ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 531–540

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 531–540

पृष्ठ 531

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 531 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ सप्तमपञ्चिकायां चतुर्थोऽध्यायः [ अथ चतुस्त्रिंशोऽध्यायः ] प्रथमः खण्डः

सायणभाष्यम्— शौन: शेपप्रसङ्गेन याः क्रिया राजकर्तृकाः ।

तद्विशेषविधानार्थमध्यायोऽत्र प्रवक्ष्यते ॥१ ॥

तत्रादौ किञ्चिदुपाख्यानमाह— ( शौनःशेपप्रसङ्गेन राजक्रतुनिरूपणम् ) ( तत्रोपाख्यानकथनम् ) प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्त्रे असृज्येतां; ब्रह्मक्षत्त्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च; ब्रह्मैवानु हुतादः क्षत्रमन्व-हुताद एता वै प्रजा हुतादो यद्ब्राह्मणा, अथैता अहुतादो यद्राजन्यो वैश्यः शूद्रः ॥ १ ॥

हिन्दी – ( शुनःशेपोपाख्यान के प्रसङ्गवश राजकर्तृक क्रिया - विशेष का विधान कर रहे हैं । उस क्रिया - विशेष के विषय में कोई उपाख्यान कर रहे हैं - ) प्रजापतिः यज्ञम् असृजम् प्रजापति ने ( ज्योतिष्टोम नामक यज्ञ की सृष्टि ( उत्पत्ति ) किया । सृष्टम् अनु ( ज्योतिष्टोम यज्ञ की ) सृष्टि करने के पश्चात् ब्रह्मक्षत्रे असृजेताम् ब्राह्मण और क्षत्रिय की सृष्टि किया । ब्रह्मक्षत्रे अनु ब्राह्मण क्षत्रिय के पश्चात् हुतादश्च अहुतादश्च हुताद ( हुत-शेष हवि का भक्षण करने वाली ) और अहुताद ( हुतशेष ) हवि का भक्षण न करने वाली द्वयः प्रजा असृजन्त इन दो प्रकार की प्रजाओं की सृष्टि किया । ब्रह्म एव अनु ब्राह्मण ` के पश्चात् हुतादः हुताद और क्षत्रमनु अह्रुतादः क्षत्रिय के बाद अहुताद की सृष्टि किया । यत् ब्राह्मणाः जो ब्राह्मण हैं एताः वै हुतादः प्रजाः ये ही ( ऋत्विक् कर्म करने के कारण ) हुताद ( होम से अवशिष्ट हवि का भक्षण करने वाली ) प्रजाएँ होती हैं अथ और यत् राजन्यः वैश्यः शूद्रः जो क्षत्रिय, वैश्य तथा शूद्र हैं एताः अह्रुतादः ये अहुताद ( हुत - शेष का भक्षण नहीं करने वाली ) प्रजाएँ हैं । सा ० भा ० - पुरा प्रजापतिज्योतिष्टोमाख्यं यज्ञं सृष्ट्वा तदनन्तरं ब्राह्मणक्षत्रिय-जातिद्वयं तत ऊर्ध्वं हुतादश्चाहुतादश्चेत्युभयविधाः प्रजा असृजत । तत्र ब्राह्मणजाति-मेवानु तद्व्यक्तिभूता हुतादः सृष्टाः । क्षत्त्रियजातिमनु तद्व्यक्तिजातीया अहुतादः प्रजाः सृष्टाः । ये ब्राह्मणाः सन्त्येताः प्रजा आर्त्विज्यसद्भभावाद्भुतशेषमदन्ति भक्षयन्तीति हुतादः ।

पृष्ठ 532

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 532 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३८६: ऐतरेयब्राह्मणम् [ ३४.१ सप्तमपञ्चिकायां ये राजन्यवैश्यशूद्रा एताः प्रजा आर्त्विज्याभावाद्भुतशेषं न भक्षयन्तीत्यहुतादः ' । इत्थं यज्ञं चतुरो वर्णांश्च स प्रजापतिः सृष्टवान् ॥ अथ सृष्टस्य यज्ञस्य वृत्तान्तमाह— ( सृष्टस्य यज्ञस्य वृत्तान्तकथनम् ) ताभ्यो यज्ञ उदक्रामत तं ब्रह्मक्षत्रे अन्वैतां यान्येव ब्रह्मण आयु-धानि तैर्ब्रह्मान्वैद्यानि क्षत्त्रस्य तैः क्षत्त्रमेतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधान्यथैतानि क्षत्त्रस्याऽऽयुधानि यदश्वरथः कवच इषुधन्वः ॥ २ ॥

