ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 551–560
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 551–560
पृष्ठ 551
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४०५ क्षत्त्रियपरत्वेनोहनीयः; आहोस्विदविकृत एव पठनीयः ' इति प्रश्नाभिप्रायः ॥ तत्रोत्तरमाह— यथैवैतद् ब्राह्मणस्य दीक्षितस्य ब्राह्मणोऽदीक्षिष्टेति दीक्षामावेद-यन्त्येवमेवैतत् क्षत्रियस्याऽऽवेदयेत् पुरोहितस्याऽऽर्षेयेणेति ॥ २ ॥
हिन्दी — ( उत्तर— ) यथा जिस प्रकार दीक्षितस्य ब्राह्मणस्य दीक्षित ब्राह्मण का ' ब्राह्मणः दीक्षिष्टा इति ब्राह्मण ने दीक्षा को ग्रहण किया है ' - इस प्रकार दीक्षाम् आवेदयन्ति दीक्षा की घोषणा करते हैं, एवमेव इसी प्रकार ही क्षत्रियस्य आवेदयेत् क्षत्रिय ( की दीक्षा ) की घोषणा करनी चाहिए । उसे पुरोहितस्य आर्षेयेण पुरोहित के गोत्र के साथ प्रयोग करना चाहिए । सा ० भा ० - अथ शब्दो नोहितव्यः | अविक्रत एव ब्राह्मणशब्दः क्षत्रियदीक्षा-वेदनेऽपि प्रयोक्तव्यः । यदि ब्राह्मणप्रवरोऽपेक्षितः, तदानीं ' पुरोहितस्य ' ब्राह्मणस्य सम्बन्धिनाऽऽर्षेयेण प्रयोगः कर्त्तव्यः । तथा च आपस्तम्बः क्षत्रियवैश्ययोरपि ब्राह्मणशब्दे-नैवाऽऽवेदनं दर्शयति — ‘ अदीक्षिष्टायं ब्राह्मणोऽसावमुष्य पौत्रोऽमुष्य नप्ताऽमुष्याः पुत्रोऽ-मुष्याः पौत्रोऽमुष्या नप्तेति; ब्राह्मणो वा एष जायते, यो दीक्षते ', तस्माद् राजन्यवैश्या अपि ब्राह्मण इत्येवाऽऽवेदयति ' इति ॥ ईदृशस्यावेदनस्य पूज्यतां दर्शयति-तत्तदिती ३ ॥ ३ ॥
हिन्दी — तत् तद् इति उस - उस आवेदन के ( स्थल - स्थल पर यज्ञादि उदाहरित करते हैं ॥ सा ० भा ० । - – पूर्ववद् व्याख्येयम् ॥ ब्राह्मणत्वेनाऽऽवेदनमुपपादयति— निधाय वा एष स्वान्यायुधानि ब्रह्मण एवाऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत; तस्मात् तस्य पुरोहितस्याऽऽर्षेयेण दीक्षा-मावेदयेयुः; पुरोहितस्याऽऽर्षेयेण प्रवरं प्रवृणीरनु ॥४ ॥
हिन्दी— ( क्षत्रिय का ब्राह्मण के रूप में आवेदन के कारण को बतला रहे हैं— ) एष: इस ( क्षत्रिय ) ने स्वानि आयुधानि निधाय अपने आयुधों को कहीं रखकर ब्रह्मणः ( १ ) मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां, द्विजस्य श्रुतिचोदनात् । ( मनु ० २.१६ ९ ) ( २ ) आप ० श्रौ ० सू ० १०.११.४-६ । ' अथैनं निरुपांश्वावेदयति, त्रिरुच्चैः ' — इति एतत्पूर्वांशः ।
पृष्ठ 552
पाठ पढ़ें पाठ छिपाएँ
१४०६: ऐतरेयब्राह्मणम् [ ३४.८ सप्तमपञ्चिकायां एव आयुधैः ब्राह्मण के ही आयुधों के साथ ब्रह्मणः रूपेण ब्राह्मण के रूप से ब्रह्म भूत्वा ब्राह्मण होकर यज्ञम् उपावर्तत् यज्ञ का सम्पादन किया है । तस्मात् इसी कारण तस्य पुरोहितस्य आर्षेयेण उस ( क्षत्रिय ) के पुरोहित के गोत्र के साथ प्रवरं प्रवृणी: और बाद में वंश को कहकर दीक्षाम् आवेदयेयुः दीक्षा की घोषणा करनी चाहिए ॥ सा ० भा ० – ' स्वान्यायुधानि ' धनुरादीनि, ' ब्रह्मण आयुधानि स्फ्यकपालादीनि । यस्मात् स्वायुधपरित्यागपूर्वकं ब्रह्मायुधस्वीकारेण ब्राह्मणो भूत्वा यज्ञं प्राप्तवान्, तस्मात् ‘ तस्य ’ यजमानस्य पुरोहितसम्बन्धिना गोत्रेण दीक्षावेदनम्, तथा प्रवरोऽपि विज्ञेयः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां चतुर्थाध्याये ( चतुस्त्रिंशाध्याये ) सप्तमः खण्डः || ७ || ( २५ ) ( २५८ ) ॥ इस प्रकार ऐतरेयब्राह्मण के चौतीसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अष्टमः खण्डः सा ० भा०- – दर्शपूर्णमासयोर्यजमानभागप्राशनं विहितं तदत्र दीक्षणीयादीष्टिषु चोद्रकप्राप्तं क्षत्त्रियस्य तत्प्राशने निर्णयं वक्तुं विचारमवतारयति— ( क्षत्रियस्य यजमानभागप्राशने निर्णयकथनम् ) अथातो यजमानभागस्यैव, तदाहुः प्राश्नीयात् क्षत्त्रियो यजमान-भागा ३ म्, न प्राश्नीया ३ त्? इति ॥ १ ॥
हिन्दी – अथातः अब ( दीक्षा के आवेदन के बाद ) यहाँ से ( दीक्षणीयादि इष्टियों में ) यजमानभागस्य यजमान के भाग के ( प्राशन के विषय में कहा जा रहा है — ) तदाहुः इस विषय. में ( कुछ वेदज्ञ ) पूछते हैं कि क्षत्रियः यजमानभागाम् प्रश्नीयात् क्षत्रिय यजमानभाग का प्राशन करें अथवा न प्राश्नीयात् प्राशन न करें? । सा ० भा०– ' अथ ' दीक्षावेदननिर्णयानन्तरं, दीक्षणीयादीष्टयो यतो बुद्धिस्थाः, ‘ अतः ’ कारणात्, तत्र यजमानभागस्यैव, प्रकारविशेष उच्यत इति शेषः । ' तत् ' तस्मिन् ( १ ) —पश्चात् कुशेषु यजमानभागम् ' – इति आश्व ० श्रौ ० १.१३.३ । ' अथ यद् पूर्वार्द्धं पुरो-डाशस्य प्रशीर्यं पुरस्ताद् ध्रुवायै निदधाति, यजमानो वै ध्रुवा, तद् यजमानस्य प्राशितं भवति ' - इति ० शत ० ब्रा ० १.८.१.३ ९ । ( २ ) ‘ पौर्णमासेनेष्टिपशुसोमा उपदिष्टाः ' - इति आश्व ० श्रौ ० २.१.१ ।
पृष्ठ 553
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४०७ भागे ब्रह्मवादिनो विचारमाहुः । क्षत्त्रियो ब्राह्मणवत् किं यजमानभागं प्राश्नीयात् उत नेति विचारार्थं प्लुतिद्वयम् ॥ पक्षद्वये दोषमुद्भावयति— यत्प्राश्नीयादहुताद्भुतं प्राश्य पापीयान् स्याद्, यन्न प्राश्नीयाद् यज्ञादा-त्मानमन्तरियाद्, यज्ञो वै यजमानभागः ॥ २ ॥
हिन्दी— ( क्षत्रिय के यजमान भाग के प्राशन करने और प्राशन न करने - इन दोनों पक्षों के विषय में दोष की उद्भावना कर रहे हैं - ) यत् प्राश्नीयात् यदि ( हुतशेष का ) भक्षण करे तो अह्रुताद् अहुत ( हुतशेष के प्राशन का अधिकारी न ) होने के कारण ( क्षत्रिय हुतशेष के प्राशन का अधिकारी नहीं है इसलिए ) हुतं प्राश्य हुतशेष का प्राशन करके पापीयान् स्यात् पाप का भागी होता है । यद् न प्राश्नीयात् यदि प्राशन न करे तो आत्मानं यज्ञाद् अन्तरियात् अपने को यज्ञ से अलग कर देता है; क्योंकि यज्ञः वै यजमानभागः यज्ञ यजमान का ही भाग होता है ॥ सा ० भा ० - हुतमत्तीति ' हुतात् ' तादृशो न भवतीति ‘ अहुतात् ’ । “ अथैता अहु-तादो यद्राजन्यो वैश्यः शूद्रः " इति पूर्वमुक्तम् । अतोऽयं क्षत्त्रियः ‘ अहुतात् ’ योग्यता-रहितो यदि हुतशेषं प्राप्नीयात्, तदानीं ' पापीयान् ' अत्यन्तपापयुक्तो भवेत् । अप्राशनपक्षे तु यज्ञादात्मानम् ‘ अन्तरियाद् ' विच्छिन्द्यात्, यजमानभागस्य यज्ञहेतुत्वेन यज्ञस्वरूप-त्वात्तद्भागैराहित्ये यज्ञात् स्वयं विच्छिन्नो भवति ॥ उक्तदोषद्वयं परिहर्तुं पक्षान्तरमाह— स ब्रह्मणे परिहृत्यः ॥३ ॥
