ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 611–620

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 611–620

पृष्ठ 611

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 611 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४६३ मेष्ठ्याय राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽ -तिष्ठाया ऽ ऽ रोहामि ॥३ ॥

हिन्दी – ( अभिमन्त्र मन्त्र को दिखला रहे हैं - ) हे आसन्दी! अग्निः अग्निदेव गायत्र्या छन्दसा सयुक् गायत्री छन्द के साथ त्वा तुम पर आरोहतु आरोहण करें । सविता उष्णिहा सविता देव उष्णिक् ( छन्द ) के साथ, सोमः अनुष्टुभा सोम अनुष्टुप् ( छन्द ) के साथ, बृहस्पतिः बृहत्या बृहस्पति बृहती छन्द के साथ, मित्रावरुणौ पङ्क्त्या मित्र और वरुण पङ्क्ति छन्द के साथ, इन्द्रः त्रिष्टुभा इन्द्र देव त्रिष्टुप् छन्द के साथ तथा विश्वेदेवाः जगत्या विश्वेदेवा जगती छन्द के साथ, तुम पर ( आरोहरण करे ) । तान् अनु उन ( देवताओं के आरोहण ) के पश्चात् ( इस लोक में ) राज्याय ( देश पर ) राज्य ( स्वामित्व ) के लिए, साम्राज्याय साम्राज्य ( धर्मपूर्वक प्रजापालन ) के लिए, भौज्याय भौज्य ( भोग प्रवृद्धि ) के लिए, स्वाराज्याय स्वाराज्य ( पराधीन न होने ) के लिए, पारमेष्ठ्याय पारमेष्ठी ( प्रजापति के लोक की प्राप्ति ) के लिए, राज्याय ऐश्वर्य सम्पन्नता के लिए, माहाराज्याय महाराज्य ( अन्य राजाओं से अधिकता के लिए ), आधिपत्या अधिपति पद की प्राप्ति के लिए, स्वावश्याय स्वाधीनता के लिए और आतिष्ठाय चिरकाल तक निवास के लिए आरोहामि आरोहण करता हूँ । सा ० भा ० — हे आसन्दि ' त्वा ' त्वां गायत्र्या छन्दसा ' सयुक् ' सहितोऽग्निरारोहतु । ‘ उष्णिहा ’ छन्दसा सहितः सविताऽऽरोहतु । एवं सोमबृहस्पतिमित्रावरुणेन्द्रविश्वे-देवा अनुष्टुबादिच्छन्दोभिः सहितास्त्वामारोहन्तु । ‘ तान् ’ अग्न्यादीन् देवान् ' अनु ' पश्चाद-हमारोहामि । किमर्थम्? राज्यादिसिद्ध्यर्थम् । ' राज्यं ' देशाधिपत्यम् । ‘ साम्राज्यं ’ धर्मेण पालनम् । ‘ भौज्यं ’ भोगसमृद्धिः । ‘ स्वाराज्यम् ' अपराधीनत्वम् । ' वैराज्यम् ' इतरेभ्यो भूपतिभ्यो वैशिष्ट्यम् । एतदुक्तमैहिकम्, अथाऽऽमुष्मिकमुच्यते – ' पारमेष्ठ्यं ' प्रजापतिलोकप्राप्तिः । तत्र ‘ राज्यम् ' ऐश्वर्यम् । ‘ माहाराज्यं ' तत्रत्येभ्य इतरेभ्य आधिक्यम् । ' आधिपत्यं ' तान् इतरान् इति स्वामित्वम् । ‘ स्वावश्यम् ' अपारतन्त्र्यम् । ' आतिष्ठत्वं ' चिरकालवासित्वम् ॥ अनेन मन्त्रेणाभिमन्त्रणादूर्ध्वमारोहणं विधत्ते— ( आसन्द्यामारोहणम् ) इत्येतामासन्दीमारोहेद्दक्षिणेनाग्रे जानुनाऽथ सव्येन ॥४ ॥

हिन्दी – ( अभिमन्त्रण के बाद आरोहण का विधान कर रहे हैं - ) इति इस ( पूर्वोक्त मन्त्र ) से ( अभिमन्त्रित करके ) अग्रे दक्षिणेन जानुना पहले दाहिने घुटने से अथ सव्येन तत्पश्चात् बायें ( घुटने ) से ( राजा ) एताम् आसन्दीम् इस आसन्दी पर आरोहेत् आरोहण करें ॥ सा ० भा ० — ' इति ' शब्दः पूर्वोक्तमभिमन्त्रणमन्त्रं परामृशति । तेनैव मन्त्रेण ‘ एताम् ’

पृष्ठ 612

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 612 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४६४: ऐतंरेयब्राह्मणम् [ ३७.२ अष्टमपञ्चिकायां आसन्दीमारोहेत् । तत्रायं प्रकार: - दक्षिणेन जानुना प्रथमं समारोहेत्, ततः सव्येनाऽऽरोहेत् ॥। आरोहणं प्रशंसति— तत्तदिती हूँ ॥ ५ ॥

