ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 51–60
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 51–60
पृष्ठ 51
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ० ९ एकस्तृचस्त्रिभिः पर्यायैरावर्तनीयः; तत्र प्रथमायास्त्रिः पाठः; द्वितीयायाः पञ्चकृत्वः पाठः, तृतीयस्याः सकृदेव पाठः । द्वितीयपर्याये प्रथमायाः सकृत्पाठः, द्वितीयस्यास्त्रिः पाठः, तृतीयस्याः पञ्चकृत्वः पाठः । तृतीयपर्याये प्रथमायाः पञ्चकृत्वः पाठः, द्वितीयस्याः सकृत्पाठः, तृतीयस्यास्त्रिः पाठः । एवमावृत्ताभिः सप्तविंशतिसंख्याकाभिर्ऋग्भिस्त्रिणवः स्तोमो भवति । अन्यत् पूर्ववद् व्याख्येयम् ॥ पञ्चमस्याह्नो मन्त्रलिङ्गानि दर्शयति-( पञ्चमस्याह्नो मन्त्रलिङ्गानि ) यद्वै नेति न प्रेति यत्स्थितं तत्पञ्चमस्याह्नो रूपम् ॥ २ ॥
हिन्दी — ( पञ्चम दिन के मन्त्र के चिह्नों को बतला रहे हैं - ) यद् वै जो एति प्रेति आङ् यह ( उपसर्ग ) तथा प्र यह ( उपसर्ग ) चतुर्थ दिन के मन्त्रों के चिह्न के रूप में कहा गया है ( वह ) न ( पञ्चम दिन का सूचक नहीं है प्रत्युत ) यत् स्थितम् जो ( मन्त्र ) स्था ( धातु ) के रूप से युक्त है तत् पञ्चमस्याह्नो रूपम् वह पञ्चम दिन का उपलक्षक है । सा ० भा०- - आकारः प्रशब्दश्च नात्र लिङ्गमिति नकारद्वयेन प्रतिषिध्यते । यत्तु ' स्थितं ' तिष्ठतिधात्वर्थरूपमप्रचलितं तत्पञ्चमस्याह्नो निरूपकम् ॥ द्वितीयेऽहन्युक्तं लिङ्गजातं पञ्चमेऽहन्यतिदिशति— यद्धेव द्वितीयमहस्तदेतत् पुनर्यत्पञ्चमम् ॥ ३ ॥
हिन्दी - यद् हि एव जो यह द्वितीयम् अहः द्वितीय दिन है तद् एतत् वही यह पञ्चमम् पञ्चम दिन है ( अर्थात् जो प्रथम त्र्यह के द्वितीय दिन का निर्वाहक है वहीं इस द्वितीय त्र्यह के द्वितीय दिन = पञ्चम दिन का निर्वाहक है ) । सा ० भा ० – नवरात्रापेक्षया यत्पञ्चममहर्विद्यते, तत्पृथङ् न भवति । किन्तु यदेव द्वितीयमहस्तदेव पञ्चमत्वेन पुनः क्रियते; तत्रत्यं लिङ्गजातमन्त्रानुसंधेयमित्यर्थः ॥ तानि लिङ्गानि दर्शयति— यदूर्ध्ववद्यत् प्रतिवद्यदन्तर्वद् यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितम् ॥४ ॥
हिन्दी - ( उन चिह्नों को दिखला रहे हैं - ) यत् जो ऊर्ध्ववत् ऊर्ध्व ( शब्द ) से युक्त, यत् प्रतिवत् जो प्रति ( शब्द ) से युक्त, यद् अन्तवत् जो अन्त ( शब्द ) से युक्त यद् वृषण्वत् जो वृषण् ( शब्द ) से युक्त और यत् वृधन्वत् जो वृधन् ( शब्द ) से युक्त मन्त्र है तथा यत् मध्यमे पदे जिसके मध्यम पाद में देवता निरुच्यते देवता को कहा गया है और यद् अन्तरिक्षम् अभ्युदितम् जिसमें अन्तरिक्ष की ओर सङ्केत हो ( ये पञ्चम दिन के मन्त्रों के चिह्न हैं ) ॥
पृष्ठ 52
पाठ पढ़ें पाठ छिपाएँ
९ १०: ऐतरेयब्राह्मणम् [ २२.१ पञ्चमपञ्चिकायां सा ० भा ० - – पूर्ववद्व्याख्येयम् ॥ अथ विशेषलिङ्गानि दर्शयति— यदुग्धवद् यदूधवद्यद्धेनुमद्यत्पृश्निमद्यन्मद्वद्यत्पशुरूपं यदध्यासवद् विक्षुद्रा इव हि पशवो, यज्जागतं जागता हि पशवो, यद्बार्हतं बार्हता हि पशवो, यत्पाङ्क्तं पाङ्क्ता हि पशवो, यद्वामं वामं हि पशवो, यद्धविष्मद्धविर्हि पशवो, यद्वपुष्मद्वपुर्हि पशवो, यच्छाक्वरं यत्पाङ्क्तं यत्कुर्वद्, यद्वितीयस्याह्नो रूपमेतानि वै पञ्चमस्याह्नो रूपाणि ॥५ ॥
