ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 571–580
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 571–580
पृष्ठ 571
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: १४२५
इव ' स्थिर एव भवति । तस्मादस्त्युभयोः साम्यम् ॥
न्यग्रोधभक्षमुपसंहरति— तद्यत्क्षत्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्यात्मन्येव तत्क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति, क्षत्त्र आत्मानम् ॥४ ॥
हिन्दी – ( यजमान क्षत्रिय के लिए भक्ष्य न्यग्रोध के कथन का उपसंहार कर रहे हैं— ) तत् तो यत्क्षत्रियः जो क्षत्रिय यजमानः यजन करता हुआ न्यग्रोधस्य अवरो-धान् च फलानि च न्यग्रोध के बरोहों और फलों का भक्ष्यति भक्षण करता है, वह वनस्पतीनां क्षत्रम् वनस्पतियों के क्षत्रियरूप ( न्यग्रोध ) को आत्मनि प्रतिष्ठापयति अपने अन्दर प्रतिष्ठापित करता है तथा आत्मानम् अपने स्वरूप को क्षत्रे ( उस ) क्षत्रिय रूप ( न्यग्रोध ) में ( प्रतिष्ठापित करता है ) ॥ सा ० भा ० - ' तत् ' तस्मान्यग्रोधक्षत्त्रिययोः सादृश्यसद्भावाद् यः ' क्षत्त्रियः ' पुरुषो यागं कुर्वन्यग्रोधवृक्षस्यावरोधान् फलानि च भक्षयेत् । तदानीं वनस्पतीनां सम्बद्धं ' क्षत्रं ' क्षत्त्रियजातिम् ‘ आत्मन्येव ' स्वोदरमध्य एव प्रतिष्ठापयति 1 । तथैव ' आत्मानं स्वस्वरूपं वनस्पतिसम्बन्धिनि ' क्षत्त्रे ' न्यग्रोधे प्रतिष्ठापयति । उपसंहृतं तं भक्षं पुनरपि प्रशंसति— क्षत्रे ह वै स आत्मनि क्षत्रं वनस्पतीनां प्रतिष्ठापयति, न्यग्रोध इवावरोधैर्भूम्यां प्रति राष्ट्रे तिष्ठत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानः ॥५ ॥
हिन्दी - यः क्षत्रियः यजमानः जो यजन करता हुआ क्षत्रिय एवमेतं भक्षम् इस प्रकार इस भक्ष्य ( न्यग्रोध ) का भक्षयति भक्षण करता है, सः ह वह ( यजमान क्षत्रिय ) आत्मनि क्षत्रे अपने क्षत्रियरूप में वनस्पतीनां क्षत्रम् वनस्पतियों के क्षत्रिय ( न्यग्रोध ) को प्रतिष्ठापयति प्रतिष्ठापित करता है । वह अवरोधैः न्यग्रोधः इव बरोहों द्वारा न्यग्रोध के समान भूम्यां राष्ट्रे प्रतितिष्ठति पृथिवी पर राष्ट्र में प्रतिष्ठित होता है । उग्रम् तेजस्वी और अस्य राष्ट्रम् अव्यथ्यं भवति इसका राज्य किसी के द्वारा नष्ट न किये जाने समर्थ होता है । सा ० भा ० — ‘ यः ’ क्षत्त्रियो यागं कुर्वन् ' एतं ' न्यग्रोधसम्बन्धिनं भक्षं भक्षयति, स क्षत्त्रियः स्वयं वनस्पतीनां सम्बन्धिनि ' क्षत्त्रे ' न्यग्रोधे प्रतिष्ठितः सन् ' आत्मनि ' स्व-स्मिन् वनस्पतीनां सम्बन्धि ' क्षत्त्रं ' न्यग्रोधं प्रतिष्ठापयति । यथा न्यग्रोधोऽवरोधैर्भूम्यां प्रतिष्ठितः, एवमयं राजा राष्ट्रे प्रतितिष्ठति । अस्य राष्ट्रम् ' उग्र ' तेजस्वि सत् ‘ अव्यथ्यं ’ केनापि व्यथितुमशक्यं भवति ॥ ऐ.ब्रा.उ.- ३६
पृष्ठ 572
पाठ पढ़ें पाठ छिपाएँ
१४२६: ऐतरेयब्राह्मणम् [ ३५.६ सप्तमपञ्चिकायां ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां पञ्चमाध्याये ( पञ्चत्रिंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( ३१ ) ( २५४ )
