ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 591–600

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 591–600

पृष्ठ 591

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 591 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४४५ स्ताद् ब्रह्म पूर्ववर्ती ब्राह्मणजाति वाला मे राष्ट्रम् मेरा राष्ट्र उग्रम् अव्यथम् असत् उग्र तथा व्यथारहित होवे । अन्नं वै रथन्तरः रथन्तर ( नामक साम ) अन्नरूप है । अतः तत् वह ( इस प्रयोग से ) अस्मै इस ( क्षत्रिय राजा ) के लिए पुरस्ताद् अन्नमेव अकल्पयति पहले अन्न को ही सम्पादित करता है । अथ और इयं पृथिवी वै रथन्तरम् यह रथन्तर ही पृथिवीरूप है और इयम् वै यह ही प्रतिष्ठा ( प्राणियों का ) आधार है । अतः प्रतिष्ठामेव आधार को ही अस्मै इस ( यजनकर्त्ता क्षत्रिय ) को लिए पुरस्तात् कल्पयति सर्वप्रथम सम्पादित करता है । सा ० भा ० - – यद् ‘ रथंतरं ' साम सब्राह्मणजातिस्वरूपम्, उभयोः प्रजापतिमुखज-त्वात् । तथा ‘ बृहत् ’ सामक्षत्त्रियजात्योः प्रजापतेर्बाहुजत्वसाम्यादेकत्वम् । ब्राह्मणजातिः क्षत्त्रियजातेः पूर्वभाविनी । अतो बृहत्सामसाध्यात्पृष्ठस्तोत्रात् पूर्वं रथंतरसामसाध्यस्य पव-मानस्तोत्रस्यानुष्ठानेऽयमभिप्रायः । ' ब्रह्म ' ब्राह्मणजातिः ' पुरस्तात् ' पूर्वकाले यस्य राष्ट्रस्य, तदिदं ‘ ब्रह्म ' पुरस्ताद् यदिदं ' में ' राज्ञो राष्ट्रमुग्रमव्यथ्यम् ‘ असद् ' भवेदित्यभिप्रायः ' । किञ्चान्नहेतुत्वाद् ‘ रथंतरं ’ सामान्नात्मकं, ' तत् ' तेन रथंतरप्रयोगेण ' अस्मै ' राज्ञेऽन्नमेव ' पुरस्तात् ' ' कल्पयति ' प्रथमतः सम्पदायति । किञ्च यद् ' रथंतरं ' साम ' इयं ' ' पृथिवी ’ ' भूमिस्वरूपमेव । इयं च भूमिः प्राणिनां ' प्रतिष्ठा ' आधारः । ' तत् ' तेन रथंतरप्रयोगेण ' अस्मै ' यजमानाय राज्ञे प्रतिष्ठामेव कल्पयति ॥ ' इन्द्र नेदीय एदिहि ' ‘ उत्तिष्ठ ब्रह्मणस्पते ' इत्येतत्प्रगाथद्वयं प्रशंसति— समान इन्द्रनिहवोऽविभक्तः; सोऽह्रामुद्वान्, ब्राह्मणस्पत्य उभयसाम्नो रूपमुभे हि सामनी क्रियेते ॥ ६ ॥

हिन्दी — ( ' इन्द्र नेदीय ' और ' उतिष्ठ ब्रह्मणस्पते ' इन दो प्रगाथों की प्रशंसा कर रहे हैं— ) ‘ इन्द्र निह्ववो ' अर्थात् जिसमें इन्द्र का निरन्तर आह्वान किया जाता है, वह प्रगाथ समानः अविभक्तः समान अर्थात् अविकृत होता है, सः अह्नाम् वह अह्न ( दिन ) का रूप है.। उद्वान् ब्रह्मणस्पत्यः उत् शब्द से युक्त और ब्रह्मणस्पति देवता वाला ( ‘ उत्तिष्ठ ब्रह्मणस्पते ' इस प्रगाथ का शंसन करना चाहिए । उभयसाम्नः रूपम् ( ये ) दोनों ( प्रगाथ ) साम के रूप हैं; क्योंकि उभे हि दोनों ( बृहद् और रथन्तर ) सामनी क्रियेते साम ( इस प्रगाथ में ) गाये जाते हैं । सा ० भा ० – इन्द्रो नितरामाहूयते यस्मिन् प्रगाथे, सोऽत्र च प्रकृतौ च ‘ समानः ' एक एव । तस्यैवेदं व्याख्यानम् ‘ अविभक्तः ' इति, अविकृत इत्यर्थः । ' सः ' च प्रगाथ: ‘ अह्नां ’ रूपमिति शेषः । अहःप्रयोगस्य निष्पादकत्वात्तद्रूपत्वम् । यः प्रगाथः ‘ उद्वान् ' उच्छब्दयुक्तो ‘ ब्राह्मणस्पत्यः ’ ब्रह्मणस्पतिदेवताकश्च, ' उत्तिष्ठ ब्रह्मणस्पते ' इत्येवं श्रुतत्वात् । सोऽपि ( १ ) द्र ० ता ० ब्रा ० ११.१.२-४ ( २ ) ऋ ० ८.५३.५, ६; १.४०.१०२