हिन्दी— ( अब विशेष चिह्नों को दिखला रहे हैं - ) यद् दुग्धवत् जो ( मन्त्र ) दुग्ध ( शब्द ) से युक्त हो, यद् ऊधवत् जो ऊध ( शब्द ) से युक्त हो, यद् धेनुवत् जो धेनु ( शब्द ) से युक्त हो, यत् पृश्निवत् जो पृश्नि ( शब्द ) से युक्त हो, यद् मद्वत् जो मत् शब्द से युक्त हो, यत् पशुरूपम् जो पशु का निरूपक हो, यद् अध्यासवत् जो अध्यास ( अधिक पाद से प्रक्षेप ) वाली हो, हि पशवः विक्षुद्रा इव क्योंकि पशु ( परस्पर ) विक्षुद्र के समान ( छोटे - बड़े ) होते हैं, यद् जागतम् जो जगती छन्द वाला हो, जागता हि पशवः क्योंकि पशु जगती से सम्बन्धित होते हैं, यद् बार्हतम् जो बृहती ( छन्द ) वाला हो; क्योंकि बार्हता हि पशवः क्योंकि ( चलने - फिरने के कारण ) बृहती से सम्बद्ध होते हैं, यत्पाङ्कम् जो पङ्कि ( छन्द ) वाला हो, पाङ्क्ता हि पशवः क्योंकि पशु ( चार पैर और मुख होने से पति ) से ' सम्बन्धित होते हैं, यद् वामम् जो रमणीय हो, वामं हि पशवः क्योंकि पशु भी रमणीय होते हैं, यद् हविष्मत् जो हविः ( संज्ञा ) से युक्त हो, हविर्हि पशवः क्योंकि पशु ( पशुयाग के ) हवि होते हैं, यत् वपुष्मत् जो वपु संज्ञा वाला हो वपुर्हि पशवः क्योंकि पशु ( हृष्टपुष्ट ) वपु ( शरीर ) वाले होते हैं, यत् शाक्वरम् जो शाक्वर ( साम ) से सम्बन्धित हो, यत् पातम् जो पङ्क्ति छन्द वाला हो, यत् कुर्वत् जो वर्तमानकालिक क्रिया वाला हो, यद् द्वितीयस्याह्नो रूपम् जो द्वितीय दिन का निरूपक हो, एतानि वै ये ही पञ्चमस्याह्नो रूपाणि पञ्चम दिन के निरूपक हैं ॥ सा ० भा ० – दुग्धोधधेनुपृश्निमच्छब्दैरुपेतं यद्यदस्ति, तत्सर्वं लिङ्गम् । तथाविधं च पशुरूपं यदस्ति, तदपि लिङ्गम् । पशुरूपस्य बहुविधत्वमेव यदध्यासवदित्यादिना प्रपञ्चते । अधिकपादस्य प्रक्षेपः ‘ अध्यासः ' । प्रकृतौ यावदस्ति, तावतोऽप्यधिकपादोपेतम् ' अध्यासवत् ' । पशूनामपि चतुर्भ्यः पादेभ्योऽधिकं मुखमेकं परिगण्यते । अतोऽध्यासवत् पशुरूपं भवति । तदेव ‘ विक्षुद्रा ' इव ' इत्यनेन स्पष्टीक्रियते । विविधाः शुद्राः ' विक्षुद्राः ' । एकस्मादन्यो न्यूनः तस्मादप्यन्यो न्यूनः, गजापेक्षयाऽश्वः क्षुद्रः तदपेक्षया महिषः क्षुद्रः, ततो गौः, ततोऽजेत्येवं पशुषु क्षुद्रत्वं द्रष्टव्यम् । ‘ जागत ’ जगतीसम्बद्धं यदस्ति, तदपि पशुरूपम्; सोमाहरणप्रसङ्गे जगत्याः पशूनामानीतत्वाज्जागतत्वम् । तथा ' बार्हतं ' बृहतीसंबद्धं पशुरूपम् । पशुविषये
पृष्ठ 53
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: ९ ११ छन्दसामाजिधावने बृहत्या विजयेन पशूनां बार्हतत्वम् । पङ्क्तिच्छन्दः संबद्धमपि पशुरूपम्, पङ्क्तिमुखेन पञ्चावयवैरुपेताः पशवः पाङ्क्ताः । यत् ' वामं ' रमणीयं सूक्तं स्वरवर्णादिभिः श्राव्यं भवति, तदपि पशुरूपम्; लोकेऽपि गवाश्वादिपशव इति यदस्ति; तद् ' वामं ' रमणीयं दृश्यते । ‘ हविष्मत् ’ हविः संज्ञोपेतं यदस्ति, तदपि पशुस्वरूपम्; पशवो हि देवतासम्बद्ध-हविः स्वरूपेण हूयन्ते । ' ‘ वपुष्मद् ' वपुःसंज्ञोपेतं यदस्ति, तदपि पशुस्वरूप, पशवो हि वपुःपुष्टाङ्गभूता दृश्यन्ते । ' विदा मघवन् ' - इत्यादिषु महानाम्नीषूत्पन्नं ' शाक्कर ' सामर, तत्संबद्धमेकं लिङ्गम् । पाङ्क्तमिति यत्पुनर्वचनं, तत्पञ्चसंख्यायुक्तं; पूर्वत्र पङ्क्तिच्छन्दः संबद्धमिति विशेषः । ‘ कुर्वत् ' - इति वर्तमानार्थवाचिप्रत्ययोपेतं धातुमात्रं विवक्षितम् । एतच्च द्वितीयस्याह्नो रूपमिति पूर्वमुक्तम् । एवं च सति यानि द्वितीयेऽहन्युक्तानि लिङ्गानि, यानि चात्र नूतनानि एतानि सर्वाण्यपि पञ्चमस्याह्नो निरूपकाणि द्रष्टव्यानि ॥ आज्यशस्त्रं विधत्ते— ( पञ्चमस्याह्नो आज्यशस्त्रविधानम् ) इममू षु वो अतिथिमुषर्बुधमिति ' पञ्चमस्याह्न आज्यं भवति; जाग-तमध्यासवत् पशुरूपं, पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् ॥६ ॥
हिन्दी – ( अब पञ्चम दिन के आज्यशस्त्र का विधान कर रहे हैं - ) ' इममू षु वो अतिथिमुषर्बुधम् ' इति पञ्चमस्याह्नः आज्यं भवति ये ( जगती छन्द वाली आदि की नौ ऋचाएँ ) पञ्चम दिन की आज्य ( शस्त्र ) होती हैं, जो जागतम् जगती छन्द वाली, अध्यासवत् ( अधिक पादों से युक्त होने के कारण ) वृद्धि - युक्त, पशुरूपम् ( चार पैर और मुख की अधिकता से ) पशु का निरूपक हैं, पञ्चमेऽहनि पञ्चम दिन में ( प्रयुक्त होने से ) पञ्चमस्याह्नो रूपम् पञ्चम दिन के निर्वाहक हैं ॥ सा ० भा ०. - – ' इममू षु ' इत्यादिसूक्ते ' जगतीछन्दोयुक्ता आद्या नवर्चः शंसनीयाः ।४ तत्र तृतीयस्यामृचि जगतीछन्दस्केभ्यश्चतुर्थपादेभ्योऽधिकः पादो ‘ भरद्वाजाय सप्रथः ’ इत्येष समाम्नायते I । अतोऽधिकपादयुक्तत्वात् इदमध्यासवल्लिङ्गम् । तत्र पशुस्वरूपम्; पशोरपि ( १ ) तथा चोक्तं महाभारते— ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् । एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ ( अनु ० पर्व, ८६ अध्याये ) ( २ ) सामसंहितासु महानाम्नीसाम पृथगेव ग्रन्थः, तच्चारण्यकाध्ययनान्तेऽध्यापयन्ति । ( ३ ) ऋ ० ६.१५ । ( ४ ) ‘ इममू षु व इत्येकोनविंशऋचं सूक्तं । तत्रादितो नवर्च एवात्र शंसनीया भवन्ति, ' इममू षु वो अतिथिमुषर्बुधमिति नवाज्यम् ' – इति कल्पोक्तेः ७.१२ । ( ५ ) ‘ अविता सप्त शक्वरं महापङ्क्त्यन्तमिति ' – सर्वानुक्रमण्यापाङ्क्तमित्यन्वयमात्रम् । ‘ महापङ्क्तेश्चाणि पूर्वपदलोपः ’ - इति षड्गुरुशिष्यः ।
पृष्ठ 54
पाठ पढ़ें पाठ छिपाएँ
९ १२: ऐतरेयब्राह्मणम् [ २२.१ पञ्चमपञ्चिकायां पादचतुष्टयादधिकस्य मुखस्य विद्यमानत्वात् । तदेतल्लिङ्गयुक्तं पञ्चमेऽहनि विनियोक्तुं युक्तं योग्यम्; तस्मादेतत् पञ्चमस्याह्नो ' रूपं ' निरूपकम् ॥ अथ प्रउगशस्त्रं विधत्ते-( पञ्चमस्याह्नः प्रउगशस्त्रविधानम् ) ' आ नो यज्ञं दिविस्पृश, मा नो वायो महेतने, रथेन पृथुपाजसा, बहवः सूरचक्षस, इमा उ वां दिविष्टयः, पिबा सुतस्य रसिनो, देववं.... देवं वोऽवसे देवं देवं ', बृहदुगायिषे वच इति ' बार्हतं प्रउगं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् ॥७ ॥