हिन्दी – ( अब सृष्ट यज्ञ के वृत्तान्त को कह रहे हैं — ) ताभ्यः उन ( सृष्ट प्रजाओं ) से यज्ञः उदक्रामत् यज्ञ दूर चला गया । ब्रह्मक्षत्रे ब्राह्मण और क्षत्रिय ने तम् अन्वैताम् उस ( यज्ञ ) का अनुगमन किया । ब्रह्मणः यानि एव आयुधानि ब्राह्मण के जो आयुध थे तैः ब्रह्म अन्वैद्यानि उन ( आयुधों ) के साथ ब्राह्मण ने ( इस यज्ञ ) का अनुगमन किया और क्षत्रस्य जो क्षत्रिय के ( आयुध थे ) तैः क्षत्रम् उन ( आयुधों के साथ ) क्षत्रिय ने ( अनुगमन किया । यद् यज्ञस्य आयुधानि जो यज्ञ के ( स्फ्य, शम्या, कपाल इत्यादि ) आयुध थे एतानि वै ब्रह्मणः आयुधानि ये ही ब्राह्मण के आयुध थे अथ यद् अश्वरथः कवचः इषुधन्वः और जो अश्वयुक्त रथ, कवच, धनुष और बाण हैं, एतानि क्षत्रस्य आयुधानि ये क्षत्रिय के आयुध थे ॥ सा ० भा ० — स यज्ञः ‘ ताभ्यः ' प्रजाभ्यऽपरक्त उत्क्रम्य दूरेऽगच्छत् । तं ‘ गच्छन्तं ’ यज्ञं ब्राह्मणजातिक्षत्त्रियजाती द्वे ' अन्वैतां ' पश्चादगच्छताम् । ब्राह्मणस्य योग्यानि यान्या-युधानि तैः सह ब्राह्मणजातिर्यज्ञमन्वगच्छत् । क्षत्त्रियस्य योग्यानि यान्यायुधानि तैः सह क्षत्त्रियजातिर्यज्ञमन्वगच्छत् । यानि यज्ञायुधत्वेन शाखान्तरे श्रूयन्ते – स्फयश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश यज्ञायुधानि ' इति, तान्येव ब्राहाणजातेरुचितान्यायुधानि । योऽयमश्वयुक्तो रथो यश्च कवचो यदपि बाणयुक्तं धनुः, एतान्यपि क्षत्त्रियजातेरुचितान्यायुधानि ॥ यज्ञमनुगच्छन्त्योर्ब्राह्मणक्षत्त्रियजात्योर्मध्ये ब्राह्मणजातेर्यज्ञप्राप्तिं दर्शयति— ( ब्राह्मणजातेः यज्ञप्राप्तिकथनम् ) तं क्षत्त्रमनन्वाप्य न्यवर्तताऽऽयुधभ्यो ह स्मास्य विजमानः पराङेवै-त्यथैनं ब्रह्मान्वैत्, तमाप्नोत् तमाप्त्वा परस्तान्निरुध्यातिष्ठत् स आप्तः परस्तान्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत; तस्माद्धा-( १ ) तु ० शत ० ब्रा ० ४.५.२.१६ ( २ ) तै ० सं ० १.६.८.२-३

पृष्ठ 533

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 533 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३८७ प्येतर्हि यज्ञो ब्रह्मण्येव ब्राह्मणेषु प्रतिष्ठितः ॥ ३ ॥

