ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 521–530
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 521–530
पृष्ठ 521
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३७५
अथ ह विश्वामित्रः पुत्रानामन्त्रायामास-मधुच्छन्दाः शृणोतन ऋषभो रेणुरष्टकः ।
ये के च भ्रातरःस्थ नास्मै ज्यैष्ठ्याय कल्पध्वमिति ॥७ ॥
हिन्दी – ( पुनः शुनःशेप और विश्वामित्र के वृत्तान्त को कह रहे हैं— ) सः शुनःशेपः उवाच उस शुनःशेप ने कहा— भरतऋषभ हे भरतवंश में श्रेष्ठ ( विश्वामित्र )! संज्ञानेषु ( मेरे विषय में ) एक मत हुए ( अपने सभी पुत्रों को ) मे सौहार्दाय श्रियै मेरे सौहार्द और धनलाभ के लिए ब्रूयात् आप कह देवें । यथा जिससे अहं तव पुत्रताम् उपेयाम् मैं आपकी पुत्रता को प्राप्त कर सकूँ । अथ ह विश्वामित्रः इसके बाद विश्वामित्र ने पुत्रान् आमन्त्रयामास ( अपने ) पुत्रों को बुलाया— मधुच्छन्दा ऋषभः रेणुः अष्टकः हे मधुच्छन्दा, ऋषभ, रेणु और अष्टक ( इत्यादि नाम वाले मेरे पुत्रों ) शृणोतन तुम लोग ( मेरी आज्ञा को ) सुनो । ये के च भ्रातरः स्थ जो कोई भी तुम्हारे भाई हैं अस्मै ज्येष्ठाय न कल्पध्वम् ( वे तुमलोग अपने को ) इस ( शुनःशेप ) से ज्येष्ठ होने की कल्पना मत करना ॥ सा ० भा ० — विश्वामित्रेण प्रलोभितः शुनःशेपः स्वकार्यदायर्थं गाथयैवमुवाच । संज्ञानानेषु मद्विषयैकमत्यं प्राप्तेषु त्वदीयपुत्रेषु सर्वोऽपि मां ब्रूयात् । ज्येष्ठभ्रातृत्वेन व्यव-हरतु । तच्च मे मम सौहार्द्याय भ्रातृभिरितरैः स्नेहातिशयाय श्रियै धनलाभाय च सम्प-द्यते । हे भरतऋषभ भरतवंशश्रेष्ठ विश्वामित्राहं तव पुत्रतां यथोपेयां तथैवैतेषां पुत्राणा-मग्रेऽनुगृहाणेति शेषः । ततो विश्वामित्र इतरान् पुत्रानाहूय गाथयैवमाज्ञापितवान् – यो मधुच्छन्दा नाम ' यश्चर्षभः, योऽपि रेणुः, योऽप्यष्टकः, एते मुख्या: ' हे पुत्रकाः ' शृणोतन ' मदीयामाज्ञां शृणुत । ‘ ये ’ केचिद्यूयं सर्वे भ्रातरः स्थ ते सर्वेऽपि ' अस्मै ' शुनःशेपादस्मादपि ‘ ज्येष्ठ्याय न कल्पध्वं ’ ज्येष्ठत्वाभिमानं मा कुरुत । किंत्वसावेव युष्माकं मध्ये ज्येष्ठो भूत्वाऽवतिष्ठतामिति ॥
( १ ) अत्राग्निमीळ इत्यादि प्रथमं मण्डलं प्रति ।
शतर्चिनस्तु विज्ञेया ऋषयः सुखसिद्धये ॥
तेषां पूर्वो मधुच्छन्दा, मेधातिथिरनन्तरः । शुनःशेपस्तृतीयोऽयं, हिरण्यस्तूप उत्तरः ॥ - इत्यादि आर्षानु ० १.२,३ । ( २ ) ऋक्संहिता - सूक्तेषु केषाञ्चिद् द्रष्टारोऽष्टौ वैश्वामित्राः ज्ञायन्ते आर्षानुक्रमण्यादितः । तत्र मधुच्छन्दसः १.१-१०; ९.१ । ऋषभस्य ३.१३, १४, ९.७१ । रेणोः ९.७०; १.८ ९ । अष्टकस्य १०.१०४ । प्रजापतेः ३.३८; ५४-५६ । पूरणस्य १०.१६० । कतस्य ३.१७,१८ । देवरातस्य ( शुनःशेपस्य ) १.२४-३० ।
पृष्ठ 522
पाठ पढ़ें पाठ छिपाएँ
१३७६: ऐतरेयब्राह्मणम् [ ३३.६ सप्तमपञ्चिकायां ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां तृतीयाध्याये ( त्रयस्त्रिंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( १७ ) ( २४० )