हिन्दी - ( अब पञ्चम दिन के प्रउगशस्त्र का विधान कर रहे हैं - ) ' आ नो यज्ञं दिविस्पृशम् ' ( ये दो ऋचाएँ ), ' मा नो वायो महेतने ' ( यह एक ऋचा ), ( इस प्रकार यह प्रथम तृच ), ‘ रथेन पृथुपाजसा ' ( यह द्वितीय तृच ), ' बहवः सूरचक्षस ' ( यह तृतीय तृच ), ‘ इमा उ वां दिविष्टयः ' ( यह चतुर्थ तृच ), ' पिबा सुतस्य रसिनो ' ( यह पञ्चम तृच ), ' देवं देवं वोऽवसे देवं देवम् ' ( यह षष्ठ तृच ) और ' बृहदुगायिषे वच ' ( यह सप्तम तृच ) बार्हतं बृहती छन्द वाला है जो पञ्चमेऽहनि पञ्चम दिन में प्रउगम् प्रउग ( शस्त्र ) होता है । ( यह ) पञ्चमस्याह्नो रूपम् पञ्चम दिन का निर्वाहक है ॥ सा ० भा ० — ‘ आ नो यज्ञमिति २ द्वे ऋचौ । ' आ नो वायो ', इत्येका सोऽयं प्रथम-स्तृच:; ‘ रथेन ' इत्यादिः ’ ” द्वितीयो ' बहव: " इत्यादिस्तृतीय ' इमा उ धाम् ' इत्यादिश्च-चतुर्थः; ' पिबा सुतस्य ' " - इत्यादि पञ्चमः, ' देवं देवमिति ' षष्ठः, ' बृहदिति ” सप्तमः । तदेतत्सप्तमं बृहतीछन्दोयोगाद् ' बार्हतम् ' । अतो लिङ्गसद्भावात् पञ्चमेऽहनि योग्यतया तस्य निरूपकम् ॥ अथ शस्त्रान्तरस्य प्रतिपदं विधत्ते— ( पञ्चमस्याह्नो मरुत्वतीयशस्त्रविधानम् ) ' यत्पाञ्चजन्यया विशेति ' मरुत्वतीयस्य प्रतिपत्पाञ्चजन्ययेति पञ्चमेऽ-हनि पश्चमस्याह्नो रूपम् ॥८ ॥
हिन्दी - ( अब पञ्चम दिन के मरुत्वतीय शस्त्र का निरूपण कर रहे हैं— ) ‘ यत्पा-( १ ) ' द्वादशसूक्तीयर्चो ग्रहणवारणायेह पादाधिकप्रतीकग्रहणम् । ( २ ) ऋ ० ८.१०१.९, १० । ( ३ ) ऋ ० ८.४६.२५ । ( ४ ) ऋ ० ४.४६.५-७ । ( ५ ) ऋ ० ७.६६.१०-१२ । ( ६ ) ऋ ० ७.७४.१-३ । ( ७ ) ऋ ० ८.३.१-३ । ( ८ ) ऋ ० ८.२७.१३-१५ । ( ९ ) ऋ ० ७.९६.१-३ ।
पृष्ठ 55
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ १३ ञ्चजन्यया विश ' इति यह ( ऋचा ) मरुत्वतीयस्य मरुत्वतीय ( शस्त्र ) की प्रतिपत् प्रतिपत् है । ( इसकी प्रथम ऋचा में ' पाञ्चजन्यया ' इति यह ( शब्द ) पञ्चमेऽहनि पञ्चम दिन के
योग्य पञ्चमस्याह्नो रूपम् पञ्चम दिन का रूप है ।
सा ० भा ० – अस्मिंस्तृचे प्रथमायामृचि पाञ्चजन्ययेति पदे पञ्चशब्दयोगो लिङ्गम् ॥
अथ द्वितीयेनाह्रा समानत्वलिङ्गयुक्तं शस्त्रकलृप्तिं विधत्ते-' इन्द्र इत्सोमपा एक ', र ' इन्द्र नेदीय एदिहि ', ३ ' उत्तिष्ठ ब्रह्मण-स्पते’४ ‘ अग्निर्नेता ', ' ' त्वं सोम क्रतुभिः ', ६ ' पिन्वन्त्यपो ', ७ ' बृह-दिन्द्राय गायतेति ', ' द्वितीयेनाह्ना समान आतानः, पञ्चमेहनि पञ्चमस्याह्नोरूपम् ॥९ ॥
हिन्दी - ( द्वितीय दिन के समान चिह्नयुक्त शस्त्र की क्लृप्ति का विधान कर रहे हैं— ) ' इन्द्र इत्यसोमा एक ', ' इन्द्र नेदीह एदिहि ', ' उत्तिष्ठ ब्रह्मणपते ', ' अग्निर्नेता ' ‘ त्वं सोम क्रतुभिः ', ' पिन्वन्त्यपो ', ' बृहदिन्द्राय गायत ' इति द्वितीयेन अह्ना समानः ये द्वितीय दिन के समान आतानः आतान ( शब्द क्लृप्ति ) अर्थात् क्रमागत मन्त्र हैं, जो पञ्चमेऽहनि पञ्चम दिन में ( प्रयुक्त ) पञ्चमस्याह्नो रूपम् पञ्चम दिन का रूप है ॥ सा ० भा०- -'आतान: ' शस्त्रक्लृप्तिः ॥ अथ मदशब्दलिङ्गेन पञ्चपादोपेतपाङ्क्तत्वलिङ्गेन चोपेतं सूक्तं विधत्ते ' अविताऽसि सुन्वतो वृक्तबर्हिष " इति सूक्तं मद्वत् पाङ्क्तं पञ्चपदं, पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् ॥ १० ॥
