ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 561–570

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 561–570

पृष्ठ 561

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 561 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४१५ सुनो — यन्त्र देवताः जब देवताओं ने इन्द्रम् इन्द्र को पर्यवृञ्जन् ( पाँच अपराधों के कारण यज्ञों में ) सभी ओर से वर्जित कर दिया । ( वे पाँच अपराध इस प्रकार हैं— ( i ) त्वाष्ट्रं विश्वरूपम् अभ्यमंस्त त्वष्ट्रा के पुत्र विश्वरूप ( नामक ब्राह्मण ) को मारा डाला, ( ii ) वृत्रम् अस्तृत ( उसी त्वष्ट्रा के पुत्र ) वृत्र ( नामक ब्राह्मण ) को मारा, ( iii ) यतीन् साधुवेशधारी ( असुरों को मारकर ) सालावृकेभ्यः प्रदात् जङ्गली भेड़ियों को दे दिया, ( iv ) अरुर्मघान् अवधीत् अरुर्मघ ( नामक ब्राह्मणों का वेश धारण करने वाले असुरों ) को मार डाला और ( v ) बृहस्पतेः प्रत्यवधीत् बृहस्पति के वाक्यों को ( अपने प्रत्युत्तर से ) काट दिया । तत्र इन्द्रम् तब से इन्द्र को सोमपीथेन व्यार्ध्यत सोमपान से वर्जित कर दिया गया । तस्य व्यृद्धिम् अनु उस ( इन्द्र ) के ( सोमपान से ) निवारण के पश्चात् क्षत्रं सोमपीथेन व्यार्घ्यत क्षत्रिय को भी सोमपान से निवारित कर दिया गया । तत्र इन्द्रः इनमें इन्द्र ने सोमपीथे अभवत् सोमपान में संयुक्त हो गया । इन्द्र ने अमुष्य त्वष्टुः सोमम् इस त्वष्ट्रा के सोम को बलात् पी लिया किन्तु क्षत्रम् अद्यापि क्षत्रिय आज भी सोमपीथेन व्यृद्धम् सोमपान से वञ्चित हैं । सोमपीथेन व्यृद्धस्य क्षत्रस्य सोमपान से वञ्चित क्षत्रिय का येन क्षत्रं समृद्धयते जिस ( भक्ष्य ) से क्षत्रियत्व समृद्ध होता है, तं भक्षं यः विद्यात् उस भक्ष्य को जो जानता है, सः कथम् उसका क्यों ते तुम्हारे ( रक्षक ) वेदेः उत्थापयन्ति वेदि पर से उठा रहे हैं | सा ० भा ० — हे विश्वन्तर, मदीयं वेदनं शृणु । पुरा कदाचिद्देवता इन्द्रस्योपरि पञ्चा-पराधान् सम्पाद्येन्द्रं ‘ पर्यवृञ्जन् ' यज्ञेषु परितो वर्जितवन्तः । ‘ यत्र ' यदा वर्जनं कृतं, तत्र तत्रेन्द्रः ‘ सोमपीथेन व्यार्ध्यत ’ सोमपानेन वियुक्तोऽभूत् । इन्द्रस्य येऽपराधास्तेऽभिधीयन्ते— त्वष्टुः पुत्रं विश्वरूपनामानं ब्राह्मणम् ' ' अभ्यमंस्त ' इन्द्रो हिंसितवान् । तथा तेन त्वष्ट्रोत्पादितं. वृत्रनामानं ब्राह्मणम् ‘ अस्तृत ’ हिंसितवान् । एतदुभयं तैत्तिरीयैः – ‘ विश्वरूपो वै त्वाष्ट्रः ’ ‘ त्वष्टा हतपुत्रः ' इत्यनुवाकद्वये विस्पष्टमाम्नातम् ' । तथा यतिवेषधरानसुराञ्शस्त्रेण च्छित्वा ‘ सालावृकेभ्यः ’ अरण्यश्वभ्यः प्रादात् । तथाऽन्यानप्यरुर्मघनांमकान् ब्राह्मणवेषानसुरान् अवधीत् । तथा स्वगुरोर्बृहस्पतेर्वाक्यं स्वकीयेन वाक्येन प्रत्यवधीत् । सोऽयं प्रतिघातो न युक्तः । तथा च आपस्तम्बः स्मरति — ' वाक्येन वाक्यस्य प्रतिघातमाचार्यस्य वर्जये-च्छ्रेयसा च ’ * इति । ऐते पञ्चापराधास्तैर्निमित्तभूतैरिन्द्रस्य तन्निवारणमनु ‘ क्षत्त्रं ' सर्वाऽपि क्षत्रियजातिः ' सोमपीथेन ' ( १ ) तै ० सं ० २.५.१.१; २.१ | कौ ० उ ० ३.१ । ( २ ) ‘ इन्द्रो यतीन्त्सालावृकेभ्यः प्रायच्छत् - इति तै ० सं ० ‘ वेदविरुद्धनियमोपेतान् यतीन्’– इति तत्र सायणः । एतत्संज्ञकान् यज्ञविरोधिजनान् ’ – इति तु तत्र सायणः ( ३ ) आप ० धर्म ० २.२.५.११ । सोमपाने निवारिते सति ‘ व्यृद्धि ’ ' व्यार्ध्यत ' सोमपानेन वियुक्ताऽ-६.२.७.५ । ता ० ब्रा ० ८.१.४ । ता ० ब्रा ० १३.४.१७ । ‘ यतीन्– ।