॥ इस प्रकार ऐतरेयब्राह्मण के पैतीसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ षष्ठः खण्डः सा ० भा ० — न्यग्रोधस्यावरोधान् फलानि च प्रशस्य, औदुम्बरादिप्रशंसा क्रमेण दर्शयति— ( औदुम्बरादिप्रशंसा ) अथ यदौदुम्बराण्यूर्जी वा एषोऽन्नाद्याद्वनस्पतिरजायत यदुदुम्बरो; भौज्यं वा एतद्वनस्पतीनामूर्जमेवास्मिंस्तदन्नाद्यं भौज्यं च वनस्पतीनां क्षत्त्रे दधाति ॥ १ ॥ "
हिन्दी – ( न्यग्रोध के बरोहों और फलों की प्रशंसा करके क्रमशः गूलर इत्यादि की प्रशंसा कर रहे हैं— ) यद् उदुम्बराणि जो ( भक्ष्य के रूप में ) गूलर के फलों को ( कहा गया है ), ( उनको उत्पन्न करने वाला ) यद् उदुम्बरः जो उदुम्बर वृक्ष है एषः यह ( वृक्ष ) अन्नाद्याद् ऊर्जः अन्न के रस से वनस्पतिः अजायत् वनस्पति रूप से उत्पन्न हुआ है । एतद् वै यह निश्चित रूप से वनस्पतीनां भौज्यम् ऊर्जम् वनस्पतियों का भोजन करने योग्य रस है । इसके भक्षण करने से अस्मिन् क्षत्रे इस क्षत्रिय में अन्नाद्यम् अन्न और वनस्पतीनां भौज्यम् वनस्पतियों के भोजनीय रस को दधाति प्रतिष्ठापित करता है । सा ० भा ० - -'अथ ' न्यग्रोधप्रशंसानन्तरम्, उदुम्बरप्रशंसा कथ्यते । ' यद् ’ यानि ‘ औदुम्बराणि ’ फलानि भक्षत्वेनोक्तानि तेषामुत्पादको यदुदुम्बरोऽस्ति, एषः ' ऊर्ज: ' रसा-दन्नाद्याच्च वैनस्पतिरूपोऽजायत । ' एतद् ' उदुम्बरफलं वनस्पतीनां मध्ये ' भौज्यं वै ' भोजना-र्हमेव । ‘ तत् ’ तेनौदुम्बरभक्षेण ' अस्मिन् क्षत्त्रे ' ' ऊर्जमेव ' रसमेव तथाऽन्नाद्यं वनस्पतीनां मध्ये भोजनयोग्यं द्रव्यमवस्थापयति ॥ अश्वत्थफलानि प्रशंसति— अथ यदाश्वत्थानि तेजसों वा एष वनस्पतिरजायत यदश्वत्थः, साम्राज्यं वा एतद्वनस्पतीनां, तेज एवास्मिंस्तत्साम्राज्यं च वनस्पतीनां क्षत्त्रे दधाति ॥ २ ॥
पृष्ठ 573
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १४२७ हिन्दी— ( अब पीपल के फलों की प्रशंसा कर रहे हैं— ) यद् आश्वत्थानि जो पीपल के फल हैं ( उनको उत्पन्न करने वाला ) यद् अश्वत्थः जो पीपल का वृक्ष है ) एषः यह ( वृक्ष ) तेजसः तेज से वनस्पतिः अजायत् वनस्पतिरूप में उत्पन्न हुआ है । एतत् यह ( पीपल ) वनस्पतीनां साम्राज्यम् वनस्पतियों का साम्राज्यस्वरूप है । ( इसके भक्षण से ) अस्मिन् क्षत्रे इस क्षत्रिय में वनस्पतीनां साम्राज्यं दधाति वनस्पतियों के साम्राज्य को प्रतिष्ठापित करता है ॥ सा ० भा ० — ' अथ ' औदुम्बरप्रशंसानन्तरम् अश्वत्थफलानि प्रशस्यन्ते । यान्य-श्वत्थफलानि सन्ति, तेषां जनको योऽश्वत्थः, एष वनस्पतिस्तेजस एवोदपद्यत । ' एतद् ’ अश्वत्थफलं वनस्पतीनां सम्बन्धि साम्राज्यस्वरूपमेव । ' तत् ' तेनाश्वत्थफलभक्षेण तेज एव वनस्पतीनां साम्राज्यं च अस्मिन् ' क्षत्त्रे ' स्थापयति ॥ प्लक्षफलानि प्रशंसति— अथ यत्प्लाक्षाणि, यशसो वा एष वनस्पतिरजायत यत्प्लक्षः, स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां, यश एवास्मिंस्त-त्स्वाराज्यवैराज्ये च वनस्पतीनां क्षत्त्रे दधाति ॥ ३ ॥