हिन्दी – ( पूर्वोक्त दोष के परिहार के लिए अन्य पक्ष को कह रहे हैं— ) सः ब्रह्मणे परिहृत्यः उस ( यज्ञभाग हुताशेष ) को ब्रह्मा ( नामक ऋत्विक् ) के लिए पूर्ण रूप से दे देना चाहिए ॥ . सा ० भा०- ' सः ' यजामानभाग ऋत्विग्विशेषाय ' ब्रह्मणे ' ' परिहृत्य: ' परितः स-र्वात्मना समर्पणीयः ॥ तत्समर्पणे दोषद्वयराहित्यं दर्शयति— पुरोहितायतनं वा एतत्क्षत्त्रयस्य, यद्ब्रह्माऽर्धात्मो ह वा एष क्षत्त्रि-यस्य, यत्पुरोहित उपाह परोक्षेणैव प्राशितरूपमाप्नोति, नास्य प्रत्यक्षं भक्षितो भवति ॥ ४ ॥
हिन्दी - ( उस समर्पण से दोनों दोषों के परिहार को दिखला रहे हैं— ) एतत् यह ( ब्रह्मा नामक ऋत्विक् ) क्षत्रियस्य क्षत्रिय का पुरोहितायतनम् पुरोहित - स्थानीय है । यद्
पृष्ठ 554
पाठ पढ़ें पाठ छिपाएँ
१४०८: ऐतरेयब्राह्मणम् [ ३४.८ सप्तमपञ्चिकायां ब्रह्मा जो ब्रह्मा ( पुरोहित ) है एषः क्षत्रियस्य अर्धात्मः यह क्षत्रिय का आधा शरीर है । इस प्रकार ( क्षत्रिय के अर्ध शरीर - स्थानीय पुरोहितरूप ब्रह्मा के हुतशेष हविर्भाग का भक्षण कर लेने पर ) परोक्षेण एव परोक्षरूप से ही प्राशितरूपम् आप्नोति ( क्षत्रिय के ) प्राशनरूप को ही प्राप्त कर लेता है और अस्य इस ( क्षत्रिय ) का प्रत्यक्षं भक्षितं न भवति प्रत्यक्ष रूप से भक्षण भी नहीं होता । सा ० भा ० — ऋत्विग्रूपो ' ब्रह्मेति ' यदस्त्येतत्क्षत्त्रियस्य पुरोहितायतनं पुरोहितस्था-नम् । पुरोहितो योऽस्त्येष क्षत्रियस्य ' अर्धात्मो ह वै ' अर्धदेह एव । ' उ ह वा ' इति नि-पातसमूहोऽवधारणार्थः । अर्धशरीरस्थानीयपुरोहितरूपेण ब्रह्मणा तस्मिन् भागे भक्षिते सति ‘ परोक्षेणैव ' व्यवधानेनैव ' प्राशितरूपं ' प्राशितसदृश्यं प्राप्नोत्येव । अहशब्द उप-शब्दश्च मिलित्वाऽवधारणार्थौ । ' अस्य ' क्षत्रियस्य ' प्रत्यक्षम् ' व्यवधानेन स्वमुखेन स भागो भक्षितो न भवित । एवं सति व्यवधानेन भक्षितत्वाद् यज्ञान्तरायो न भविष्यति, स्वमुखेन भक्षणाभावादयं पापीयानपि न भविष्यति ॥ ब्रह्मणस्तद्भागप्राशनं प्रशंसति— यज्ञ उ ह वा एष प्रत्यक्षं यद्ब्रह्मा, ब्रह्मणि हि सर्वो यज्ञः प्रतिष्ठितो, यज्ञे यजमानो, यज्ञ एव तद्यज्ञमप्यत्यर्जन्ति, यथाऽप्स्वापो यथाऽ-ग्नावग्निं, तद्वै नातिरिच्यते, तदेनं न हिनस्ति, तस्मात्स ब्रह्मणे परिहृत्यः ॥ ५ ॥