पृष्ठ 592

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 592 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४४६: ऐतरेयब्राह्मणम् [ ३६.२ अष्टमपञ्चिकायां शंसनीयः । किञ्चासौ प्रगाथ उभयसाम्नो रूपं, ' हि ' यस्मात् ' उभे ' ये बृहद्रथंतरे सामनी, तस्मिन्प्रगाथे सामगैर्गीयेते ' ॥ धाय्यानामृचां प्रकृतौ विकृतौ चैकत्वमाह— समान्यो धाय्या अविभक्तास्ता अह्नाम् ॥७ ॥

हिन्दी — ( धाय्या ऋचाओं के प्रकृति - याग और विकृति - याग में एकता को कह रहे

हैं— ) घाय्याः धाय्या ( ऋचाएँ ) समान्यः अविभक्ता सामान्य और अविकृत रहती हैं ।

ताः वे दोनों अह्नाम् ( अह्न - विशेष का निष्पादक होने के कारण ) अह्नस्वरूप हैं ॥

सा ० भा०- - ' सामान्यः ' इत्यस्य व्याख्यानम् ‘ अविभक्ताः ' इति । ताश्चाहर्विशेष-निष्पादकत्वात् तत्स्वरूपाः ॥ ' प्र व इन्द्राय बृहते ' – इत्यस्य मरुत्वतीयप्रगाथस्य प्रकृतिविकृत्योरेकत्वं दर्श-यति-ऐकाहिको मरुत्वतीयः प्रगाथः ॥८ ॥

हिन्दी — मरुत्वतीयः प्रगाथः मरुद्देवताक प्रगाथ ऐकाहिकः एकाह वाला ही ( प्रयुक्त होता है ) ।. ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये अष्टमपञ्चिकायां प्रथमाध्याये ( षट्त्रिंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( २५८ )

॥ इस प्रकार ऐतरेयब्राह्मण के छत्तीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ · द्वितीयः खण्डः सा ० भा ० — मरुत्वतीये शस्त्रे निविद्धानीयं सूक्तं प्रशंसति— ( मरुत्वतीयशस्त्रस्य निविद्धानीयसूक्तप्रशंसनम् ) जनिष्ठा उग्रः सहसे तुरायेति सूक्तमुग्रवत्सहस्वत्क्षत्त्रस्य रूपं, मन्द्र ओजिष्ठ इत्य़ोजस्वत्तत्क्षत्त्रस्य रूपं, बहुलाभिमान इत्यभिवदभिभूत्यै रूपं, तदेकादशर्चं भवत्येकादशाक्षरा वै त्रिष्टुप्, त्रैष्टुभो वै राजन्य, ( १ ) ' सामगैरभिधीयते ' - इति वा पाठ | ( २ ) ऋ ० ८.८ ९.३, ४

पृष्ठ 593

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 593 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४४७ ओजो वा इन्द्रियं वीर्यं त्रिष्टुबोजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति; तद्गौरिवीतं भवत्येतद्वै मरुत्वतीयं समृद्धं यद्गौरिवीतं; तस्योक्तं ब्राह्मणम् ॥ १ ॥

