस शुनःशेप के ) पाशः वि मुमुचे स्म बन्धन ( एक - एक करके ) निश्चित रूप से खुल गये । ऐक्ष्वाकस्य इक्ष्वाकुवंशीय ( राजा हरिश्चन्द्र ) का उदरं कनीयः भवति जलोदर ( रोग ) छोटा ( कम ) होता गया । उत्तमस्यामेव ऋचि उक्तायाम् अन्तिम ऋचा के कहने पर पाशः वि मुमुचे ( शुनःशेप के ) सभी बन्धन खुल गये और ऐक्ष्वाकः इक्ष्वाकु-वंशीय ( हरिश्चन्द्र ) अगदः आस नीरोग हो गये । सा ० भा०- - ' ' तस्य ' पूर्वोक्तस्य तृचस्य सम्बन्धिन्याम् ' ऋचि ऋचि ' एकैकस्या-मृच्युक्तायां क्रमेण शुनःशेपस्य पाशो ' विमुमुचे ' विशेषेण मुक्तोऽभूत् ' । ' ऐक्ष्वाकस्य ' हरिश्चन्द्रस्य यन्महोदरं, तदपि क्रमेण ' कनीयः ' अत्यल्पं भवति । उत्तमस्यामृच्युक्तायां पाशो विमुमुचे, एवं सर्वात्मना मुक्तोऽभूत् । ऐक्ष्वाकोऽपि ' अगदः ' निःशेषेण रोगरहित आस ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां तृतीयाध्याये ( त्रयस्त्रिंशाध्याये ) चतुर्थः खण्डः ॥४ ॥ ( १६ ) ( २३ ९ )
॥ इस प्रकार ऐतरेयब्राह्मण के तैतीसवें अध्याय के चतुर्थ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ पश्चमः खण्डः सा ० भा ० — बन्धनान्मुक्तस्य शुनःशेपस्योत्तरकालीन वृत्तान्तं दर्शयति— ( बन्धनमुक्तस्य शुनःशेपस्योत्तरं वृत्तान्तम् ) तमृत्विज ऊचुस्त्वमेव नोऽस्याह्नः संस्थामधिगच्छेत्यथ हैतं शुनःशेपोऽञ्जःसवं ददर्श तमेताभिश्चतसृभिरभिसुषाव, ' यच्चिद्धि त्वं गृहे गृह इत्यथैनं द्रोणकलशमभ्यवनिनायोच्छिष्टं चम्वोर्भरे-त्येतयर्चाऽथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः स स्वाहाकाराभि-( १ ) शुनःशेपमाजीगर्त्ति वरुणोऽगृह्णात, स एतां वारुणीमपश्यत्, तया वै स आत्मानं वरुण-पाशादमुञ्चद् ’ - इति तै ० सं ० ५.२.२.३ । ' शौन: शेपमाख्यापयते, वरुणपाशादेवैनं मुञ्चति ’ - इति तै ० ब्रा ० १.७.१०.६ । ( २ ) रामायणेऽपि ( १.६१-६२ सर्गयोः ) इदमेवाख्यानं बहु व्यतिक्रम्य आख्यातम् । महा-भारतेऽपि १३.३.६-८; हरिवंशेऽपि २७.५७-६०, भागवतेऽप्यस्त्येतदुपाख्यानम् ( ९. ८, १६ अध्याययोः वर्जितम् ) ।
पृष्ठ 515
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३६ ९ र्जुहवांचकाराथैनमवभृथमभ्यवनिनाय, ' त्वं नो अग्ने वरुणस्य विद्वानि-त्येताभ्यामथैनमत ऊर्ध्वमग्निमाहवनीयमुपस्थापयांचकार', ' शुन-श्चिच्छेपं निदितं सहस्रादिति ॥ १ ॥