हिन्दी— ( अब पाकड़ के फलों की प्रशंसा कर रहे हैं - ) यत् प्लाक्षाणि जो पाकड़ के फल हैं, ( उनको उत्पन्न करने वाला ) यत् प्लक्षः जो पाकड़ ( वृक्ष ) हैं एषः यह ( पाकड़ वृक्ष ) यशसः यश से वनस्पतिः अजायत् वनस्पतिरूप से उत्पन्न हुआ है । एतत् यह ( पाकड़ वृक्ष ) वनस्पतीनां स्वाराज्यं च वैराज्यं च वनस्पतियों का स्वाराज्य और वैराज्य स्वरूप है । ( इसके भक्षण से ) अस्मिन् क्षत्रे इस क्षत्रिय में यशः स्वा-राज्यवैराज्ये च यश तथा स्वाराज्य और वैराज्य को दधाति स्थापित करता है ॥ सा ० भा ० — ' अथ ' अश्वत्थप्रशंसानन्तरं यानि प्लक्षफलानि विद्यन्ते तानि प्रश-स्यन्ते । योऽयं प्लक्षोऽस्ति एष वनस्पतिर्यशस एवोत्पन्नः । ' एतत् ' प्लक्षफलं वनस्प-तीनां सम्बन्धि स्वाराज्यवैराज्यरूपम् । स्वातन्त्र्येण राजत्वं ' स्वाराज्यं ' विशेषेण राजत्वं वैराज्यम् । ‘ तत् ’ तेन प्लक्षफलेन ' अस्मिन् ' क्षत्त्रे यशश्च स्वाराज्यवैराज्ये च सम्पादयति ॥ भक्षद्रव्यं प्रशस्य तस्य प्रयोगमाह— ( भक्षद्रव्यप्रयोगविधिः ) एतान्यस्य पुरस्तादुपंक्लृप्तानि भवन्त्यथ सोमं राजानं क्रीणन्ति; ते राज्ञ एवाऽऽवृतौपवसथात् प्रतिवेशैश्चरन्त्यथौपवसथ्यमहरेतान्यध्वर्युः पुरस्तादुपकल्पयेताधिषवणं चर्माधिषवणे फलके द्रोणकलशं दशापवित्रमद्रीन् पूतभृतं चाऽऽधवनीयं च स्थालीमुदञ्चनं चमसं च
पृष्ठ 574
पाठ पढ़ें पाठ छिपाएँ
१४२८: ऐतरेयब्राह्मणम् [ ३५.६ सप्तमपञ्चिकायां तद्यदेवद्राजानं प्रतारभिषुण्वन्ति, तदेनानि द्वेधा विगृह्णीयादभ्यन्यानि सुनुयान्, माध्यदिनायान्यानि परिशिष्यात् ॥ ४ ॥
हिन्दी— ( क्षत्रिय के भक्ष्यद्रव्य की प्रशंसा करके उसके प्रयोग को कह रहे हैं— ) एतानि इन ( न्यग्रोध के बरोह इत्यादि ) को अस्य इस ( राजा क्षत्रिय ) के लिए पुरस्तात् ( सोमक्रय से ) पहले उपक्लृप्तानि भवन्ति सम्पादित किया जाता है । अथ उस वरगद के बरोह इत्यादि के सम्पादन के लिए सोमं राजानं क्रीणन्ति सोम राजा को खरीदते हैं । ते वे ( अध्वर्यु इत्यादि ) राज्ञ एव आवृत्ता राजा को घेरकर ( सोमयाग के समान ) औपवसथात् उपवसथ ( उपवास ) के दिन से पूर्व की प्रतिवेशैः प्रतिवेशों ( प्रसिद्ध क्रिया-विशेषों ) से चरन्ति अनुष्ठान करते हैं I । औपवसथ्यम् अहः उपवसथ के दिन अध्वर्युः अध्वर्यु ( नामक ऋत्विक् ) एतान् इन ( आगे कहे जाने वाली सामानों ) को पुरस्ताद् उपकल्पयेत् पहले सम्पादित करें – ( १ ) चर्माधिषवणे अधिषवण ( जिस पर सोम रखकर कूटा जाता है, ऐसा ) चर्म, ( २ ) फलके ( जिससे सोम का अधिषवण किया जाता है, ऐसे ) दो फलक, ( ३ ) द्रोणकलशम् मजबूत लकड़ी का बना हुआ कलश, ( ४ ) दशा-पवित्रम् ( सोम छानने के लिए ) दशापवित्र, ( ५ ) अद्रीन् ( सोम कूटने के लिए ) पत्थर, ( ६ ) पूतभृतम् छने सोम को रखने के लिए पात्र - विशेष, ( ७ ) आधवनीयम् सोम को धोने के लिए पात्र - विशेष, ( ८ ) स्थालीम् स्थाली ( चार घड़े ), ( ९ ) उदञ्चनम् सोम निकालने का पात्र - विशेष और ( १० ) चमसं च और चमस ( सोम - भक्षण के लिए लकड़ी का पात्र-विशेष ) । तद् यद् एतद् राजानं तो जब इस राजा ( सोम ) को प्रातः अभिषुण्वन्ति प्रात: काल सवन करते हैं तद् एतानि तब इन ( न्यग्रोध के बरोह इत्यादि ) को द्वेधा. विगृह्णीयात् दो भागों में विभाजित कर लेना चाहिए । अभ्यन्यानि सुनुयात् उनमें से एक भाग का सवन करना चाहिए अन्यानि माध्यन्दिनाय परिशिष्यात् अन्य भाग को माध्यन्दिनसवन के लिए रख लेना चाहिए ॥ सा ० भा ० – ‘ एतानि ' न्यग्रोधावरोधादीन् ' अस्य ' राज्ञोऽर्थे सोमक्रयात्पूर्वम् ‘ उप-क्लृप्तानि ' सम्पादितानि भवन्ति । तत् ऊर्ध्वं सोमक्रयः । ततः ' ते ' अध्वर्युप्रभृतयोः ' राज्ञ एवाऽऽवृता ' सोमस्यैव प्रकारेणौपवसथदिनात् पूर्वं ' प्रतिवेशैः ’ प्रसिद्धैः ‘ क्रियाविशेषैश्च-रन्ति ' अनुतिष्ठेयुः ' | ‘ अथ ' अनन्तरमौपवसथ्यमहः । औपवसथ्येऽहन्यध्वर्युः ‘ पुरस्तात् ' ( १ ) “ प्रतिवेशं पचेयुः । तस्माश्नीयात् । गृहमेध्येव भवति । नास्य यज्ञो व्यृध्यते ” – इति तै ० ब्रा ० १.६.७.१ । प्रातिस्विकत्वेन पत्नी विशतीति प्रतिवेशः । पत्यर्थः ओदनः, तं दक्षिणाग्नौ पक्तारः पचेयुः ’ — इत्यादि तद्भाष्यम् ( तै ० सं ० १.८.४ ) । दक्षिणाग्नौ पत्नयाः प्रतिवेशमोदनं पचति ” – इति आप ० श्री ० ८.१०.१० । “ प्रतिवेशा अपि पचन्ते ” – इति च तत्रैव ८.११.११ । इह तु महानसपाचका प्रतिवेशा विवक्षिताः ।
पृष्ठ 575
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः षष्ठः खण्डः ] ' सायणाचार्यकृतभाष्योपेतम् ः १४२ ९ सोमोऽभिषूयते, तच्चर्माधिषवणाख्यम् ' । ययोः फलकयोरभिषूयते ते फलके अधिषवण-संज्ञके ' । द्रोणकलशं प्रौढदारुपात्रम् । दशापवित्रं वस्त्रम् । अद्रयोऽभिषवणार्थी ग्रा-वाणः “ । पूतभृदाधवनीयौ पात्रविशेषौ । स्थाली कुम्भ: ' । ' उदञ्चनम् ' उन्नयनपात्रम् ' । चमसो भक्षार्थं दारुपात्रम् ' । एतान्यध्वर्युः सम्पाद्य तत ऊर्ध्वं ' यद् ' यदा ' एतद् ' एतं राजानं ( १ ) “ अधिषवणं परिकृत्तं भवति ” – इत्यादि शत ० ब्रा ० ३.५.३.२२ । ' अधि उपरि सोमः सूयत इत्यधिषवणम् । सर्वरोहितमिति वचनाद् गोचर्मं ' इत्यादि का ० श्रौ ० ८.५.२६ सूत्रे याज्ञिकदेवः । नाभिप्रमाणा अरत्निमात्राङ्गी मुञ्जरज्जुव्यूता औदुम्बरी मचिका आसन्दी-त्युच्यते । तस्यामासन्द्यां अधिषवणफलकयोरुपरि प्राग्ग्रीवमुत्तरलोम यत् चर्मं आस्तृणाति, तदेवाधिषवणाख्यम् । अस्मिन्नेवास्तीर्णे चर्मणि वासोवद्धमेव सोमं स्थापयति । तदेतत् काव्या ० श्रौ ० ७.९.२७-३० सूत्रेषु स्पष्टम् । ( २ ) उपरवाणामुपरि अस्थूलान् प्रागग्रानुदग्ग्रान् वा दर्भानास्तीर्यं अधिषवणफलके उपदधाति । अधि उपरि सूयते सोमो ययोः, ते । ते च वारणे प्रादेशपरिमितस्थूले अरत्निपरमितदीर्घे भवतः । तदेवमादिकं वर्णनं कात्या ० श्रौ ० ८.५.२५ सू ० टी ० द्रष्टव्यम् । “ अथाधि-षवणे फलके उपदधाति " - इत्यादि च शत ० ब्रा ० ३.४.५.२२ । ( ३ ) “ द्रोणकलश: — द्रुममयः कलशाकारो वैकङ्कतः, यस्योपरि धाराग्रहा गृह्यन्ते ” – इत्यादि का ० श्रौ ० ८.७.५ याज्ञिकदेवः । ( ४ ) जीवन्मेषाणां श्वेतरोमग्रथितसूत्रनिर्मिते सोमरसपावनार्थे ऊर्णापवित्रे द्वे भवतः । तत्रैवं यजमानस्यारत्निमात्रम्, तदेव द्रोणकलशे स्थाप्यते; अथापरं प्रादेशमात्रम्, तदेव परि-प्लवायां युज्यते । तदेतत् द्वितीयमूर्णापवित्रं भवत्युभयतोदशमिति दशापवित्रं चोच्यते । का ० श्रौ ० ९.२.१६-१७ द्रष्टव्यम् । ( ५ ) “ अथ ग्राव्ण उपावहरति ” - इत्यादि शत ० ब्रा ० ३.५.४.२४ । “ तस्मिन् ग्राव्णः पञ्च, वैष्णवाः स्थेति ( वा ० सं ० ५.२५ ) ” – इति कात्या ० श्रौ ० ८५.२८ । ( ६ ) पूतभृद् - आधवनीयौ — पूतं सोमं बिभर्त्तीति पूतभृत् । एतत् संज्ञकः पृथुमुखो महा-कलशो भवति । आधवनीयश्च तंद्रूप एव; आधूयते प्रक्षाल्यते सोमोऽस्मिन्नित्येव तत्र प्रकृतिप्रत्ययगतोऽर्थविशेष: ( का ० श्र ० ९.