हिन्दी - ( यज्ञ का अनुगमन करते हुए ब्राह्मण और क्षत्रिय में ब्राह्मण की यज्ञप्राप्ति को दिखला रहे हैं— ) अस्य आयुधेभ्यः इस ( क्षत्रिय ) के आयुधों से विजमानः भयभीत हुआ ( यज्ञ ) पराङ् एव एति स्म भागकर दूर चला गया अतः तम् अनन्वाष्य पीछा करते हुए उस ( यज्ञ ) को न पाकर क्षत्रं ह न्यवर्तत क्षत्रिय निवर्तित हो गये ( लौट ) गये । अथ इसके बाद ब्रह्म अन्वैत ब्राह्मण ने पीछा किया और तम् आप्नोत् उस ( यज्ञ ) को प्राप्त कर लिया । तम् आप्त्वा उस ( यज्ञ ) को प्राप्त करके परस्ताद् निरुद्ध्य ( उसके रास्ते को ) आगे से रोककर अतिष्ठत् खड़े हो गये । सः वह आप्तः ( ब्राह्मण द्वारा ) प्राप्त और परस्तात् निरुद्धः आगे से रोका गया ( यज्ञ ) तिष्ठन् वहीं खड़े होकर स्वानि आयुधानि ज्ञात्वा ( ब्राह्मणों के पास स्फ्य इत्यादि ) अपने ही आयुधों को समझ कर ब्रह्म उपावर्तत ब्राह्मण के समीप लौट आया । तस्मात् ह उसी कारण एतर्हि अपि अभी भी यज्ञः यज्ञ ब्रह्मणि एव ब्राह्मण जाति में और ब्राह्मणेषु ( प्रयोग की निपुणता के कारण ) ब्राह्मणों में प्रतिष्ठितः प्रतिष्ठित है ॥ सा ० भा ० - ' क्षत्त्रं ' क्षत्रियजातिः ' तं ' यज्ञम् ' अनन्वाप्य ' अनुगमनेन प्राप्तिम-लब्ध्वा, तस्मादनुगमनान्यवर्तत । यज्ञोऽस्य क्षत्रियस्याऽऽयुधेभ्यो धनुरादिभ्यो ' विजमानः ’ भीतिं प्राप्नुवन् ' पराङेव ' पुनरावृत्तिरहित एव ' एति स्म ' पलाय्य दूरे गतः । ' अथ ' अनन्तरम् ‘ एनं ’ यज्ञं ‘ ब्रह्म ' ब्राह्मणजातिः ' अन्वैत् ' अन्वगच्छत् । अनुगम्य च ' तं ' यज्ञमाप्नोति स्म । आप्त्वा च ‘ तं ' यज्ञमतिक्रम्य ' परस्तात् ' परभागे ' निरुध्य ' यज्ञगमनं प्रतिबुध्यातिष्ठत् । अत्र यज्ञ आप्त:, तथा ब्राह्मणजात्या प्राप्तः, ' परस्तात् ' परभागे ' निरुद्धः ' गमनात्प्रतिबद्धः । तत्रैव तिष्ठन् ब्राह्मणस्य हस्ते स्फ्यकपालादीनि स्वकीयान्यायुधानि ज्ञात्वा ब्राह्मणजातिं प्रति ‘ उपावर्तत् ' समीप आगच्छत् । यस्मादेवं तस्मादिदानीमपि यज्ञो ' ब्रह्मण्येव ' आर्त्विज्य-योग्यायां ब्राह्मणजातावेव, तत्रापि प्रयोगकुशलेषु ' ब्राह्मणेषु ' प्रतिष्ठितो वर्तते ॥ अथ क्षत्रियस्य यज्ञप्राप्तिं दर्शयति-( क्षत्रियस्य यज्ञप्राप्तिकथनम् ) अथैनत् क्षत्त्रमन्वागच्छत्तदब्रवीदुप माऽस्मिन् यज्ञे ह्वयस्वेति; तत् तथेत्यब्रवीत्; तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवाऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति, तथेति, तत्क्षत्त्रं निधाय स्वान्या-युधानि ब्राह्मण एवाऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत; तस्माद्वाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवाऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते ' ॥४ ॥

( १ ) अतएवैवमाम्नातम् - ' स एष यज्ञायुधी यजमानः ' - इति शत ० ब्रा ० १२.५.२.८ ।

पृष्ठ 534

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 534 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३८८: ऐतरेयब्राह्मणम् [ ३४.१ सप्तमपञ्चिकायां हिन्दी— ( अब क्षत्रिय की यज्ञ - प्राप्ति को दिखला रहे हैं - ) अथ इस ( ब्राह्मण के यज्ञ की प्राप्ति ) के बाद क्षत्रम् क्षत्रिय जाति ने एनत् इस ( ब्राह्मण जाति ) का अन्वा-गच्छत् अनुसरण किया । तद् अब्रवीत् उस ( क्षत्रिय जाति ) ने कहा – - ( ( हे ब्राह्मण! ) अस्मिन् यज्ञे इस यज्ञ में माम् उप ह्वयस्व मुझे भी बुलाओ । तत् तथा इति अब्रवीत् ( उस ब्राह्मण जाति ने ) ‘ वैसा ही हो ' इस प्रकार कहा । तद्वै स्वानि आयुधानि निधाय तो तुम अपने ( धनुष - बाण इत्यादि ) आयुधों को रखकर ब्रह्मणः एव आयुधैः ब्राह्मण जाति के ( स्फ्य, कपाल इत्यादि ) आयुधों के साथ ब्रह्मणः रूपेण ब्राह्मण जाति के रूप से ब्रह्म भूत्वा ब्राह्मण होकर यज्ञम् उपावर्तस्व यज्ञ के समीप आओ । तथा इति ( क्षत्रिय जाति ने कहा- ) वैसा ही होवे । तत् क्षत्रम् तो क्षत्रिय जाति ने स्वानि आयुधानि निधाय अपने आयुधों को कहीं रखकर ब्रह्मणः एव आयुधैः ब्राह्मण जाति के आयुधों के साथ ब्रह्मणः रूपेण ब्राह्मण जाति के रूप से ब्रह्म भूत्वा ब्राह्मण होकर यज्ञम् उपावर्तत यज्ञ के समीप आये । तस्मात् इस कारण एतर्हि अपि इस समय भी क्षत्रियः यजमानः क्षत्रिय यजमान स्वानि आयुधानि निधाय अपने आयुधों को कहीं रखकर ब्राह्मणः एव आयुधैः ब्राह्मण जाति के आयुधों के साथ ब्रह्मणः रूपेण ब्राह्मण जाति के रूप से ब्रह्म भूत्वा ब्राह्मण होकर यज्ञम् उपावर्तते यज्ञ के समीप आते हैं ॥ सा ० भा ० — ‘ अथ ' ब्राह्मस्य यज्ञप्राप्तेरनन्तरम् ' एनत् ' ब्रह्म ब्राह्मणजातिं ' क्षत्रं ' क्षत्त्रियजातिः ‘ अन्वागच्छत् ' । आगत्य च ' तद् ' ब्रह्म प्रत्येवमब्रवीत् । हे ब्राह्मण! मां क्षत्त्रियमस्मिन् यज्ञे ‘ उपह्वयस्व ' अनुजानीहि मामाहूय यज्ञेन संयोजयेत्यर्थः । ‘ तत् ’ उक्तं कार्यं तथैवास्त्विति ब्राह्मणोऽब्रवीत् । उक्त्वा च क्षत्त्रियायैवं बुद्धिप्रदानं कृतवान् । हे क्षत्रिय! ‘ तद्वै ’ तथा सति तव यज्ञप्राप्तावपेक्षायां सत्यां स्वकीयानि धनुरादीनि ' आयुधानि ' क्वचि-त्स्थापनीयानि । तान्यवस्थाप्य ब्राह्मणस्यैव योग्यैः स्पयकपालाद्यायुधैर्ब्राह्मणस्य योग्येन शान्तिश्रद्धालुत्वयुक्तेन ‘ रूपेण ' वेषेण च युक्तो ' ब्रह्म भूत्वा ' ब्राह्मणसदृशो भूत्वा यज्ञं प्रत्युपावर्तंस्वेति । ‘ तत्क्षत्त्रं ’ स च क्षत्रियः ' तथेति ' अङ्गीकृत्य स्वकीयानि धनुरादीन्या-युधानि ‘ निधाय ’ परित्यज्य शान्तवेषेण यज्ञं प्राप्तवान् । यस्मादादिसृष्टावेवं सम्पन्नं, तस्मादि-दानीमपि क्षत्त्रियो ब्राह्मणवेषेण धनुरादिरहितेन यज्ञमनुतिष्ठति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां चतुर्थाध्याये ( चतुस्त्रिंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( १ ९ ) ( २४२ )