हिन्दी – ( आरोहण की प्रशंसा कर रहे हैं - ) तत् ( सम्माननीय है ) इति ऐसा याज्ञिक लोग कहते हैं । सा ० भा ० — ' तत् ' आरोहणम्, ' तत् ' आरोहणम्, ' इति ' पूजार्थेयं प्लुतिः ॥ मन्त्रतात्पर्यं दर्शयति-( आरोहणमन्त्रतात्पर्यकथनम् ) तत् वही वह आरोहरण एवं सर्वे जनाः पूजयन्ति । चतुरुत्तरैर्वै देवाश्छन्दोभिः सयुग्भूत्वैतां श्रियमारोहन् यस्यामेत एतर्हि प्रतिष्ठिताः; अग्निर्गायत्र्या, सवितोष्णिहा, सोमोऽनुष्टुभा, बृहस्पति-बृहत्या, मित्रावरुणौ पङ्क्त्येन्द्रस्त्रिष्टुभा विश्वे देवा जगत्या ॥ ६ ॥

हिन्दी – ( मन्त्र के तात्पर्य को दिखला रहे हैं - ) चतुरुत्तरैः छन्दोभिः सयुक् भूत्वा चार - चार अक्षरों से उत्तरोत्तर क्रमश: बढ़ने वाले छन्दों के साथ होकर देवाः श्रियम् आरोहन् देवताओं ने ऐश्वर्य ( रूप आसन्दी ) पर आरोहण किया । यस्याम् जिस आसन्दी पर अग्निः गायत्र्या अग्नि गायत्री के साथ, सविता उष्णिहा सविता उष्णिक् के साथ, सोमः अनुष्टुभा सोम अनुष्टुप् के साथ, बृहस्पतिः बृहत्या बृहस्पति बृहती के साथ, मित्रावरुणौ पङ्क्त्या मित्र और वरुण पति के साथ, इन्द्रः त्रिष्टुभा इन्द्र त्रिष्टुप् के साथ और विश्वेदेवाः जगत्या विश्वेदेवा जगती के साथ एते ये देवगण एतर्हि प्रतिष्ठिताः इस समय आज भी प्रतिष्ठित हैं । सा ० भा ० — चत्वार्यक्षराण्येकैकस्माच्छन्दस ' उत्तराणि ' अधिकानि येषु गायत्र्यादिषु जगत्यन्तेषु च्छन्दःसु, तानि ‘ चतुरुत्तराणि ' । तादृशैश्छन्दोभिः ‘ सयुग्भूत्वा ं साहित्यं प्राप्य, ‘ देवाः ’ अग्न्यादयः ‘ एताम् ’ आसन्दीं ' श्रियम् ' ऐश्वर्यरूपाम् ' आरोहन् ' । ' यस्याम् ' आसन्द्याम् ‘ एते ’ अग्न्यादय इदानीमपि प्रतिष्ठिता वर्तन्ते । देवाश्छन्दोभिः सयुग्भूत्वेत्यस्या अर्थोऽ-ग्निर्गायत्र्येत्यादिना स्पष्टीकृतः ॥ उक्तमर्थं मन्त्रसंवादेन द्रढयति— ते एते अभ्यनूच्येते अग्नेर्गायत्र्यभवत्सयुग्वेति ॥७ ॥

हिन्दी – ( इस अर्थ को मन्त्र से दृढ़ कर रहे हैं - ) ते एते वे ये ( देवता तथा उनके छन्द ‘ अग्नेर्गायत्र्यभवत् सयुग्वा ' इति इस मन्त्र में अभ्यनूच्यतेते कहे गये हैं । तात्पर्य यह है कि ‘ अग्नेर्गायत्र्यभवत् ’ इस ऋचा से देवताओं और सहवासी छन्दों का कथन हुआ है

पृष्ठ 613

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 613 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम् ः १४६५ कि किस देवता का कौन - सा छन्द होता है ॥ सा ० भा०- -'ते एते ' देवच्छन्दसी परस्परसहिते कयाचिदृचाऽभ्यनूच्येते । सेयमृग-ग्नेरित्यादिका । येयं गायत्री, सेयमग्नेः ' सयुग्वा ' सहवासिन्यभवत् ' इति ' तस्या ऋचोऽर्थः ॥ क्षत्त्रियस्याऽऽरोहणं प्रशंसति— ( आसन्द्यारोहणप्रशंसनम् ) कल्पते ह वा अस्मै योगक्षेम उत्तरोत्तरिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं, य एवमेता अनु देवता एतामासन्दीमारोहति क्षत्त्रियः सन् ॥८ ॥

