ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 631–640
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 631–640
पृष्ठ 631
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४८३ अन्ततः अन्त में इन्द्रियेण वीर्येण इन्द्रिय और वीर्य से आत्मानम् अपने को समर्थ-यति समृद्ध करता है । सा ० भा ० – ' तत् ' तेन समिदाधानमन्त्रेणाऽऽत्मानभभिषेककर्मान्ते वीर्येन्द्रियाभ्यां. समृद्धं करोति ॥ समिदाधानादूर्ध्वं कर्तव्यं विधत्ते— ( समिदाधानादूर्ध्वकर्तव्यविधानम् ) आधाय समिधं त्रीणि पदानि प्राङ्गदङ्ङभ्युत्क्रामति ॥ ११ ॥
हिन्दी – ( समिदाधान के बाद करणीय कर्म को दिखला रहे हैं - ) समिधम् आधाय समिदाधान करके प्राङुदङ् पूर्व और उत्तर दिशा में त्रीणि पदानि तीन पद अभ्युत्क्रामति चलता है ।
सा ० भा ० – समिधं प्रक्षिप्य प्राङ्मुख उदङ्मुखो वा पदत्रयमभित उत्क्रामेत् ।
यद्वा, प्राङुदङिति अन्तरालवर्तिनीमैशानीं दिशमभिलक्ष्योत्क्रामेत् ॥
तत्र मन्त्रं दर्शयति— ( पदोत्क्रमणमन्त्रः )
क्लृप्तिरसि दिशां मयि देवभ्यः कल्पत ।
कल्पतां मे योगक्षेमोऽभयं मेऽस्तु ॥ १२ ॥
हिन्दी – ( तीन पद चलने का मन्त्र - ) हे पादप्रक्षेप! दिशां क्लृप्तिः असि दिशाओं की स्वतन्त्रता के सम्पादक हो, अतः मयि देवेभ्यः कल्पत मेरे में देवताओं की सेवा के लिए सामर्थ्य बढ़ाओ । कल्पतां मे योगक्षेमम् मेरे योगक्षेम को सम्पादित करो और अभयं मे अस्तु मेरे लिए अभय होवे ॥ सा ० भा ० - दिग्विशेषमभिलक्ष्य क्रियमाण हे पदोत्क्रमण त्वं दिशां ' क्लृप्तिः ' कल्पनं स्वाधीनत्वसम्पादकमसि । अतो मयि सेवार्थं ' कल्पत ' कल्पनं सामर्थ्यं कुरु । बहुवचनं छान्दसम् । ' मे ' मम ' योगक्षेम: ' योगसहितः क्षेमः ' कल्पतां ' सम्पद्यताम् । तथैव ‘ मे ' ममाभयं भयराहित्यमस्तु ॥ दिगुपस्थानं विधत्ते—-( दिगुपस्थानविधानम् ) इत्यपराजितां दिशमुपतिष्ठते, जितस्यैवा पुनः पराजयाय, तत्तदिती ३ ॥ ९ ॥
हिन्दी — ( अब दिगुपस्थान का विधान कर रहे हैं - ) इति इस उपर्युक्त प्रकार से अपराजितां दिशम् पराजय से रहित ( पूर्व अथवा उत्तर ) दिश का उपतिष्ठते उपस्थान
पृष्ठ 632
पाठ पढ़ें पाठ छिपाएँ