पृष्ठ 562

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 562 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४१६: ऐतरेयब्राह्मणम् [ ३५.२ सप्तमपञ्चिकायां भूत् । तदूर्ध्वं ‘ सोमपीथे ’ सोमपानेऽपि स प्रवृत्तोऽभूत् । कथमिति? तदुच्यते — ‘ अमुष्य त्वष्टुः सोमम् आ ’, बलादपिबदिति शेषः । तथा च तैत्तिरीया आमनन्ति - ' स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत् ' ' इति । ' तत् ' तथा सतीन्द्रेण बलात् सोमे पीते सति, क्षत्रि-यान्तरस्य तत्सामर्थ्याभावादिदानीमपि क्षत्त्रं ' सोमपीथेन व्यृद्धमेव ' सोमपानरहितमेवा-वतिष्ठते । ‘ येन ’ भक्षविशेषेण क्षत्त्रं समृद्धं भवति, तादृशो योऽन्यो भक्षः, सोमपान वियुक्तस्य क्षत्त्रस्य सम्भवति, तं भक्षं यः पुमान् विद्यात्, ' तं ' तादृशं क्षत्त्रियभक्षविदमस्मदादि-पुरुषं कथमेते वेत्रपाणयो वेदेरुत्थापयन्तीति रामस्योपालम्भः ॥ अथ रामविश्वंतरयोरुक्तिप्रत्युक्ती दर्शयति-वेत्थ ब्राह्मण त्वं तं भक्षा ३ म्, वेद हीति; तं वै नो ब्राह्मण ब्रूहीति; तस्मै वै ते राजन्निति होवाच ॥ २ ॥

हिन्दी – ( अब राम नामक ब्राह्मण और राजा रथन्तर की उक्ति - प्रत्युक्ति को दिखला रहे हैं— ) तब रथन्तर ने कहा- ब्राह्मण हे ब्राह्मण! त्वं तं भक्षां वेत्थ क्या तुम उस भक्ष को जानते हो? ( राम ने कहा- ) वेद हीति हाँ, मैं जानता हूँ । ( राजा ने कहा- ) ब्राह्मण हे ब्राह्मण! तं वै नः ब्रूहि उस ( भक्ष्य ) को मुझे बतलाओ । राजन् हे राजन्! तस्मै ते उस ( पूछने वाले ) तुम्हारे लिए कह रहा हूँ — इति उवाच इस प्रकार राम ने कहा ॥ सा ० भा ० — हे ' ब्राह्मण ' राम त्वं तादृशं भक्षं किं वेत्थेति विश्वंतरस्य प्रंश्नः । तदर्था प्लुति: ‘ वेद हि ’ जानाम्येवेति रामोऽब्रवीत् । हे ब्राह्मण ' तं वै ' तमेव क्षत्त्रियभक्षं ' नः ’ अस्माकं ब्रूहीति विश्वंतरः प्रपच्छ । हे राजन्, ' तस्मै ते वै ' तादृशाय पृच्छते तुभ्यमेव कथयामीति राम उवाच ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां पञ्चमाध्याये ( पञ्चत्रिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( २८ ) ( २५१ )

॥ इस प्रकार ऐतरेयब्राह्मण के पैतीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) तै ० सं ० २.५.२.१ । ' इन्द्रो यज्ञवेशसं'- इत्यादि संहितापाठः । ' इन्द्राणी देवी प्रासहा ददाना ’ - इति तै ० ब्रा ० २.४.२.७ । ' इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम'- इति ।

पृष्ठ 563

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 563 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४१७ तृतीयः खण्डः सा ० भा०— क्षत्रियस्य हेया भक्षास्त्रिविधाः, उपादेयो भक्ष एकः, तत्र हेयान् भक्षान् दर्शयति— ( रामद्वारा क्षत्रियस्य हेयभक्षनिरूपणम् ) त्रयाणां भक्षाणामेकमाहरिष्यन्ति, सोमं वा दधि वाऽपो वा ॥ १ ॥

हिन्दी— ( क्षत्रिय के हेय भक्ष को दिखला रहे हैं— ) ( क्षत्रिय के तीन भक्ष्य वर्जित हैं— ) त्रयाणां भक्ष्याणाम् तीन ( हेय ) भक्ष्यों में एकम् आहरिष्यन्ति एक को ( तुम्हारे ऋत्विक् ) आवेंगे I । सोमं वा दधि वा अपो वा ( वे तीनों भक्ष्य हैं - ) सोम अथवा दधि अथवा जल ॥ सा ० भा ० — हेयानां त्रयाणां मध्ये भक्षमेकं क्षत्रियस्य तवानभिज्ञा ऋत्विज आ-हरिष्यन्ति । कं भक्षमित्याशङ्क्य सोमं वा दधि वा जलं वेत्युक्तम् ॥ तत्र सोमपक्षे दोषं दर्शयति-( सोमभक्षे दोषकथनम् ) स यदि सोमं, ब्राह्मणानां स भक्षो, ब्राह्मणांस्तेन भक्षेण जिन्विष्यसि; ब्राह्मणकल्पस्ते प्रजांयामाजनिष्यत, - आदाय्यापाय्यावसायी यथा-कामप्रयाप्यो; यदा वै क्षत्रियाय पापं भवति ब्राह्मणकल्पोऽस्य प्रजायामाजायत, ईश्वरो हास्माद्द्द्वितीयो वा तृतीयो वा ब्राह्मण-तामभ्युपैतोः, स ब्रह्मबन्धवेन जिज्यूषितः ॥ २ ॥