हिन्दी— ( मरुत्वतीयशस्त्र में निविद्धान सूक्त की प्रशंसा कर रहे हैं — ) उग्रवत् सहस्वत् उग्र शब्द से युक्त और सहस् शब्द से युक्त ' जनिष्ठा उग्रः सहसे तुराय ' इति सूक्तम् यह सूक्त क्षत्रस्य रूपम् क्षत्रिय जाति का रूप है ( क्योंकि क्षत्रिय उग्र और बलवान् होता है ) । ओजस्वत् ओजस् शब्द से युक्त ( इस ' जनिष्ठा ' सहसे उग्र मन्त्र का पूर्वभाग ) ' मन्द्र ओजिष्ठ: ' भी क्षत्रस्य रूपम् क्षत्रिय जाति का उपलक्षक है । ( द्वितीय पाद का उत्तर भाग ) ‘ बहुलाभिमानः ’ ( = अत्यधिक अभिमान से युक्त ) शब्द अभिवत् अभि शब्द से युक्त है, अतः अभिभूत्यै रूपम् ( शत्रुओं के ) अभिभव का रूप है । तदेकादशर्चम् वह ‘ जनिष्ठा उग्र: ' सूक्त ग्यारह ऋचाओं वाला है । एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुप् छन्द ग्यारह अक्षरों वाला होता है तथा त्रैष्टुभः वै राजन्यः त्रिष्टुप् क्षत्रिय जाति वाला ( छन्द ) है । ओजो. वै इन्द्रियं वीर्यं त्रिष्टुप् त्रिष्टुप् ओज, इन्द्रिय और वीर्य है । ओजः क्षत्रं वीर्यं राजन्यः राजन्य ( क्षत्रिय ) भी ओज, क्षत्रियत्व और वीर्य है । अतः तत् उस ( त्रिष्टुप् छन्द वाले सूक्त के शंसन ) से एनम् इस ( राजा ) को ओजसा क्षत्रेण वीर्येण ओज, क्षत्रियत्व और शक्ति से समर्धयति समृद्ध करता है । तद्गौरिवीतं भवति यह सूक्त गौरवीति ऋषि द्वारा दृष्ट है । यद् गौरिवीतम् जो गौरिवीति द्वारा दृष्ट सूक्त है एतद्वै मरुत्वतीयं. समृद्धम् इससे मरुत्वतीयशस्त्र समृद्ध होता है । तस्य उस गौरिवीति नामक सूक्त कां ब्राह्मणम् उक्तम् ब्राह्मण ( व्याख्यान ) पहले ' तद्वा एतद् यजमान जननम् ' इत्यादि द्वारा कह दिया गया है । सा ० भा ० — ‘ जनिष्ठा: ' इत्यस्मिन्पादे ' उग्रशब्दसहःशब्दयोर्विद्यमानत्वात् तदेतत् सूक्तम् ‘ उग्रवत् सहस्वत् ' तच्चोभयं क्षत्रियजातेः स्वरूपम् । क्षत्रियोऽपि क्रूरो बलवांश्च । द्वितीयपादस्य पूर्वभागे ‘ मन्द्र ओजिष्ठः ' इति श्रुतत्वात् सूत्रम् ’ ‘ ओजस्वद् ’ ओजःशब्दो-पेतम् । ओजो नाम बलहेतुरष्टमो धातुः । तस्य च धातोः क्षत्त्रिये सम्पूर्णत्वाद् ओजः-शब्दोपेतं सूक्तं क्षत्रियस्य स्वरूपम् । तदुत्तरभागे ' बहुलाभिमानः ’ इति श्रुतत्वात् ‘ अभिवत् ’ अभिशब्दोपेतम् । तच्च ‘ अभिभूत्यै ' शत्रूणामभिभवस्य स्वरूपम् । किञ्च ‘ तत् ’ सूक्तमेका-दशर्चं भवति । त्रिष्टुप् चैकादशाक्षरा । राजन्यश्च त्रिष्टुप्सम्बन्धी, तयोः प्रजापतिबाहुजत्वात् । किञ्च यत्त्रिष्टुबोजःप्रभृतीनां हेतुत्वात् तत्स्वरूपम् । ‘ ओजो ' बलहेतुरष्टमो धातुः । ‘ वीर्यं ’ शरीरादिबलम् । ‘ इन्द्रियं ’ चक्षुरादिपाटवम् । राजन्यश्चौजःप्रभृतीनां स्वरूपभूतः तत्रौजः पूर्व-मेवोक्तम् । ‘ क्षत्त्रं ’ क्षत्त्रियजातियुक्तत्वम् 1 ' वीर्यं ' शरीरादिबलम् । एवं च राजयज्ञे ' तत् ' तेन ( १ ) सोऽयमर्धर्चः – ‘ जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ' । ( २ ) ऋ ० १०.७३.१-११ द्र ० आश्व ० श्री ० ५.४.१ ९ ।

पृष्ठ 594

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 594 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४४८: ऐतरेयब्राह्मणम् [ ३६.२ अष्टमपञ्चिकायां त्रिष्टुपूच्छदस्कसूक्तपाठेन ‘ एनं ’ राजानमोजः क्षत्त्रवीर्यैः समृद्धं करोति । किञ्च ‘ एतत् ’ सूक्तं गौरिवीत्याख्येन महर्षिणा दृष्टत्वाद् गौरिवीताख्यं भवति । यस्मादेतद् गौरिवीतं, तस्मात् ‘ एतत् ’ मरुत्वतीयशस्त्रं ‘ समृद्धं ' सम्पूर्णं भवति । ' तस्य ' च गौरिवीतनाम्नः सूक्तस्य ‘ ब्राह्मणं ’ ‘ तद्वा एतद्यजमानजननम्'- इत्यादिना पूर्वमेवोक्तम् ॥ अथ निष्केवल्यशस्त्रमाह— ( राजयज्ञे निष्केवल्यशस्त्रम् ) ( तत्र प्रतिपद्विधानम् ) त्वामिद्धि हवामह इति बृहत्पृष्ठं भवति; क्षत्त्रं वै बृहत् क्षत्त्रेणैव तत्क्षत्त्रं समर्धयत्यथो क्षत्त्रं वै बृहदात्मा यजमानस्य निष्केवल्यं, यद्यद्बृहत्पृष्ठं भवति, क्षत्त्रं वै बृहत् क्षत्त्रेणैवैनं तत्समर्धयत्यथो ज्यैष्ठ्यं वै बृहज्ज्यैष्ठ्येनैवैनं तत्समर्धयत्यथो श्रैष्ठ्यं वै बृहच्छ्रेष्ठ्ये-नैवैनं तत्समर्धयति ॥२ ॥