१४८४: ऐतरेयब्राह्मणम् [ ३७.६ अष्टमपञ्चिकायां किया जाता है । जितस्य पहले जीती हुई ( दिशा ) का पुनः पराजयाय पराजयरहितता के लिए ( उपस्थान होता है ) । तत् तद् इति ( लोक में ) वहीं - वहीं ( उपस्थान सम्मान-नीय है ) ॥ सा ० भा०– ' इति ' अनेन पूर्वोक्तेन क्लृप्तिरसीत्यादिमन्त्रेण पराजयरहितां प्रा-चीमुदीचीं वा दिशमुपतिष्ठते । अथवा दिशमैशानीमपराजितामुपतिष्ठते । पूर्वं जितस्यैव दिग्विशेषस्य, पुनः पराजयराहित्यार्थमुपस्थानम् । लोकाश्च तदुपस्थानमिति सर्वे पूज-यन्ति । पूजार्थेयं सानुनासिकप्लुतिः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-. भाष्ये अष्टमपञ्चिकायां द्वितीयाध्याये ( सप्तत्रिंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( ९ ) ( २६६ )
॥ इस प्रकार ऐतरेयब्राह्मण के सैंतीसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ षष्ठः खण्डः सा ० भा ० — अपराजितां दिशमुपतिष्ठत इति यदुक्तं, तत्रैशान्या दिशो मुख्यापरा-जितत्वं दर्शयति— ( ऐशान्यादिशो मुख्यापराजितत्वकथनम् ) देवासुरा वा एषु लोकेषु संयेतिरे; त एतस्यां प्राच्यां दिशि येतिरे; तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिशि येतिरे; तांस्ततोऽसुरा अजयंस्ते प्रतीच्यां दिशि येतिरे; तांस्ततोऽसुरा अजयंस्त उदीच्यां दिशि येतिरे; तांस्ततोऽसुरा अजयंस्त एतस्मिन्नवान्तरदेशे येतिरे; य एष प्राङुदङ् ते ह ततो जिग्युः ॥ १ ॥
हिन्दी – ( अब ईशानकोण की अपराजेयता को दिखला रहे हैं - ) देवासुरा वै एषु लोकेषु संयेतिरे ( पहले ) देवताओं और असुरों ने ( परस्पर ) इन ( पृथिवी इत्यादि ) लोकों के लिए युद्ध किया । ते एतस्यां प्राच्यां दिशि येतिरे उन्होंने इस पूर्व दिशा में युद्ध किया, ततः असुराः वहाँ असुरों ने तान् उन ( देवताओं ) को अजयन् जीत लिया । ते दक्षिणस्यां दिशि येतिरे उन लोगों ने दक्षिण दिशा में युद्ध किया, ततो असुराः तान् अजयन् वहाँ भी असुरों ने उन ( देवताओं ) को जीत लिया । ते प्रतीच्यां दिशि येतिरे उन लोगों ने पश्चिम दिशा में युद्ध किया, ततोऽसुराः तान् अजयन् वहाँ भी असुरों ने उन ( देवताओं ) को जीत लिया ते उदीच्यां दिशि येतिरे उन लोगों ने उत्तर दिशा में युद्ध
पृष्ठ 633
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४८५ किया ततः असुराः अजयन् वहाँ भी असुरों ने उन ( देवताओं ) को जीत लिया । ते एतस्मिन् अवान्तर देशे येतिरे उन लोगों ने इन ( दो दिशाओं के मध्यवर्ती ) उप दिशा में युद्ध किया, तो यः एषः प्राङुदङ् जो यह पूर्व और उत्तर ( की मध्यवर्ती ) उपदिशा है, ततः ते ह जिग्मुः वहाँ उन ( देवताओं ) ने ( असुरों को ) जीत लिया ॥ सा ० भा ० — पुरा कदाचिद्देवाश्चासुराश्च ' एषु ' भूरादिषु लोकेषु निमित्तेषु ' संयेतिरे ' युद्धं कृतवन्तः । तत्र प्राच्यादिषु चतसृषु दिक्षु यत्र यत्र युद्धं कृतं, तत्र तत्रासुराणामेव विजयोऽभूत् । ‘ य एष प्राङुदङ् ' दिग्द्वंयस्पर्शी कश्चिदवान्तरदेश ऐशानात्मकः, एतस्मिन् देशे यदा युद्धं कृतं, तदा ' ते ' देवाः ' ततः ' देशान्निमित्तभूतात् ' जिग्युः ' जयं प्राप्ताः । तस्मादियमेशानी दिगपराजिता पूर्वोक्तमन्त्रेणोपस्थेया ॥ तमेतमभिषिक्तक्षत्त्रियवृत्तान्तं तावदवस्थाप्य, तत्प्रसङ्गागतं पुरुषान्तरवृत्तान्तं दर्शयति — ( सेनयोर्मध्ये जयार्थं प्रयोगकथनम् ) तं यदि क्षत्रिय उपधावेत् सेनयोः समायत्योस्तथा मे कुरु, यथा s-हमिमां सेनां जयानीति स यदि तथेति ब्रूयाद्, वनस्पते वीड्वङ्गो हि भूया इत्यस्य रथोपस्थमभिमृश्याथैनं ब्रूयात् ॥ २ ॥
हिन्दी – ( उपर्युक्त विषय में अन्य पुरुष के वृत्तान्त को कह रहे हैं— ) यदि समायत्योः सेनयोः यदि युद्ध के लिए सन्नद्ध दो सेनाओं के मध्य में क्षत्रियः क्षत्रिय तम् उपधावेत् उस ( अभिषिक्त और ईशान कोण में उपस्थान किये राजा ) के पास ( इसलिए ) आवें कि यथा अहम् एनां सेना जयानि जिस प्रकार मैं इस सेना को पराजित कर सकूँ तथा मे कुरु ( हे राजन् ) उसी प्रकार मेरे लिए करो । सः वह ( अभिषिक्त क्षत्रिय ) यदि तथा इति ब्रूयात् यदि ठीक है - ऐसा कहे तो अस्य रथोपस्थम् उस ( कहने वाले क्षत्रिय ) के रथ के ऊर्ध्वभाग को ' वनस्पते वीड्वङ्गो हि भूयाः ' अर्थात् हे वनस्पते! तुम शक्तिशाली होवो — इति इस मन्त्र से अभिमृश्य स्पर्श करके एनं ब्रूयात् इस ( जंयार्थी ) से ( आगे कहे जाने वाले मन्त्र को ) कहे – ॥ . सा ० भा ० – कस्मिंश्चिद्देशे युद्धार्थमुभे सेने परस्परं समागच्छतः । तयोः समा-गच्छन्त्योः ' सेनयोः ' मध्ये यः कोऽपि ' क्षत्रियः ' विजयार्थी सन् तम् अभिषिक्तमैशानी-दिगुपस्थानमुक्तं राजानं यदि उपधावेत् ' शरणं गच्छेत् । केनाभिप्रायेणेति? सोऽभिधी-यते । हेऽभिषिक्त क्षत्रिय यथाऽहमिमां शत्रुसेनां जयानि, तथा मेऽनुग्रहं कुर्विति तद-भिप्रायः । तदानीं ‘ सः ' अभिषिक्तः क्षत्त्रियः यदि ' तथेति ' - अङ्गीकारं ब्रूयात् । तदानीं ‘ वनस्पते ' इत्यृचा जयार्थिनः पुरुषस्य रथोर्ध्वभागमभिमृश्यानन्तरम् ‘ एनं ’ जयार्थिनं प्रति वक्ष्यमाणं मन्त्रं ब्रूयात् ॥ ( १ ) ऋ ० ६.४७.२६ । द्र ० आश्व ० गृ ० सू ० २.६ ।
पृष्ठ 634
पाठ पढ़ें पाठ छिपाएँ
१४८६: ऐतरेयब्राह्मणम् [ ३७.६ अष्टमपञ्चिकायां तं मन्त्रं दर्शयति-आतिष्ठस्वैतां ते दिशमभिमुखः सन्नद्धो रथोऽभिप्रवर्ततां, स उदङ् स प्रत्यङ् स दक्षिणा, स प्राङ् सोऽभ्यमित्रमिति ॥ ३ ॥