हिन्दी - ( सोम लेने के पक्ष में दोष दिखला रहे हैं— ) सः वह ( अनभिज्ञ ऋत्विक् ) यदि सोमम् यदि सोम को ले आवेंगे तो सः ब्राह्मणानां भक्षः वह ( सोम ) ब्राह्मणों का भक्ष्य है । तेनं भक्षेण उस भक्ष्य ( सोम ) से ब्राह्मणान् जिन्विष्यसि तुम केवल ब्राह्मणों . को प्रसन्न करोगे । इससे ते प्रजायाम् तुम्हारी सन्तति में ब्राह्मणकल्पः ब्राह्मण के समान आजनयिष्यत पुत्र उत्पन्न होंगे ( इस प्रकार वे क्षत्रिय के गुण से हीन होंगे, अत: वह ) आदायी दान लेने वाले, आपायी ( ऋत्विक् होकर दूसरे के घर ) सोम का पान करने वाले, आवसायी ( दूसरे के घर भोजन की याचना करने वाले, यथाकामप्रयाप्यः इच्छानुसार निष्कासित करने योग्य होगा और यदा वै जब क्षत्रियाय पापं भवति क्षत्रिय का ( प्रमाद के कारण कोई ) पाप ( निषिद्धाचरण ) होता है तो अस्य प्रजायाम् इस ( क्षत्रिय ) की सन्तति में ब्राह्मणकल्पः ब्राह्मण के समान आजायत पुत्र उत्पन्न होता है । अस्मात् इस ( पापी क्षत्रिय ) से उत्पन्न द्वितीयो वा तृतीयो वा दूसरी और तीसरी सन्तति

पृष्ठ 564

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 564 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४१८: ऐतरेयब्राह्मणम् [ ३५.३ सप्तमपञ्चिकायां ( अर्थात् पुत्र और पौत्र ) ब्राह्मणताम् अभ्युपैतोः ईश्वरः ब्राह्मणत्व को प्राप्त करने में समर्थ होते हैं । सः ब्रह्मबन्धवेन वह ( क्षत्रिय से उत्पन्न ब्राह्मणकल्प पुत्र ) ब्राह्मणों की बन्धुता से ( अर्थात् ब्राह्मण के सदृश दैन्य भिक्षाचरण इत्यादि से ) जिज्यूषितः जीवन - यापन की इच्छा करने वाले होते हैं । सा ० भा ० - -'सः ' अनभिज्ञ ऋत्विग्यदि ते विश्वन्तरस्य क्षत्रियस्य ' सोमं ’ भक्षम्, आहरेदिति शेषः । ‘ सः ’ सोमो ब्राह्मणानां योग्यो भक्षः तेन भक्षेण ब्राह्मणान् ' जिन्विष्यसि ’ प्रीणयिष्यसि । न तु क्षत्त्रियस्य तव प्रीतिः । तथा सति ' ते ' तव राज्ञः ' प्राजायां ' संततौ ' ब्रा-ह्मणकल्प: ' ईषदसमाप्तो ब्राह्मणः १ आजनिष्यते । क्षत्रियधर्मेण शौर्येण रहितत्वात्तस्य ब्राह्मणसदृशत्वम् । स च पुत्रो ब्राह्मणवद् वक्ष्यमाणगुणचतुष्टयोपेतो भवति । आदानं प्रति-ग्रहः तच्छीलः । ‘ आदायी ' । प्रतिग्रहश्च ब्राह्मणगुणः । ऋत्विग्भूत्वा सोमं समन्तात् पाय-यतीति ‘ आपायी ’ । तदेतद्याजनमपि ब्राह्मणगुणः । अवसमन्नं तस्य सम्बन्धि याचनमावसः, तमावसमेति प्राप्नोतीति: ‘ आवसायी ' । परगृहे सदा भोजनयाचनमपि ब्राह्मणगुणः । काम-मिच्छामनतिक्रम्य यथाकामं, तदनुसारेण ' प्रयाप्यः ' निर्वासयितुं शक्यः, क्षत्त्रियवैश्यादिव-च्छौर्यधनाद्यभावाद् यः कोऽप्यागत्य दुर्बलं ब्राह्मणं तद् गृहात् तदीयग्रामाद्वा निष्कासयितु-मिच्छति, तदानीमयं ब्राह्मणो दुर्बलत्वात्तेन निःसारयितुं शक्यते । एवमेते चत्वारो धर्मा ब्राह्मणगुणाः । सोमं भक्षयतो राज्ञ एतद् गुणकः पुत्रो जायते । किञ्च यदा प्रमादात् ‘ क्षत्त्रियाय पापं ’ क्षत्रियस्य किञ्चिन्निषिद्धाचरणं भवति, तदानीं तेन पापेन तस्य क्षत्रियस्य ‘ प्रजायां ’ संततौ ‘ ब्राह्मणकल्पः ' शौर्यंराहित्यादिना ब्राह्मणसदृशः पुत्र आजायते । ‘ अ-स्मात् ’ पापिनः क्षत्त्रियात् ‘ द्वितीयो वा तृतीयो वा ' पुत्रो वा पौत्रो वा ‘ ब्राह्मणतामभ्युपैतोः ’ शौर्यादिगुणरहितं ब्राह्मण्यं प्राप्तुमीश्वरः समर्थो भवति । ‘ सः ’ ब्राह्मणसदृशः क्षत्त्रिय-पुत्रो ‘ ब्राह्मणबन्धवेन ’ ब्राह्मणानां क्रमबन्धुत्वेन ब्राह्मणोचितयाच्ञादिना ‘ जिज्यूषितः ’ जी-वितुमिष्टो नीचरूपदैरन्यवृत्त्या जीवितुं प्रवृत्तो भवतीत्यर्थः ॥ सोमस्य भक्षत्वे दोषमुक्त्वा दघ्नो भक्षत्वे दोषमाह— ( दधिभक्षे दोषकथनम् ) अथ यदि दधि, वैश्यानां स भक्षो, वैश्यांस्तेन भक्षेण जिन्विष्यसि, वैश्यकल्पस्ते प्रजायामाजनिष्यतेऽन्यस्य बलिकृदन्यस्याऽऽद्यो यथाकामज्येयो; यदा वै क्षत्रियाय पापं भवति, वैश्यकल्पोऽस्य प्रजायामाजायत, ईश्वरो हास्माद् द्वितीयो वा तृतीयो वा वैश्यता-मभ्युपैतोः, स वैश्यतया जिज्यूषितः ॥ ३ ॥