२.२० ) । यज्ञे यद्यपि आधवनीयकुम्भस्यैव-प्राथम्यम्, तथापि ‘ अल्पाच्तरं ( पूर्वम् ) - इति शब्दानुशासनाद् ( पा ० सू ० २.२.३४ ) द्वन्द्वे तस्य परप्रयोगः पूतभृदाधवनीयाविति । ( ७ ) स्थाल्यश्चतस्रः — ‘ आग्रयणोक्थ्यादित्यध्रुवाणाम् ' इति का ० श्रौ ० ९.२.१४ सूत्रव्याख्यां याज्ञिकदेवः । ( ८ ) उदञ्चनौ – पूतभृताधवनीययोः कुम्भयोः सोमोदकग्रहणसाधनपात्रभूतौ जलभाण्डैविशेषौ । का ० श्रौ ० ९.२.२१; ९.६.१५; १०.५.१ भाष्याणि द्रष्टव्यानि । ‘ उदङ्कोऽनुदके’-इति पा ० सू ० ३.३.१२३ । ‘ घृतोदङ्कश्चर्ममयं भाण्डम् । अनुदके किम्? ‘ उदकोदञ्चनः’– इति तत्र दीक्षितः ( सि ० कौ ० ) । ( ९ ) दश चमसाः — सोमपानपात्राणि । ' चमसो देवपान: ' - इति ऋ ० १०.१६.८ । ‘ औदु-
पृष्ठ 576
पाठ पढ़ें पाठ छिपाएँ
१४३०: ऐतरेयब्राह्मणम् [ ३५.७ सप्तमपञ्चिकायां प्रातःकालेऽभिषुण्वन्ति, ‘ तत् ’ तदानीम् ' एतानि ' न्यग्रोधावरोधादीनि द्वेधा विभजेत् । तत्र ‘ अन्यानि ’ ‘ एकभागगतानि ‘ तस्मिन् ' प्रातःसवनेऽभिषुणुयात् । इतरभागगतानि तु माध्यं-दिनसवनाय स्थापयेत् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां पञ्चमाध्याये ( पञ्चत्रिंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( ३२ ) ( २५६ )
॥ इस प्रकार ऐतरेयब्राह्मण के पैतीसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ सप्तमः खण्डः सा ० भा ० — अथास्य फलचमसस्य उन्नयनादिप्रयोगं दर्शयति— ( क्षत्रिययजमानचमसस्योन्नयनादिप्रयोगविधानम् ) तद्यत्रैतांश्चमसानुन्नयेयुस्तदेतं यजमानचमसमुन्नयेत्, तस्मिन् द्वे दर्भतरुणके प्रास्ते स्यातां, तयोर्वषट्कृतेऽन्तः परिधि पूर्वं प्रास्येद्, दधिक्राव्णो अकारिषमित्येतयर्चा सस्वाहाकारयाऽनुवषट्कृतेऽपरमा दधिक्राः शवसा पञ्च कृष्टीरिति ॥ १ ॥
हिन्दी - ( अब फलचमस के उन्नयनादि प्रयोग को कह रहे हैं - ) तत् इसके बाद यत्र जब एतान् चमसान् इन ( ब्रह्मा, होता इत्यादि दश ) चमसों को उन्नयेयुः उन्नयन ( सोम से भरने का कार्य ) करते हैं तत् तभी एतं यजमानचमसम् इस यजन करने वाले ( राजा ) के चमस को भी उन्नयेत् ( अभिषुत न्यग्रोध के बरोह इत्यादि के रस से ) उन्नयन करना ( भरना ) चाहिए । तस्मिन् उस ( यजमान चमस ) में द्वे दर्भतरुणके प्रास्ते दो छोटे-छोटे दर्भ के टुकड़े को स्याताम् डाल देना चाहिए । तयोः उन दोनों ( टुकड़ों ) में ( प्रथम प्रक्षिप्त दर्भ को ) वषट्कृते वषट्कार कर लेने पर अन्तःपरिधि वेदि की परिधि के भीतर म्बरेण चमसेन चतुःस्रक्तिना ’ – इति शत ० ब्रा ० ७.२.११.२ । ' दश चमसान्त्सवृन्तानधः’-इति का ० श्रौ ० ९.२.२२ । ‘ त्सरुमत: ' इति च मानवसूत्रम् । तथा च मुष्टियुक्तानि । न्यग्रोधरोहितकपर्णान्यतमकाष्ठनिर्मितानि । होतुः, ब्रह्मणः, उद्गातुः, सुन्वतः, प्रशास्तुः, ब्राह्मणाच्छसिनः, पोतुः, नेष्टुः, आग्नीध्रस्य, अच्छावाकस्येति दश । कात्या ० श्री ० ( ९.९.२५; १२.१३ ) भाष्यं द्रष्टव्यम् ।
पृष्ठ 577