हिन्दी – ( अब निष्केवल्यशस्त्र के प्रतिपद् को कह रहे हैं - ) ' त्वामिद्धि हवामहे ' इति यह ( तृच ) ( निष्केवल्यशस्त्र का स्तोत्रिय और प्रतिपद् रूप होने के कारण ) बृह-त्पृष्ठं भवति बृहत्पृष्ठ होता है । क्षत्रं वै बृहत् ( ' त्वामिद्धि ' में निष्पन्न ) बृहत् नामक साम क्षत्रियजाति के रूप वाला ही है । अतः क्षत्रेण एव ( ' त्वामिद्धि ' इत्यादि ) तृच रूप क्षत्रियत्व से तत्क्षत्रम् उस ( यजन करने वाले ) क्षत्रिय को समर्धयति समृद्ध करता है । अथ इसके अतिरिक्त क्षत्रं वै बृहत् बृहत् भी क्षत्रिय रूप है और निष्केवल्यं यजमानस्य आत्मा निष्केवल्यशस्त्र यजन करने वाले की आत्मा ( शरीर ) है । तद्यत् तो जो बृहत्पृष्ठं भवति बृहत्पृष्ठ होता है वह क्षत्रं वै बृहत् बृहत् क्षत्रियजाति रूप वाला है अतः क्षत्रेण एव ( बृहद्रूप ) क्षत्रिय से ही एनं समर्धयति इस ( यजमान क्षत्रिय ) को समृद्ध करता है । अथ और भी ज्येष्ठं वै बृहत् बृहत् ज्येष्ठ ( वयोवृद्ध ) स्वरूप वाला है । अतः ज्यैष्ठेन एव एनं समर्धयति ( बृहद्रूप ) वयोवृद्धता से ही इस ( यजन करने वाले ) को समृद्ध करता है । अथ और भी श्रैष्ठ्यं वै बृहत् बृहत् गुणोत्कर्षरूप है अतः श्रैष्ठ्येन एनं समर्थयति ( बृहद्रूप ) गुणोत्कर्षता से ही इस ( यजन करने वाले क्षत्रिय ) को समृद्ध करता है । सा ० भा ० – ‘ त्वामिद्धि ’ - इत्यादिकस्तृचो निष्केवल्यशस्त्रस्य स्तोत्रियप्रतिपद्-रूप:, बृहत्साम्न आधारत्वाद् बृहद्रूपः । तेन च साम्ना पृष्ठस्तोत्रस्य निष्पाद्यत्वात् पृष्ठ-स्वरूपश्च भवति ' । ‘ त्वामिद्धि ’ - इत्यस्यामृच्युत्पन्नं बृहत्साम ' क्षत्त्रं वै ' क्षत्त्रियजातिरूपमेव अतः ‘ क्षत्त्रेणैव ' ‘ त्वामिद्धि ’ – इति तृचरूपेण ' तत् ' क्षत्त्रं यजमानरूपं समृद्धं करोति । ‘ अथो ’ अपि चोक्तरीत्या क्षत्त्रमेव बृहद्रूपं निष्केवल्यशस्त्रं यजमानस्य ‘ आत्मा ’ देहभूतः । ( १ ) ऋ ० ६.४६.१,२ | आश्व ० श्री ० ५.१५.३ । द्र ० ५.१५.१६-१८

पृष्ठ 595

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 595 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४४ ९ ‘ तत् ’ तथा सति ‘ यद् ’ यदि बृहत्पृष्ठशब्दद्वयवाच्यं त्वामिद्धीत्यादिकं निष्केवल्यं भवेत् ' तत् ' तेन निष्केवल्येन, क्षत्त्रं वै बृहदिति पूर्वमुक्तत्वात् ' क्षत्त्रेणैव ' त्वामिद्धीत्यादिना । बृहद्रूपेण निष्केवल्येनेव ‘ एनं ' यजमानं समृद्धं करोति । ' अथो ’ अपि च त्वामिद्धीत्यादिकं बृहद्रूपं ‘ ज्यैष्ठ्यं वै ’ वयोवृद्धेः स्वरूपम् । अतो ' ज्यैष्ठ्येनैव ' वयोवृद्ध्यैव ‘ एनं ’ राजानं समृद्धं करोति । ‘ अथो ’ अपि च त्वामिद्धीत्यादिकं बृहद्रूपं ' श्रैष्ठ्यं वै ' गुणोत्कर्षं एव । तथा सति ‘ श्रैष्ठ्येनैव ’ गुणोत्कर्षेणैव यजमानं समृद्धं करोति ॥ निष्केवल्यशस्त्रस्य प्रतिपदमुक्त्वाऽनुरूपमाह— ( निष्केवल्यशस्त्रस्यानुरूपकथनम् ) अभि त्वा शूर नोनुम इति रथंतरमनुरूपं कुर्वन्त्ययं वै लोको रथंतरमसौ लोको बृहदस्य वै लोकस्यासौ लोकोऽनुरूपोऽमुष्य लोकस्यायं लोकोऽनुरूपस्तद्यद्रथंतरमनुरूपं कुर्वन्त्युभावेव तल्लोकौ यजमानाय सम्भोगिनौ कुर्वन्त्यथो ब्रह्म वै रथंतरं, क्षत्त्रं बृहद्, ब्रह्मणि खलु वै क्षत्त्रं प्रतिष्ठितं, क्षत्त्रे ब्रह्माथो साम्न एव स सयोनितायै ॥ ३ ॥