( १ ) ‘ ईषदसमाप्तौ कल्पब्देश्यदेशीयर: ' - इति पा ० सू ० ५.३.६७ । ( २ ) ' ईश्वरे तोसुन्कसुनौ’– इति पा ० सू ० ३.४.१३ ।

पृष्ठ 565

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 565 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १४१ ९ हिन्दी— ( अब दधि की भक्ष्यता के पक्ष में दोष दिखला रहे हैं - ) अथ यदि दधि अब यदि ( अनभिज्ञ ऋत्विक् ) दधि को ले आवेंगे तो सः वैश्यानां भक्ष्यः वह ( दधि ) वैश्यों का भक्ष्य है । तेन भैक्ष्येण उस भक्ष्य ( दधि ) से वैश्यान् जिन्विष्यसि तुम वैश्यों को प्रसन्न कंरोगे 1 । इससे ते प्रजायाम् तुम्हारी सन्तति में वैश्यकल्पः आजनिष्यते वैश्य के समान पुत्र उत्पन्न होंगे ( इस प्रकार भी वे क्षत्रिय के गुणों से हीन होंगे ) । वह अन्यस्य बलिकृत् ( वाणिज्य कर्म करते हुए ) अन्य की अभ्यर्थना करने वाला, अन्यस्य आद्यः अन्य ( राजा ) के आधीन रहने वाला और यथाकामज्येयः अन्य ( राजा इत्यादि ) की इच्छानुसार अभिभवनीय होता है । यदा वै जब क्षत्रियाय पापं भवति क्षत्रिय का कोई निषिद्धाचरण होता है तो अस्य प्रजायाम् इस ( क्षत्रिय ) की सन्तति में वैश्यकल्पः अजायत् वैश्य के समान ( पुत्र ) उत्पन्न होते हैं । अस्मात् इस ( क्षत्रिय ) से उत्पन्न द्वितीयो वा तृतीयो वा द्वितीय और तृतीय सन्तति ( पुत्र और पौत्र ) वैश्यताम् अभ्युपेतो ईश्वरः. वैश्यता को प्राप्त करने में समर्थ होता है अतः सः वैश्यतया जिज्यूषतः वह ( क्षत्रिय से उत्पन्न पुत्र ) वैश्य के रूप में जीवन - यापन की इच्छा करता है । सा ० भा०—– - यदि ते दधिरूपं भक्षमाहरेत् तदा दघ्नो वैश्यभक्षत्वात् तेन वैश्यान् प्रीणयिष्यसि । ततस्तव संततौ वैश्यसमानः पुत्रः आजनिष्यते । वैश्यश्च वाणिज्यं कुर्वन् ' अन्यस्य ' राज्ञो ‘ बलिकृद् ' बलिं पूजां करोति, करं प्रयच्छतीत्यर्थः । अत एव ' अन्यस्य ' राज्ञः ‘ आद्यः ' भक्ष्योऽधीनो भवतीत्यर्थः । तस्य राज्ञः काममिच्छामनतिक्रम्य ' ज्येयः ' अभिभवनीयो भवति 1 । ‘ ज्याऽभिभवे ' इति धातु । ' त एते करप्रधानपराधीनत्वऽपिरस्कार्य-त्वाख्या वैश्यगुणाः । यदा क्षत्रियस्य किञ्चित्पापं सम्भवति, तदा तस्य संततौ वैश्य-सदृशो जायते । ‘ अस्मात् ’ क्षत्त्रियात् पापिनोऽन्यः पुत्रः पौत्रो वा वैश्यतां प्राप्तुं समर्थो भवति । स च ‘ वैश्यतया ’ वैश्यवृत्त्या करप्रदानादिना ' जिज्युषितः ’ जीवितुं प्रवृत्तो भवति ॥ दधिभक्षे. दोषमुक्त्वा जलभक्षे दोषमाह— ( जलभक्षे दोषकथनम् ) अथ यद्यपः, शूद्राणां स भक्षः, शूद्रांस्तेन भक्षेण जिन्विष्यसि, शूद्रकल्पस्ते प्रजायामाजनिष्यते, ऽन्यस्य प्रेष्यः कामोत्थाप्या यथा-कामवध्यो; यदा वै क्षत्रियाय पापं भवति, शूद्रकल्पोऽस्य प्रजाया-माजायत, ईश्वरो हास्माद्वितीयो वा तृतीयो वा शूद्रतामभ्युपैतोः स शूद्रतया जिज्यूषितः ॥४ ॥