हिन्दी - ( मन्त्र को दिखला रहे हैं - ) एतां दिशम् ( हे जयार्थिन्! ) इस ( ईशान-कोण ) दिशा को आतिष्ठस्व प्राप्त करो । ते रथः तुम्हारा रथ अभिमुखः ( ईशान दिशा की ओर ) अभिमुख होकर सन्नद्धः और सभी ( आयुध, सेना इत्यादि युद्ध सामग्रियों ) से युक्त होकर अभिप्रवर्तताम् चारों ओर प्रवर्तित होवे । तत्पश्चात् सः उदङ् वह ( रथ ) उत्तर की ओर पुनः सः प्रत्यङ् वह ( रथ ) पश्चिम की ओर तदनन्तर सः दक्षिणा वह दक्षिण ओर तथा पुनः प्राङ् पूर्व की ओर चले । तब फिर सः अमित्रम् वह ( रथ ) शत्रुओं की ओर ( ले जावे ) ॥ सा ० भा ० — हे जयार्थिन् ' एताम् ' ऐशानीं दिशम् ' आतिष्ठस्व ' प्राप्नुहि । ते रथः ‘ एताम् ' ऐशानीं दिशं प्रत्यभिमुखः ' सन्नद्धः ' सर्वायुधादिसन्नाहोपेतोऽभितः प्रवर्तताम् । ततः ‘ सः ’ रथ उदङ्मुखः प्रवर्तताम् । ततः ' सः ' रथः प्रत्यङ्मुखः प्रवर्तताम् । ततः ‘ सः ’ रथो दक्षिणामुखः प्रवर्तताम् । ततः ' सः ' रथः प्राङ्मुखः प्रवर्तताम् । तत ऊर्ध्वम् ' अभ्य-मित्रं ' त्वदीयं शत्रुं प्रति प्रवर्तताम् ॥ जयार्थिनं प्रत्येतन्मन्त्रकथनादूर्ध्वमभिषिक्तस्य कर्तव्यं दर्शयति— अभीवर्तेन हविषेत्येवैनमावर्तयेदथैनमन्वी क्षेताप्रतिरथेन शासेन सौपर्णेनेति ॥ ४ ॥
हिन्दी— ( जयार्थी के प्रति उपर्युक्त मन्त्र को कहकर अब अभिषिक्त राजा के कर्त्तव्य को कह रहे हैं - ) ( वह अभिषिक्त राजा ) ' अभिवर्तेन हविषा इति इस सूक्त से एनम् इस ( जयार्थी ) को आवर्तयेत् ( पूर्वोक्त दिशाओं के क्रम से ) प्रवर्तित करें । अथ इसके बाद एनम् इस ( जयार्थी ) को अप्रतिरथेन शासेन सौपर्णेन ( ' आशु शिशान: ' इत्यादि ) अप्रतिरथ ( सूक्त ) तथा ( ‘ शास इत्था इत्यादि ) शास ( सूक्त ) से और ( ' प्रधारयन्तु मधुनः ' इत्यादि ) सौपर्ण ( सूक्त ) से अन्वीक्षेत देखें ॥ सा ० भा ० – ‘ अभिवर्तेन ' इत्यादिना सूक्तेन ' ' एनं ' जयार्थिनमुक्तक्रमेण दिक्ष्वावर्त-येत् । ‘ अथ ' अनन्तरमावर्तमानमेनं सूक्तत्रयेणान्वीक्षेत । ' आशुः शिशानः ' इत्यप्रतिरथं सूक्तम् । ‘ शास इत्था ’ ' इति शाससूक्तम् । ' प्रधारयन्तु मधुनः ' इति सौपर्णसूक्तम् ॥ ( १ ) ऋ ० १०.१७४ | द्र ० आश्व ० गृ ० सू ० ३.११ । ( २ ) ऋ ० १०.१०३ । द्र ० आश्व ० गृ ० सू ० ३.१२ । ( ३ ) ऋ ० १०.१५३ । द्र ० आश्व ० गृ ० सू ० ३.१२ । ( ४ ) आश्व ० गृ ० सू ० ३.१२.१४;
पृष्ठ 635
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४८७ अभिषिक्तस्य कृत्यमुक्त्वा जयार्थिनः कृत्यं दर्शयति — जयति ह तां सेनाम् ॥ ५ ॥.