हिन्दी— ( क्षत्रिय के आरोहण की प्रशंसा कर रहे हैं - ) यः क्षत्रियः सन् जो क्षत्रिय होकर एवम् इस प्रकार एता देवता अनु इन ( अग्नि इत्यादि ) देवताओं के बाद एताम् आसन्दीम् इस आसन्दी पर आरोहति आरोहण करता है तो अस्मै इस ( क्षत्रिय ) के लिए योगक्षेमः कल्पते योग ( अप्राप्त की प्राप्ति ) और क्षेम ( प्राप्त का रक्षण ) सिद्ध होता है । वह उत्तरोत्तरिणीं श्रियम् अश्नुते उत्तरोत्तर वृद्धि को प्राप्त करने वाली समृद्धि को प्राप्त करता है तथा प्रजानाम् ऐश्वर्यम् आधिपत्यम् ह अश्नुते प्रजाओं के ऐश्वर्य ( प्रभुत्व ) और आधिपत्य को प्राप्त करता है । सा ० भा ० – ' यं ' पुमान् स्वयं ' क्षत्त्रियः सन्नारोहति एता देवता ' अनु ' स्वयम-प्युक्तेन प्रकारेणैतामासन्दीमारोहति । ' अस्मै ' क्षत्रियाय ' योगक्षेमः कल्पते ' सिध्यति । अ-प्राप्तस्य लाभस्य प्राप्तिर्योगः । प्राप्तस्य वस्तुनो रक्षणं क्षेमः । योगसहितः क्षेमो ' योग-क्षेमः ' । किञ्चायं क्षत्रियः ' उत्तरोत्तरिणी ' दिने दिने वर्धमानां श्रियं प्राप्नोति । तथा सर्वासां प्रजानाम् ‘ ऐश्वर्यं ’ नियामकत्वम् ' आधिपत्यम् ' अधिकत्वेन पालनं च प्राप्नोति ॥ अभिषेककर्तुः शान्तिमन्त्रवाचनं विधत्ते— ( अभिषेककर्तुः शान्तिमन्त्रवाचनम् ) अथैनमभिषेक्ष्यन्नपां शान्तिं वाचयति ॥९ ॥

हिन्दी – ( अभिषेक करने वाले के शान्ति के मन्त्रवाचन का विधान कर रहे हैं— ) अथ इस ( आसन्दी पर आरोहण ) के बाद एनम् इस ( आसन्दी पर आरोहण करने वाले ) L. का अभिषेक्ष्यन् अभिषेक करता हुआ ( अभिषेक करने वाला ) अपां शान्तिं वाचयति जल के देवता ( वरुण ) से सम्बन्धित शान्तिमन्त्र का वाचन करता है ॥ सा ० भा ० - -'अथ ' आसन्द्यारोहणानन्तरम् ' एनम् ' आरूढं क्षत्रियं योऽन्योऽभिषे-क्ष्यति, स पुमान् ‘ अपां ’ ' शान्तिं जलदेवतानां शन्तिकरं मन्त्रं ' वाचयेत् ' क्षत्त्रियस्याग्रे स्वयं सकृदुक्त्वा तं क्षत्त्रियं पाठयेत् ॥

पृष्ठ 614

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 614 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४६६: ऐतरेयब्राह्मणम् [ ३७.३ अष्टमपञ्चिकायां एतं शान्तिमन्त्रं दर्शयति—

शिवेन मा चक्षुषा पश्यताऽऽपः शिवया तन्वोपस्पृशत त्वचं मे ।

सर्वा अग्नीं रप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्तेति ॥ ९ ॥

हिन्दी — ( शान्ति मन्त्र— ) आपः हे जल देवता! शिवेन चक्षुषा शान्त ( अनुग्रह-युक्त ) नेत्र से मा पश्यत हमें देखो तथा शिवया तन्वा अपने मङ्गलकारी शरीर त्वचं स्पृशत मेरी त्वचा का स्पर्श करो । अप्सुषदः सर्वान् अग्नीन् जल में निवास करने वाली ( बड़वानलादि ) सभी अग्नियों को वः हुवे तुम्हारे लिए मैं आवाहित करता हूँ । मयि मेरे में वर्चः बलम् ओजः निधत्त कान्ति, बल और ओज को धारण कराओ ॥ सा ० भा ० — हे ‘ आप: ' देवताः, ' शिवेन ' शान्तेनानुग्रहयुक्तेन चक्षुषा मामवलोक-यत् । तथा ‘ शिवया ’ शान्तया ' तन्वा ' मदीयां त्वचमुपस्पृशत । ' अप्सु ' जलेषु सीदन्तीति ‘ अप्सुषदः ’ और्वादयोऽग्नयः ' तान् अग्नीन् सर्वान् ' वः ' युष्मदर्थं ' हुवे ' आह्वयामि । यूयमपि ‘ वर्चः ' कान्तिंः, ‘ बलं ' शरीरबलम्, तत्कारणम् ' ओजः ' च मयि ' निधत्त ' सम्पादयत ॥ तदेतच्छान्तिमन्त्रवाचनं प्रशंसति— नैतस्याभिषिषिचानस्याशान्ता आपो वीर्यं निर्हणन्निति ॥ ११ ॥

हिन्दी – ( इस शान्ति मन्त्र की प्रशंसा कर रहे हैं - ) अशान्ताः आपः अशान्त जल एतस्य अभिषिच्यमानस्य इस अभिषिक्त किये जाते हुए ( क्षत्रिय ) के वीर्यं न निर्हणन् वीर्य को विनष्ट न करें, इति इसलिए ( जल का शान्तिपाठ करना चहिए ) ॥ सा ० भा ० — ‘ अशान्ताः ' उग्रा आपः तथा चान्यत्र श्रूयते — ' दिव्या आपोऽशान्ताः ’ इति । ताश्चाऽऽपः शान्तिवाचनाभावे ' अभिषिषिचानस्य ' अभिषेकं प्राप्तस्य ' एतस्य ' क्षत्त्रियस्य वीर्यं ‘ निर्हण्युः ' विनाशयेयुः । सति तु शान्तिपाठे ' न निर्हणन् ' नैव विनाशयन्ति, -' इति ' अनेनाभिप्रायेण शान्ति वाचयेत् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये अष्टमपञ्चिकायां द्वितीयाध्याये ( सप्तत्रिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( ६ ) ( २६३ )