हिन्दी – ( बन्धन से मुक्त हुए शुनःशेप के बाद वाले वृत्तान्त को दिखला रहे हैं— ) तम् ऋत्विजः ऊचुः उस ( शुनःशेप ) से ऋत्विजों ने कहा - त्वमेव तुम ही नः अस्य अह्नः हमारे इस ( अभिषेचनीय नामक ) अह्न की संस्थाम् अधिगच्छ संस्था ( समाप्ति ) को प्राप्त करो ( अर्थात् अनुष्ठान का सम्पादन करो ) । अथ इसके बाद शुनः-शेपः शुनःशेप ने एतम् अञ्चः सवम् इस ( अभिषेचनीय याग के ) अञ्चः सवन ( सरल मार्ग से सोमरस सवन की विधि ) का ददर्श दर्शन किया । तम् उस ( सोम ) को ' यच्चिद्धि त्वं गृहे गृहे ' ( अर्थात्ं हे ऊखल! यद्यपि प्रत्येक घर में तुम्हारा प्रयोग किया जाता है ) । एताभिः चतसृभिः इस चार ( ऋचाओं ) से अभिसुषाव सोम का सवन किया । अथ इसके बाद एनम् इस ( अभिषुत सोम ) को ' उच्छिटं चम्वोर्भर ' इत्येतया ऋचा इस ऋचा से द्रोण-कलशम् अभ्यवनिनाय द्रोण - कलश में अभिलक्षित करके प्रक्षेप कर दिया । अथ इसके बाद अस्मिन् अन्वारब्धे इस ( हरिश्चन्द्र ) के अन्वारब्ध ( हरिश्चन्द्र के शरीर का अपने शरीर से स्पर्श ) करने पर सः उस ( शुनःशेप ) ने पूर्वाभिश्चतसृभिः स्वाहाकाराभिः स्वाहाकार के साथ पूर्वोक्त ( सूक्त ) के चार ( ' यत्र गाव ' इत्यदि ऋचाओं ) से नुहवांश्चकार सोम का होम किया । अथ इस होम के बाद ' त्वं नो अग्ने वरुणस्य विद्वान् ' इत्येताभ्याम् इन दो ( ऋचाओं ) से अवभृथम् अभ्यनिनाय अवभृथ ( यज्ञ के समापन ) को किया । अथ अतः ऊर्ध्वम् इसके बाद आहवनीयम् अग्निम् आहवनीय अग्नि को ' शुनश्चिच्छेपं सहस्रात् ' इति इस ( ऋचा ) से उपस्थापयांचकार ( हरिश्चन्द्र को ) उपस्थापन के निमित्त प्रेरित किया ॥ सा ० भा ० – देवतानुग्रहयुक्तं ' तं ' शुनःशेपं विश्वामित्रादयः सर्वे ‘ ऋत्विजः ’ एव-मुचुः - हे शुनःशेप, त्वमेव ' न ' अस्माकम् ' अस्याह्न ' अभिषेचनीयाख्यस्य ‘ संस्थां ' स-माप्तिम् अधिगच्छ ' प्राप्नुहि, अनुष्ठापयेत्यर्थः । तैरेवमुक्ते सत्यनन्तरं शुनःशेप ‘ एतम् ’ अभिषेचनीयाख्यं सोमयागम् ‘ अञ्ज: सवनं ' ददर्श । ' अञ्जसा ' ऋचुमार्गेण ' सवः ' सोमा-भिषवो यस्मिन् यागे सोऽजःसवः, तादृशं प्रयोगप्रकारं निश्चितवान् । निश्चित्य च ‘ तं ’ सोमं ‘ यच्चिद्धि ' इत्यादिभिश्चतसृभिर्ऋग्भिः ' अभिषुतं कृतवान् । अथ ‘ एनम् ' अभिषुतं सोमम् ‘ एतया ' ‘ उच्छिष्टं चम्वोः ’ इत्यृचा ' द्रोणकलशमभिलक्ष्य ' अवनिनाय ' द्रोणकलशे प्रक्षिप्त-वान् । ‘ अथ ' अनन्तरम् ‘ अस्मिन् ' हरिश्चन्द्रे ' अन्वारब्धे ' शुनःशेपदेहमुपस्पृष्टवति, सत्यु-क्ताभ्य ऋग्भ्यः ‘ पूर्वाभिः ’ ' यत्र ग्रावेत्यादिभिश्चतसृभिर्ऋग्भिः स्वाहाकारसहिताभिः सोमं ( १ ) ऋ ० १.२८.५-८ ( २ ) ऋ ० १.२८.९ ( ३ ) ऋ ० १.२८.१-४
पृष्ठ 516
पाठ पढ़ें पाठ छिपाएँ