हिन्दी — ( निष्केवल्यशस्त्र के प्रतिपद् को कहकर उसके अनुरूप को कह रहे हैं— ) ' अभि त्वा शूर नोनुम ' इति रथन्तरम् इस रथन्तर तृच को अनुरूपं कुर्वन्ति ( निष्केवल्यशस्त्र का ) अनुरूप करते हैं । ( अब बृहत् तृच ' त्वामिद्धि ' और रथन्तर तृच ' अभि त्वा शूर ' की प्रशंसा कर रहे हैं - ) अयं वै लोको रथन्तरम् यह ( पृथिवी ) लोक ही रथन्तर रूप है और असौ लोकौ बृहत् वह ( स्वर्ग ) लोक बृहत् रूप है । अस्य वै लोकस्य इस ( पृथिवी ) लोक का असौ लोकः अनुरूपः वह ( स्वर्गलोक ) अनुरूप है और अमुष्य लोकस्य उस ( स्वर्गलोक ) का अयं लोकः अनुरूपः यह ( पृथिवी ) लोक अनुरूप है । यद्यद् रथन्तरम् तो जो रथन्तर को अनुरूपं कुर्वन्ति अनुरूप करते हैं, तत् उस ( अनुरूप करने ) से उभौ एव लोकौ ( पृथिवी और स्वर्ग ) दोनों लोकों को यज-मानाय सम्भोगिनौ कुर्वन्ति यजन करने वाले के लिए समीचीन रूप से भोग - सम्पन्न करते हैं । अथ और भी, ब्रह्म वै रथन्तरम् रथन्तर ब्राह्मण रूप है और क्षत्रं बृहत् बृहत् क्षत्रिय रूप है । इस प्रकार ब्रह्मणि वै खलु ब्राह्मण में ही निश्चित रूप से क्षत्रं क्षत्रिय को और क्षत्रे एव ब्रह्म क्षत्रिय में ब्राह्मण प्रतिष्ठितम् प्रतिष्ठित होता है । अथ और सः साम्नः सयोनितायै एव वह ( बृहद् और रथन्तर नामक तृचद्वय का शंसन तथा निष्केवल्यशस्त्र के दोनों तृचों पर आधारित साम ) साम की सयोनिता ( समानस्थानता ) के लिए किये जाते हैं | सा ० भा ० — ‘ अभि त्वा शूर ' - इत्येष तृचो निष्केवल्यशस्त्रस्यानुरूपः कार्यः । यद्यपि

पृष्ठ 596

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 596 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४५०: ऐतरेयब्राह्मणम् [ ३६.२ अष्टमपञ्चिकायां त्वादिद्ध्यभि त्वेत्येतौ प्रगाथावृग्द्वयात्मकौ तथाऽपि प्रग्रथनेन तृचत्वं सम्पाद्य प्रतिपदनुचर-त्वं द्रष्टव्यम् । अभि त्वेत्ययं तृचो रथंतरसाम्न आधारत्वाद् रथंतरमित्युच्यते । बृहद्रथंतर-शब्दाभ्यां विवक्षितं त्वामिद्ध्यभि त्वेति तृचद्वयं मिलित्वा प्रशस्यते । भूलोको रथंतर-स्वरूप:, स्वर्गलोको बृहत्स्वरूपः, तावेतौ लोकौ परस्परानुरूपौ । अस्मिँल्लोके दत्तेन हविषा देवाः स्वर्गे जीवन्ति । स्वर्गादागतया वृष्ट्या मनुष्या जीवन्ति । तदेतत्परस्परमनुरूप-त्वम् । एवं सति बृहद्रथंतररूपाभ्यां प्रतिपदनुचराभ्यामुभावेव लोकौ यजमानार्थं समीचीन-भोगयुक्तौ कुर्वन्ति । ‘ अथो ' अपि च प्रजापतिमुखजत्वसाम्येन रथंतरस्य ब्राह्मणरूपत्वात् तदीयबाहुजत्वसाम्येन बृहतः क्षत्रियरूपत्वाच्च ' बृहद्रथंतराभिधानयोस्तृचयोरनुष्ठानेन ब्रह्म-क्षत्त्रयोः परस्परां प्रतिष्ठा भवति । ' अथो ' अपि च तृचद्वयानुष्ठानं निष्केवलशस्त्रस्य तृचद्वया-श्रितसाम्नश्च ' सयोनितायै ' समानस्थानत्वाय सम्पद्यते ॥ धाय्यां दर्शयति-( निष्केवल्यशस्त्रस्य घाय्या ) यद्वावानेतिर धाय्या; तस्या उक्तं ब्राह्मणम् ॥४ ॥

हिन्दी – ( अब धाय्या को दिखला रहे हैं - ) ' यद्वावान ' इति तस्याः उस ( धाय्या ) का ब्राह्मणम् उक्तम् ब्राह्मण पहले ( ' ते देवा कहा जा चुका है । . सा ० भा०- - ' तस्या ' धाय्यायाः प्रशंसारूपं ' ब्राह्मणं ' ' ते अवोचथाः ’ – इत्यादिना पूर्वमेवोक्तम् ॥ सामाधारभूतं प्रगाथं दर्शयति— यह धाय्या धाय्या है । अब्रुवन् ' इत्यादि द्वारा देवा अब्रुवन् सर्वं वा उभयं शृणवच्चन इति सामप्रगाथ उभयसाम्नो रूपमुभे हि सामनी क्रियेते ॥५ ॥

हिन्दी – ( अब समाधारभूत प्रगाथ को दिखला रहे हैं — ) ' उभयं शृणवच्चन ' इति सामप्रगाथः यह साम प्रगाथ उभयसाम्नोः रूपम् दोनों ( बृहत् और रथन्तर ) सामों के स्वरूप वाले हैं । उभे हि सामनी क्रियेते क्योंकि दोनों ही साम ( साम - गायकों द्वारा इस प्रगाथ में ) गाये जाते हैं । सा ० भा ० — उभयमित्यादिप्रगाथो बृहद्रथंतरसामद्वयस्य स्वरूपम् । यस्मादेते उभय-सामनी अस्मिन् प्रगाथे सामगैर्गीयेते, तस्मात्तद्रूपत्वं युक्तम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-( १ ) तु ० तै ० सं ० ७.१.१.४ । ( २ ) ऋ ० १०.७४.६ । ( ३ ) द्र ० इतः पूर्वम्, ( ३.२.१० ) ।