॥ इस प्रकार ऐतरेयब्राह्मण के चौतीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

पृष्ठ 535

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 535 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३८ ९ द्वितीयः खण्डः सा ० भा ० — क्षत्रियस्य यज्ञप्राप्तिमुक्त्वा देवयजनलाभं वक्तुं प्रश्नमुद्भावयति— ( क्षत्रियस्य देवयजनलाभकथनम् ) अथातो देवयजनस्यैव याच्ञस्तदाहुर्यद्ब्राह्मणोराजन्ये वैश्यो दोक्षि-ष्यमाणः क्षत्त्रियं देवयजनं याचति; कं क्षत्रियो याचेदिति ॥ १ ॥

हिन्दी – ( क्षत्रिय जाति की यज्ञ - प्राप्ति को कहकर देवयजन के लाभ को कहने के लिए प्रश्न की उद्भावना कर रहे हैं - ) अथातः इस ( क्षत्रिय की यज्ञ - प्राप्ति के कथन ) के बाद अब देवयजनस्य याच्ञः देवयजन की याचना को कहा जा रहा है । तदाहुः इस ( देवयजन ) के विषय में ( कुछ वेदज्ञ ) पूछते हैं — दोक्षिष्यमाणः ब्राह्मणः राजन्यः वैश्यः दीक्षा ग्रहण कर लेने वाला ब्राह्मण, क्षत्रिय और वैश्य क्षत्रियम् क्षत्रिय राजा से देवयजनं याचति देवयजन - स्थान की याचना करता है तो क्षत्रियः कं याचेत् तो क्षत्रिय राजा किससे ( देवयजन स्थान की याचना ) करें? ॥ सा ० भा०- ' -'अथ ' क्षत्रियस्य यज्ञेच्छानन्तरं यतो देवयजनमपेक्षितम् ‘ अतः ’ का-रणाद् ‘ देवयजनस्यैव ' देवा इज्यन्ते यस्मिन् देशे स देवयजनस्तस्यैव ' याच्ञः ' याचन-मभिधीयत इति शेषः । ‘ तत् ' तत्र देवयजने ब्रह्मवादिनः प्रश्नमाहुः । ' यद् ' यस्मात्कारणाद् ब्राह्मणादयस्त्रयो वर्णाः क्षत्त्रियम् ' अभिषिक्तं राजानं प्रति देवयजनं याचन्ति । तस्माद्राज्ञोऽपि देवयजनो याचितव्यः । क्षत्रियो राजा ' कम् ' अन्यं स्वामिनं याचेदिति प्रश्नः ॥ तस्योत्तरमाह— दैवं क्षत्त्रं याचेदित्याहुरादित्यो वै दैवं क्षत्त्रमादित्य एषां भूतानाम-धिपतिः ॥ २ ॥

हिन्दी - ( उत्तर - ) दैवं क्षत्रं याचेत् दिव्य क्षत्रिय से याचना करनी चाहिए - इत्याहुः