१३७०: ऐतरेयब्राह्मणम् [ ३३.५ सप्तमपञ्चिकायां जुहवांचकार । यत्र ग्रावेत्यादिकं सूक्तं नवर्च; तत्र यच्चिद्धीति पञ्चमी, तामारभ्य चतसृ-भिर्ऋग्भिरभिषवः । उच्छिष्टमित्यादिका नवमी, तया द्रोणकलशे प्रक्षेपः । यत्र प्रावेत्यादि-भिश्चतसृभिहोमः, इत्येवं कृत्स्नस्य सूक्तस्य विनियोगः । ' अथ ' होमानन्तरमेव कर्तव्य-मवभृथमभिलक्ष्य ‘ अवनिनाय ' सर्वमवभृथसाधनं तद्देशे नीत्वा ' त्वं नो अग्ने ', इत्यादिका-भ्याम् ' ऋग्भ्यामवभृथयागं कृतवान् । ‘ अथ ' तथा कृत्वा, तत ऊर्ध्वम् ' एनम् ' आहवनीय-मग्निं ‘ शुनश्चित् ’ इत्यादिना ' उपस्थापयांचकार ' हरिश्चन्द्रमुपस्थाने प्रेरयामास । सोऽयमञ्जः-सव:, इष्टिपशुसांकर्यमन्तरेण ‘ अञ्जसा ' ऋजुमार्गेणानुष्ठितत्वात् ॥ विश्वामित्राजीगर्तयोः कञ्चित्संवादं दर्शयति— ( विश्वामित्राजीगर्तयोः संवादकथनम् ) अथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससादः स होवाचाजीगर्तः सौयवसिर्ऋषे पुनर्मे पुत्रं देहीति; नेति होवाच विश्वामित्रो, देवा वा इमं मह्यमरासतेति, स ह देवरातो वैश्वामित्र आस, तस्यैते कापिलेय बाभ्रवाः ॥२ ॥
हिन्दी— ( अब विश्वामित्र और अजीगर्त के कुछ संवाद के दिखला रहे हैं - ) अथ ह इसके बाद शुनःशेपः शुनःशेप विश्वामित्रस्य अङ्कम् आससाद विश्वामित्र की गोद में बैठ गया । सः सौयवसि अजीगर्तः तब उस सुयवस के पुत्र अजीगर्त ने उवाच ( विश्वामित्र से ) कहा — ऋषे हे महर्षि ( विश्वामित्र )! पुनर्मे पुत्रं देहि मेरे पुत्र को पुनः मुझे दे दो । विश्वामित्रः उवाच विश्वामित्र ने ( अजीगर्त से ) कहा — न इति ( अब ) नहीं ( दूँगा ); क्योंकि देवाः वै देवताओं ने इमम् इस ( शुनःशेप ) को मह्यम् मेरे लिए अरासत प्रदान किया है । सः ह वह ( शुनःशेप ) निश्चित ही देवरातः ( देवताओं द्वारा दिये जाने के कारण ) देवरात नामक वैश्वामित्रः आस विश्वामित्र का पुत्र हुआ । तस्य उस ( देवरात ) के एते कापिलेयः बाभ्रवाः ये कपिल के गोत्र वाले और बभ्रु के गोत्र वाले ( बन्धु हुए ) ॥ सा ० भा०– ' अथ ' अभिषेचनीयसमाप्तेरनन्तरं हरिश्चन्द्रसहितेष्वृत्विक्षु विस्मि-तेषु, स शुनःशेष इत ऊर्ध्वं कस्य पुत्रोऽस्त्विति विचारे सति तदीयेच्छैव नियामिकेति. महर्षीणां वचनं श्रुत्वा शुनःशेपः स्वेच्छया विश्वामित्रपुत्रत्वमङ्गीकृत्य सहसा तदीयमङ्क-मासाद । पुत्रो हि सर्वत्र पितुरङ्के निषीदति । तदानीं सूयवसपुत्रोऽजीगर्तो विश्वामित्रं प्रत्येव-मुवाच । हे महर्षे, मदीयपुत्रमेनं पुनरपि मह्यं देहीति स विश्वामित्रो नेति निराकृत्यैवमुवाच । प्रजापत्यादयो ‘ देवाः ’ एव ‘ इमं ’ शुनःशेपं मह्यम् ' अरासत ' दत्तवन्तः, तस्मात् तुभ्यं न दास्यामीति । ‘ सः ’ च शुनःशेपो देवैर्दत्तत्वाद् ' देवरातः ' —इतिनामधारी विश्वामित्र-( १ ) ऋ ० ४.१.४-५