हिन्दी - ( ' मद ' शब्द से युक्त पञ्चपाद वाले पाङ्कत्व चिह्न से युक्त सूक्त का विधान कर रहे हैं— ) ‘ अविताऽसि सुन्वतो वृक्तबर्हिष ' इति सूक्तम् यह सूक्त ( की छः ऋचाओं का द्वितीय पाद ) मद्वत् मत् ( शब्द ) से युक्त, पञ्चपदम् पाँच पादों वाले पाङ्कम् पङ्क्ति छन्द वाला है, जो पञ्चमेऽहनि पञ्चम दिन में ( प्रयुक्त ) पञ्चमस्याह्नो रूपम् पञ्चम दिन का रूप है ॥ सा ० भा ० – अत्र द्वितीयपादे ' पिबा सोमं मदाय ' - इति श्रवणात् इदं सूक्तं मद्वद्भवति । पञ्च पादा विस्पष्टाः ॥ ( १ ) ऋ ० ८.६३.७ । ( २ ) ऋ ० ८.२.४ । ( ३ ) ऋ ० ८.५३.५ । ( ४ ) ऋ ० १.४०.१ । ( ५ ) ऋ ० ३.२०.४ | ( ६ ) ऋ ० १.९ १.२ । ( ७ ) ऋ ० १.६४.६ । ( ८ ) ऋ ० ८.८ ९.१ । ( ९ ) ऋ ० ८.३६ । ऐ.ब्रा.उ. - ४ 15 सीएजीव
पृष्ठ 56
पाठ पढ़ें पाठ छिपाएँ
९ १४: ऐतरेयब्राह्मणम् [ २२.१ पञ्चमपञ्चिकायां तादृशमेवान्यत्सूक्तं विधत्ते— ‘ इत्था हि सोम इन्मद’१ इति सूक्तं मद्वत् पाङ्क्तं पञ्चपदं, पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् ॥ ११ ॥
हिन्दी – ( इसी प्रकार के अन्य सूक्त को कह रहे हैं - ) ' इत्था हि सोम इन्मद ' इति सूक्तम् यह सूक्त मद्वत् मद् ( शब्द ) से युक्त, पञ्चपदं पाङ्क्तम् पाँच पादों वाला पनि छन्दस्क है । यह पञ्चमेऽहनि पञ्चम दिन में प्रयुक्त पञ्चमस्याह्नो रूपम् पञ्चम दिन का रूप है ॥ पुनरपि मदशब्दलिङ्गोपेतं त्रिष्टुप्छन्दस्कं सूक्तं विधत्ते — ' इन्द्र पिब तुभ्यं सुतो मदायेति ' ' सूक्तं मद्वत् त्रैष्टुभं; तेन प्रतिष्ठित-पदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते ॥१२ ॥
हिन्दी – ( पुन: मद् शब्द से युक्त चिह्न वाले त्रिष्टुप्छन्दस्क सूक्त का विधान कर रहे हैं - ) ' इन्द्र पिब तुभ्यं सुतो मदाय ' इति सूक्तम् यह सूक्त मद्वत् ' मद् ' ( शब्द ) से युक्त त्रैष्टुभम् त्रिष्टुप् छन्द वाला है । प्रतिष्ठितपदेन तेन प्रतिष्ठितपद ( नियताक्षर ) वाले उस सूक्त से सवनं दाधार ( माध्यन्दिन ) सवन धारित होता है । एतेन इस ( सूक्त ) से
आयतनाद् न प्रच्यवते अपने घर से ( यजमान ) च्युत नहीं होता ।
सा ० भा ० - - I पूर्ववद् व्याख्येयम् ॥
आकार - प्रशब्दवर्जितत्वमरुत्वतीयशस्त्रस्यान्ते प्रक्षेपणीयं तृचं विधत्ते— ' मरुत्वाँ इन्द्र मीढ्व ' ' इति पर्यासो नेति न प्रेति, पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् ॥ १३ ॥
हिन्दी - ( आ और प्र उपसर्ग से रहित मरुत्वतीय शस्त्र के अन्त में प्रक्षेपणीय तृच को कह रहे हैं— ) ‘ मरुत्वाँ इन्द्र ' - इति पर्यासः यह तृच पर्यास ( अन्त में प्रक्षेपणीय ) है । ( इस तृच में ) नेति न प्रेति न ' आ ' ( उपसर्ग ) है और न ' प्र ' ( उपसर्ग ) है । पञ्चमेऽहनि
पञ्चम दिन में ( प्रयुक्त यह तृच ) पञ्चमस्याह्नो रूपम् पञ्चम दिन का निर्वाहक है ।
सा ० भा ० - – परितोऽन्ते प्रक्षेपणीयः पर्यासः ॥
तस्मिंस्तृचे निविद्धानं विधत्ते— ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वैतच्छन्दो वहति, यस्मिन्निविद्धीयते, तस्माद् गायत्रीषु निविदं दधाति ॥१४ ॥
( १ ) ऋ ० १.८० । ( २ ) ऋ ० ६.४० । ( ३ ) ऋ ० ८.७६.७ ।
पृष्ठ 57