हिन्दी – ( अभिषिक्त राजा के कर्तव्य को कहकर अब जयार्थी के कर्त्तव्य को कह रहे हैं— ) जयार्थी इस प्रकार तां सेनां जयति उस ( शत्रु की ) सेना को जीत लेता है । सेनाद्वययुद्धे जयार्थं प्रयोगमुक्त्वा पुरुषद्वंद्वयुद्धेऽपि तमाह — ( पुरुषद्वन्दयुद्धे जयार्थं प्रयोगकथनम् ) यद्यु वा एनमुपधावेत् सङ्ग्रामं संयतिष्यमाणस्तथा मे कुरु यथाऽ-हमिमं सङ्ग्रामं सञ्जयानीत्येतस्यामेवैनं दिशि यातयेज्जयति ह तं सङ्ग्रामम् ॥६ ॥
हिन्दी — ( दो सेनाओं के मध्य होने वाले युद्ध में जीतने के लिए प्रयोग को कहकर अब दो पुरुषों के मध्य होने वाले युद्ध में जीतने के लिए कह रहे हैं - ) यदि उ वै यदि सङ्ग्रामं संयतिष्यमाणः सङ्ग्राम के लिए सन्नद्ध होते हुए ( युद्ध जीतने के लिए ) एनम् इस ( अभिषिक्त क्षत्रिय ) के पास यथा अहम् इमम् सङ्ग्रामं सञ्जयानि जिस प्रकार मैं इस युद्ध को जी लूँ तथा मे कुरु वैसा मेरे लिए करो इति ऐसा कहकर उपधावेत् जाता है । तब उसे वह एतस्यामेव दिशि इस ( ईशानकोण ) दिशा में एनम् इसको यातयेत् ले जावें । वह तं सङ्ग्रामं जयति उस युद्ध को जीत लेता है । सा ० भा ० - यः कोऽपि पुमान् ' संयतिष्यमाणः ' युद्धं करिष्यंस्तं सङ्ग्रामं जेतुम्
‘ एनम् ' अभिषिक्तं ‘ यदि उपधावेत् ' । तथा मे कुर्विति पूर्ववत् ॥
राष्ट्राद् भ्रष्टस्य पुनरपि राष्ट्रप्राप्त्यर्थं प्रयोगं दर्शयति — ( पुनरपि राष्ट्रप्राप्त्यर्थं प्रयोगकथनम् ) यद्यु वा एनमुपधावेद् राष्ट्रादपरुध्यमानस्तथा मे कुरु यथाऽहमिदं राष्ट्रं पुनरवगच्छानीत्येतामेवैनं दिशमुपनिष्क्रमयेत्तथा ह राष्ट्रं पुनरवगच्छति ॥७ ॥
' हिन्दी - ( राष्ट्र से च्युत होकर पुनः राष्ट्र की प्राप्ति के लिए प्रयोग को दिखला रहे हैं— ) यदि उ वै यदि राष्ट्राद् अपरुध्मानः राष्ट्र से च्युत हुआ वह यथा अहमिदं राष्ट्रं पुनः अवगच्छानि मैं इस राष्ट्र को जिस प्रकार पुनः प्राप्त कर सकूँ तथा मे कुरु उसी प्रकार मेरे लिए करो— इति इस प्रकार कहकर एनम् उपधावेत् इस ( अभिषिक्त क्षत्रिय ) के पास जाता है तो एतामेव दिशम् इस ( ईशान ) दिशा में एनम् इसको उपनिष्क्रमयेत् प्रस्थान करावे । तथा ह राष्ट्रं पुनरवगच्छति इस प्रकार ( निष्क्रमण से ) वह पुनः राष्ट्र को प्राप्त करता है ।
पृष्ठ 636
पाठ पढ़ें पाठ छिपाएँ