पृष्ठ 517
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३७१ पुत्र एवाऽऽस । ‘ तस्य ' च देवरातस्य ' एते ' कपिलगोत्रोत्पन्नाः बभ्रुगोत्रोत्पन्नाश्च बन्ध-वोऽभवन् ॥ अथ शुनःशेपाजीगर्तयोः संवादं दर्शयति— ( शुनःशेपाजीगर्तयो संवादकथनम् ) स होवाचाजीगर्तः सौयवसिस्त्वं वेहि विह्वयावहा स होवाचाजीगर्तः
सौयवसि: -आङ्गिरसो जन्मनाऽस्याजीगर्तिः श्रुतः कविः ।
ऋषे पैतामहात्तन्तोर्माऽपगाः पुनरेहि मामिति ॥
स होवाच शुनःशेप: -अदर्शस्त्वा शासहस्तं न यच्छूद्रेष्वलप्सत ।
गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिरः ॥३ ॥
हिन्दी – ( अब अजीगर्त और शुनःशेप के संवाद को दिखला रहे हैं— ) सः सौयवसि अजीगर्तः ह उवाच इस सुयवस के पुत्र अजीगर्त ने ( शुनःशेप से ) कहा— त्वं वा एहि तुम ( विश्वामित्र की गोद में मेरे समीप ) आओ । विह्वयामहै हम ( मैं और तुम्हारी माता ) दोनों ( तुमको ) विशेष प्रकार से बुला रहे हैं । सः सौयवसि अजीगर्तः ह उवाच उस सुयवस के पुत्र अजीगर्त ने ( पुनः ) कहा-हे पुत्र! जन्मना आङ्गिरसः तुम जन्म से अङ्गिरस गोत्र में उत्पन्न, आजिगर्तिः अजीगर्त के पुत्र और श्रुतः कविः प्रसिद्ध क्रान्तद्रष्टा ऋषि असि हो । ऋषे हे ऋषि ( शुनःशेप )! पैतामहात् तन्तोः मां अपगाः पिता - पितामह की सन्तति का परित्याग मम करो । मां पुनः एहि मेरे समीप पुनः आ जाओ ॥ सः शुनःशेपः ह उवाच उस शुनःशेप ने ( पिता अजीगर्त से ) कहा— हे तात! शाहस्तं त्वा अदर्शः ( मेरे वध के लिए ) तलवार हाथ में लिए हुए तुमको सभी लोगों ने देखा है यत् शूद्रेषु न अलप्सत जिसको कोई नीच व्यक्ति भी नहीं लेता है । अङ्गिरः हे अङ्गिरागोत्रीय ( पिता )! त्वम् तुमने तो मत् मेरे बदले गवां त्रीणि शतानि अवृणीथा तीन सौ गायों का वरण किया था ( जो तुम्हें प्राप्त हो गयी हैं ) । सा ० भा ० — विश्वामित्रेण निराकृतः सोऽजीगर्तः शुनःशेपं प्रत्येवमुवाच — हे पुत्र ‘ त्वं वा ' त्वमेव विश्वामित्रादपगतः सन् ' एहि ' अस्मद् ' गृहे गच्छ । त्वदीयमाता चाहं चोभावावां ‘ विह्वयावहैं ' विशेषेण तथाऽऽह्वानं करवावहै । इत्युक्त्वा तूष्णीमवस्थितं तं शुनःशेपं प्रति पुनरपि कयाचिद् गाथयैवमुवाच - हे शुनःशेप ' त्वं ’ जन्मना ‘ आङ्गिरसः ’ अङ्गिरोगोत्रोत्पन्नः ‘ आजीगर्तिः ' अजीगर्तस्य पुत्रः, ' कविः ' विद्वान्, ‘ श्रुतः ' इत्येवं सर्वत्र