|| इस प्रकार ऐतरेयब्राह्मण के तैतीसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ षष्ठः खण्डः सा ० भा ० — अथ विश्वामित्रपुत्राणां वृत्तान्तमाह— ( विश्वामित्रपुत्राणां वृत्तान्तकथनम् ) तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेव ज्यायांसो मधु-च्छन्दसः पञ्चाशत्कनीयांसः ॥ १ ॥
हिन्दी — ( विश्वामित्र के पुत्रों का वृत्तान्त कह रहे हैं - ) तस्य विश्वामित्रस्य उस विश्वामित्र के एकशतं पुत्राः आसुः एक सौ पुत्र थे । पञ्चाशद् एव पचास पुत्र मधु-च्छन्दसः ज्यायांसः मधुच्छन्दा से बड़े थे और पञ्चाशत् कनीयांसः पचास छोटे थे । सा ० भा०- - मधुच्छन्दोनामकः कश्चित्पुत्रो मध्यमस्ततोऽपि ज्येष्ठः कनिष्ठाश्च प्रत्येकं पञ्चाशत्संख्याका इत्येवमेकशतं तस्य पुत्राः ॥ तेषां मध्ये ज्येष्ठानां वृत्तान्तमाह— तद्ये ज्यायांसो न ते कुशलं मेनिरे ताननु व्याजहारान्तान् वः प्रजा भक्षीष्टेति त एतेऽन्ध्राः पुण्ड्राः शबरा पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः ॥२ ॥
हिन्दी— ( उन पुत्रों में मधुच्छन्दा से ज्येष्ठ पुत्रों का वृत्तान्त कर रहे हैं— ) तद् ये ज्यायांसः उनमें से जो ( मधुच्छदा से ) बड़े ( पुत्र ) थे न ते कुशलं मेनिरे वे ( शुनःशेप को विश्वामित्र का पुत्र होना ) समीचीन नहीं माना । तान् अनु व्याजहार ( ज्येष्ठ पुत्रों ) को अनुलक्षित करके ( विश्वामित्र ने ) शापपूर्वक वाक्य को कहा — वः प्रजाः तुम लोगों की सन्तानें अन्तान् भक्षीष्ट नीच जाति को प्राप्त होवें । ते वे ( अभिशप्त प्रजाएँ ) एते अन्ध्राः पुण्ड्रा शबराः पुलिन्दाः मूतिबाः ये अन्ध्र, पुण्ड्र, शबर, पुलिन्द और मूर्तिब ( जाति वाली ) हुई । इस प्रकार दस्यूनां भूयिष्ठाः दस्युओं के मध्य में अत्यधिक उदन्त्याः बहवः बहुत - सी नीच जातियाँ वैश्वामित्राः विश्वामित्र से उत्पन्न हुईं ॥ सा ० भा ० – ‘ तत् ’ तेष्वेकशतसंख्याकेषु पुत्रेषु मध्ये ' ये ' मधुच्छन्दसो ज्येष्ठाः
पृष्ठ 523
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३७७ पञ्चाशत्संख्याकाः सन्ति ‘ ते ' शुनःशेपस्य विश्वामित्रपुत्रत्वं ' कुशलं न मेनिरे ' इदं समी-चीनमित्येवं नाङ्गीकृतवन्तः । ताञ्ज्येष्ठान् पञ्चाशत्संख्याकाननुलक्ष्य विश्वामित्रो व्याजहार व्याहरणं शापरूपं वाक्यमुक्तवान् । हे ज्येष्ठपुत्रा युष्माकं मदीयाज्ञातिलङ्घिनां प्रजाः पुत्रा-दिका अन्तान्भक्षीष्ट चण्डालादिरूपान्नीचजातिविशेषान् भजतामिति । त एते शप्ताः सन्तोऽन्ध्रत्वादिपञ्चविधनीचजातिविशेषा भवन्ति । ' इति ' शब्दस्य तत्प्रदर्शनार्थत्वाद-न्येऽपि नीचजातिविशेषाः सर्वे विवक्षिताः । उद्गतोऽन्त उदन्तोऽत्यन्तनीचजातिस्तत्र भवाः ‘ उदन्त्याः ’ । ते बहवोऽनेकविधा वैश्वामित्रा विश्वामित्रसंततिजा दस्यूनां तस्कराणां मध्ये भूयिष्ठा अत्यधिकाः ॥ ज्येष्ठानां वृत्तान्तमुक्त्वा मधुच्छन्दसस्तत्कनिष्ठानां च वृत्तान्तं गाथया दर्शयति— स होवाच मधुच्छन्दाः पञ्चाशता सार्धं-यन्नः पिता सञ्जानीते तस्मिंस्तिष्ठामहे वयम् । पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति ॥ ३ ॥