ऐसा कहा गया है । आदित्यः वै दैवं क्षत्रम् आदित्य ही देवताविषयक क्षत्रिय है ।

आदित्यः एव आदित्य ही एषां भूतानाम् अधिपतिः इन प्राणियों का स्वामी है ॥

सा ० भा ० – - राज्ञो मनुजेषु मध्ये स्वाम्यन्तराभावेऽपि देवसम्बन्धिक्षत्त्रियजातेः स्वामि-त्वात् तत्रैव याचनमुचितमित्युत्तरमाहुः । योऽयमादित्योऽस्ति, असावेव ‘ दैवं ’ देवसम्बन्धि ‘ क्षत्त्रं ’ क्षत्त्रियजातिः । अयमादित्य ' एषां ' प्राणिनां तमोनिवारणेनाधिष्ठाता पालयिता । ततः स्वामित्वात् तत्समीपे याचनमुचितम् ॥ तस्य प्रकारं दर्शयति — ( १ ) ' याच्ञाय कृणुते ' - इति अथर्व ० १२.४.३० । ' याच्या ' - इति शत ० ब्रा ० २.३.४.४ ।

पृष्ठ 536

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 536 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३ ९ ०: ऐतरेयब्राह्मणम् [ ३४.२ सप्तमपञ्चिकायां स यदहर्दीक्षिष्यमाणो भवति, तदहः पूर्वाह्न एवोद्यन्तमादित्यमुप-तिष्ठेतेदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमम् । देव सवितर्देवयजनं मे देहि देवयज्याया इति देवयजनं याचति ॥ ३ ॥

हिन्दी— ( सूर्य से याचना का प्रकार दिखला रहे हैं - ) सः वह ( क्षत्रिय राजा ) यद् अहः जिस दिन दीक्ष्यमाणः भवति दीक्षित होता है तद् अहः उस दिन पूर्वाह्णे एव पूर्वाह्न में ही ' इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमम् ' अर्थात् यह ज्योतियों में श्रेष्ठ और उत्तम ज्योति है - इस मन्त्र से उद्यन्तम् आदित्यम् उपतिष्ठेत उगते हुए सूर्य का उपस्थान करना चाहिए तथा ‘ देव सवितर्देवयजनं मे देहि देवयज्यायै ' अर्थात् हे सविता देवता! देवता से सम्बन्धित यज्ञ के लिए देवताओं के लिए उपयुक्त यज्ञस्थान प्रदान करो ' इति इस यजुष् से देवयजनं याचति देवयाग के स्थान की याचना करता है । सा ० भा ० — ‘ सः ' राजा यस्मिन्नेवाहनि दीक्षितुमुद्युक्तः, तस्याह्नः पूर्वाह्नकाल एव ‘ उद्यन्तम् ’ ऊर्ध्वं गच्छन्तमादित्यमृग्यजुर्भ्यामुपतिष्ठेत् । ' इदं श्रेष्ठम् ' - इत्यृचः प्रतीकं, ‘ देव सवितः ' इत्यादिकं यजुषः । हे देव सवितः ' देवयज्यायै ' देवसम्बन्धियागार्थं ' मे ' मह्यं देवयजनं ' देवोचितयागदेशं देहि, ' इति ' अनेन प्रकारेण देशं याचेत् । ऋचोपस्थानं यजुषा याचनमिति व्यवस्थया द्रष्टव्यम् ॥ राज्ञा याचितस्याऽऽदित्यस्य प्रत्युत्तरं सम्पादयति — स यत्तत्र याचित उत्तरां सर्पत्यों तथा ददामीति हैव तदाह ॥४ ॥

हिन्दी— ( राजा द्वारा याचित आदित्य के प्रत्युत्तर का सम्पादन कर रहे हैं— ) सः वह ( आदित्य ) यत् तत्र जो वहाँ याचितः ( राजा द्वारा ) याचित होकर उत्तराम् उत्तर को सर्पति सर्पण करता है तो तत् उस ( सर्पण ) से ओं तथा ददामि हाँ, वैसा ही ( तुमको स्थान ) दे रहा हूँ इति ह एव तत् आह मानो ऐसा उत्तर दे रहा है ॥ सा ० भा ० — आदित्यो ‘ यद् ' यदि ' तव ' तदानीमनेन राज्ञा याचितः सन् ' उत्तरां ' यत्र स्वयं तिष्ठति तस्मादनन्तरभाविनीं दिशं प्रति ' सर्पति ' गच्छेत्, तदानीं ' तत् ' तेन सर्पणेन ‘ ॐ तथा ददामि ' इत्येवमुत्तरम् ' आह ' ब्रूते । लोकेऽपि पृष्टः पुरुषो वाचा वा हस्तशिर-श्चालनादिना वोत्तरं प्रयच्छति, तद्वदत्रापि सर्पणमेवोत्तरमस्तु । सर्पणस्याभिप्राय ‘ ओं तथा ददामि ’ इत्यनेन कथितः । ‘ ओं ' त्वदुक्तमङ्गीकरोमि, ‘ तथा ' तेनैव प्रकारेण देवयजनं ददामि ॥ तामेतां देवयजनयाच्ञां प्रशंसति— ( देवयजनायाच्ञाप्रशंसनम् ) तस्य ह न काचन रिष्टिभवति, देवेन सवित्रा प्रसूतस्योत्तरोत्तरिणीं ह