पृष्ठ 518
पाठ पढ़ें पाठ छिपाएँ
१३७२: ऐतरेयब्राह्मणम् [ ३३.५ सप्तमपञ्चिकायां प्रसिद्धः । अतो ‘ ऋषे ’ हि महर्षे शुनःशेप ' पैतामहात् ' पितामहेन प्रजापतिना सम्पादितात् ‘ तन्तोः ’ संतानादङ्गिरोवंशान् ' माऽपगाः ' अपगतो मा भव । तस्मात्पुनरपि ' मामेहि ' मद्गृहे समागच्छेत्युक्तः शुनःशेपः स्वयमपि गाथया प्रत्युत्तरं ददौ । शासो विशसनहेतुः खङ्गः । हेऽजीगर्तं मद्वधाय ‘ शासहस्तं ' खङ्गहस्तं त्वां सर्वेऽपि ' अदर्शः ” दृष्टवन्तः । ' यत् ' क्रूरं कर्म शूद्रेष्वत्यन्तनीचेष्वपि ‘ नालप्सत ' न लब्धवन्तो लौकिका जनाः तादृशं क्रौर्यं त्वया कृतम् । हे ‘ अङ्गिरः ’ आङ्गिरसगोत्रोत्पन्नाजीगर्तं ' मत् ' मां निमित्तीकृत्य त्वं शतानि त्रीणि
‘ अवृणीथाः ’ वृतवानसि । तदिदमत्यन्तकष्टम् ' इति ' उक्तवान् ॥
पुनरप्यजीगर्तंशुनःशेपयोरुक्तिप्रत्युक्तीर्दर्शयति— स होवाचाजीगर्तः सौयवसिः-तद्वै मातात तपति, पापं कर्म मया कृतम् तदहं निनुवे तुभ्यं प्रतियन्तु शता गवामिति स होवाच शुनःशेप: -यः सकृत्पापकं कुर्यात् कुर्यादनत्तत्तोऽपरम् नापागाः शौद्राज्ञ्यायादसंधेयं त्वया कृतमिति ॥॥ ॥४ ॥
हिन्दी – ( पुनः अजीगर्त और शुनःशेप के कथनोपकथन को दिखला रहे हैं - ) सः सौयवसि अजीगर्तः ह उवाच उस सुयस के पुत्र अजीगर्त ने पुनः कहा— तमत हे पितृतुल्य लालन - पालन करने योग्य ( शुनःशेप )! पापं कर्म मया कृतम् मेरे द्वारा पापकर्म किया गया है तद् वै मा तपति वह ( पापकर्म ) मुझे सन्तप्त कर रहा है । तदहं निनुवे उस ( पाप ) का निवारण कर रहा हूँ । तुभ्यं शता गवां प्रतियन्तु ( जो मैंने तीन सौ गाएँ लिया है उनमें से ) सौ गायें तुम्हारे लिए प्राप्त होवे ॥ सः शुनःशेपः उवाचः उस शुनःशेप ने ( अपने पिता से ) कहा— यः सकृत् पापकं कुर्यात् जो एक बार पाप करता है ततोऽपरम् एनत् कुर्यात् उससे बाद में भी अन्य पाप करता है । शौद्राद् न्यायाद् न अपागाः नीच जाति से सम्बन्धित क्रूरकर्म से तुम निवृत्त नहीं हो सकते; क्योंकि त्वया असन्धेयं कृतम् तुम्हारे द्वारा ( लोभ के कारण ) असमाधेय ( यह कर्म ) किया गया है । सा ० भा०- - शुनःशेपेनोपालब्धोऽजीगर्तः स्वकीयमनुतापं दर्शयितुं काञ्चिद्-गाथामेवमुवाच — हे तात पितृवदुपलालनीय शुनःशेप ' मया यत्पापं कृतं ' ‘ तद्वै मा तपति ' तदेव मां मनसि संतप्तं करोति I । ' अहं ' तत्पापं ‘ ' निहनुवे ' परिहरामि । गवां शतानि पूर्वं मया ( १ ) ' अद्राक्षुः ' इति वा पाठः शाङ्खयनश्रौतसूत्रे । ( २ ) शाङ्खा ० श्री ० सू ० ' अलिप्सत ' इति वा पाठः ।
पृष्ठ 519