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १४३१ स्वाहाकारया स्वाहाकार के साथ ' दधि काव्णो अकारिषम् ' इत्येतया ऋचा इस ऋचा से प्रास्येत् प्रक्षेप कर देवें | अनुवषट्कृते अपरम् ( स्वाहाकारसहित ) अनुवषट्कार करके दूसरे दर्भ को ‘ आ दधिक्रा शवसा पञ्चकृष्टी: ' इस ऋचा से परिधि के भीतर प्रक्षिप्त कर देवें ॥ सा ० भा ० — तत ऊर्ध्वं ‘ यत्र ' यदा ' एतान् ' ब्रह्महोत्रादिचमसान् दशसंख्याकानुन्न-येयुः ’ | ‘ तद् ’ तदानीं ‘ यजमानस्य ' राज्ञश्चमसम् ' उन्नयेत् ' अभिषुतेन न्यग्रोधावरोधादिना पूरयेत् । ‘ तस्मिन् ’ पूरिते चमसेऽल्पं दर्भद्वयं प्रक्षिप्य तयोर्मध्ये प्रथमप्रक्षिप्तं दर्भं ‘ वषट्-कृते ’ वषट्कारे कृते सति ‘ दधिक्राव्ण: ' इत्येतयर्चा स्वाहाकारसहितया परिधीनामन्तः प्रक्षिपेत् । ‘ अनुवषट्कृते ' अनुवषट्कारे कृते सत्यपरं दर्भम् ' आ दधिक्रा: ' इत्यनयर्चा पूर्ववत् स्वाहाकारसहितया परिधीनामन्तः प्रक्षिपेत् ॥ अथास्य फलचमसस्य भक्षणं विधत्ते— ( यजमानचमसभक्षणविधानम् ) तद्यत्रैतांश्चमसानाहरेयुस्तदेतं यजमानचमसमाहरेत्, तान्यन्त्रोद्-गृह्णीयुस्तदेनमुपोद्गृह्णीयात्, तद्यदेळां होतोपह्वयेत, यदा चमसं भक्षयेदथैनमेतया भक्षयेत् ॥ २ ॥
हिन्दी – ( अब फलचमस के भक्षण का विधान कर रहे हैं — ) तद् यत्र जब ( होम के बाद ) एतान् चमसान् आहरेयुः इन ( सोम से भरे ) चमसों को ( होत्रादिगण ) लेवें तत् . उसी समय एतं यजमानचमसम् आहरेत् इस ( अभिषुत न्यग्रोधादि से भरे ) यजमान चमस को ( यजमान ) ले ले । यत् जब तान् उन ( सोमरसपूर्ण चमसों ) को उद्गृह्णीयुः ( भक्षण के लिए होत्रादि ) ऊपर उठावें, तत् तभी एनम् इस ( यजमान चमस ) को ( यजमन राजा ) उपोद्गृह्णीयात् ( भक्षण के लिए ) ऊपर उठावे । तद् यदा तब जब होता होता ऋत्विक् इळाम् उपह्वयेत इडा का आह्वान करे ( और इडाह्वान करके ) यदा चमसं भक्षयेत् जब चमस का भक्षण करे । अथ इसके बाद ( यजमन राजा ) एनम् इस ( यजमानचमस ) का एतया इस ( आगे कही जाने वाली ऋचा ) से भक्षयेत् भक्षण करे ॥ सा ० भा०- — ततो होमादूर्ध्वं ' यत्र ' यदा ' एतान् होत्रादीनां चमसानृत्विज आहरेयुः । ( १ ) न्यग्रोधफलान्यङ्कुरांश्चाहृत्य सम्पित्य चूर्णयित्वा दघ्ना मिश्रणं कृत्वा राजन्यवैश्ययोर-न्यतरस्य यजमानस्य भक्षणाय चमसानामपात्रे रक्षितो भवति, स एव यजमानचमसः ‘ फलचमस ' इत्युच्यते, तच्च इतरान् सोमचमसाननु उन्नेयो भवति । द्र ० कात्या ० श्रौ ० १०. ९.३०-३२ सूत्रेषु । ( २ ) ' इतरेषु सोमचमसेषु हूयमानेषु एनं फलचमसं चमसाध्वर्युरेव कुशतरुणेन चमसाद् गृहीत्वा जुहोति ' – इति कात्या ० श्रौ ० १०.९.३२ सू ० याज्ञिकदेवः ।
पृष्ठ 578
पाठ पढ़ें पाठ छिपाएँ
१४३२: ऐतरेयब्राह्मणम् [ ३५.७ सप्तमपञ्चिकायां ‘ तत् ’ तदानीमेतं ‘ यजमानस्य ’ राज्ञश्चमसमाहरेत् । ' तान् ' आहृतान् होत्रादिचमसान् ‘ यत्र ’ यदा ‘ उद्गृह्णीयुः ’ भक्षणार्थमूर्ध्वं धारयेयुः । ' तत् ' तदानीम् ' एनं ' यजमानस्य राज्ञश्चमसम् ‘ उपोद्गृह्णीयाद् ऊर्ध्वं धारयेत् । तत ऊर्ध्वं यदा होतेळामुपह्वयेतोपहूय च स्वकीयं चमसं यदा भक्षयेत् । ‘ अथ ' तदानीम् ' एनं ' यजमानचमसम् ' एतया ' वक्ष्यमाणयर्चा राजा भक्षयेत् ॥ तामृचं पठति—
यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः ।
इंदं तदस्य मनसा शिवेन, सोमं राजानमिह भक्षयामीति ॥