पृष्ठ 537

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 537 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १३ ९ १ श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमुपस्थाय याचित्वा देवयजनमध्यवसाय दीक्षते क्षत्रियः सन् ॥ ५ ॥

हिन्दी – ( उस इस देवयजनयाचना की प्रशंसा कर रहे हैं — ) यः एव उपस्थाय जो इस प्रकार ( आदित्य का ) उपस्थान करके और याचित्वा याचना करके तथा देवयजनं अध्यवसाय देवयजन स्थान का निश्चय करके क्षत्रियः सन् दीक्षते क्षत्रिय राजा दीक्षित होता है वह देवेन सवित्रा प्रसूतस्य तस्य सविता देव के द्वारा इस प्रकार अनुमति प्राप्त कर लेने वाले ( राजा ) का काचन रिष्टिः न भवति कोई भी हिंसा ( अहित ) नहीं होती । उत्तरोत्तरिणीं ह श्रियम् अश्नुते वह उत्तरोत्तर वृद्धि करने वाली श्री को प्राप्त करता है तथा प्रजानाम् ऐश्वर्यम् आधिपत्यं ह अश्नुते सभी प्रजाजनों के स्वामित्व और योगक्षेम के सम्पादन को प्राप्त करता है । सा ० भा०- -'यः ' पुमान् ' क्षत्रियः ' स्वयं राजा सन् ' एवम् ' ऋचाऽऽदित्यमुपस्थाय, यजुषा याचित्वा, ततो देवयजनं निश्चित्य, ' दीक्षते ' दीक्षां प्राप्नोति; ' तस्य ' राज्ञः सवित्रा देवेन ' प्रसूतस्य ' अनुज्ञातस्य ' रिष्टि: ' हिंसा ' काचन ' काचिदपि न भवति । न केवलं हिंसाराहित्यं, किन्तु ‘ उत्तरोत्तरिणी ' दिने दिने वर्धमानां श्रियम् ' अश्नुते ' प्राप्नोति । किं च ‘ प्रजानां ’ सर्वासाम् ‘ ऐश्वर्यम् ' ईश्वरत्वं नियमनसामर्थ्यम्, आधिपत्यम्, अधिष्ठाय पालायि-तृत्वं, तत्तद्योगक्षेमसम्पादनम् ' अश्नुते ' प्राप्नोति || ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां चतुर्थाध्याये ( चतुस्त्रिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( २० ) ( २४३ )

॥ इस प्रकार ऐतरेयब्राह्मण के चौतीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ तृतीयः खण्डः सा ० भा ० - तस्यैव क्षत्रियस्य होमं विधत्ते— ( क्षत्रियस्य होमविधानम् ) ( तत्र दीक्षणीयेष्टेः पूर्वकालीनहोम: ) अथात इष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमानस्य; स पुरस्ता-दीक्षाया आहुतिं जुहुयाच्चतुर्गृहीतमाज्यमाहवनीय इष्टापूर्तस्यापरि-ज्यान्यै ॥ १ ॥

पृष्ठ 538

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 538 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३ ९ २: ऐतरेयब्राह्मणम् [ ३४.३ सप्तमपञ्चिकायां हिन्दी— ( उस क्षत्रिय के होम का विधान कर रहे हैं— ) अथ उस ( देवजयनस्थान के चयन ) के बाद क्षत्रियस्य यजमानस्य यजन करने वाले क्षत्रिय राजा के इष्टापूर्तस्य अपरिज्यानिः इष्टापूर्त के अपरिज्यानि ( विनाश न होने वाले ) होम को कह रहे हैं - सः दीक्षायाः पुरस्तात् उस राजा को दीक्षा से पहले इष्टापूर्तस्य अपरिज्यान्यै इष्टापूर्त को सुरक्षित रखने के लिए आहवनीये आहवनीयाग्नि में चतुर्गृहीतम् आज्यम् चार घी की आहुतिं जुहुयात् आहुति देनी चाहिए ॥ सा ० भा ० – ‘ अथ ' देवयजननिश्चयानन्तरम्, यस्मादनुष्ठेयस्येष्टापूर्तस्य ' अपरि-ज्यानिः ’ विनाशाभावोऽपेक्षितः । ' अतः ' कारणाद्यजमानस्य ' क्षत्रियस्य ' राज्ञ इष्टापूर्तापरि-ज्यानिसंज्ञको होमः, अभिधीयत इति शेषः ॥ इष्टापूर्तशब्दार्थः पूर्वाचार्यैर्दर्शितः-“ वर्णाश्रमान्वयी धर्मं इष्टं, पूर्तमथेतरत् । प्रपा - तटाकादिरूपं तच्च सर्वत्र दृश्यते ॥ स्मार्तं पूर्तं श्रौतमिष्टमिति केचिदिहोचिरे ” ॥ इति । ' सः ' राजा दीक्षायाः पूर्वमाहुतिं जुहुयात् । ' चतुर्गृहीतमाज्यं ' द्रव्यम्, ‘ आहवनीयः ’ होमस्थानम्, अनुष्ठेयस्येष्टापूर्तस्य फलपर्यवसायित्वलक्षणो विनाशाभावः प्रयोजनम् ॥ होमे मन्त्रं दर्शयति ---पुनर्न इन्द्रो मधवा ददातु, ब्रह्म पुनरिष्टं पूर्तं दात् स्वाहेति ॥ २ ॥