पृष्ठ 597

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 597 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रथमोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्:: १४५१ भाष्ये अष्टमपञ्चिकायां प्रथमाध्याये ( षट्त्रिंशाध्याये ) द्वितीयः खण्डः ॥ २॥ ( २५ ९ )

॥ इस प्रकार ऐतरेयब्राह्मण के छत्तीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ तृतीयः खण्डः सा ० भा ० — निष्केवल्यशस्त्रे निविद्धानीयं सूक्तं दर्शयति— ( निष्केवल्यशस्त्रे निविद्धानीयसूक्तकथनम् ) तमु ष्टुहि यो अभिभूत्योजा ' इति सूक्तमभिवदभिभूत्यै रूपम् ॥ १ ॥

हिन्दी – ( अब निष्केवल्यशस्त्र में निविद्धानीय सूक्त को दिखला रहे हैं - ) अभि-भूत् ' अभि ' शब्द से युक्त ' तमु टुहि यो अभिभूत्योजा ' इति सूक्तम् यह सूक्त अभिभूत्यै रूपम् शत्रुओं के अभिभव का स्वरूप है ॥ सा ० भा०- – ' ' अभिवत् ' अभिशब्दोपेतं सूक्तं, तस्माद् ' अभिभूत्यै ' शत्रूणामभिभवस्य स्वरूपम् ॥ तस्या ऋचस्तृतीयपादमनूद्य प्रशंसति— अषाह्ळमुग्रं सहमानमाभिरित्युग्रवत् सहमानवत् तत्क्षत्त्रस्य रूपम् ॥२ ॥

हिन्दी – ( ' तमु टुहि ' ऋचा के तृतीय पाद को कह कर उसकी प्रशंसा कर रहे हैं— ) इस ऋचा के तृतीय पाद ' अषाळ्हमुग्रं सहमानमाभिः ' इति यह उग्रवत् सह-मानवत् उग्र शब्द और सहमान शब्द से युक्त है, तत् क्षत्रस्य रूपम् वह क्षत्रिय का रूप है ॥ सा ० भा ० — उग्रशब्दसहमानशब्दयुक्तमिदं सूक्तम् । तच्च शब्दद्वयवाच्यं क्षत्रिय-जातेः स्वरूपम् । क्षत्रियो ह्युग्रो भूत्वा शत्रूनभिभवति ॥ तत्सूक्तगतामृक्संख्यां प्रशंसति— तत्पञ्चदशर्चं भवत्योजो वा इन्द्रियं वीर्यं पञ्चदश, ओजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति ॥ ३ ॥

( १ ) ऋ ० ६.१८.१-१५ । ( २ ) प्रकृतौ तु इन्द्रस्य नु वीर्यमिति विहितम् ।

पृष्ठ 598

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 598 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४५२: ऐतरेयब्राह्मणम् [ ३६.३ अष्टमपञ्चिकायां हिन्दी – ( ' तमु ष्टुहि ' से प्रारम्भ सूक्त की ऋचाओं की संख्या की प्रशंसा कर रहे हैं— ) तत् पञ्चर्चः भवति वह ( सूक्त ' तमु ष्टुहि ' ) पन्द्रह ऋचाओं वाला है 1 । पञ्चदशः पञ्चदश स्तोम ओजो वै इन्द्रियं वीर्यम् ओज ( बल ), इन्द्रिय और वीर्य रूप है । ओजः क्षत्रं वीर्यं राजन्यः राजा ओज, क्षत्रियत्व और वीर्य स्वरूप होता है । तदेनम् ओजसा क्षत्रेण वीर्येण इस ( सूक्त के शंसन ) से इस ( यजन करने वाले क्षत्रिय ) को ओज, क्षत्रियत्व और वीर्य से समर्धयति समृद्ध करता है । सा ० भा ० — पूर्वोक्तत्रिष्टुप्प्रशंसावाक्यवत् इदं पञ्चदशस्तोमप्रशंसावाक्यं व्या-ख्येयम् ' ॥ ऋषिद्वारा सूक्तं प्रशंसति— तद्भारद्वाजं भवति, भारद्वाजं वै बृहदार्षेयेण सलोमा ॥४ ॥