हिन्दी - ( अब मधुच्छन्दा से कनिष्ठ पुत्रों का वृत्तान्त गाथा द्वारा कह रहे हैं— ) पञ्चाशता सार्धम् पचास ( कनिष्ठ भाइयों ) के साथ सः ह मधुच्छन्दा उवाच उस मधुच्छन्दा ने कहा— ( हे शुनःशेप! ) नः पिता हमारे पिता ( विश्वामित्र ) यत् जिस ( तुम्हारे ज्येष्ठपुत्र रूप कार्य ) को सञ्जानीते सम्यक् रूप से जानते ( स्वीकार करते हैं तस्मिन् उस कार्य के प्रति वयं तिष्ठामहे हम लोग समर्पित हैं । सर्वे हम सभी लोग त्वा तुम ( शुनः-शेप ) को पुरः कुर्महे ( ज्येष्ठ रूप में ) आगे कर रहे हैं । वयम् हम लोग त्वाम् अन्वञ्चः स्मसि तुम्हारा अनुगमन करते रहेंगे ॥ सा ० भा ० – कनिष्ठपुत्राणां पञ्चाशता सह मधुच्छन्दोनामकः स मध्यमः पुत्रः शुनःशेपं प्रत्येवमुवाच । ‘ हे शुनःशेप नः ' अस्माकं पिता विश्वामित्रो यत्कार्यं त्वदीय-ज्येष्ठपुत्रत्वरूपं सञ्जानीते सम्यग्जानात्यङ्गीकरोति तस्मिन् कार्ये वयं तिष्ठामहे तत्कार्य-मङ्गीकुर्मः । सर्वे वयं ' त्वा ' शुनःशेपनामानं त्वां ' पुरस्कुर्महे ' पुरस्कृत्य ज्येष्ठं कृत्वा वर्तामहे । ‘ त्वामन्वञ्च: ’ शुनःशेपमनुगच्छन्तः ' स्मसि ' भवाम इत्युक्तवान् ॥ विश्वामित्रवृत्तान्तं दर्शयति— ( विश्वामित्रवृत्तान्तकथनम् ) अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव ॥४ ॥
हिन्दी — ( विश्वामित्र के वृत्तान्त को दिखला रहे हैं - ) अथ ह इसके बाद प्रतीतः ( पचास पुत्रों के प्रति ) विश्वस्त होकर विश्वामित्रः विश्वामित्र पुत्रान् तुष्टाव पुत्रों को ऐ.ब्रा.उ.- ३३
पृष्ठ 524
पाठ पढ़ें पाठ छिपाएँ
१३७८: ऐतरेयब्राह्मणम् [ ३३.६ सप्तमपञ्चिकायां ( गाथाओं से ) तुष्ट किया ( स्तुत किया ) ॥ सा ० भा ० — अथ मधुच्छन्दः सहितानां पञ्चाशत्कनिष्ठपुत्राणां शुनःशेपविषय-ज्येष्ठपुत्रत्वाङ्गीकारानन्तरं स विश्वामित्र: ' प्रतीतः ' तेषु प्रत्ययं मदनुकूला इति विश्वासं प्राप्तः प्रीत्या ' पुत्रान् ' गाथाभिस्तुष्टाव ॥ • तत्र प्रथमां गाथामाह—
ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ ।
ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा ॥ ५ ॥
हिन्दी — ( प्रथमा गाथा — ) हे मधुच्छन्दा इत्यादि कनिष्ठ पुत्रों! ये जो ( तुमलोग ) मे मानम् मेरे अनुमत को अनुगृह्णन्तः स्वीकार करते हुए मा वीरवन्तम् अकर्त मुझको वीर पुत्रों से युक्त किया है । ते वै पुत्राः वे तुम पुत्र लोग पशुमन्तः वीरवन्तः भविष्यथ पशु - सम्पन्न और वीर पुत्रों से सम्पन्न होवोगे । सा ० भा ० — हे मधुच्छन्दः प्रमुखाः कनिष्ठपुत्रा ' ये ' यूयं ' मे मानं ' मदीयं मतम् ‘ अनुगृह्णन्तः ’ आनुकूल्येन स्वीकुर्वन्तो ' मां ' विश्वामित्रं ' वीरवन्तं ' स्वधर्मशूरपुत्रयुक्तम् ‘ अकर्त ’ कृतवन्तः । ‘ ते वै ' तादृशा यूयं बहुविधपशुयुक्ता बहुविधानुकूलपुत्रयुक्ताश्च भविष्यथ ॥ द्वितीयां गाथामाह—