हिन्दी— ( होम के मन्त्र को दिखला रहे हैं - ) ' पुनर्न: इन्द्रो मधवा ददातु ' अर्थात् ‘ बहुत धन देने वाले इन्द्र मुझे पुनः ( धन ) प्रदान करें ' इस ऋचा से और ' ब्रह्म पुनरिष्टं पूर्त दात् ' अर्थात् ब्रह्म ( वेदमन्त्र ) इष्ट ( यज्ञ ) तथा पूर्त को देवे ' इस यजुष मन्त्र से स्वाहा स्वाहाकार के साथ ( आहुति देनी चाहिए ) ॥ सा ० भा ० – ‘ पुनर्नः ’ इत्यादिकमृचः प्रतीकं, ' ब्रह्म ' इत्यादिकं यजुः । ‘ ब्रह्म ' वेदरूपो मन्त्रः, ‘ इष्टंपूर्तं ’ यथोक्तलक्षणं ' पुनर्दात् ' भूयो भूयो ददातु । तदर्थमिदं ' स्वाहा ' स्वा-हुतमस्तु ॥ दीक्षणीयेष्टेः पूर्वंकालीनं होमं विधायानुबन्ध्याख्यपशोरुत्तरकालीनं होमं विधत्ते— ( अनुबन्धाख्यपशोरुत्तरकालीनहोम:)

अथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात् पुनर्नो अग्निर्जातवेदा ददातु ।

क्षत्त्रं पुनरिष्टं पूर्तं दात् स्वाहेति ॥ ३ ॥

हिन्दी —— ( दीक्षणीयेष्टि के पूर्वकालीन होम को कहकर अनुबन्ध्य नामक पशु के उत्तरकालीन होम का विधान कर रहे हैं ) अथ अब ( दीक्षणीयेष्टि की पूर्वकालीन होम

पृष्ठ 539

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 539 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थोऽध्यायः तृतीयः खण्डः. ] सायणाचार्यकृतभाष्योपेतम् ः १३ ९ ३ के बाद ) अनुबन्ध्यायै अनुबन्ध्यसंज्ञक पशु से सम्बन्धी समिष्टयजुषाम् उपरिष्टात् ( तीन ) उपसंह्रियमाण यजुष् ( समिष्ट यजुष् ) के बाद ' पुनर्नो अग्निर्जातवेदा ददातु ' अर्थात् ‘ सभी को जानने वाला अग्नि हमें पुनः प्रदान करें ' इस ऋचा से ' क्षत्रं पुनरिष्टं पूर्वं दात् ' अर्थात् क्षत्रिय जाति इष्ट और पूर्त को पुनः प्रदान करे ' इस यजुष् द्वारा स्वाहाकार के साथ ( होम करना चाहिए ॥ सा ० भा ० – ‘ अथ ' प्राचीनहोमकथनानन्तरम् उच्यते — इति शेषः । ' अनुबन्ध्यायै ' अनुबन्ध्याख्यपशोः सम्बन्धीनि यानि त्रीणि समिष्टयजूंषि सन्ति, तेषामुपरिष्टाज्जुहूयादिति शेष | ‘ पुनर्न: ’ इत्यृचः प्रतीकम् । इयं पूर्वोक्ता चत्यृग्द्वयं शाखान्तरगतम् ' । ' क्षत्त्रं ' क्षत्रिय-जातिरिष्टं पूर्तं च ' पुनर्दात् ' भूयो ददातु तदर्थं स्वाहुतमिदमस्तु ॥ पूर्वोत्तरकालीनमाहुतिद्वयं प्रशंसति— ( पूर्वोत्तरकालीनाहुतिद्वयप्रशंसनम् ) सैषेष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमानस्य, यदेते आहुति तस्मादेते होतव्ये ॥४ ॥

हिन्दी - ( पूर्व और उत्तर - कालीन दोनों आहुतियों की प्रशंसा कर रहे हैं - ) यदेते आहुतिः जो ये दोनों आहुतियाँ हैं सा एषा वह यह यजमानस्य क्षत्रियस्य यजन करने वाले क्षत्रिय राजा के इष्टापूर्तस्य इष्ट और पूर्त के अपरिज्यानिः विनाशरहितता के लिए होती है । तस्माद् एते होतव्ये इसी कारण इन आहुतियों का होम करना चाहिए ॥ सा ० भा ० - योऽयं क्षत्रियो राजा यजमानः, तस्य ' एते ' पूर्वोत्तरकालीने ' आहुती ' विद्येते ’ । ‘ सैषा ’ आहुतिक्रियेष्टस्य पूर्तस्य च ' अपरिज्यानिः ' अविनाशहेतुः, तस्मात्कारणात् ' एते ' उभे आहुती होतव्ये ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये सप्तमपञ्चिकायां चतुर्थाध्याये ( चतुस्त्रिंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( २१ ) ( २४४ )