हिन्दी – ( मन्त्रद्रष्टा ऋषि द्वारा ' तमु ष्टुहि ' से प्रारम्भ सूक्त की प्रशंसा कर रहे हैं - ) तद् भारद्वाजं भवति वह ( ' तमु ष्टुहि ' से प्रारम्भ सूक्त ) भरद्वाज ऋषि द्वारा दृष्ट है और भारद्वाजं वै बृहत् बृहत् नामक साम भी भरद्वाज द्वारा दृष्ट है, अतः आर्षेयेण सलोमा ऋषि के सम्बन्ध से ( यह यज्ञ ) केशसम्पन्न अर्थात् सम्पूर्ण होता है । सा ० भा ० — भरद्वाजेन दृष्टत्वाद् इदं सूक्तं ' भारद्वाजं ' ' बृहत् ' सामापि तथा भारद्वाजम् । तादृशबृहद्योगादयं क्रतुः ‘ आर्षेयेण सलोमा ' । आर्षेयो भरद्वाजमुनिसंबन्धः, लोमशब्देन केशयुक्तो मूर्धोपलक्ष्यते । ' सलोमा ' सशिरस्कः, सम्पूर्णं इत्यर्थः । भरद्वाजमुनिदृष्टस्य बृहतः सम्पूर्णत्वाद् बृहद्द्वारा भरद्वाजमुनिसम्बन्धे सति क्रतोरपि सम्पूर्णत्वं द्रष्टव्यम् ॥ इदानीं बृहद्रथंतरसामोपेतप्रकृतयज्ञक्रतुसमृद्धि'मुपजीव्यैकसामकेऽपि क्षत्त्रिययज्ञे पृष्ठ-स्तोत्रस्य बृहत्सामसाध्यत्वं विधत्ते— ( पृष्ठस्तोत्रस्य बृहत्सामसाध्यत्वविधानम् ) एष ह वाव क्षत्रिययज्ञः समृद्धो यो बृहत्पृष्ठस्तस्माद्यत्र क्व च क्षत्रियो यजेत, बृहदेव तत्र पृष्ठं स्यात्, तत्समृद्धम् ' ॥५ ॥

हिन्दी – ( पृष्ठस्तोत्र की बृहत्साम साध्यता का विधान कर रहे हैं - ) जो बृह-त्पृष्ठः बृहत् और पृष्ठ ( इन दो सामों से युक्त होता ) है, एषः ह वाव समृद्धः क्षत्रिय-यज्ञः यह ही क्षत्रिय का समृद्ध यज्ञ है । तस्मात् इसी कारण यत्र क्व च जहाँ कहीं भी क्षत्रियो यजेत क्षत्रिय यज्ञ करे तत्र वहाँ बृहदेव पृष्ठं स्यात् पृष्ठ को ही बृहत्साम से युक्त होना चाहिए । तत् समृद्धम् इस प्रकार वह ( याग ) समृद्ध होता है । ( १ ) ‘ पिबा सोमं त मु ष्टुहीति मध्यन्दिनः, तयोरैकाहिके पुरस्तादन्ये वा शंसेयुः ' - इति आश्व ० श्रौ ० ८.५.४,५ । ( २ ) ' सम्पूर्णत्वाद् भरद्वाजमुनिसम्बन्धे ' - इति वा पाठः । ( ३ ) ' क्रतुसम्बन्ध: ' इति वा पाठः ।

पृष्ठ 599

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 599 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रथमोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४५३ सा ० भा०- -'यः ' क्रतुर्द्विसामकत्वेन ' बृहत्पृष्ठोपेतः, एष एव क्षत्रिययज्ञः ' स-मृद्धः ' सम्पूर्णः । यस्मादेवं, तस्माद् ' यत्र क्व च ' एकसामकेनापि क्रतुना क्षत्रियो यजेत, तत्र पृष्ठस्तोत्रं बृहत्सामयुक्तमेव कुर्यात् । ' तत् ' एतदनुष्ठानं ' समृद्धं ' सम्पूर्णं भवति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये अष्टमपञ्चिकायां प्रथमाध्याये ( षट्त्रिंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( २६० )

॥ इस प्रकार ऐतरेयब्राह्मण के छत्तीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ चतुर्थः खण्डः सा ० भा ० – माध्यंदिने सवने होतुः शस्त्रविशेषमभिधाय होत्रकाणां विशेषाभावं दर्शयति— ( होत्रकाणां शस्त्रविशेषाभावकथनम् ) ऐकाहिका होत्रा, एता वै शान्ताः क्लृप्ताः प्रतिष्ठिता होत्रा, यदै-काहिकाः शान्त्यै क्लृप्त्यै प्रतिष्ठित्या अप्रच्युत्यै, ताः सर्वरूपा भवन्ति सर्वसमृद्धाः, सर्वरूपतायै सर्वसमृद्ध्यै, सर्वरूपाभिर्होत्राभि सर्वसमृद्धाभिः, सर्वान् कामानवाप्नवामेति, तस्माद्यत्र क्व चैकाहा असर्वस्तोमा असर्वपृष्ठा, ऐकाहिका एव तत्र होत्राः स्युस्त-त्समृद्धम् ॥ १ ॥

हिन्दी – ( माध्यन्दिनसवन में होता के शस्त्र - विशेष को कहकर होत्रकों के विशेष के अभाव को दिखला रहे हैं- ) यद् ऐकाहिकाः जो ( क्रियाएँ ) एकाहिक ( प्रकृति यागों वाली ) हैं वे एकाहिकाः होना: एकाहिक ( क्रियाएँ राजसूय याग के ) होत्रकों ( मैत्रावरुण, ब्राह्मणाच्छंसी और अच्छावाक ) द्वारा की जाती हैं । एताः होत्राः ये होत्रकों की एकाहिक क्रियाएँ शान्ताः क्लृप्ताः प्रतिष्ठिताः शान्त, क्रमबद्ध और प्रतिष्ठित हैं । शान्त्यै -क्लृप्त्यैः प्रतिष्ठित्यै अप्रच्युतै शान्ति, क्रमबद्धता, प्रतिष्ठा और अविनाशिता के लिए ताः वे ( एकाहिक क्रियाएँ ) सर्वरूपाः सर्वसमृद्धाः सर्वरूप और सर्वसमृद्ध भवन्ति होती हैं अत: सर्वरूपतायै सर्वसमृध्यै सर्वरूपता और सर्वसमृद्धि के लिए सर्वरूपाभिः सर्वसमृद्धिभिः होत्राभि सर्वरूप और सर्वसमृद्ध होत्रकों की क्रियाओं द्वारा सर्वान् ( १ ) ' द्विसामको ' - इति वा पाठः ।