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः द्वितीयः खण्डः ]. सायणाचार्यकृतभाष्योपेतम्: ९ १५ हिन्दी – ( ' मरुत्वाँ इन्द्र ' इस तृच में निविद्धान का विधान कर रहे हैं - ) ता उ वे ( तृच की ऋचाएँ ) गायत्र्यः गायत्री ( छन्द ) वाली हैं । गायत्र्यः वै गायत्री ही एतस्य त्र्यहस्य इस त्र्यह के माध्यन्दिनं वहन्ति माध्यन्दिन ( सवन ) का निर्वहन करते हैं । यस्मिन् निविद्धीयते जिस ( छन्द ) में निविद्धान ( प्रक्षिप्त पदसमूह ) होता है तद् वै एतत् छन्दः वहीं यह छन्द वहति ( सवन का ) निर्वहन करता है । तस्मात् इस ( निर्वहन ) के कारण गायत्रीषु गायत्री ( छन्दों ) में निविदं दधाति निविद् को प्रक्षिप्त करते हैं ॥ सा ० भा ० — पूर्ववद्व्याख्येयम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चमपञ्चिकायां द्वितीयाध्याये ( द्वाविंशाध्याये ) प्रथम खण्डः ॥१ ॥ ( ६ ) ( १५ ९ )
॥ इस प्रकार ऐतरेयब्राह्मण के बाइसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० — अथ शाक्वरसामसम्बन्धेन लिङ्गेन युक्ता ऋचो विधत्ते— ( पञ्चमेऽहनि निष्केवल्यशस्त्रविधानम् ) ( अथ शाक्वरसामसम्बन्धेन लिङ्गेन संयुक्ता ऋचः ) महानाम्नीष्वत्र स्तुवते शाक्वरेण साम्ना राथन्तरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् ॥१ ॥
हिन्दी - ( शाक्वर साम के सम्बन्ध से युक्त चिह्न वाली ऋचाओं का विधान कर रहे हैं - ) अत्र यहाँ महानाम्नीषु ( ' विदा मघवन् ' इत्यादि नौ ) महानाम्नी ( नामक ऋचाओं ) का शाक्वरेण साम्ना शाक्वर साम के द्वारा ( उद्गाता लोग ) स्तुवते स्तुति करते हैं । वह रथान्तरे पञ्चमेऽहनि रथन्तर साम से सम्बन्धित पञ्चम दिन में ( प्रयुक्त ) पञ्चमस्याह्नो रूपम् पञ्चम दिन का निरूपक है ॥ सा ० भा ० — ' विदा मधवन् ' इत्यादयो नवर्चो महानाम्नीसंज्ञकाः । ' तासूद्गातारः शाक्वराख्येन साम्ना ' स्तुवते । अहश्चेदमयुग्मत्वाद् राथंतरं शाक्वरं च साम रथंतररूपजन्य-त्वाद् राथंतरम्, अतोऽत्र ता ऋचो योग्याः ॥
( १ ) ऐ ० आ ० ४.१ - १५, महानाम्न्यार्चिकः १ - ९ ।
( २ ) तच्च साम चतुभ्य गानग्रन्थेभ्यः पृथगेवाम्नातम् ॥
पृष्ठ 58
पाठ पढ़ें पाठ छिपाएँ
९ १६: ऐतरेयब्राह्मणम् [ २२.२ पञ्चमपञ्चिकायां ' महानाम्नी ' शब्द निर्वक्ति— ( महानाम्नीशब्दनिर्वचनम् ) इन्द्रो वा एताभिर्महानात्मानं निरमिमीत, तस्मान्महानाम्न्योऽथो इमे वै लोका महानाम्न्य इमे महान्तः ॥ २ ॥
हिन्दी – ( महानाम्नी शब्द का विवेचन कर रहे हैं— ) एताभिः इन ( महानाम्नी नामक ऋचाओं ) से इन्द्रः इन्द्र ने आत्मानम् अपने को महान् निरमिमीत महान् बनाया । तस्मात् इसी ( महान् होने के साधनत्व के कारण महानाम्न्यः ( इन ऋचाओं का नाम ) महानाम्नी हुआ । इमे वै लोकाः महानाम्न्यः ये ( तीनों ) लोक महानाम्नी हैं तथा महान्तः महान् हैं ( इस कारण भी इसका महानाम्नी नाम हुआ ) ॥ सा ० भा ० — पुरा कदाचिदिन्द्रः स्वयमेवैश्वर्यादिगुणैर्महान् भविष्यामीति विचार्य ‘ विदा मधवन् - इत्यादिभिर्ऋग्भिः स्वात्मानं गुणैर्महान्तं निर्मितवान् । तस्मान्महत्त्वनिर्माण-साधनत्वान्महानाम्नीशब्दवाच्याः सम्पन्नाः । अपि च महानाम्न्यो भूरादिलोकत्रयस्वरूपाः, लोकाश्च महान्तः, तस्मादप्यासां महानाम्नीत्वम् ॥ ननु शक्वरीषूत्पन्नं साम शाक्वरमिति वक्तव्यम् — शक्वरी च सप्तपादोपेता; न चैता ऋचस्तथाविधाः, किंतु पादचतुष्टयोपेता अनुष्टुभः तत्कथमासां शक्वरीत्वमित्याशङ्क्य शक्तिप्रदत्वाच्छ्क्वरीत्वमिति निर्वचनं दर्शयति-. ( शक्वरीशब्दनिर्वचनम् ) इमान् वै लोकान् प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद् यदिदं किञ्च; यदिमाँल्लोकान् प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद् यदिदं किञ्च, तच्छक्वर्योऽभवंस्तच्छकरीणां शक्करीत्वम् ॥ ३ ॥