पुर एत्रा वीरवन्तो देवरातेन गाथिनाः ।
सर्वे राध्याः स्थ पुत्रा एष वः सद्विवाचनम् ॥ ६ ॥
हिन्दी — ( द्वितीय गाथा — ) गाथिना: हे गाथि ( गाधि ) के पौत्रो! पुरः एत्रा देव-रातेन अग्रगामी देवरात ( शुनःशेप ) के साथ सर्वे तुम सभी वीरवन्तः वीर पुत्रों से सम्पन्न और राध्या स्थ पूजनीय ( आराधनीय ) होवो । पुत्राः हे पुत्रो! एषः यह देवरात ( शुनः-शेप ) वः तुम लोगों को सद्विवाचनम् सद्मार्ग का विशेष रूप से अध्यापन करेगा ॥ सा ० भा०- - गाथिनशब्दो विश्वामित्रस्य पितरमाचष्टे । हे ' गाथिनाः ' गाथिपौत्राः ' ‘ पुर एत्रा ' युष्माकं पुरतो गन्त्रा मुख्येन देवरातेन सह यूयं सर्वे ‘ वीरवन्तः ’ श्रेष्ठपुत्रयुक्ताः ‘ राध्याः ’ ‘ स्थ ’ सर्वैः पुरुषैराराधनीयाः पूज्या भवथ । हे ' पुत्राः ' मधुच्छन्दःप्रभृतयः । ‘ एषः ’ देवरातो ‘ व: ’ युष्माकं ‘ सद्विवाचनं ' सन्मार्गस्य विशेषतोऽध्यापनं करिष्यतीति शेषः ॥ तृतीयां गाथामाह— एष वः कुशिका वीरो देवरातस्तमन्वित । ( १ ) ‘ रेणूनां वैश्वामित्रगाथिंनरैणवेति ' - इति आश्व ० श्री ० १२.१४.६ ।
पृष्ठ 525
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३७ ९ युष्मांश्च दायं च उपेता विद्यां यामु च विद्मसि ॥७ ॥
हिन्दी— ( तृतीय गाथा— ) कुशिका: हे ( विश्वामित्र के पितामह ) कुशिक से सम्बन्धित ( मधुच्छन्दा इत्यादि मेरे पुत्रो )! एषः देवरातः यह शुनःशेप वीरः तुम्हारा ज्येष्ठ भ्राता है । ताम् अन्वित उसका अनुसरण करो । मे दायम् ( मेरा उत्तराधिकारी होकर ) वह मेरे धन और युष्मान् च और तुम लोगों को उपेता प्राप्त करेगा । यां विद्याम् विद्मसि जिस किसी भी विद्या को हम जानते हैं ( उसको भी तुम लोगों के साथ ( प्राप्त करेगा ) | सा ० भा ० - हे कुशिका: कुशिकनाम्नो मत्पितामहस्य सम्बन्धिनो मधुच्छन्दःप्रभृ-तय एष देवरातो वो युष्माकं ज्येष्ठभ्रातेति शेषः । तं देवरातं यूयमन्वितानुगता भवत । मे मदीयं ‘ दायं ' धनं युष्मांश्चोपेता प्राप्स्यति । चकाराद्देवरातं च । यामु च यामपि कांञ्चिद् वेदशास्त्रादिरूपां ‘ विद्यां विद्मसि ' वयं जानीमः, साऽपि युष्मानुपेता प्राप्स्यति ॥ चतुर्थी गाथामाह—
ते सम्यञ्च वैश्वामित्राः सर्वे साकं सरातयः ।
देवराताय तस्थिरे धृत्यै श्रेष्ठ्याय गाथिनाः ॥ ८ ॥
हिन्दी – ( चतुर्थी गाथा — ) गाथिनाः वैश्वामित्राः हे गाथि के पौत्रों और मुझ विश्वामित्र के पुत्रों! ते सर्वे वे तुम सभी सम्यञ्चः बुद्धि वालों ने साकं सरातयः शुनःशेप के साथ धन - सम्पन्न होकर देवराताय धृत्यै श्रेष्ठ्याय देवरात के संरक्षण में ( अपना ) पोषण और ( देवरात की ) श्रेष्ठता को तस्थिरे स्वीकार किया है ॥ सा ० भा ० — हे वैश्वामित्रा विश्वामित्रस्य मम पुत्रा ये गाथिना गाथिपौत्रास्ते यूयं सर्वेऽपि सम्यञ्चः समीचीनबुद्धयो ये साकं देवरातेन सार्धं सरातयो रातिर्धनसम्पत्तिस्तया युक्ता: सन्तो ‘ देवराताय ’ मदीयश्रेष्ठपुत्रस्य देवरातस्य ' धृत्यै ' धारणं युष्मत्पोषणं ‘ श्रैष्ठ्याय ’ युष्माकं मध्ये श्रेष्ठत्वं च तस्थिरेऽङ्गीकृतवन्तः ॥ पञ्चमीं गाथामाह—
अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः ।
जनूनां चाऽऽधिपत्ये दैवे वेदे च गाथिनाम् ॥९ ॥
हिन्दी – ( पञ्चमी ऋचा - ) देवरातः देवताओं द्वारा ( विश्वामित्र को ) दिया गया ( शुनःशेप ) जह्ननां च गाथिनाम् जह्न वंश में उत्पन्न होने वाले और ( हमारे ) पिता ) गाथिवंश में उत्पन्न होने वाले इन उभयोः रिक्थयोः दोनों के धन - सम्पत्ति के आधि-पत्ये दैवे वेदे स्वामित्व, देवता सम्बन्धित कार्य और ( मन्त्ररूप ) वेद ( के भाग ) में ऋषिः उत्तराधिकारी ऋषि - अधीयते ऐसा स्मृति में पढ़ा गया ( कहा गया ) है ॥
पृष्ठ 526
पाठ पढ़ें पाठ छिपाएँ
१३८०: ऐतरेयब्राह्मणम् [ ३३.६ सप्तमपञ्चिकायां सा ० भा ० — इवस्मरण इति धातुः । अधीयत स्मृतिकारैर्महर्षिभिः स्मर्यते । कथ-मिति तदुच्यते । अयं देवरातो यामुष्यायणत्वादुभयोरजीगर्तैविश्वामित्रयोः सम्बन्धिनी ये रिक्थे धने तयोर्ऋषिर्द्रष्टा तदुभयमर्हतीत्यर्थः । अजीगर्तस्य कूटस्य ऋषिर्जहनुसंज्ञक-स्तस्य वंशे जाताः सर्वे जह्नवस्तेषां चाऽऽधिपत्ये स्वामित्वे देवरातो योग्यः । तथा दैवे देव-सम्बन्धिनि यागादिकर्मणि वेदे च मन्त्ररूपे समर्थः । गाथिनामस्मत्पितृवंशोत्पन्नानां च सर्वेषामाधिपत्ये योग्यः ॥ उक्तमुपाख्यानमुपसंहरति— . तदेतत्परऋक्शतगाथं शौनः शेपमाख्यानम् ॥ १० ॥
हिन्दी— ( उक्त उपाख्यान का उपसंहार कर रहे हैं — ) इति एतत् इस प्रकार यह ( ऊपर कहा गया ) परऋक्शतगाथम् ( ' कस्य नूनं ' से लेकर ' निधारय ' तक सन्तानबे तथा ' वं न ' और ' सत्यं'- ये तीन ऋचाएँ मिलकर ) एक सौ ऋचाओं से अधिक और ( ' यन्विमं ' इत्यादि इकतीस ) गाथाओं वाला शौनः शेपोपाख्यानम् शुनःशेप से सम्बन्धित उपा-ख्यान है ॥ सा ० भा०- - ' कस्य नूनं '...... निधारयेत्यन्ताः सप्ताधिकनवतिसंख्याका ऋचः ', ' त्वं नः ’ ‘ स त्वम् ' इत्यादिकास्तिस्र ऋचः २, एवमृचां शतम् । ' परः ' शब्दोऽधिकवाची । पूर्वोक्त-दृक्शतात् परोऽधिका एकत्रिंशत्संख्याका ' यं न्विमम् ' - इत्याद्या गाथाः यस्मिन्नाख्यानेतदेतत् ‘ परऋक्शतगाथम् ’ । शुनःशेपेन दृष्टाः सप्ताधिकनवतिसंख्यायुक्ता ऋचो याः सन्ति, अन्येन दृष्टास्तिस्र ऋचो याः सन्ति, ब्राह्मणे प्रोक्ता एकत्रिंशद्गाथाविशेषा या सन्ति, तैः सर्वैरुपेतं ‘ हरिश्चन्द्रो ह वैधसः ’ इत्यादिकं सर्वं शुनःशेपविषयमाख्यानम् ॥ तस्याऽऽख्यानस्य राजसूयक्रतौ विनियोगं दर्शयति— ( शुनःशेपोपाख्यानस्य विनियोगकथनम् ) तोता राज्ञेऽभिषिक्तायाऽऽचष्टे ॥ ११ ॥
( १ ) ऋक्संहितायां शुनःशेपेन दृष्टानि अष्टौ सूक्तान्याम्नातानि । तत्र प्रथममण्डलस्य षष्ठा-नुवाकात्मकानि सप्त, नवममण्डलीयतृतीयञ्चैकम् । इह प्रथममण्डलीयानां ग्रहणमिष्टम्; तेषामेवात्र प्रतीकग्रहणादितः समुल्लेखात् । तदत्र कस्य नूनमिति प्रथमसूक्ताद्यभागः निधारयेति तु सप्तमसूक्तान्तभाग इति बोध्यम् । तदेवं सू ० १.१५ ऋ ० + २.२१ + १० + ४. १३ + ५. ९ + ६. ७ + ७. ३३ = सङ्कलनया ९ ७ ऋचो भवन्ति । ( २ ) तत्र त्वं न इत्यस्याः ऋ ० ४.१.४; स त्वमिति तदुत्तरस्याश्च वामदेवऋषिः तृतीयस्याः शुनश्चिच्छेपमित्यस्याः ( ५.२.७ ) कुमारो वृशो वोभौ वा ऋषी । कुमारमिति चैतस्मिन् कुमारो वा वृशोऽथवा । वृशो जार इति ज्ञेय उभौ वात्र समुच्चितौ ॥ इति तत्र ' आर्षानुक्रमणी ’ ५.३ ।