हिन्दी - ( भक्षण की ऋचा - ) अन्न इस ( पात्र ) में रसिनः सुतस्य रसयुक्त अभिषुत ( बरगद के बरोह इत्यादि द्रव्य ) का यत् शिष्टम् जो अवशिष्ट ( रस ) है और यत् ( कर्म-विशेषों द्वारा संस्कृत ) जिस ( पात्रस्थ रस ) का शचीभिः इन्द्रः अपिबत् शची के साथ इन्द्र ने पान किया है | अस्य इस ( द्रव्य ) के इदं इस ( अवशिष्ट भाग ) को मैं शिवेन मनसा भक्तियुक्त मन से इह यहाँ ( इस कर्म में ) सोमं राजानम् सोम राजा की भावना ~ से भक्षयामि पान कर रहा हूँ । सा ० भा०- - ' रसिन: ' रसयुक्तस्य ' सुतस्य ' अभिषुतस्यावरोधादिद्रव्यस्य ' अत्र ' पात्रे ‘ यच्छिष्टं ’ योऽवशिष्टो भागो ' यत् ' च पात्रस्थं द्रव्यमिन्द्रः ' शचीभिः ' कर्मविशेषैः संस्कृतमपिबत् । शचीशब्दः कर्मनामसु पठितः ' । ' अस्य ' द्रव्यस्य सम्बन्धि ' तदिदं ' ' शिवेन ' भक्तियुक्ततया मङ्गलेन मनसा ' इह ' कर्मणि ' सोमं राजानं ' सोमराजरूपं भावयित्वा भक्षयामि ॥ तदिदं समन्त्रकभक्षणं प्रशंसति-शिवो ह वा अस्मा एष वानस्पत्यः, शिवेन मनसा भक्षितो भवत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानः ॥४ ॥
हिन्दी— ( समन्त्रक भक्षण की प्रशंसा कर रहे हैं - ) यः क्षत्रियो यजमानः जो यजन करता हुआ क्षत्रिय एवम् एतं भक्षं भक्षयति इस प्रकार इस भक्ष्य ( अभिषुत न्यग्रोधादि द्रव्य ) का पान करता है तो अस्मै इस यजमान के लिए एषः वानस्पत्यः यह वनस्पति ( न्यग्रोधादि से ) निष्पन्न ( द्रव्य ) शिवः मङ्गलकारी होता है शिवेन मनसा भक्षितः कल्याणकारी मन से पान किया गया भवति होता है, अस्य राष्ट्रम् उग्रम् इस ( क्षत्रियं ) का. राष्ट्र उग्नरूप वाला और अव्यथ्यं भवति किसी द्वारा व्यथित न किये जाने ( १ ) निघण्टौ वाङ्नामसु ( १.११ ) ४ ९; कर्मनाममु ( २.२ ) २२; प्रज्ञानामसु च ( ३.९.८ ) । ' '
पृष्ठ 579
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४३३ में समर्थ होता है ॥ सा ० भा ० — ' यः ' क्षत्त्रियो यजमानः ' एवम् ' उक्तेन प्रकारेण ' एतं ' फलचमसरूपं भक्षं भक्षयति, ‘ अस्मै ' यजमानायैष ' वानस्पत्य: ' भक्षः ' शिवो ह वै ' मङ्गलो हितकारी भूत्वा ‘ शिवेन मनसा ' भक्तियुक्तेन मङ्गलेन मनसा भक्षितो भवति । ‘ अस्य ' राज्ञो राष्ट्रम् ‘ उग्रं ’ शत्रूणामभिभवनायोग्ररूपं भूत्वा केनापि ' अव्यथ्यं ' व्यथयितुमशक्यं भवति । भयं चलनं वा कदाचिदपि नास्य राष्ट्रस्य भवतीत्यर्थः ॥ भक्षणादूर्ध्वं मन्त्रेणाऽऽत्मस्पर्शं विधत्ते— ( भक्षणादूर्ध्वं आत्मस्पर्शविधानम् ) शं न एधि हृदे पीतः, प्र ण आयुर्जीवसे सोम तारीरित्यात्मनः प्रत्यभिमर्शः ॥ ५ ॥
हिन्दी - ( भक्षण के बाद हृदयस्पर्श का विधान कर रहे हैं - ) ' सोम हे सोमस्थानीय ( अभिषुत न्यग्रोधादि द्रव्य )! पीतः ( हमारे द्वारा ) पान किये गये तुम नः हृदे हमारे हृदय में शम् एधि सुखकारक होवो । जीवसे ( हमारे ) जीवन के लिए नः आयुः हमारी आयु को प्रतारी: प्रकृष्ट रूप से सम्पादित करो ' इति इस मन्त्र से आत्मनः प्रत्यभिमर्शः अपने हृदय का स्पर्श करें ॥ सा ० भा ० - हे ' सोम ' सोमस्थानीयावरोधादिभक्ष, अस्माभिः पीतः सन् ' नः ' अ-स्माकं हृदये ‘ शमेधि ’ सुखहेतुर्भव ' जीवसे ' चिरजीवनाय ' नः ’ अस्माकमायुः ‘ प्रतारी: ’ प्रकर्षेण सम्पादय ‘ इति ' अनेन मन्त्रेण ' आत्मनः ' स्वकीयहृदयस्य ' प्रत्यभिमर्श: ' हस्तेन सम्पूर्णः स्पर्शः कर्तव्यः ॥ अथान्वयव्यतिरेकाभ्यामभिमर्शं प्रशंसति— ईश्वरो ह वा एषोऽप्रत्यभिमृष्टो मनुष्यस्याऽऽयुः प्रत्यवहर्तोरनर्हं मा भक्षयतीति; तद्यदेतेनाऽऽत्मानमभिमृशत्यायुरेव तत्प्रतिरते ॥६ ॥