हिन्दी - ( शक्वरी शब्द का निर्वचन कर रहे हैं - ) प्रजापतिः प्रजापति ने इमान् लोकान् सृष्ट्वा इन लोकों की सृष्टि करके यदिदं किञ्च ( इन लोकों में ) यह जो कुछ भी ( स्रष्टव्य प्राणिजात ) है, इदं सर्वम् इन सभी की ( सृष्टि करने में ) अशक्नोत् समर्थ हुए । यत् जिस कारण से प्रजापतिः प्रजापति ने इमान् लोकान् सृष्ट्वा इन लोकों की सृष्टि करके यदिदं किञ्च ( इन लोकों में ) यह जो कुछ भी ( स्रष्टव्य प्राणिजात ) है, इदं सर्वम् इन सभी की ( सृष्टि करने में समर्थ हुए तत् इसी कारण शक्वर्यः अभवन् शक्वरी ( ऋचाएँ ) हो गयीं । तत् यही शक्वरीणां शक्वरीत्वम् शक्वरी ( ऋचाओं ) का शक्वरीत्व है । सा ० भा ० — पुरा प्रजापतिः ' विदा मधवन्'- इत्यादिका महानाम्नीरनुसंधाय, तदा-त्मकाँल्लोकान् प्रजापतिः सृष्टा; ताभिर्महानाम्नीभिरनुगृहीतं पश्चाद् एषु लोकेषु यत्किञ्चित्
पृष्ठ 59
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: ९ १७ स्थावरं जङ्गमं प्राणिजातं स्रष्टव्यमस्ति, तत्सर्वं स्रष्टुमशक्नोच्छक्तिमानभूत् । यस्मादेवं प्रजापतिरकरोत्, तस्माच्छक्तिहेतुत्वात् एता ऋचः शक्करीनामिका अभवन् । अनेन प्रकारेण तासां शक्करीत्वं सम्पन्नम् ॥ प्रकारान्तरेण महानाम्नी: प्रशंसति - · ता ऊर्ध्वाः सीम्नोऽभ्यसृजत; यदूर्ध्वाः सीम्नोऽभ्यसृजत, तत्सिमा अभवंस्तत्सिमानां सिमात्वम् ॥४ ॥
हिन्दी - ( प्रकारान्तर से महानाम्नी की प्रशंसा कर रहे हैं - ) ताः उन ( शक्वरियों ) की ( प्रजापति ने ) सीम्नः ऊर्ध्वा अभ्यसृजत् ( ऋग्वेद की सीमा से ऊपर ( बाहर ) रचना किया ( अर्थात् महानाम्नी ऋचाएँ ऋग्वेद से बाहर हैं, ऋग्वेद में नहीं हैं ) । यत् जो ( प्रजापति ने ) सीम्नः ऊर्ध्वा अभ्यसृजत् ( महानाम्नी ऋचाओं को ऋग्वेद की सीमा के बाहर रचा तत् वे सिमा अभवन् सिमा हो गयीं । तत् वही सिमानां सिमात्वम् सीमा ( अपर नाम वाली महानाम्नी ) का सिमा नाम हुआ ॥ सा ० भा ० - – या एता महानाम्न्यः सन्ति, ताः ' सीम्न ऊर्ध्वा अभ्यसृजत ' । ' अग्निमीळे इत्यारम्भ ' यथा वः सु सहासति ' - इत्यन्ता दाशतयीनां सीमा; तस्याः ' सीम्नः ' ऊर्ध्वभाविनीः कृत्वा प्रजापतिरभितः सृष्टवान् । अत एवैताः संहिताः संहितायां नाऽऽम्नायन्ते । किन्त्वारण्यकाण्ड ' आम्नायन्ते । अथवा, नवैता ऋचस्त्रिवेदेभ्यः उपरिस्थितत्वेन प्रयुज्यन्ते । तथा च आश्वलायन आह - ' शाक्करं चेत्पृष्ठं महानाम्न्यः स्तोत्रियः । ता अध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति ' इति । अस्यायमर्थः - यदा शाक्करसाम्ना पृष्ठस्तोत्रं निष्पाद्यते, तदानी महानाम्न्यः ऋचः स्तोत्रियस्तृचो भवति । तास्तु ' प्रकृत्या ' स्वभावे नवसंख्याकास्तथाऽपि तिस्रः कर्तव्या । अध्यर्धकारमिति तत्रोपाय उच्यते । अधिकेनांर्धेन युक्तामेकामृचमेकमर्धर्चं कृत्वेत्युक्त भवति । ततस्त्रयाणामर्धर्चानामेकार्थत्वे सति तिस्र ऋचो भवन्तीति । सोऽयं सीम्नः, उल्लङ्घनप्रकारः । यस्मात् सीम्नःऊर्ध्वाः सतीः प्रजापतिरसृजत, तस्मात् ' सिमा ’