हिन्दी – ( अब जल की भक्ष्यता के पक्ष में दोष दिखला रहे हैं— ) अथ यदि ( १ ) चतुर्भिर्धर्मैर्ब्राह्मण्यं भुनक्ति — अर्चया च दानेन च, अज्येयतया च अवध्यतया च ’ — इति शत ० ब्रा ० ११.५.७.१ । ज्यानिर्हानिस्तदविषयमज्येयता ' इति तु तत्र सायणः ।

पृष्ठ 566

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 566 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२०: ऐतरेयब्राह्मणम् [ ३५.४ सप्तमपञ्चिकायां अपः इसके बाद यदि ( अनभिज्ञ ऋत्विक् ) जल को ले आवेंगे तो सः शूद्राणां भक्ष्यः वह शूद्रों का भक्ष्य होता है । ते भक्षेण उस भक्ष्य ( जल ) से शूद्रान् जिन्विष्यसि तुम शूद्रों को प्रसन्न करोगे । ते प्रजायाम् तुम्हारी सन्तति में शूद्रकल्पः आजनिष्यते शूद्र के सदृश पुत्र उत्पन्न होगा । जो अन्यस्य प्रेष्यः अन्य ( शूद्रेतर तीन वर्णों ) का सेवक, कामोत्थाप्यः अपनी इच्छानुसार ( मध्य रात्र्यादि में ) उठने वाला और यथाकामवध्यः ( कुपित स्वामी द्वारा ) इच्छानुसार प्रताड़ित किये जाने वाला होता है । यदा वै क्षत्रियाय पापं भवति जब क्षत्रिय का कोई निषिद्धाचरण होता है तो अस्य प्रजायाम् इस ( क्षत्रिय ) की सन्तति में शूद्रकल्पः आजायत शूद्र के सदृश पुत्र उत्पन्न होता है । अस्मात् इस ( क्षत्रिय ) से उत्पन्न द्वितीयो वा तृतीयो वा दूसरी और तीसरी पीढ़ी ( पुत्र और पौत्र ) शूद्रताम् अभ्युपेतोः ईश्वरः शूद्रता प्राप्त करने में समर्थ होता है । सः शूद्रतया जिज्यूषित: वह शूद्रतापूर्वक जीवन - यापन करने का इच्छुक होता है । सा ० भा०– यदि ते क्षत्रियस्य कश्चिदृत्विक् ' अप: ' जल भक्षमाहरेत्, तदानीं ‘ सः ’ जलात्मकः शूद्राणां भक्ष:, तेन भक्षेण शूद्रान् प्रीणयिष्यसि । ततस्तव संततौ शूद्र-सदृशः पुत्र उत्पद्यते । शूद्राश्च ' अन्यस्य ' उत्तमवर्णत्रयस्य ' प्रेष्यः ' प्रेषणीयो भृत्यो भवति । तथा ‘ कामोत्थाप्यो मध्यरात्रादौ यदाकदाचिद्दिने इच्छा भवति, तदानीयमनुत्थाप्यते । तथा तदीयं ‘ कामम् ’ इच्छामनतिक्रम्य ' वध्यः ' कुपितेन स्वामिना ताड्यो भवति । एते शूद्रगुणाः । क्षत्त्रियस्य कदाचित् पापे सति शूद्रसमानः पुत्रो जायते । ' अस्मात् ' क्षत्रियात् अन्यः पुत्रः

पौत्रो वा शूद्रत्वं प्राप्तुं समर्थो भवति ।

' जिज्यूषित: ' जीवतुं प्रवृत्तो भवति ॥

॥ इति श्रीमत्सायणाचार्यविरचिते भाष्ये सप्तमपञ्चिकायां तृतीयः खण्डः ॥ इस प्रकार ऐतरेयब्राह्मण के ' शशिप्रभा ' नामक ' सः ' पुत्रः ' शूद्रतया ' शूद्रवर्णतया दासत्ववृत्त्या माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-पञ्चमाध्याये ( पञ्चत्रिंशाध्याये ) ॥३ ॥ ( २ ९ ) ( २५२ )

पैतीसवें अध्याय के तृतीय खण्ड की हिन्दी व्याख्या समाप्त ॥ चतुर्थः खण्डः सा ० भा ० — अथ क्षत्त्रियोचितं भक्षं दर्शयितुमुक्तानां भक्षाणां क्षत्त्रियेण हेयतां सङ्ग्रह्याऽऽह— ( क्षत्रियस्योपादेयभक्षनिरूपणम् ) एते वै ते त्रयो भक्षा राजन्निति होवाच; येषामाशां नेयात् क्षत्रियो

पृष्ठ 567

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 567 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४२१ यजमानः ॥१ ॥