॥ इस प्रकार ऐतरेयब्राह्मण के सैंतीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ तृतीयः खण्डः सा ० भा ० - अभिषेकप्रकारं विधत्ते—

पृष्ठ 615

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 615 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४६७ ( अभिषेकविधिविधानम् ) अथैनमुदुम्बरशाखामन्तर्धायाभिषिञ्चति ॥ १ ॥

हिन्दी – ( अभिषेक के प्रकार का विधान कर रहे हैं— ) अथ इस ( जलशान्ति-वाचन ) के पश्चात् एनम् इस अभिषेक किये जाते हुए ( क्षत्रिय ) को उदुम्बरशाखाम् अन्तर्धाय गूलर वृक्ष की शाखा से व्यवहित करके ( अर्थात् शिर पर गूलर की शाखा को रखकर ) अभिषिञ्चति ( चमसस्थ दधि इत्यादि से ) अभिषिञ्चन करता है । सा ० भा०- ' अथ ' शान्तिवाचनानन्तरम् ' एनं ' क्षत्रियम् ' उदुम्बरशाखामन्तर्धाय ' शिरस्युदुम्बरशाखया व्यवधानं कृत्वा चमसस्थैर्दध्यादिभिरभिषिञ्चेत ' ॥ तिस्र ऋच:; एकं यजुः, व्याहृतयश्चेत्येतेऽभिषेकमन्त्राः । तत्र प्रथमामृचमाह— ( अभिषेकमन्त्राः )

इमा आपः शिवतमा इमाः सर्वस्य भेषजीः ।

इमा राष्ट्रस्य वर्धनीरिमा राष्ट्रभृतोऽमृताः ॥२ ॥

हिन्दी —— ( अभिषिञ्चन तीन ऋचाओं और एक यजुष् के पाठ द्वारा किया जाता है । उनमें से प्रथम ऋचा — ) इमाः आपः ये ( दधि इत्यादि से मिश्रित ) जल शिवतमाः अत्यधिक शान्त हैं, इमाः सर्वस्य भेषजीः ये ( दधिमिश्रित जल ) सभी ( रोगों ) के लिए ओषधि - स्वरूप है, इमाः राष्ट्रस्य वर्धनीः ये राष्ट्र की समृद्धि रूप है इमाः राष्ट्रभृतः अमृताः ये राष्ट्र को धारण करने वाले और अमृत ( अविनाशी ) हैं ॥ सा ० भा ० – ' आप: ' इत्यनेन दध्यादिसर्वद्रव्याण्युपलक्ष्यन्ते । ‘ इमाः ' दध्यादिसहिता आपः ‘ शिवतमाः ' अतिशयेन शान्ताः । तथा ' इमा: ' आपः ' सर्वस्य ' दारिद्र्यादिरोगस्य ‘ भेषजीः ’ औषधरूपाः । तथा ' इमा: ' आपो राष्ट्रस्य ' वर्धनी: ' अभिवृद्धिहेतवः । अत एव

‘ इमाः ’ आपो ‘ राष्ट्रभृतः राष्ट्रधारिण्यः । स्वयं च ' अमृताः ’ विनाशरहिताः ॥

द्वितीयामृचमाह—

याभिरिन्द्रमभ्यषिञ्चत् प्रजापतिः सोमं राजानं वरुणं यमं मनुम् ।

ताभिरद्भिरभिषिञ्चामि त्वामहं राज्ञां त्वमधिराजो भवेह ॥३ ॥

हिन्दी - ( द्वितीय ऋचा — ) प्रजापतिः प्रजापति ने याभिः जिन ( दध्यादिमिश्रित जल ) से इन्द्रम् सोमं राजानं वरुणं यमं मनुम् इन्द्र, राजा सोम, वरुण, यम और मनु का अभिषिञ्चन् अभिषेक किया था, ताभिः अद्भिः उन ( दध्यादिमिश्रित ) जल से ( राजा का ) अहम् अभिषिञ्चामि मैं अभिषेक करता हूँ और त्वम् ( इसके द्वारा अभिषिक्त ) तुम ( १ ) ‘ स्थितं प्राञ्चमभिषिति ' - इत्यादि ( कात्या ० श्रौ ० १५.५.३०-३३ ) पाठाच्चाभिषेकप्रकार-विशेषाश्चाभिगन्तव्याः ॥

पृष्ठ 616

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 616 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४६८: ऐतरेयब्राह्मणम् [ ३७.३ अष्टमपञ्चिकायां इह राज्ञाम् अधिराजः भव इस लोक में राजाओं के ऊपर राजा होवो ॥ सा ० भा ० - पुरा प्रजापतिः ' याभिः ' दध्यादिसहिताभिरद्भिरिन्द्रादीन् ' अभ्यषिञ्चत् ' । हे क्षत्त्रिय ताभिरद्भिस्त्वामहमभिषिञ्चामि । त्वं च ' इह ' लोके राज्ञां सर्वेषामधिको राजा भव ॥ तृतीयामृचमाह—