पृष्ठ 527
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३८१ हिन्दी— ( इस उपाख्यान का राजसूय यज्ञ में विनियोग दिखला रहे हैं— ) तत् उस ( शुनःशेप के उपाख्यान ) को होता होता ( नामक ऋत्विक् ) अभिषिक्ताय राज्ञे अभिषिक्त राजा के लिए आचष्टे कहता है ॥ सा ० भा ० — राजसूयक्रतावभिषेचनीयाख्ये कर्मणि यदा राजाभिषिक्तो भवति, तदानीं तस्मै ‘ राज्ञे ’ ‘ तत् ’ आख्यानं होता कथयेत् ' ॥ तत्रेतिकर्तव्यं दर्शयति—
हिरण्यकशिपावासीन आचष्टे; हिरण्यकशिपावासीनः प्रतिगृणाति ।
यशो वै हिरण्यं, यशसैवैनं तत्समर्धयति ' ॥ १२ ॥
हिन्दी – ( इस उपाख्यान - कथन के विषय में करणीय कर्त्तव्य को दिखला रहे हैं-) हिरण्यकशिपौ आसीनः आचष्टे ( इस उपाख्यान को होता ऋत्विक ) सुवर्णसूत्र से निर्मित आसन पर बैठा हुआ कहता है । हिरण्यकशिपौ आसीनः प्रतिगृणाति सुवर्णसूत्र निर्मित आसन पर बैठा हुआ ( अध्वर्यु ) प्रतिगर करता है; क्योंकि यशो वै हिरण्यम् ( यश का हेतु होने के कारण ) हिरण्य यश स्वरूप वाला है अतः यशसा एनं समर्धयति यश से ही इस ( राजा ) को समृद्ध करता है । सा ० भा ० - होता यदोपाख्यानं कथयति, तदानीं ' हिरण्यकशिपौ ' सुवर्णनिर्मित-सूत्रैर्निष्पादिते कशिपौ ' स होतोपविशेत् । तदाख्यानमध्येऽध्वर्युश्च हिरण्यकशिपावासीनो वक्ष्यमाणं ‘ प्रतिगरं ’ ब्रूयात् । हिरण्यस्य यशोहेतुत्वात् यशस्त्वम् यशसैव समृद्धं करोति ॥ अध्वर्युणा प्रयोक्तव्यं प्रतिगरविशेषं दर्शयति— ओमित्यृचः प्रतिगर; एवं तथेति गाथायाः; दैवं, तथेति मानुषं, दैवेन चैवैनं तन्मानुषेण च प्रमुञ्चति ॥ १३ ॥
हिन्दी – ( अध्वर्यु द्वारा प्रोक्त प्रतिगर - विशेष को दिखला । तथा सति ' एनं ' राजानं ओमिति वै पापादेनसः रहे हैं— ) ऋच: ओम् ( १ ) ' अथ राजसूया: ' – इति प्रकृत्य प्रोक्तमाश्वलायनेन संस्थितीये दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे शौनः शेपमाचक्षीत ' – इति आश्व ० श्री ० ९.३.९ । ० ( २ ) एष एव पाठः आश्वलायनेन समुद्धृतः । द्र ० आश्व ० श्री ० ९.३.१० । ( ३ ) ‘ कशिपुः ’ आसनम्, हिरण्यस्य कशिपुः हिरण्यकशिपुः । इति शाङ्खा ० श्रौ ० सूत्रे ( १५. २७ ) आनर्तीयभाष्यः । ( ४ ) उद्घृत्श्चैष पाठ आश्व ० श्री ० ९.३.११-१२
पृष्ठ 528
पाठ पढ़ें पाठ छिपाएँ