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः पञ्चमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम् ः १३७३ गृहीतानि त्रीणि यानि तानि तुभ्यं त्वदर्थं ' प्रतियन्तु ' प्रत्येकमेव प्राप्नुवन्तु ' । इतरयोः पुत्रयोर्गावो मा भूवंस्तवैव सर्वाः सन्त्विति । ततः स शुनःशेपो गाथया प्रत्युत्तरं ददौ । ‘ यः ’ पुमान् धर्मशास्त्रभीतिरहितः ‘ सकृत्पापकं कुर्यात् ' स पुमांस्ततः पापादन्यद् ‘ एनत् ’ पापं तदभ्यासवशात् कुर्यादेव । त्वं तु ' शौद्रान्यायात् ' नीचजातिसम्बन्धिनः क्रूरादाचरणात् ‘ नापागाः ’ अपगतो न भवसि । ' असंधेयं ' प्रतिसंधानरहितं पापं त्वया कृतमित्येषा शुनः-शेपस्य प्रत्युक्तिः ॥ अथ विश्वामित्रकृत्यं दर्शयति— असंधेयमिति ह विश्वामित्र उपपपादः स होवाच विश्वामित्र: -भीम एव सौयवसिः शातेन विशिशासिषुः । अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रतामिति ॥५ ॥
हिन्दी – ( अब विश्वामित्र पाप की असमाधेयता को कह रहे हैं - ) असन्धेयम् इति असमाधेय ( पाप ) है - यह विश्वामित्र उपपपाद विश्वामित्र ने उपपत्ति दिया । सः विश्वा-मित्रः उवाच उस विश्वामित्र ने कहा- शासेन विशिशासिषुः अस्थात् खड्ग के साथ मारने की इच्छा करने वाला उद्यत सौयवसिः सुयवस का पुत्र ( अजीगर्त ) भीमः एव महान् भयङ्कर लगता था ( अत: हे शुनःशेप! ) एतस्य पुत्रः पुनः मा भूः इस ( अजीगर्त ) का पुत्र मत होवो, किन्तु ममैव पुत्रतां उपेहि मेरी ही पुत्रता को प्राप्त करो ( अर्थात् मेरे ही पुत्र बनो ) | सा ० भा०- - ' असंधेयम् ' प्रतिसमाधेयं पापमिति शुनःशेपेन यदीरितं तदेतदप्रति-समाधेयत्वं विश्वामित्र ‘ उपपपाद ' युक्तिभिरुपपादितवान् । तदुपपादनार्थमेव विश्वामित्र इमां गाथामुवाच — सूयवसस्य पुत्रोऽजीगत भीम एव भयहेतुरेव सञ्शासेन हस्तगतखड्गेन स विशिशासिषुरस्थाद् विशसनकर्तुमिच्छुरवस्थितवान् । अतो हे शुनःशेपैतस्य पापिष्ठस्य पुत्रो मा भूः किंतु ममैव पुत्रतामुपेहि ॥ अथ शुनःशेपविश्वामित्रयोरुक्तिप्रत्युक्ती दर्शयति— ( शुनःशेपविश्वामित्रयोः कथनोपकथनम् )
स होवाच शुनःशेप: -स वै यथा नो ज्ञपयाऽऽराजपुत्र तथा वद ।
यथैवाऽऽङ्गिरसः सन्नपेयां तव पुत्रतामिति ॥
( १ ) ‘ शिष्टस्मरणमस्ति — ' पापं कृत्वाभिसंतप्य तस्मात् पापात् प्रमुच्यते ' इति 1 । तत्ते वदामि हे तात दुश्चरितमं मां तपति यत्पापं कर्म मया कृतं तदहं निहनुवे तुभ्यम्, तुभ्यं क्षमा-पयामि । प्रतियन्तु गवां त्रीणि शतानि ' । इति शाङ्खायनश्रौत्रसूत्रे आनर्तीयभाष्यः ।
पृष्ठ 520
पाठ पढ़ें पाठ छिपाएँ