महान्तं त्वा महीनां सम्राजं चर्षणीनाम् ।

देवी जनित्र्यजीजनद् भद्रा जनित्र्यजीजनत् ॥४ ॥

हिन्दी - ( तृतीय ऋचा — ) त्वा तुम ( क्षत्रिय ) को जनित्री देवी पैदा करने वाली ( मातारूपा ) देवी ने महीनां महान्तम् महान् पुरुषों के मध्य में महानतम और चर्षणीनाम् सभी मनुष्यों के लिए सम्राजम् सम्यक् प्रकार से पालन करने वाला अजीजनत् पैदा किया है । इससे जनित्री भद्रा ( आपको ) पैदा करने वाली माता कल्याण करने वाली हो गयी है । सा ० भा ० – ' जनित्री ' तवोत्पादिका मातृरूपा देवी, त्वां ' महीनां ' महान्तं महतामपि पुरुषाणां मध्येऽतिशयेन महान्तं ' चर्षणीनां ' मनुष्याणां च सर्वेषां ' सम्राजं ' सम्यग्धर्मेण पालयितारं कृत्वा ‘ अजीजनत् ' उत्पादितवती ' । अतो भवदीया ' जनित्री ' माता, स्वयं तदा पुण्यात्मा भूत्वोत्पादितवती ॥ तिस्र ऋचोऽभिधाय यजुर्दर्शयति-देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि बलाय श्रियै यशसेऽ-न्नाद्याय ' ॥५ ॥

हिन्दी— ( अभिषेकार्थ यजुष्— ) हे अभिषेक किये जाते हुए क्षत्रिय राजन्! सवितुः देवस्य प्रसवे सविता देव की प्रेरणा में, अश्विनोः बाहुभ्याम् अश्विन्देवों की भुजाओं से, पूष्णः हस्ताभ्याम् पूषन्देव के हाथों से, अग्नेः तेजसा अग्निदेव के तेज से, सूर्यस्य वर्चसा सूर्यदेव के प्रकाश से और इन्द्रस्य इन्द्रियेण इन्द्र के ( नेत्रादि ) इन्द्रिय बल से बलाय शरीर के बल के लिए, श्रियै ( अश्वादि ) समृद्धि के लिए, यशसे यश के लिए और अन्नाद्याय भोजनीय अन्न के लिए त्वा अभिषिञ्चामि तुम्हारा अभिषेक कर रहा हूँ ॥ ( १ ) एवविधमन्त्रपाठे तैत्तिरीया दूषणमप्यामनन्ति । तद्यथा— ' यद् ब्रूयात् अग्नेस्त्वा तेजसा-भिषिञ्चामीति, तेजस्येव स्यात्; दुश्चर्मा तु भवेत् । सोमस्य त्वा द्युम्नेनाभिषिञ्चामीत्याह, सौम्यो वै देवतया पुरुषः, स्वयैवैनं देवतयाभिषिञ्चति ' – इति तै ० ब्रा ० १.७.८ । सोमस्य त्वेत्यादिस्तु तैत्तिरीयाणां वाजसनेयिनाञ्च अभिषेकमन्त्रः ( ऋ ० १.८.१४; वाज ० सं ० १०.१७ ॥

पृष्ठ 617

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 617 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४६ ९ सा ० भा ० — हे क्षत्रिय ' सवितुः ' प्रेरकस्य देवस्य परमेश्वरस्य ' प्रसवे ' अनुज्ञायां सत्यां त्वामभिषिञ्चामि । केन साधनेन? ' अश्विनोर्देवयोः सम्बन्धिभ्यां बाहुभ्यां, न तु मदीया-भ्याम्; तथा ‘ पूष्णः ’ देवस्य हस्ताभ्याम् । मणिबन्धपर्यन्तौ दण्डाकारौ ' बाहू ' अङ्गुलि-सहितावग्रभागौ ‘ हस्तौ ’ । तथाऽग्निसम्बन्धिना ' तेजसा ' शरीरकान्त्या । सूर्यस्य सम्बन्धिना ‘ वर्चसा ’ बाह्यप्रकाशेन इन्द्रसम्बन्धिना ' इन्द्रियेण ' चक्षुरादिपाटवेन । कस्मै प्रयोजनायायम-भिषेकः । तव शरीरबलाय, ‘ श्रियै ' हस्त्यश्वादिसम्पदे, ' यशसे ' कीयें, ' अन्नाद्याय ' अन्नसमृद्धये ॥ अथ कामनाभेदेन व्याहृतीर्दर्शयति— ( कामनाभेदेन व्याहृतिप्रदर्शनम् ) भूरिति य इच्छेदिममेव प्रत्यन्नमद्यादित्यथ य इच्छेद् द्विपुरुषं भूर्भुव इत्यथ य इच्छेत् त्रिपुरुषं वाऽप्रतिमं वा भूर्भुवः स्वरिति ॥ ६ ॥