( १ ) ' इमा लोकोपमा दृष्ट्वा जगत् सर्वं प्रजापतिः ।
शक्तोऽभूद् रक्षितुं तासां विकल्पेन स चाप्यृषिः ॥
वैश्वामित्र्यो महानाम्य ऐन्द्रयो वैके प्रजापतिः । इति ह्यार्षनुक्रमण्यां शौनकः समदीदृशत् ॥ ' — इति षड्गुरुशिष्यः । किन्तु पद्यमिदं मुद्रितार्षानुक्रमण्यां नोपलभ्यते । ( २ ) चतुर्थे इति शेषः । ( ३ ) आश्व ० श्रौ ० ७.१२.१० । ‘ ता महानाम्नीरध्यर्धकारं शंसेत्, त्रिभिस्त्रिभिरध्यधैरवसानं प्रणवं च कुर्यात् - इत्यर्थः । ता अध्यर्धकारं शंसेत् — - यथा प्रकृत्या नव सत्यस्ता एव तिस्रो भवन्तीति सूत्रार्थ: ' ( इति तत्र नारायणीयावृत्ति ) ।
पृष्ठ 60
पाठ पढ़ें पाठ छिपाएँ
९ १८: ऐतरेयब्राह्मणम् [ २२.२ पञ्चमपञ्चिकायां इत्येतन्नामिका अभवन् । महानाम्नीनामेतेन प्रकारेण सिमानामकत्वं विज्ञेयम् ' ॥ स्तोत्रियमुक्त्वाऽनुरूपं तृचं विधत्ते— ( अनुरूपतृचविधानम् ) स्वादोरित्था विषूवत, उप नो हरिभिः सुत, मिन्द्रं विश्वा अवीवृध-न्नित्यनुरूपो वृषण्वान् पृश्निमान् मद्वान् वृधन्वान् पञ्चमेऽहनि पञ्चम-स्याह्नो रूपम् ॥ ५ ॥
हिन्दी – ( स्तोत्रिय को कहकर अनुरूप तृच को कह रहे हैं - ) ' स्वादोरित्था विषूवत ', ' उप नो हरिभिः सुतम् ' और ' इन्द्रं विश्वा अवीवृधन् ' इति ये ( तीनों तृच ) अनुरूपः अनुरूप हैं जो वृषण्वान् वृषण् ( शब्द ) से युक्त, पृश्निवान् पृश्नि ( शब्द ) से युक्त मद्वान् मत् ( शब्द ) से युक्त और वृधन्वान् वृधन् ( शब्द ) से युक्त । इसलिए पञ्चमेऽहनि पञ्चम दिन में ( प्रयुक्त ) पञ्चमस्याह्नो रूपम् पञ्चम दिन के निर्वाहक हैं ॥ सा ० भा ० —स्वादोरित्यादिरध्ययनप्रकारेणैकस्तृचः उप न इत्यादिर्द्वितीयः इन्द्रं विश्वा ' इति तृतीयः । एतत्त्रयं मिलित्वा पूर्वोक्तस्तोत्रियसादृश्यादनुरूपस्तृचो भवति । तत्र स्वादोरित्येतस्मिन् वृष्णा मदन्ति इति वृषण्वत्त्वं मद्वत्त्वं च दृश्यते, ' सोमं श्रीणन्ति पृश्नयः ’ इति पृश्निमत्त्वम्, ' इन्द्रं विश्वा अवीवृधन्निति ' वृधन्त्वत्त्वम्, तान्येतानि पञ्चमेऽहनि योग्य-त्वात् पञ्चमस्य गमकानि ॥ अच्युतत्वलिङ्गेन धाय्यां विधत्ते— ( धाय्याविधानम् ) ' यद्वावानेति ' ' धाय्याऽच्युता ॥ ६ ॥
हिन्दी— ( अब अच्युत चिह्न वाली धाय्या का विधान कर रहे हैं— ) ‘ यद्वावान् ' इति यह अच्युता धाय्या अच्युत ( पूर्व में विहित ) धाय्या है । ता धाय्यामनु रथन्तरसामयोनेः शंसनं विधत्ते— ' अभि त्वा शूर नोनुम ' " ६ इति रथन्तरस्यं योनिमनु निवर्तयति; ( १ ) अथ सामब्राह्मणयोः– इन्द्रः प्रजापतिमुपाधावत् वृत्रं हनानिति, तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्यं निर्माय प्रायच्छदेतेन शक्नुहीति; तच्छक्वरीणा शक्वरीत्वम् । सोमानमभिनत् तत् सिमा । मह्न्यामकरोत् तन्मह्या । महान् घोष असीत्तन्महानाम्न्यः ' - इति ता ० ब्रा ० १३.४ । ऐन्द्रो महानाम्न्यः प्रजापतेर्वा विष्णोर्वा विश्वामित्रस्य वा सिमा वा मन्ह्या वा शक्वयों वा ' - इति आर्षेय ब्रा ० ३.२ ९ । ( २ ) ऋ ० १.८४.१० । ( ३ ) ऋ ० ८.९ ३.३१ । ( ४ ) ऋ ० १.११.१ ( ५ ) ऋ ० १०.७४.६ । ( ६ ) ऋ ० ७.३२.२२ ।