हिन्दी— ( क्षत्रिय के लिए सोम, दधि और जल तीनों भक्ष्यों रहे हैं— ) राजन् हे राजन्! एते वै त्रयो भक्षाः ये तीन भक्ष्य हैं, को यजमानः क्षत्रियः यजन करता हुआ क्षत्रिय आशां न इयात् इति ह उवाच इस प्रकार उस ( राम नामक ब्राह्मण ) ने कहा ॥ सा ० भा ० - क्षत्रियो यागं कुर्वन् ' येषां ' भक्षाणाम् ' आशाम् ' प्राप्नुयात् । हे ‘ राज़न् ’ विश्वन्तर, ते त्रयोऽपि ' एते ' पूर्वमुक्ताः ॥। उपादेयं भक्षं दर्शयति— की दोषपूर्णता को कह येषाम् जिन ( भक्ष्यों ) लेने की इच्छा न करें इच्छामपि ‘ नेयात् ' न अथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्च-त्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत्, सोऽस्य स्वो भक्षः ॥२ ॥

हिन्दी — अथ अब ( क्षत्रिय के लिए हेय तीन भक्ष्यों को कहकर ) स्व भक्षः ( क्षत्रिय ) के लिए उपादेय उसके भक्ष्य को ( कह रहे हैं— ) न्यग्रोधस्य अवरोधाः च बरगद की बरोहों और औदुम्बराणि अश्वत्थानि प्लाक्ष्याणि फलानि गूलर, पीपल तथा पाकड़ के फलों को अभिषुणुयात् एक साथ अभिषुत करे ( जल में पीसकर उसे छान देवें ) । तानि भक्ष्येत् उस ( अभिषुत रस ) का भक्षण करे । सः अस्य स्व भक्षः वह ( अभिषुत रस ) इस ( यजमान क्षत्रिय ) का अपना भक्ष्य होता है । सा ० भा ० -'अथ ' हेयभक्षकथनानन्तरम्, उपादेयो भक्षः कथ्यत इति शेषः । ' अस्य ' राज्ञ एव वक्ष्यमाणः स्वो भक्षः । कोऽसाविति? सोऽभिधीयते । ' न्यग्रोधस्या-वरोधाः ’ शाखाभ्योऽवाङ्मुखत्वेन प्ररोहन्तो मूलविशेषाः । तथैवादुम्बराश्वत्थप्लक्षाख्यानां वृक्षाणां फलानि च, ‘ तानि ' सर्वाणि ' अभिषुणुयात् ' । अभिषुत्य च यो रसो भवति, तं रसं भक्षयेत् । ‘ सः ’ अयम् ‘ अस्य ' क्षत्रियस्य स्वोचितो भक्षः ॥ अथ न्यग्रोधप्रशंसार्थं तदुत्पत्तिं दर्शयति— ( न्यग्रोधस्योत्पत्तिकथनम् ) यतो वा अधि देवा यज्ञेनेष्ट्वा स्वर्गं लोकमायंस्तत्रैतांश्चमसान्युब्जंस्ते न्यग्रोधा अभवन्, न्युब्जा इति हाप्येनानेतर्ह्याचक्षते; कुरुक्षेत्रे ते ह प्रथमजा न्यग्रोधानां तेभ्यो हान्येऽधिजाताः ॥३ ॥

हिन्दी – ( न्यग्रोध्र के प्रशंसार्थ उसकी उत्पत्ति को कह रहे हैं - ) यतो वा अधि जिस ( कुरुक्षेत्र ) पर देवाः देवताओं ने इष्ट्वा यजन करके यज्ञेन यज्ञ के द्वारा स्वर्गं लोकम् आयन् स्वर्गलोक को प्राप्त किया, तत्र उस ( यज्ञ - स्थल ) पर एतान् चमसान् इन ( सोम के ) चमसों को न्युब्जन् अधोमुख करके रख दिया, ते न्यग्रोधाः अभवन् वे

पृष्ठ 568

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 568 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२२: ऐतरेयब्राह्मणम् [ ३५.४ सप्तमपञ्चिकायां ( चमस ) न्यग्रोध ( बरगद ) हो गये । एतर्हि अपि इस समय भी एनान् इन ( बरगद वृक्षों को ) न्युब्जा इति आचक्षते न्युब्ज इस नाम से पुकारा जाता है । न्यग्रोधानां ते न्यग्रोध ( बरगद ) में वे ( बरगद ) कुरुक्षेत्रे कुरुक्षेत्र में प्रथमजाः सर्वप्रथम उत्पन्न हुए । तेभ्यः उन्हीं ( न्यग्रोधों ) से अन्ये अधिजाताः अन्य ( न्यग्रोध ) उत्पन्न हुए ॥ सा ० भा ० — देवाः पुरा ‘ यतो वा अधि ' यस्य कुरुक्षेत्रस्योपरि यज्ञेनेष्ट्वा स्वर्गं लोकम् ‘ आयन् ’ प्राप्नुवन्, ‘ तत्र ' तस्मिन् यज्ञदेशे ‘ एतान् ' सोमचमसान् ‘ न्युब्जन् ' अधो-मुखान् अस्थापयन् । अधोमुखाः ' ते ' चमसा न्यग्रोधवृक्षा अभवन् । ' एतर्हि ' इदानीमपि तस्मिन् कुरुक्षेत्रे ‘ एनान् ’ न्यग्रोधवृक्षान् ' न्युब्ज: ' इति अनेन नाम्नाऽऽचक्षते । ' ते ' कुरु-क्षेत्रदेशस्था वृक्षा भूलोकवर्तिनां सर्वेषां न्यग्रोधवृक्षाणां मध्ये ‘ प्रथमजाः ’ प्रथमत उत्पन्नाः । ‘ तेभ्यः ’ तद्देशवर्तिन्यग्रोधवृक्षेभ्यः ' अन्ये ' देशान्तरवर्तिनो न्यग्रोधाः ' अधिजाताः ' आधि-क्येनोत्पन्नाः ॥ न्यग्रोधशब्दं निर्वक्ति— ( न्यग्रोधशब्दनिर्वचनम् ) ते यन्यञ्चोऽरोहंस्तस्मान्यरोहति न्यग्रोहो वै नाम; तन्त्र्यग्रोहं सन्तं न्यग्रोध इत्याचक्षते परोक्षेण; परोक्षप्रिया इव हि देवा ॥४ ॥