हिन्दी – ( कामना के भेद से व्याहृतियों को दिखला रहे हैं— ) यः जो ( अभिषेक करने वाला ) इमम् एव प्रति इस अभिषेक किये जाते हुए क्षत्रिय के प्रति इच्छेत् यह कामना करे कि अन्नम् अद्यात् यह नीरोग रहे तो भूः इति भूः इस ( व्याहृति ) से, अथ यः इच्छेत् और जो ( अभिषेक करने वाला यह कामना करे कि द्विपुरुषम् दो पीढ़ियों ( पुत्र और पौत्र ) तक ( नीरोग रहे तो ) भूर्भुवः इति भू और भुवः इन दो व्याहृतियों से अथ यः इच्छेत् और जो ( अभिषेककर्त्ता ) यह कामना करे कि त्रिपुरुषम् तीन पीढ़ियों तक अप्रतिमम् अद्वितीय बना रहे तो भुर्भुवः स्वः इति भूः भुवः तथा स्वः- इन तीनों व्याहृतियों से ( अभिषेक करें ) ॥ सा ० भा ० — ' यः ' अभिषेक्ता ' इममेव ' अभिषिच्यमानं क्षत्रियं प्रत्यसौ ' अन्नम-द्यात् ' नीरोगो भवेदिति ‘ इच्छेत् ' कामयेत, ' भूरिति ' व्याहृत्याऽभिषिञ्चेत् । अथ ' यः ' अभिषेक्ता पुत्रपौत्राभ्यां द्वाभ्यां पुरुषाभ्यां सहितम् ' इमं ' क्षत्रियं प्रत्यन्नमद्यादिति काम-येत, तदानीम् ‘ भूर्भुवः इति ' व्याहृतिद्वयेनाभिषिञ्चेत् । अथ ' यः ' अभिषेक्ता पुत्रपौत्रप्र-पौत्रस्त्रिभिः पुरुषैर्युक्तम् ' इमं ' क्षत्रियमिच्छेत् पुरुषत्रयपर्यन्तं जीवित्वा सुखेनान्नमद्यादिति कामयेत । अथ वा तमेतम् ‘ अप्रतिमं ' स्वतुल्यक्षत्रियान्तररहितं कुर्यामिति कामयेत, तदानीं ' भूर्भुव: स्वरिति ' व्याहृतित्रयेणाभिषिञ्चेत् ॥ अथ कञ्चित्पूर्वपक्षमुत्थापयति— ( तत्र पूर्वपक्षकथनम् ) तब्द्धैक आहुः, -सर्वाप्तिर्वा एषा यदेता व्याहृतयोऽति सर्वेण हास्य परस्मै कृतं भवतीति; तमेतेनाभिषिञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनो-बहुभ्यां पूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणा-भिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्यायेति ॥७ ॥

पृष्ठ 618

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 618 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ३७.३ अष्टमपञ्चिकायां १४७०: ऐतरेयब्राह्मणम् ( कामनाभेद से व्याहृतियों के प्रयोग के विषय में पूर्वपक्ष — ) तद् ह एके हिन्दी— कहते हैं— यद् एताः व्याहृतयः जो ये ( भूर्भुवः स्वः ' आहुः इस ( विषय ) में कुछ याज्ञिक की ही प्राप्ति के साधन हैं अतः व्याहृतियाँ हैं ) एषा सर्वाप्तिः वै वे सभी कामनाओं से कृतं अस्य परस्मै इस ( राजा ) से अन्य के लिए अति सर्वेण प्रायः सभी मन्त्रसमूह भवति अभिषेक किया जाता है अतः तम् उस ( राजा ) का एतेन अभिषिञ्चेत् इस ( यजुष् मन्त्र ) से अभिषेक करना चाहिए - ' देवस्य त्वा सवितुः प्रसवे तुमको सवितादेव की प्रेरणा में, अश्विनोः बाहुभ्याम् अश्विन्देवों की हाथों से, अग्नेः तेजसा अग्नि देव के तेज और इन्द्रस्य इन्द्रियेण इन्द्र के इन्द्रिय बल लिए, यशसे यश के लिए और अन्नाद्याय करता हूँ ' । सा ० भा०- -‘तद्ध ' तस्मिन्नेवाभिषेके भुजाओं से, पूष्णः हस्ताभ्याम् पूषन्देव के से, सूर्यस्य वर्चसा सूर्यदेव के प्रकाश से से बलाय बल के लिए, श्रियै समृद्धि के अन्नाद्य के लिए अभिषिञ्चामि अभिषिक्त ब्रह्मवादिनः केचिदेवमाहुः — या एता व्या-हृतयः सन्ति त ‘ एषा ' व्याहृतिरूपा ' सर्वाप्तिर्वै ' सर्वफलप्राप्तिसाधनम् । अतो व्याहृति-भिरभिषेके, ‘ अस्य ’ अभिषिच्यमानस्य ' परस्मै ' परस्य स्वस्मादन्यस्य क्षत्रियस्य ' अति कृत्स्नेनापि मन्त्रजातेनाभिषेचनं कृतं भवति । तदेत-सर्वेण’तदपेक्षामात्रमभिक्रम्य दधिकाभिषेचनमयुक्तम् ‘ इति ' ’ अभिप्रेत्य ' तं ' क्षत्त्रियम् ' एतेन ' देवस्य त्वेत्यादिना यजुषाऽ-भिषिञ्चेत्, न तु व्याहृतिभिरिति तेषां पक्षः ॥ तं पक्षं दूषयति— ( पूर्वपक्षे दोषकथनम् ) तदु पुनः परिचक्षते; यदसर्वेण वाचोऽभिषिक्तो भवतीश्वरो ह तु पुराऽऽयुषः प्रेतोरिति ह स्माऽऽह सत्यकामो जाबालोऽयमेताभि-र्व्याहृतिभिर्नाभिषिञ्चन्तीति ॥८ ॥