१३८२: ऐतरेयब्राह्मणम् [ ३३.६ सप्तमपञ्चिकायां ( होता द्वारा प्रयुक्त ) ऋचा के बाद में ( अध्वर्यु द्वारा प्रयुक्त ) ' ओम् ' प्रतिगरः प्रतिगर होत है और गाथायाः तथा इति और गाथा से बाद में प्रयुक्त ' तथा ' ( प्रतिगर होता है ) । ओम् इति दैवम् ओम् देवता से सम्बन्धित होता है और तथा इति मानुषम् ‘ तथा ' मनुष्य से ' सम्बन्धित होता है | दैवेन च तद् मानुषेण दैव और उस मानुषी ( प्रतिगर ) से पापात् एनसः ( अपयशरूपी ऐकिक ) पाप से तथा ( नरकरूपी पारलौकिक ) पाप से एनम् इस ( राजा ) को प्रमुञ्चति प्रकृष्ट रूप से मुक्त करता है । सा ० भा ० – होत्रा प्रयुक्ताया एकैकस्या ऋचोऽन्तेऽध्वयरोमित्येतादृशः प्रतिगरो भवति ' । ओमित्येतच्छन्दोरूपं ' दैवं ' देवैरङ्गीकारार्थे प्रयुज्यते । तत्तथेत्यन्तं ( तथेति ) ' मानुषं ' मनुष्या अङ्गीकारे तथेतिशब्दं प्रयुञ्जते ' । ' तत् ' तेन प्रतिगरेण दैवेन मानुषेण वा-ध्यवर्युः ‘ एनं ’ राजानं ‘ पापात् ' ऐहिकादपकीर्तिरूपात्, ' एनसः ' नरकहेतोश्च ‘ प्रमुञ्चति ' प्रमुक्तं करोति ॥ क्रत्वर्थत्वेनोपाख्यानं विधाय क्रतुनिरपेक्षपुरुषार्थत्वेन विधत्ते— तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनः-शेपमाख्यानं, न हास्मिन्नल्पंचनैनः परिशिष्यते ॥१४ ॥
हिन्दी - तस्मात् इसी कारण यः अयजमानः राजा जो यजन न करने वाला राजा विजिती स्यात् यदि विजय प्राप्त करे तो एतत् शुनःशेपमाख्यानम् इस शुनःशेप ( १ ) ' एवम् ' इति नायं प्रतिगरः, प्रतिगरावयवो वा, तस्मादेवमर्थः । यथा ' ओम् ' शब्द ऋक्षु प्रतिगरो भवति, एतमेव ' तथा ' शब्दो गाथासु प्रतिगरो भवति । अस्मिन्नाख्याने ' कस्य नूनम् ' इत्येवमाद्या ऋच: । ' यं न्विमं पुत्रमिच्छन्ति ' इत्येवमाद्या गाथा: । सर्वत्र च ब्राह्मणजाः श्लोका गाथा । इत्युच्यन्ते । ऋचां गाथानां प्रतिगरविधानाद् ब्राह्मणवाक्येषु प्रतिगरो नास्ति । ' हरिश्चन्द्रो ह वैधसः ' इत्यारभ्य ' स ह नारदं पप्रच्छ ' इत्येवमन्तमुक्त्वाऽवसाय ' यं न्विमम् ' इत्यारभ्य नारदेत्येवमन्तमुक्त्वाऽ-वसिते तथेत्यध्वर्युः प्रतिगृणाति । सर्वत्र च गाथान्त ऋगन्ते च प्रतिगरो नान्यत्र भवति । तत: ‘ स एकया पृष्टो दशभिः प्रत्युवाच ' इति ब्राह्मणवाक्यमुक्त्वाऽवसाय दश गाथा ब्रूयात् । दशकृत्वश्च प्रतिगृणाति एवं सर्वत्राऽऽचष्टे प्रतिगृणाति च । इति आश्व ० श्रौ ० सूत्रे नारायणः । ( २ ) दैवशब्देन वैदिकत्वमुच्यते । ओमिति = वैदिकवचनमिदमनुज्ञावचनमित्यर्थः । तथेति मानुषं = मानुषमिति लौकिकमिदमनुज्ञावचनमित्यर्थः । ताभ्यां लौकिकवैदिकाभ्यामों तथाशब्दाभ्यां प्रतिगरभूताभ्यामेनं राजानं पापादेनसः प्रमुञ्चति । ‘ पाप’शब्देनात्र महत्पाप-मुच्यते, ‘ एनः ’ – शब्देनाल्पम् । महतः पापादल्पाच्च पापात्, प्रमुञ्चति — इत्यर्थः । इति तत्रैव नारायणः ॥ ( ३ ) आश्व ० श्रौ ० ( ९.३.१३ ) एष एव पाठोद्धृतः ।
पृष्ठ 529
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३८३ सम्बन्धी उपाख्यान को आख्यापयेत् कहलवाना चाहिए । अस्मिन् इस ( आख्यान कहलाने वाले अयाजक राजा ) में अल्पञ्चन एनः अल्पमात्र भी पाप न ह परिशिष्यते नहीं ही अवशिष्ट रह जाता है ॥ सा ० भा ० — यस्मादुपाख्यानं पापप्रशमनहेतुः ' तस्माद् ' अयजमानोऽपि राजसूय-क्रतुरहितोऽपि ‘ राजा विजिती ' यदि विजयोपेतः स्यात्, तदानीमेतच्छौनःशेपमाख्यानम् ‘ आख्यापयेत् ’ तस्य राज्ञो यः कश्चिद्ब्राह्मण उपाख्यानं ब्रूयात् । तथा सति ' तस्मिन् ' राजनि ' अल्पंचन ' किञ्चिदपि ' एन: ' पापं ' न ह वै परिशिष्यते ' सर्वं पापं नश्यतीत्यर्थः । आख्यानप्रयुक्तां दक्षिणां विधत्ते— सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवाऽऽसने श्वेतश्चाश्व-तरीरथो होतुः ' ॥ १५ ॥