हिन्दी— ( ब्रह्मा और उसके प्राशन की प्रशंसा कर रहे हैं — ) यद् ब्रह्मा जो ब्रह्मा ( नामक ऋत्विक् ) हैं एषः ह उ वै यह ही प्रत्यक्षं यज्ञः प्रत्यक्ष रूप से यज्ञ रूप है; क्योंकि ब्रह्मणि हि ब्रह्मा में ही सर्वः यज्ञः प्रतिष्ठितः सभी यज्ञ प्रतिष्ठित होता है और यज्ञे यजमानः यज्ञ में यजन करने वाला प्रतिष्ठित होता है । अत: यज्ञे एव ( उस ब्राह्मणरूप ) यज्ञ में ही तद् यज्ञम् अपि उस ( हुतशेष के प्राशनरूप ) यज्ञ को भी उसी प्रकार अत्यर्जन्ति प्रक्षिप्त करते हैं यथा अप्सु अपः जल में जल को और यथा अग्नौ अग्निम् जैसे अग्नि में अग्नि को ( डालते हैं ) । तद्वै ( जिस प्रकार जल में जल और अग्नि में अग्नि डालने से वे एक हो जाते हैं, उसी प्रकार ) वह ( ब्रह्मा द्वारा प्राशित हवि ) नातिरिच्यते अतिरिक्त नहीं होती । तत् वह ( ब्रह्मारूपी यज्ञ को ब्रह्मा द्वारा प्राशित हविशेष एकाकार होकर ) एनम् न हिनस्ति इस ( क्षत्रिय ) यजनकर्त्ता का विनाश नहीं करती । तस्मात् इसी कारण सः वह ( हुतशेष यजमान भाग वाली हवि ) ब्रह्मणे परिहृत्य: ब्रह्मा को दे देना चाहिए ॥ सा ० भा ० — यो ब्रह्माऽस्त्येष ‘ प्रत्यक्षम् ' अव्यवधानं यथा भवति तथा ‘ यज्ञ उ ह वै ' यज्ञस्वरूप एव तत्साधकत्वात् । किञ्च ब्रह्मण्येव सर्वो यज्ञः प्रतिष्ठितः; वेदत्रयवैकल्य-परिहर्तृत्वेन ब्रह्मणो भिषग्रूपत्वस्योक्तस्वात् । तस्मिंश्च प्रतिष्ठिते यज्ञे, यजमानोऽपि प्रति-
पृष्ठ 555
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १४० ९ ष्ठितः । तत्फलभागित्वात् । एवं सति ' तत् ' तेन भागप्राशनेन ‘ यज्ञे एव ’ ब्रह्मरूपे भागरूपं ‘ यज्ञम् ’ अपि ‘ अत्यर्जन्ति ’ सम्यक् प्रक्षिपन्ति । तत्र दृष्टान्तः - यथा लोकेऽप्सु प्रक्षिप्ता आप एकत्वेन संसृज्यन्ते, यथा वाऽग्नौ प्रक्षिप्तमग्निमेकीभूतं पश्यामः, ‘ तद्वै ’ तथां ब्रह्मणा प्राशितं हविः ‘ नातिरिच्यते ’ अतिरिक्तं न भवति । किंतु यज्ञरूपेण ब्रह्मणा सहैकी भवति । तदेकी - भूतं हविः ' एनं ' क्षत्त्रियं ' न हिनस्ति ' न बाधते । तस्मात् ' स ' यजमानभागो ब्रह्मणे ‘ परिहृत्यः ’ समर्पणीयः ॥ पक्षान्तरमुपन्यस्य दूषयति— अग्नौ हैके जुह्वति; प्रजापतेर्विभान्नाम लोकस्तस्मिंस्त्वा दधामि सह यजमानेन स्वाहेति; तत्तथा न कुर्याद्, यजमानो वै यजमानभागो यजमानं ह सोऽग्नौ प्रवृणक्ति; य एनं तत्र ब्रूयाद् यजमानमग्नौ प्रावार्क्षीः प्रास्याग्निः प्राणान् धक्ष्यति, मरिष्यति यजमान इति, शश्वत्तथा स्यात्, तस्मात्तस्याऽऽशां नेयादाशां नेयात् ॥ ६ ॥
हिन्दी— ( क्षत्रिय यजनकर्त्ता के हुतशेष यजमानभाग को ब्रह्मा नामक ऋत्विक् को दे देने के विषय में पक्षान्तर कहकर उसमें दोष को कह रहे हैं - ) अग्नौ ह जुह्वति ( हुतशेष यजमान भाग वाली हवि को ब्रह्मा ऋत्विक् को न देकर ) अग्नि में होम कर देता है--एके ऐसा कुछ याज्ञिक ( कहते हैं ) । ( होममन्त्र - ) प्रजापतेः विभान् नाम लोकः ( हे यजमानभाग! ) प्रजापति का ( जो ) विभान् नामक लोक है तस्मिन् उस ( लोक ) में यजमानेन सह यजमान के साथ त्वा दधामि तुमको प्रक्षिप्त कर रहा हूँ - स्वाहा । किन्तु तत् तथा न कुर्यात् उस ( यजमान भाग ) को उस प्रकार ( अग्नि में होम ) नहीं करना चाहिए; क्योंकि यजमानो वै यजमानभागः यजमान ही यजमानभाग हैं । सः ( इस होम से ) वह ( होमकर्त्ता ) यज़मानम् अग्नौ प्रवृणक्ति यजन करने वाले यजमान को ही अग्नि में दग्ध कर देता