हिन्दी — ( पूर्वपक्ष का दोष ) तदु उस ( पूर्वोक्त पक्ष ) को पुनः परिचक्षते यत् पुनः ( अन्य याज्ञिक ) निराकरण करते हैं कि जिस क्षत्रिय को एताभिः व्याहृतिभि इन व्याहृतियों से न अभिषिञ्चन्ति अभिषिञ्चित नहीं करते हैं, वह असर्वेण वाच: अभि-षिक्तः असम्पूर्ण ( अधूरे ) वाणी ( मन्त्र ) से अभिषिक्त ( राजा ) आयुषः पुरा सम्पूर्ण आयु से पूर्व ही प्रैतोः ईश्वरः भवति मृत्यु को प्राप्त करने का स्वामी हो जाता है ( अर्थात् सम्पूर्ण आयु से पहले ही मर जाता है ) इति सत्यकामः जाबालः ऐसा जाबालि ऋषि के पुत्र सत्यकाम ने ह स्म आह कहा है ॥ सा ० भा ० — ‘ तदु ' तदपि पूर्वोक्तं मतं पुनरन्येऽभिज्ञाः ‘ परिचक्षते ’ निराकुर्वन्ति । ‘ यं ’ क्षत्त्रियम् ‘ एताभिः ’ व्याहृतिभिर्नाभिषिञ्चन्ति, ' एषः ' क्षत्रियो ' यद् ' यस्मात्कारणाद् ' अ-

पृष्ठ 619

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 619 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४७१ सर्वेण ' सम्पूर्तिरहितेन ‘ वाचो ' वाक्येन मन्त्रेणाभिषिक्तो भवति, तस्माद् ' अयं ' स्वोचि-तादायुषः पुरा ‘ प्रैतोः ’ प्रैतुं मर्तुम् ' ईश्वरः ' समर्थो भवति । तस्मादायुःक्षयहेतुत्वादयं पक्षो न युक्त इति जाबालायाः पुत्रः ' सत्यकामो ' महर्षिराह ॥ पूर्वपक्षं दूषयित्वा सिद्धान्तमाह— ( सिद्धान्तपक्षकथनम् ) ईश्वरो ह सर्वमायुरैतोः सर्वमाप्नोद्विजयेनेत्यु ह स्माऽऽहोद्दालक आरुणिर्यमेताभिर्व्याहृतिभिरभिषिञ्चन्तीति; तमेतेनैवाभिषिञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्याय भूर्भुवः स्वरिति ॥ ९ ॥

हिन्दी - ( पूर्वपक्ष के दोष को कहकर सिद्धान्त पक्ष को कह रहे हैं - ) यं जिस ( क्षत्रिय ) को एताभिः व्याहृतिभिः इन व्याहृतियों से अभिषिञ्चन्ति अभिषिञ्चन करते हैं, वे सर्वमायुरैतोः ईश्वरः सम्पूर्ण आयु प्राप्त करने के लिए समर्थ हो जाता है और विजयेन सर्वम् आप्नोत् ( शत्रुओं पर ) विजय प्राप्ति द्वारा सम्पूर्ण ( भोगों ) को प्राप्त करता है, इति उद्दालकः आरुणिः ऐसा अरुण के पुत्र उद्दालक ने ह स्म आह कहा है । तम् ( अतः ) उस ( क्षत्रिय ) को एतेन एव अभिषिञ्चेत् इस ( मन्त्र ) से अभिषिञ्चित करना चाहिए-देवस्य सवितुः प्रसवे सविता देव की प्रेरणा में, अश्विनोः बाहुभ्याम् अश्विनों की भुजाओं से, पूष्णः हस्ताभ्याम् पूषादेव के हाथों से, अग्नेः तेजसा अग्नि के तेज से, सूर्यस्य वर्चसा सूर्य के प्रकाश से, इन्द्रस्य इन्द्रियेण इन्द्र के इन्द्रिय बल से बलाय श्रियै यशसे अन्नाद्याय बल, समृद्धि, यश और अन्नाद्य के लिए त्वा अभिषिञ्चामि तुम्हारा अभिषेक कर रहा हूँ । ( मन्त्र के अन्त में ) ' भूर्भुवः स्वः ' ( इन महाव्याहृतियों को जोड़ना चाहिए ॥ सा ० भा०- – ' यं ' क्षत्त्रियम् ' एताभिः ' र्व्याहृतिभिरभिषिञ्चन्ति, स क्षत्त्रियः ‘ सर्व-मायुरैतोः ’ सर्वमायुः ‘ प्राप्तुम् ‘ ईश्वर: ' समर्थो भवति । ततो ' विजयेन ' शत्रूनभिभूय सर्वं भोगम् ‘ आप्नोत् ’ प्राप्नोति । ‘ इति ’ एवमरुणपुत्र उद्दालक आह स्म । तस्मात् ' तं ' क्षत्त्रियम् ‘ एतेन ’ व्याहृत्यन्तेनैव यजुषाऽभिषिञ्श्चेन्न केवलेन । सोऽयं व्याहृत्यन्तो मन्त्रा नित्यप्रयोगे द्रष्टव्यः । काम्यप्रयोगे तु व्याहृतिविकल्पः पूर्वमुक्तः ॥ अभिषेकाङ्गं होमं विधत्ते— ( अभिषेकान्ते होमविधानम् ) अथैतानि ह वै क्षत्रियादीजानाद् व्युत्क्रान्तानि भवन्ति; ब्रह्मक्षत्रे ऊर्गन्नाद्यमपामोषधीनां रसो ब्रह्मवर्चसमिरापुष्टिः प्रजाति: क्षत्त्ररूपं,