पृष्ठ 600

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 600 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४५४: ऐतरेयब्राह्मणम् [ ३६.४ अष्टमपञ्चिकायां कामान् वाप्नवाम सभी कामानाओं को हम प्राप्त करें - इति इस उद्देश्य से ( एकाहिक होत्रकों की क्रियाओं का सम्पादन करना चाहिए ) । तस्मात् इसी कारण यत्र क्व च जहाँ कहीं भी असर्वस्तोमा असर्वपृष्ठा सर्वस्तोमरहित और सर्वपृष्ठरहित एकाहः एकाह ( सम्पादित किये जाते हैं ) तत्र वहाँ एकाहिका एव होत्रा स्युः होत्रकों की क्रियाएँ एकाहिक ही ( सम्पादित की जाती हैं ) । तत्समृद्धम् इस प्रकार वह ( कर्म ) समृद्ध ( सम्पूर्ण ) होता है । सा ० भा ० — मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां याः क्रियास्ताः ' होत्राः ' । ताश्च ‘ ऐकाहिका: ’ एकाहे प्रकृतिरूपे विहिता एवात्र विकृतिरूपेण क्षत्रिययज्ञे कर्तव्या: । ' एताः ’ च होत्राः शान्तत्वादिगुणिकाः । शान्तादिशब्दार्थाः पूर्ववद् व्याख्येयाः । ' ता: ' चैकाहिका होत्रा: ‘ सर्वरूपा: सर्वसमृद्धाश्च भवन्ति ' तत्तद्विकृतिषु होत्रकाणां ये ये विशेषा उक्ताः, तद्रूपत्वं सर्वरूपत्वं, तत्फलसमृद्धिः सर्वसमृद्धिः । एतच्चोभयमिन्द्राभिष्टवनेन क्षत्रियप्रतिपादन-सामर्थ्याद् सम्पद्यते । अत: ' सर्वरूपतायै ' सर्वलोकप्राप्त्यर्थम्, तत्र च सर्वभोगसमृद्ध्यर्थम् उक्ता होत्रका: सम्पद्यन्ते । ततः क्षत्रियाः पुरुषाः सर्वरूपाभिः सर्वसमृद्धाभिरैकाहिकाभि-र्होत्राभिः सर्वान् कामानवाप्नवामेत्यभिप्रायेणैकाहिकहोत्रानुष्ठानं कुर्युः । एकाहाश्च द्विवि-धाः — सर्वस्तोमसर्वपृष्ठाः तद्विपरीताश्च, पृष्ठ्ये षडहे प्रतिपादिताः, त्रिवृत्पञ्चदशसप्त-दशैकविंशत्रिणवत्रयस्त्रिंशरूपाः षट्संख्याकाः सर्वे स्तोमाः । तस्मिन्नेव पृष्ठ्यषडहे रथंतरबृहद्वैरूपवैराजशाक्वररैवतानि षट्संख्यकानि सर्वपृष्ठानि । तैः सर्वैः स्तोमैः पृष्ठेश्च युक्तेभ्य एकाहेभ्यो व्यतिरिक्ताः कतिपयस्तोमपृष्ठयुक्ता एकाहा: ' असर्वस्तोमा असर्वपृष्ठाः ' च । यस्मादैकाहिका होत्राः पूर्वोक्तरीत्या प्रशस्ताः तस्माद्यत्र क्वाऽपि असर्वस्तोमा असर्व-पृष्ठश्चैकाहा अनुष्ठीयन्ते, तत्र सर्वत्रैकाहिका एव होत्राः स्युः । न तु नूतनो विशेषः कश्चि-दस्ति । ‘ तत् ’ तादृशं कर्म ‘ समृद्धं ' फलेन सम्पूर्णम् ॥ अथ क्षत्त्रिययज्ञस्य संस्थाविशेषो निर्णेतव्यः । तदर्थमादौ केषाञ्चित्पक्षमुपन्य-स्यति -( क्षत्रिययज्ञस्य संस्थाविशेषनिर्णयः ) उक्थ्य एवायं पञ्चदशः स्यादित्याहुरोजो वा इन्द्रियं वीर्यं पञ्चदश, ओजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति ॥ २ ॥

हिन्दी - ( अब क्षत्रिय के संस्थाविशेष का निर्णय किया जा रहा है — ) अयम् यह ( क्षत्रिययज्ञ ) उक्थ्यः एव पञ्चदशः स्यात् उक्थ्यसंस्थ पञ्चदश स्तोम वाला ही होना चाहिए— इत्याहुः ऐसा कहा गया है; क्योंकि पञ्चदशः पञ्चदश नामक स्तोम ओजः इन्द्रियं वीर्यम् ओज, इन्द्रिय और वीर्यरूप है तथा ओजः क्षत्रं वीर्यं राजन्यः राजन्य ( १ ) ‘ ऐकाहिकहोत्रानुष्ठान ’ - इति आ ० मु ० पाठः ।