है । इस प्रकार यः जो ( शत्रु आकर ) तत्र वहाँ एनम् इस ( यजमान ) को ब्रूयात् कहे ( शाप देवें ) कि हे ( होमकर्त्ता! ) तुमने यजमानम् यजमान को अग्नौ अग्नि में प्रावाक्षीः जला डाला तो अग्निः अस्य अग्नि इस ( यजमान ) के प्राणान् प्रधक्ष्यति प्राणों को जला डालेगा और यजमानः मरिष्यति यजमान मर जाएगा । तथा इस प्रकार यह शाप शश्वत् स्यात् सत्य हो जाता है । तस्मात् इसी कारण से तस्य आशां न इयात् उस ( होम ) की इच्छा नहीं करनी चाहिए ॥ सा ० भा०- -‘एके ' याज्ञिकास्तं यजमानभागमग्नौ जुह्वति । तत्र ' प्रजापतेः ' इत्या-दिको मन्त्रः । प्रजापतेः सम्बन्धी यो लोकः तस्य ' विभान् ' इत्येतन्नामधेयं विशेषेण भातीति तद्व्युत्पत्तेः । हे यजमानभाग, यजमानेन सह त्वां तस्मिँल्लोके ' दधामि ' प्रक्षिपामि । तदर्थमिदं स्वाहुतमस्तु । अनेन मन्त्रेण यद्धोमानुष्ठानमस्ति, तत्तथा न कुर्यात् यजामान-ऐ.ब्रा.उ.- ३५
पृष्ठ 556
पाठ पढ़ें पाठ छिपाएँ
१४१०: ऐतरेयब्राह्मणम् [ ३४.८ सप्तमपञ्चिकायां भागस्य यजमानस्वरूपत्वेन तस्य भागस्य होमे ' सः ' होमकर्त्ता यजमानमेवाग्नौ ' प्रवृणक्ति ’ प्रवृक्तं दग्धं करोति । ‘ तत्र ' तदानीं ' य: ' शत्रुरागत्य ' एनं ' कर्तारं ' ब्रूयात् ' शपेत् । कथमिति तदुच्यते — हे होमकर्तस्त्वं यजमानमग्नौ ' प्रावार्क्षीः ' प्रवृक्तवान् दग्धवानसि । ‘ अस्य ’ यजमानस्य प्राणानग्निः प्रकर्षेण धक्ष्यति, स यजमानो मरिष्यतीति स शापोऽवश्यं तथैव स्यात् । तस्मात् ‘ तस्य ' होमस्य ' आशाम् ' इच्छामपि ' नेयात् ' न प्राप्नुयात् । अभ्यासौऽ-ध्यायसमाप्त्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां चतुर्थाध्याये ( चतुस्त्रिंशाध्याये ) अष्टमः खण्डः ॥८ ॥ ( २६ ) ( २४ ९ )
॥ इस प्रकार ऐतरेयब्राह्मण के चौतीसवें अध्याय के अष्टम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधर-माधवाचार्यादेशतो श्रीमत्सारणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाशे ' नामभाष्ये ऐतरेयब्राह्मणभास्ये सप्तमपञ्चिकायाः चतुर्थोध्यायः ( चतुस्त्रिंशोऽध्यायः ) ॥ ३४ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के चौतीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 557
पाठ पढ़ें पाठ छिपाएँ
अथ सप्तमपञ्चिकायां पञ्चमोऽध्यायः [ अथ पञ्चत्रिंशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्— क्षत्त्रियो यजमानो यस्तस्य होमादि वर्णितम् ।
फलनामा तु चमसस्तस्यैवात्रोपवर्ण्यते ॥१ ॥
तत्राऽऽदौ क्षत्त्रियस्य सोमभक्षराहित्यप्रदर्शनार्थमुपाख्यानमाह— ( क्षत्रियस्य सोमप्राशननिषेधविधानम् ) ( तत्रोपाख्यानम् ) विश्वं ' ह सौषद्मनः श्यापर्णान् परिचक्षाणो विश्यापर्णंयज्ञमाजहे; तद्धानुबुध्य श्यापर्णास्तं यज्ञमाजग्मुस्ते ह तदन्तर्वेद्यासांचक्रिरे; तान् ह दृष्ट्वोवाच- , - पापस्य वा इमे कर्मणः कर्तार आसतेऽपूतायै वाचो वदितारो यच्छ्यापर्णा, इमानुत्थापयतेमे मेऽन्तर्वेदि माऽऽसिषतेति ', तथेति तानुत्थापयांचक्रुः ॥१ ॥