हिन्दी – ( न्यग्रोध शब्द का निर्वचन दे रहे हैं - ) ते वे ( सोम के चमस ) न्यञ्चम् अवरोहन् अधोमुख रखे गये थे तस्मात् इसी कारण न्यग्रोहः न्यग्रोध ( बरगद ) न्यङ्-रोहति अधोमुख होकर उत्पन्न होता है । अतः उसका न्यग्रोह नाम न्यग् - रोह ( नीचे की ओर उगना ) नाम है । तत् न्यगोहं सन्तम् वह न्यग्रोह ( नाम ) वाला होते हुए भी परोक्षेण परोक्ष ( छिपे ) रूप से ( हकार के स्थान पर धकार होकर ) न्यग्रोध इत्याचक्षते न्यग्रोध कहा जाता है; क्योंकि हि देवाः परोक्षप्रियाः पूज्य ( आचार्य इत्यादि ) परोक्ष ( गुप्त नाम के उच्चारण ) के प्रिय होते हैं ॥ सा ० भा ० – ‘ ते ’ चमसा ‘ यद् ' यस्मात्कारणात् ' न्यञ्चः ' अधोमुखाः ‘ अरोहन् ' प्रा-दुर्भूताः ‘ तस्मात् ’ कारणात् ‘ न्यङ् ' अधोमुखो ' रोहति ' प्रादुर्भवतीति व्युत्पत्त्या ' न्यग्रोहः ' सम्पन्नः । स च वस्तुतो न्यग्रोह इत्येव नामार्हति, तस्य नाम्नो व्युत्पत्त्यनुसारित्वात् । तथाऽपि न्यग्रोहं सन्तं वृक्षं लौकिका हकारस्य धकारादेशं कृत्वा न्यग्रोध इति परोक्ष-नाम्ना व्यवहरन्ति, ‘ देवानां ' पूज्यानामाचार्योपाध्यायादीनां परोक्षनामप्रियत्वात् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां पञ्चमाध्याये ( पञ्चत्रिंशाध्याये ) चतुर्थः खण्डः || ४ || ( ३० ) ( २५३ )

पृष्ठ 569

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 569 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः पञ्चम: खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १४२३ ॥ इस प्रकार ऐतरेयब्राह्मण के पैतीसवें अध्याय के चतुर्थ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ पश्चमः खण्डः सा ० भा ० — न्यग्रोधवृक्षस्योत्पत्तिमुक्त्वा तदीयानामवरोधानां फलानां चोत्पत्तिं दर्शयति-( न्यग्रोधस्यावरोधादीनामुत्पत्तिकथनम् ) तेषां यश्चमसानां रसोऽवाङत्, तेऽवरोधा अभवन्नथ य ऊर्ध्वस्तानि फलानि ॥ १ ॥

हिन्दी – ( न्यग्रोध वृक्ष की उत्पत्ति को कहकर अब उसके बरोहों और फलों की उत्पत्ति को दिखला रहे हैं - ) तेषां चमसानाम् उन ( अधोमुख ) चमसों का यः रसः जो रस अवाङ् ऐत् अधोमुख नीचे गया ते अवरोधाः अभवन् वे ही ( बरगद ) के बरोह हुए और यः ऊर्ध्वः जो ( रस विलक्षणता के कारण ) ऊपर गये तानि फलानि वे ( बरगद के ) फल हुए ॥ सा ० भा ० — ' तेषाम् ' अधोमुखत्वेनावस्थितानां चमसानां वटवृक्षत्वे सति चमस-गतो या रसः सः ‘ अवाडैत् ’ अधोमुखोऽगच्छत् । ' ते ' रसविशेषाः ‘ अवरोधाः ’ अधो-मुखत्वेनोत्पन्नाः वटशाखाभ्यो निर्गता मूलविशेषा अभवन् । ‘ अथ ’ तद्वैलक्षण्येन यो रस ऊर्ध्वो निरगच्छत्, ‘ तानि ’ रसरूपाणि वटफलान्यभवन् ॥ तेषामेवावरोधानां फलानां च क्षत्रियभक्षत्वं प्रशंसति— ( न्यग्रोधस्यावरोधफलानां भक्षत्वप्रशंसनम् ) एष ह वाव क्षत्रियः स्वाद्धक्षान्नैति, यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्युपाह परोक्षेणैव सोमपीथमाप्नोतिः, नास्य प्रत्यक्षं भक्षितो भवति; रूपमुपनिगच्छति यत्क्षत्रियः, पुरोधयैव दीक्षयैव प्रवरेणैव ॥२ ॥