हिन्दी — ( शुनःशेपोपाख्यान में दी जाने वाली दक्षिणा का विधान कर रहे हैं— ) आख्यात्रे ( उपाख्यान को ) कहने वाले ( होता ) के लिए सहस्रं दद्यात् सहस्र गाएँ देनी चाहिए । प्रतिगरित्रे शतम् प्रतिगर करने वाले ( अध्वर्यु ) के लिए एक सौ गाएँ ( देनी चाहिए ) । एते चैव आसने ये दोनों ( सुवर्णसूत्र निर्मित ) आसन ( उन्हीं दोनों आख्याता और प्रतिगर करने वाले को देना चाहिए ) । ( इसके साथ ही ) होतुः होता ( ऋत्विक् ) के लिए श्वेतः च अश्वतरीरथः श्वेत और शक्ति - सम्पन्न अश्वों से जुड़े हुए रथ को ( देना चाहिए ) ॥ सा ० भा ० — योऽयमाख्याता होता, तस्मै क्रत्वर्थदक्षिणामन्तरेणोपाख्यानप्रयुक्तां दक्षिणां गोसहस्ररूपां दद्यात् । ' प्रतिगरित्रे ' अध्वर्यवे गोशतं दद्यात् । ये हिरण्यकशिपुरूपे द्वे ‘ आसने ’ स्तः, एते अपि ताभ्यामेव दद्यात् । अश्वतरोभ्यां सङ्कीर्णज्ञातियुक्ताभ्यामधिक-शक्तिभ्यां युक्तो रथः ' अश्वतरीरथः ' स च रजतेनालङ्कृतत्वाच्छ्वेतः । सोऽपि तादृशो होतृर्देयः ॥ पूर्वमयज्ञसंयुक्तः कल्पो विजयिनो राज्ञोऽभिहितः । इदानीं पुत्रकामानामपि सर्वेषामपि विधत्ते— पुत्रकामाः हाप्याख्यापयेरल्लभन्ते ह पुत्राल्लभन्ते ह पुत्रान् ॥ १६ ॥
हिन्दी — पुत्रकामाः ह अपि पुत्र की कामना करने वाले को भी निश्चित रूप से आख्यापयेरन् ( शुनःशेप के उपाख्यान को ) कहलाना चाहिए पुत्रान् ह लभन्ते ( इस उपाख्यान को सुनने से पुत्रकामी ) पुत्रों को प्राप्त करता है । सा ० भा ० — ये पुत्रकामाः सन्ति, ते ' ह ' प्रसिद्धमेतदुपाख्यानम् ‘ आख्यापयेरन् ’ ( १ ) ‘ सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्रे यथास्वमासने ' - इति आश्व ० श्री ० ९.३.१४-१६ ।
पृष्ठ 530
पाठ पढ़ें पाठ छिपाएँ
१३८४: ऐतरेयब्राह्मणम् [ ३३.६ सप्तमपञ्चिकायां
ब्राह्मणमुखाच्छृणुयुरित्यर्थः । ते पुत्राल्लँभन्ते । अभ्यासोऽध्यासमाप्त्यर्थः ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां तृतीयाध्याये ( त्रयस्त्रिंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( १८ ) ( २४१ )
॥ इस प्रकार ऐतरेयब्राह्मण के तैतीसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ।
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधर-माधवाचार्यादेशतो श्रीमत्सारणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाशे ' नामभाष्ये ऐतरेयब्राह्मणभास्ये सप्तमपञ्चिकायाः तृतीयाध्यायः ( त्रयस्त्रिंशोऽध्यायः ) ॥३३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के तैतीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