हिन्दी - ( क्षत्रिय के सोम - भक्षण के स्थान पर अन्य भक्ष्य को प्रदर्शित करने के लिए उपाख्यान को कह रहे हैं - ) सौषद्मनः विश्वन्तरः शोभन राजगृह वाले सुषमा के पुत्र रथन्तर ने श्यामपर्णान् परिचक्षाणः श्यामपर्ण ( नामक ब्राह्मणों ) को ( ऋत्विजत्व कर्म से ) निराकृत करते हुए विश्यापर्णं यज्ञम् श्यामपर्ण ब्राह्मणों से रहित यज्ञ को आजह्ने अनुष्ठित किया । श्यामपर्णाः वे ( विना बुलाये गये ही ) सभी श्यामपर्ण ( नामक ब्राह्मण ) तद् ह अनुबुध्य उस ( अनुष्ठित याग ) को ( लोगों द्वारा जानकर ) तं यज्ञम् आजग्मुः उस यज्ञ में आये और ते वे ( श्यामपर्ण नामक ब्राह्मणगण ) तदन्तर्वेदि आसांचक्रिरे उस ( यज्ञ ) की वेदि के मध्य में ( राजा की आज्ञा के विना ही ) बैठ गये । तान् उन ( बैठे हुए श्यामपर्ण ब्राह्मणों ) को दृष्ट्वा देखकर उवाच ( राजा रथन्तर ने ) कहा — यत् श्यामपर्णाः जो ये श्यामपर्ण नामक ब्राह्मण हैं इमे वे ( ब्राह्मण - गण ) पापस्य कर्मणः ( मेरी अवज्ञा करके ) पाप - कर्म को कर्त्तारः करने वाले और अपूतायै वाचः वदितारः अपवित्र वाणी बोलने वाले हैं । इमे ये मे अन्तर्वेदि मा आसिषत ये मेरी वेदि पर न बैठे 1 । ( अतः हे रक्षको! ) इमाम् उत्थापयत इन्हें यहाँ से निकाल दो | ( १ ) ‘ मा आसिषत ’ स्वयमेवोपविष्टा मा भवन्त्वित्यर्थं एवात्र न्याय्यः स्यात्, अन्यथा मूले ' मा ' शब्दोऽव्याख्यात एव भवेदिति बोध्यम् ।
पृष्ठ 558
पाठ पढ़ें पाठ छिपाएँ
१४१२: ऐतरेयब्राह्मणम् [ ३५.१ सप्तमपञ्चिकायां तथा ठीक है, ( ऐसा कहकर रक्षकों ने ) तान् उत्थापयांचक्रुः उन ( ब्राह्मणों ) को निकाल दिया ॥ ' सा ० भा ० – शोभनं सद्म राजगृहं यस्य राज्ञः, सोऽयं ' सुषद्मा ’, तस्य पुत्रः ‘ सौष-द्मनः ’ । स च ‘ विश्वंतर ' नामकः । स कदाचिद्यागं चिकीर्षुः ' श्यापर्णान् ' तन्नामकान् ब्राह्मणविशेषान् ‘ परिचक्षाण: ' आर्त्विज्ये निराकुर्वन् ' विश्यापर्ण यज्ञमाजहे ' श्या-पर्णनामकब्राह्मणविरहितमेव यज्ञमनुष्ठितवान् । ' तद्ध ' तत्सर्वं श्यापर्णनामका ब्राह्मणाः ‘ अनुबुध्य ' मनुष्यमुखादवगत्य, विश्वंतरेण राज्ञा तदानीमनाहूता एव तं यज्ञमाजग्मुः । आगत्य ‘ ते ह ’ त एव श्यापर्णाः ' तदन्तर्वेदि ' तस्य यज्ञस्य वेदिमध्ये ' आसांचक्रिरे ' राजानुज्ञामन्तरेण स्वयमेवोपविष्टवन्तः । राजा ‘ तान् ’ उद्दण्डाञ्श्यापर्णान् दृष्ट्वा स्वकी-यान् वेत्रपाणीन् पुरुषानुवाच । ' यद् ' ये श्यापर्णाः सन्ति, इमे अपूतायै वाचो ' वदितारः ’ अपूतां वाचं मदीयावज्ञारूपां वदन्तः ‘ पापस्य कर्मणः कर्तारः ' धौर्त्यरूपं व्यापारं कर्तु-मुद्यता इहाऽऽसते । ' इमे ' श्यापर्णा ' मेऽन्तर्वेदि ' मदीयाया वेदेर्मध्ये ' माऽऽसिषत ' स्वयमे-वोपविष्टाः, इमान् धूर्तान् हे वेत्रपाणय उत्थापयत । ' इति ' एवं राज्ञोक्ता वेत्रपाणयः ‘ तथा ’ – इत्यङ्गीकृत्य ‘ तान् ’ श्यापर्णानुत्थापयांचक्रुः ॥ तेषां श्यापर्णानां वृत्तान्तमाह— ( श्यापर्णानां वृत्तान्तम् ) ते होत्थाप्यमाना रुरुविरे; ये तेभ्यो भूतवीरेभ्योऽसितमृगाः कश्यपानां • सोमपीथमभिजिग्युः पारिक्षितस्य जनमेजयस्य विकश्यपे यज्ञे तैस्ते तंत्र वीरवन्त आसुः, कः स्त्वित्सोऽस्माकाकमस्ति वीरो य इमं सोमपीथमभिजेष्यतीति ॥ २ ॥