हिन्दी— ( हृदयस्पर्श की प्रशंसा कर रहे हैं - ) एषः यह अप्रत्यभिमृष्टः मन्त्रपूर्वक हृदय - स्पर्श से रहित होने पर मनुष्यस्य आयुः मनुष्य ( यजमान क्षत्रिय ) की आयु को प्रत्यवहर्तोः ईश्वरः विनष्ट करने के लिए समर्थ होता है ( क्योंकि वह सोमस्थानीय अभिषुत न्यग्रोधादि द्रव्य सोचता है कि ) अनर्हन् भक्षण करने के योग्य न होते हुए भी मा भक्षयति यह मेरा भक्षण कर रहा है । तद् यत् तो जो एतेन इस ( शं नः ' इत्यादि मन्त्र ) से आत्मानम् अभिमृशति अपने हृदय स्पर्श करता है तत् उस ( स्पर्श ) से आयुः एव प्रतिरते ( अपनी ) आयु को प्राप्त करता है ॥ सा ० भा ० – ‘ एषः ’ अवरोधादिभक्षः ' अप्रत्यभिमृष्टः ' मन्त्रपूर्वकात्मस्पर्शरहितः सन्
पृष्ठ 580
पाठ पढ़ें पाठ छिपाएँ
१४३४: ऐतरेयब्राह्मणम् [ ३५.८ सप्तमपञ्चिकायां ‘ मनुष्यस्य ’ राज्ञः आयुः ‘ प्रत्यवहतों: ' विनाशयितुमीश्वरः समर्थो भवति । केनाभिप्रायेणेति, ` सोऽभिधीयते — ' अनर्हन् ' भक्षयितुमयोग्यः सन् मा भक्षयतीति तस्य भक्षस्याभिप्राय: । सोऽयं व्यतिरेकः, तद्यदित्यादिरन्वयः । ' तत् ' भक्षणादूर्ध्वं यथा ' एतेन ' शं न इत्यादिमन्त्रेण-भिमृशति ‘ तत् ’ तेनाभिमर्शनेनाऽऽयुरेव ' प्रतिरते ' प्रकर्षेण वर्धयति ॥ द्वाभ्यामृग्भ्यां तस्य चमसस्य पूरणं विधत्ते— ( चमसस्य पूरणविधानम् ) आप्यायस्व समेतु तें ', सं ते पयांसि समु यन्तु वाजा ' इति चमस-माप्याययत्यभिरूपाभ्यां; यद्यज्ञेभिरूपं तत्समृद्धम् ॥७ ॥
हिन्दी— ( दो ऋचाओं से इस चमस को भरने का विधान कर रहे हैं - ) ' आप्या-यस्व समेति ते ' अर्थात् ' हे सोम! तुम वृद्धि को प्राप्त करो और तुम्हारा सामर्थ्य तुमसे युक्त होवे ' तथा ' सं ते पयांसि समु यन्तु वाजा ' अर्थात् ' हे सोम तुम्हारे में दूध और ( अन्न सम्मिलित ) होवे ' इति अभिरूपाभ्याम् इन अनुकूल दो ऋचाओं से चमसम् आप्याययति चमस को भरता है । यज्ञे यद् अभिरूपम् वस्तुतः यज्ञ में जो अनुकूल किया जाता है तत् समृद्धम् इससे ( यज्ञ ) सम्पूर्णता को प्राप्त करता है । सा ० भा ० — प्रथमायामृच्याप्यायस्वेति श्रवणाद्, द्वितीयस्यास्तृतीयपादे चाऽऽप्याय-मान इति श्रवणादिदं मन्त्रद्वयमाप्यायनस्य ' अभिरूपम् ' अनुकूलम् । यज्ञे ‘ यद् ' अङ्गम् ‘ अभिरूपम् ’ अनुकूलं क्रियते ' तद् ' अङ्गं ' समृद्धं ' सम्पूर्णं भवति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये सप्तमपञ्चिकायां पञ्चमाध्यांये ( पञ्चत्रिंशाध्याये ) सप्तमः खण्डः ॥७ ॥ ( ३३ ) ( २५६ )
॥ इस प्रकार ऐतरेयब्राह्मण के पैतीसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अष्टमः खण्डः सा ० भा ० — भक्षिताप्यायितस्य नाराशंससंज्ञस्य चमसस्य प्रयोगं विधत्ते-( १ ) ऋ ० १.९ १.१६ ( २ ) ऋ ० १.९ १.१८ ( ३ ) ‘ आप्यायितांश्चमसान् सादयन्ति, ते नराशंसा भवन्ति ' – इति आश्व ० श्री ० ४.५.६, २० । ' हुतशिष्टा भक्षिता आप्यायिताश्चमसा नाराशंसाः - इति सायणः ( ता ० ब्रा ० १७. ११; तै ० ब्रा ० २.७ ) ।