पृष्ठ 620

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 620 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४७२: ऐतरेयब्राह्मणम् [ ३७.३ अष्टमपञ्चिकायां तदथो अन्नस्य रस ओषधीनां क्षत्त्रं प्रतिष्ठा; तद्यदेवामू पुरस्तादाहुती जुहोति, तदस्मिन् ब्रह्मक्षत्त्रे दधाति ॥ १० ॥

हिन्दी— ( अभिषेक के अङ्गभूत होम का विधान कर रहे हैं - ) ईजानात् क्षत्रियात् यजन करने वाले क्षत्रिय से ब्रह्मक्षत्रे ब्राह्मणत्व और क्षत्रियत्व - ये दोनों, ऊर्क ( दुग्धादि ) रस, अन्नाद्यम् भोज्यान्न, अपाम् ओषधीनां रसः जल और ओषधियों का रस, ब्रह्म-वर्चसम् ब्रह्मवर्चस्, इरापुष्टिः अन्न की समृद्धि और प्रजातिः पुत्रोत्पादनता एतानि ये सभी व्युत्क्रान्तानि भवन्ति निकल जाते हैं जो क्षत्ररूपम् क्षत्रिय के अनुरूप होते हैं । तद् अथ और अन्नस्य ओषधीनां रसः अन्न और ओषधियों का रस क्षत्रं प्रतिष्ठा क्षत्रिय आधार होता है । तत् ऐसा होने पर यत् यदि अमू आहुती ये ( बुद्धिस्थ ) दो ' ब्रह्मम प्रपद्य... स्वाहा ' और ‘ क्षत्त्रं पपद्ये.... स्वाहा ' इत्यादि आहुतियाँ पुरस्तात् ( अभिषिक्त क्षत्रिय के ) सामने जुहोति होम करता है, तत् तो अस्मिन् इस ( यजन करने वाले क्षत्रिय ) में ब्रह्मक्षत्रे दधाति ब्राह्मणत्व और क्षत्रियत्व को स्थापित करता है ॥ सा ० भा ० - ‘ अथ ' अभिषेकानन्तरं, होम उच्यत इति शेषः । ' ईजानाद् ' यागं कृतवतः क्षत्त्रियात् ‘ एतानि ' वक्ष्यमाणानि ' व्युत्क्रान्तानि ' अपगतानि भवन्ति । तानि नि-र्दिश्यन्ते — ‘ ब्रह्मक्षत्त्रे ' एतस्य समीपे वर्तमानं जातिद्वयम्, ' ऊर्क् ' क्षीरादिरसः, अन्नाद्यम् चोदनादिकम् । तदेतदुभयमपामोषधीनां ' रसः ' सारः । ‘ अपां रसः ’ क्षीरादिः । ‘ ओषधीनां रसः ' अन्नाद्यम् । ‘ ब्रह्मवर्चसं ' श्रुताध्ययनसम्पत्तिः । ' इरापुष्टिः ' अन्नसमृद्धिः । ' प्रजातिः ' पुत्रो-त्पादनम् । तच्च सर्वं क्षत्त्रियस्य स्वरूपम्, अत्यन्तमपेक्षितत्वात् । एतेषां व्युत्क्रान्तौ क्षत्त्रियस्य स्वरूपहानिरेव भवति । ' अथो ' अपि च ' अन्नस्य ' ओदनस्य, ' रसः ' रसस्य क्षीरादेः, ' ओषधीनाम् ' अन्नकारणानां व्रीहियवादीनां ' क्षत्त्रं प्रतिष्ठा ' क्षत्रिय आश्रयः । तस्मादुक्तो व्यतिक्रमः क्षत्त्रियस्य न युक्त । ' तत् ' तथा सति ' यत् ' यदि ' अमू ' बुद्धिस्थे आहुती अभिषिक्तस्य क्षत्रियस्य पुरस्ताज्जुहुयात् । ' तत् ' तदानीम् ' अस्मिन् ' अभिषिक्ते ब्राह्मणजातिं, क्षत्रियजातिं, तदुपलक्षितमन्नादिकं च सर्वमवस्थापयति । ' ब्रह्म प्रपद्ये.... स्वाहा ' - ‘ क्षत्त्रं प्रपद्ये... स्वाहा ' इत्याहुतिद्वयं जुहुयादिति तात्पर्यार्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये अष्टमपञ्चिकायां द्वितीयाध्याये ( सप्तत्रिंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( ७ ) ( २६४ )

॥ इस प्रकार ऐतरेयब्राह्मण के सैंतीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) द्र ० इतः पूर्वम् ७.४.४ । ( २ ) द्र ० तै ० सं ० १.८.१४; तै ० ब्रा ० १.७.८, वा ० सं ० १०.१७, शत ० ब्रा ० ५.४.२ - अभिषेकविवरणम् ।