' हिन्दी – ( उन बरोहों और फलों के क्षत्रिय यजमान के भक्ष्य होने की प्रशंसा कर रहे हैं ) यः जो ( यजमान क्षत्रिय ) न्यग्रोधस्य अवरोधान् च फलानि च न्यग्रोध के बरोहों और फलों का भक्ष्यति भक्षण करता है, एषः वा क्षत्रियः यह ही क्षत्रिय स्वाद्-भक्षान् एति अपने भक्ष्य को प्राप्त करता है ( अपने भक्ष्य से वञ्चित नहीं होता ) तथा परोक्षेण परोक्ष रूप से सोमपीथम् उपाह प्राप्नोति सोमपान को सर्वथा प्राप्त करता है ।

पृष्ठ 570

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 570 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२४: ऐतरेयब्राह्मणम् [ ३५.५ सप्तमपञ्चिकायां इस प्रकार अस्य इस ( क्षत्रिय ) का प्रत्यक्षं भक्षितं न भवति प्रत्यक्ष रूप से ( सोमरस का ) भक्षण नहीं होता; क्योंकि यद् न्यग्रोधः जो न्यग्रोध है, एषः यह ( न्यग्रोध ) परोक्षम् परोक्ष रूप से सोमः राजा इव राजा सोम के समान है । यत् क्षत्रियः जो क्षत्रिय है एषः यह ( क्षत्रिय ) पुरोधया पुरोहित के द्वारा, दीक्षया दीक्षा के द्वारा और प्रवरेण पुरोहित के गोत्र द्वारा परोक्षम् परोक्ष रूप से ब्राह्मणः रूपम् इव उपनिगच्छति ब्राह्मण के रूप को प्राप्त करता है । सा ० भा ० — ‘ यः ’ पुमान्यग्रोधवृक्षस्य ' अवरोधांश्च ' अधोमुखानि मूलानि च, तत्फ-लानि च भक्षयति, एष एव क्षत्रियः स्वोचिताद्भक्षान्नापैति । किञ्चायं क्षत्त्रियः ' परोक्षेणैव ' न्याग्रोधव्यवधानेनैव ‘ सोमपीथं ' सोमपानम् ' उपाह ' ' प्राप्नोति ' सर्वथा प्राप्नोति । ‘ अस्य ' क्षत्त्रियस्य ‘ प्रत्यक्षम् ’ अव्यवधानं यथा भवति तथा सोमो भक्षितो न भवति; न्यग्रोधेन व्यवहितत्वात् । योऽयं न्यग्रोधः; एष परोक्षमेव यथा भवति तथा वर्तमानः सोमो राजा । योऽयं क्षत्त्रियोऽस्ति, एषोऽपि ' परोक्षमिव ' व्यवधानेनैव ब्राह्मणो भूत्वा ' रूपं ' तदीयमेष-मुपनिगच्छति । ‘ पुरोधयैव ' पुरोहितद्वारेण, ' दीक्षयैव ' दीक्षारूपसंस्कारेण च, ' प्रवरेणैव ' पुरोहितगोत्रेण च, ब्राह्मण्यस्य सम्पादितत्वादिति शेषः ॥ प्रकारान्तरेण न्यग्रोधक्षत्त्रिययोः साम्यमापाद्य प्रशंसति— क्षत्त्रं वा एतद्वनस्पतीनां यन्त्र्यग्रोधः, क्षत्त्रं राजन्यो, नितत इव हीह क्षत्त्रियो राष्ट्रे वसन् भवति प्रतिष्ठित इव, निततः इव न्यग्रोधोऽवरोहै-भूम्यां प्रतिष्ठित इव ॥ ३ ॥

हिन्दी — ( प्रकारान्तर से न्यग्रोध और क्षत्रिय में समानता का प्रतिपादन करके प्रशंसा कर रहे हैं— ) यद् न्यग्रोधः जो न्यग्रोध है, एतद् वनस्पतीनां क्षत्रम् यह वनस्पतियों में क्षत्रिय है | क्षत्रं राजन्यः और राजा ( मनुष्यों में ) क्षत्रिय होता है । क्षत्रियः क्षत्रिय ( राजा ) इह राष्ट्रे वसन् इस अपने राष्ट्र में निवास करता हुआ निततः इव ह ( प्रत्येक गाँव में सञ्चरण करता हुआ ) निरन्तर भ्रमणशील के समान होता है और प्रतिष्ठितः इव भवति ( अपने राज्य की स्थिरता के कारण ) प्रतिष्ठित हुए के समान होता है । अवरोहैः निततः इव न्यग्रोधः अपने बरोहों से निरन्तर व्याप्त न्यग्रोध भूम्यां प्रतिष्ठितः इव भूमि में प्रतिष्ठित भी होता है । सा ० भा ० — यो न्यग्रोधोऽस्ति ' एतत् ' न्यग्रोधस्वरूपं वनस्पतीनां मध्ये ‘ क्षत्त्रं वै ’ क्षत्त्रियजातिरेव । ‘ राजन्यः ’ देशाधिपतिरपि ' क्षत्त्रं ' मनुष्याणां मध्ये क्षत्त्रियजातिः । किञ्चायं क्षत्रियः ‘ इह राष्ट्रे ’ स्वदेशे वसन् ' नितत इव हि ' तत्तद् ग्रामेषु सञ्चरणेन नितरां संतत एव भवति । तथा ‘ प्रतिष्ठित इव ' राज्यस्थैर्येण चलनरहित एव भवति । न्यग्रोध-वृक्षोऽप्यधोमुखैः ‘ अवरोधैर्नितत इव नितरां व्याप्त एव भवति । तथा ‘ भूम्यां प्रतिष्ठित