हिन्दी— ( अब उन श्यामपर्ण नामक ब्राह्मणों के वृत्तान्त को कह रहे हैं— ) उत्थाप्यमानाः ते ( रक्षकों द्वारा यज्ञवेदि से ) उठाये जाते हुए वे ( श्यामपर्ण नामक ब्राह्मण ) रुरुविरे ऊँची ध्वनि से चिल्लाने लगे । पारिक्षितस्य जनमेजयस्य परिक्षित के पुत्र जनमेजय के विकश्यपे यज्ञे कश्यपवंशीय ब्राह्मणों से रहित यज्ञ में कश्यपानां असितमृगाः जब कश्यपों के मध्य में असितमृग ( नामक पुरुषों ) ने भूतवीरेभ्यः ( यज्ञ कराने वाले ) भूतवीर ( नामक ब्राह्मणों ) से सोमपीथम् अभिजिग्युः बलपूर्वक सोमपेय को जीत लिया तो तैः उन ( असितमृग नामक ब्राह्मणों ) के द्वारा ते वे ( कश्यपवंशीय ब्राह्मणं ) तत्र वहाँ ( जनमेजय के यज्ञ में ) वीरवन्तः आसुः वीरता - सम्पन्न पुरुष हुए । इसलिए अस्माकम् हम लोगों को कः स्विद् वीरः कौन वीर पुरुष है, यः जो इमं सोमपीथम् इस सोमपेय को जीतेगा? ॥ सा ० भा ० —– वेत्रपाणिभिरुत्थाप्यमानाः ' ते ' श्यापर्णा ब्राह्मणाः ‘ रुरुविरे ' रवं शब्द
पृष्ठ 559
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४१३ परस्परमुच्चैर्ध्वनिं कृतवन्तः । तत्र दृष्टाः केचिदन्यान् प्रति काचित्पुरातनीं कथामूचुः । परि-क्षितः पुत्रो जनमेजयाख्यो यो राजा, स कदाचित् कश्यपवंशोत्पन्नान् ब्राह्मणान् विहाय ‘ विकश्यपं ’ यज्ञं भूतवीरसंज्ञकैर्ब्राह्मणैर्ऋत्विग्भिः कारयामास । तदानीं कश्यपानां मध्ये ‘ ये ’ केचिदसितमृगनामकाः पुरुषाः ' सोमपीथं ' जनमेजयसम्बन्धिनं सोमयागं ' तेभ्यः ’ भूतवीरसंज्ञकेभ्यो ब्राह्मणेभ्यो बलादाकृष्य स्वयम् ‘ अभिजिग्युः ' अभितो जयं प्राप्ताः । बहुषु यज्ञप्रयोगेषु विजिगीषुकथां कृत्वा ' तान् ' भूतवीरान् ब्राह्मणान् पराजयं प्राप्य स्वयमसित-मृगनामानो ये जितवन्तः; ‘ तैः ’ असितमृगैः ‘ ते ’ कश्यपाः ‘ तत्र ’ जनमेजयस्य यज्ञे ‘ वीरवन्तः ’ शूरपुरुषोपेता आसुः । एतां कथामुदाहृत्य श्यापर्णाः स्वकीयानेवं पृच्छन्ति, – ' अस्माकं ’ राज्ञा तिरस्कृतानामस्माकं ' मध्ये ' यः ' पुमान् ' इमं सोमपीथं ' विश्वंतरस्य राज्ञः सोमयागमभि-जेष्यति, स तादृशो वीरः ‘ कश्चिदस्ति ' यः कोऽपि किम् अस्ति? ' इति ' एवमुच्चैः शब्दं चक्रुः ॥ तस्य प्रश्नस्य श्यापर्णानां मध्ये केनचिदुक्तमुत्तरं दर्शयति — ( रामस्य वृत्तान्तः ) अयमहमस्मि वो वीर इति होवाच रामो मार्गवेयः ॥ ३ ॥
हिन्दी – अयम् अहम् अस्मि वह ( सोमपेय को जीतने वाला वीर पुरुष ) मैं हूँ-इति मार्गवेयः रामः उवाच इस प्रकार मृगयु ( नामक स्त्री ) ) के पुत्र राम नामक ब्राह्मण ने कहा ॥ सा ० भा ० -मृगवुर्नाम काचिद्योषित्, तस्याः पुत्रो रामनामा कश्चिद्ब्राह्मण एव-मुवाच — हे श्यापर्णाः ‘ वः ' युष्माकं मध्ये ' वीरः ' परकीयान् विजेतुं शूरः ‘ अहमयमस्मि '. भवतां पुरो वर्तमानोऽस्मीति ॥ तस्य रामस्य वृत्तान्तमाह— रामो हाऽऽस मार्गवेयोऽनूचानः श्यापर्णीयस्तेषां होत्तिष्ठतामुवाचापि नु राजन्नित्थंविदं वेदेरुत्थापयन्तीति; यस्त्वं कथं वेत्थ ब्रह्म-बन्धविति ॥४ ॥