१३७४: ऐतरेयब्राह्मणम् [ ३३.५ सप्तमपञ्चिकायां
स होवाच विश्वामित्रः-ज्येष्ठो मे त्वं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यात् ।
उपेया दैवं मे दायं तेन वै त्वोपमन्त्रये; इति ॥ ६ ॥
हिन्दी— ( शुनःशेप और विश्वामित्र के कथनोपकथन को कह रहे हैं— ) सः शुनःशेपः उवाच उस शुनःशेप ने कहा- राजपुत्र हे राजपुत्र ( विश्वामित्र )! सः वै ( क्षत्रिय जातीय ) वह तुम यथा नः ज्ञपय जिस प्रकार हमारे द्वारा ( ब्रह्मर्षि के रूप में ) जाने जाते हो तथा वद ( उस विषय में ) उसी प्रकार कहो कि यथैव जिस प्रकार आङ्गिरसः सन् अङ्गिरा गोत्रोत्पन्न मैं तव पुत्रताम् उपेयाम् तुम्हारे पुत्रत्व को प्राप्त करें ॥ सः विश्वामित्रः उवाच उस विश्वामित्र ने कहा— ( हे शुनःशेप! ) मे पुत्राणां मेरे पुत्रों में त्वं ज्येष्ठः स्यात् तुम ज्येष्ठ होवो । तव प्रजाः तुम्हारी ( पुत्ररूपी ) प्रजाएँ श्रेष्ठाः स्यात् श्रेष्ठ होवें । मे दैवं दायम् उपेया मुझ ( विश्वामित्र ) के लिए देवताओं द्वारा दिये गये उत्तराधिकार को प्राप्त करो । तेन उसी से त्वा उपमन्त्रये तुमको ( पुत्र रूप से ) आमन्त्रित कर रहा हूँ । सा ० भा ० — विश्वामित्रेणैवं बोधितः शुनःशेपः पुनरपि गाथया विश्वामित्रं प्रत्येव-मुवाच अयं विश्वामित्रो जन्मना क्षत्त्रियः सन् स्वकीयेन तपोमहिम्ना ब्राह्मण्यं प्राप्तवानि-त्येवं तद्वृत्तान्तं सूचयितुं हे राजपुत्रेति सम्बोधितवान् । ' स वै ' तथाविधो राजजातीये एव सन् ‘ यथा ' येन प्रकारेण ‘ नः ' अस्माभिः सर्वैरा समन्ताज्ज्ञपय ब्राह्मणत्वेन ज्ञायते तथै-वास्मद्विषयेऽपि त्वं वद । कथं वदितव्यमिति? तदुच्यते - अहमिदानीमङ्गिरोगोत्र: संस्त-त्परित्यागेन तव पुत्रत्वं येनैव प्रकारेणोपेयां तथैवानुगृहाणेति शेषः । एतद्वाक्याभिप्रायः पूर्वैः सङ्क्षिप्य दर्शितः-" पुराऽऽत्मानं नृपं विप्रं तपसा कृतवानसि । एवमाङ्गिरसं मा त्वं वैश्वामित्रमृषे कुरु ” ॥ इति । ततो विश्वामित्रो गाथया प्रत्युत्तरमुक्तवान् । हे शुनःशेप त्वं मे पुत्राणां मध्ये ज्येष्ठः स्यात् ज्येष्ठो भव । तव पुत्रादिरूपा प्रजाऽपीतरस्याः श्रेष्ठा स्यात् । ' मे ' मह्यं विश्वामित्राय ‘ दैवं ’ देवैः प्रसन्नैर्दत्तं ‘ दायं ’ पुत्रत्वरूपं लाभम् ' उपेयाः ' प्राप्नुहि । तेन वै तेनैव प्रकारेण ‘ त्वोपमन्त्रये ’ त्वां पुत्रत्वेन व्यवहरामि ॥ पुनरपि शुनःशेपविश्वामित्रयोर्वृत्तान्तं दर्शयति—
स होवाच शुनःशेप: -संज्ञानानेषु वै ब्रूयात् सौहार्द्याय मे श्रियै ।
यथाऽहं भरतऋषभोपेयां तव पुत्रतामिति ॥