॥ इस प्रकार ऐतरेयब्राह्मण के चौतीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ‘ संस्थितायां मैत्रावरुण्यनुबन्ध्या ' - इति आश्व ० श्रौ ० ६. १४.७ । अथ प्रातः... ' मैत्रावरुणीं वशामनुबन्ध्यामालभते'- इति शत ० ब्रा ० २.४.४.१४ । ऐ.ब्रा.उ.- ३४

पृष्ठ 540

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 540 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३ ९ ४: ऐतरेयब्राह्मणम् [ ३४.४ सप्तमपञ्चिकायां चतुर्थः खण्डः सा ० भा ० — अथ प्रकारान्तरेणाहुतिद्वयं विधत्ते— ( प्रकारान्तरेणाहुतिद्वयविधानम् ) तदु ह स्माऽऽह सौजात आराहिळरजीतपुनर्वण्यं वा एतद् यदेते आहुती इति; यथा ह कामयेत तथैते कुर्याद् य इतोऽनुशासनं कुर्यादितीमे त्वेव जुहुयात् ॥ १ ॥

हिन्दी— ( प्रकारान्तर से दोनों आहुतियों की प्रशंसा कर रहे हैं— ) तदु ह उस ( होम-द्वय ) के विषय में आढिः सौजात: आराढ नामक ( ऋषि ) के पुत्र सौजात ने आह स्म कहा है – यद् एते आहुती ये जो दोनों आहुतियाँ हैं एतद् अजीतपुनर्वण्यं वै नष्ट हुई अथवा अप्राप्त वस्तु को पुनः प्राप्त कराने वाली हैं । यः इतोऽनुशासनं कुर्यात् जो व्यक्ति इस ( सौंजात ) के अनुशासन के अनुसार करे वह यथा कामयेत तथा एते कुर्यात् जैसी कामना करे वह वैसा ही करें । इतीमे जुहुयात् अतः इन दोनों ( आगे कही जाने वाली ) आहुतियाँ प्रदान करे ॥ सा ० भा०- - ' तदु ह ' तत्रैव पूर्वोक्तहोमस्थाने, सौजातनामकः कश्चिदृषिः, स च आराह्ळनामकस्य पुत्रः, एवमुवाच । कथमिति? तदुच्यते — ' एते ' वक्ष्यमाणे आहुती ' इति ' यदस्ति, तदेतद् ‘ अजीतपुनर्वण्यं वै ' नष्टमप्राप्तं वा यद्वस्तु तदेतजीतं, तस्य पुनरपि वनसाधनं प्राप्तिकारणमजीतपुनर्वण्यम्, वक्ष्यमाणमाहुतिद्वयमेतन्नामकमित्यर्थः । ‘ इति ’ यदेतत्सौजातस्य मतं, तदेव यथेत्यादिना प्रशस्यते । ' यः ' पुमान् ‘ इतः ’ सौजातवाक्याद् ‘ अनुशासनम् ’ । उपदिष्टमनुष्ठानं कुर्याद्, स पुमान् ‘ यथा ' येनैव प्रकारेण कामयेत, ‘ तथा ’ तेनैव प्रकारेण सिद्धं फलमुद्दिश्य ' एते कुर्यात् एतदनुष्ठानेन काम्यमानं फलं सिध्यति । तस्मात्कारणात् ‘ इमे ’ एवाऽऽहुती जुहुयात्, न तु पूर्वे ॥ तत्र दीक्षणीयेष्टेः प्राचीनहोममन्त्रं दर्शयति— ( प्राचीनहोममन्त्रः ) ब्रह्म प्रपद्ये, ब्रह्म मा क्षत्त्राद् गोपायतु, ब्रह्मणे स्वाहेति ॥ २ ॥

हिन्दी— ( दीक्षणीयेष्टि के प्राचीन होम मन्त्र को दिखला रहे हैं— ) ब्रह्म प्रपद्ये मैं ( क्षत्रिय राजा ) ब्राह्मण जाति को प्राप्त कर रहा हूँ । ब्रह्म मा क्षत्राद् गोपायतु ब्राह्मण जाति मुझ क्षत्रिय जाति की रक्षा करें । ब्रह्मणे स्वाहा ब्राह्मण जाति के लिए स्वाहा || सा ० भा ० — ' ब्रह्म ' ब्राह्मणजातिं ' प्रपद्ये ' रक्षकतया प्राप्नोमि । ' ब्रह्म मा ' ब्राह्मण-जातिर्मां ‘ क्षत्त्रात् ’ क्षत्त्रियजातेः ‘ गोपायतु ' पालयतु । ' ब्रह्मणे ' ब्राह्मणजातये स्वाहुतमि-