हिन्दी – ( राम नामक ब्राह्मण के वृत्तान्त को कह रहे हैं— ) मार्गवेयः मृगयु ( नामक स्त्री ) के पुत्र श्यामपर्णीयः श्यामपर्णीय ब्राह्मण रामः ह राम निश्चित रूप से अनूचानः आस साङ्गवेद और शास्त्रों के ज्ञाता थे । उतिष्ठतां तेषाम् ( वेदि से ) उठते हुए उन ( श्यामपर्ण नामक ब्राह्मणों ) में से ( राम ने ) उवाच ( राजा से ) कहा — राजन् हे राजन्! इत्थंविदम् इस प्रकार ( वेदशास्त्रों ) के ज्ञाता ( मुझको ) वेदेः उत्थापयन्ति ( आपके रक्षक ) वेदि से उठा रहे हैं ( यह उचित नहीं है ) । ( तब राजा रथन्तर ने कहा— ) ब्रह्म-( १ ) अस्माकेत्यदन्तशब्दोऽस्मदीयवचनः; ततो विभक्तेर्लुकि रूपम् ( ऋ ० १.९ ७.३ ) ।
पृष्ठ 560
पाठ पढ़ें पाठ छिपाएँ
१४१४: ऐतरेयब्राह्मणम् [ ३५.२ सप्तमपञ्चिकायां बन्धो हे नीच ब्राह्मण! यः त्वं जो तुम ( धृष्टतापूर्वक कहते हो ), कथं वेत्थ क्या जानते हो? ॥ सा ० भा०- — ' श्यापर्णीयः ' श्यापर्णानां ब्राह्मणानां सम्बन्धी ' मृगवुपुत्रो रामः ‘ अनू-चान: ” साङ्गवेदशास्त्रपारङ्गत आस । तत्रावस्थितानां तेषां श्यापर्णानां वेदेरुत्तिष्ठतां मध्येऽ-वस्थितो रामो विश्वंतरं प्रत्येवमुवाच – हे राजन्, ' इत्थंविदं ' यागसम्बन्धिप्रयोगप्रका-राभिज्ञं मामपि त्वदीया वेत्रपाणयः ' नु ' क्षिप्रं वेदेरुत्थापयन्ति, तदेतदयुक्तमिति । तच्छ्रुत्वा विश्वंतरो राजैवमुवाच हे ' ब्रह्मबन्धो ' ब्राह्मणाधम राम यस्त्वं धाष्टर्थ्याद् ब्रवीषि, स त्वं कथं वेत्थेति । अत्र राजोवाचेत्यध्याहर्तव्यम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां पञ्चमाध्याये ( पञ्चत्रिंशाध्याये ) प्रथमः खण्डः ॥ १॥ ( २७ ) ( २५० )
॥ इस प्रकार ऐतरेयब्राह्मण के पैतीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ द्वितीयः खण्डः सा ० भा ० - अथ रामः स्वकीयं वेदनं राज्ञोऽग्रे प्रकटयति-( रामस्य स्वकीयज्ञानप्रकटनम् ) यत्रेन्द्रं देवताः पर्यवृञ्जन् विश्वरूपं त्वाष्ट्रमभ्यमंस्त, वृत्रमस्तृत यतीन् सालावृकेभ्यः प्रादादरुर्मघानवधीद्, बृहस्पतेः प्रत्यवधीदिति; तन्त्रेन्द्रं सोमपीथेन व्यार्ध्यतेन्द्रस्यानु व्यृद्धिं क्षत्त्रं सोमपीथेन व्यार्ध्यतापीन्द्रः सोमपीथेऽभवत्, त्वष्टुराऽमुष्य सोमं तद् व्यृद्धमेवाद्यापि क्षत्त्रं सोम-पीथेन; स यस्तं भक्षं विद्याद् क्षत्त्रस्य सोमपीथेन व्यृद्धस्य येन क्षत्त्रं समृध्यते कथं ते वेदेरुत्थापयन्तीति ॥ १ ॥
हिन्दी— ( राम अपने ज्ञान को राजा के आगे प्रकट कर रहे हैं— ) हे राजन्! मेरा ज्ञान ( १ ) अस्ति श्यापर्णशब्दो बिदाद्यन्तर्गण - गोपवनादिगणे पठितः ( पा ० सू ० २.४.६७ ) । कार्तकौजपादिगणे च ‘ पैलश्यापर्णेयाः कपिश्यापर्णेयाः ' इति ( पा ० सू ० ६.२.३७ ) ‘ तद्विद्वावाञ्छ्यापर्णः सायकायन आह'- इति शत ० ब्रा ० १०.४.१.१० । तत्रैवान्यत्रा-न्यत्र च ६.२.१.३ ९; ९.५.२.१ ।