१४८८: ऐतरेयब्राह्मणम् [ ३७.६ अष्टमपञ्चिकायां सा ० भा ० — यथा वै सेनयोर्युद्धे पुरुषयोर्युद्धे चाभिषिक्तेनोदीचीं दिशं प्रति प्रस्था-पितस्य जयः तथैव राष्ट्रभ्रष्टोऽप्यभिषिक्तेनैशानीं दिशं प्रस्थापितो राष्ट्रं पुनः प्राप्नोति ॥ इत्थं प्रासङ्गिकं प्रयोगत्रयमुक्त्वा प्रकृतमेवाभिषिक्तविषयं प्रयोगमाह— ( अभिषिक्तविषयं प्रयोगम् ) उपस्थायामित्राणां व्यपनुत्तिं ब्रुवन् गृहानभ्येत्यप प्राच इन्द्र विश्वाँ अमित्रानिति सर्वतो हास्मा अनमित्रमभयं भवत्युत्तरोंत्तरिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं, य एवमेताममित्राणां व्यपनुत्तिं ब्रुवन् गृहानभ्येति ॥८ ॥
हिन्दी – ( प्रासङ्गिक प्रयोग त्रय को कहकर प्रकृत अभिषिक्त के विषय में कह रहे हैं— ) उपस्थाय ( ईशानकोण दिशा में ) उपस्थान करके अमित्राणाम् इन्द्र विश्वा ँ अमित्रान् ' अर्थात् ' हे इन्द्र! मेरे सभी शत्रुओं को पूर्व की इति ' व्यपनुत्तिं ' ब्रुवन् इस व्यपनुत्ति ( विशेषरूप से दूर करने वाली ) हुए गृहान् अभ्येति अपने घर को जाता है । यः एवं जो इस प्रकार पठन् शत्रुओं की व्यपनुत्ति को पढ़ता हुआ गृहान् अभ्येति घर को ( अभिषिक्त राजा ) के लिए सर्वतः सभी ओर से ( दिशा ) अमित्रम् विहीन और अभय हो जाती है । ( वह अभिषिक्त घर को आने वाला श्रियम् अश्नुते उत्तरोत्तर वृद्धि को प्राप्त करने वाली समृद्धि को प्राप्त शत्रुओं के ‘ अप प्राच ओर से निकाल दो ' ऋचा का पाठ करते अमित्राणां व्यपनुत्तिं जाता है, अस्मै इस अभयं भवति शत्रु-राजा ) उत्तरोत्तरिणीं करता है और प्रजानां ऐश्वर्यम् आधिपत्यं ह अश्नुते प्रजाओं के ऐश्वर्य तथा आधिपत्य को प्राप्त करता है । सा ० भा ० — पूर्वत्र ‘ क्लृप्तिरसित्यादिमन्त्रेणाभिषिक्तस्य पदत्रयाभ्युत्क्रमेणमैशानीदि-गुपस्थानं चाभिहितंम् । तां दिशंमुपस्थाय, अनन्तरम् ' अमित्राणां ' शत्रूणां ' व्यपनुत्तिं ' विशेषेणापनोदनहेतुम् अत एव व्यपनुत्त्याभिधानाम्, ' अप प्राच ' इत्यादिकामृचं ' ब्रुवन् स्वगृहानमभिगच्छेत् । तस्यामृचि द्वितीयपादे नुदस्वेति श्रवणादियमृगमित्राणां व्यपनुत्तिः । ‘ अस्मै ' एवं गृहमागच्छतोऽस्य यजमानस्य ' सर्वत: ' सर्वासु दिक्षु शत्रुराहित्यलक्षणमभयं भवति । न केवलं भयराहित्यं किंतूत्तरोत्तराभिवृद्धिसम्पत्प्राप्त्युपायादिकमपि । यथोक्तमन्त्रो-च्चारणेन यो गृहानभ्यागतो भवति ॥ गृहप्राप्तेरूर्ध्वं कर्तव्यं विधत्ते— ( गृहप्राप्तेरूर्ध्वं कर्त्तव्यम् ) एत्य गृहान् पश्चात् गृह्यस्याग्नेरुपविष्टायान्वारब्धाय ऋत्विगन्ततः कंसेन चतुर्गृहीतास्तिस्र आज्याहुतीरैन्द्रीः प्रपदं जुहोत्यनार्त्या अरिष्ट्या ( १ ) ऋ ० १०.१३१.१ ।
पृष्ठ 637
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४८ ९ अज्यान्या अभयाय ॥९ ॥
हिन्दी— ( घर जाने के बाद वाले कर्त्तव्य को कह रहे हैं— ) गृहान् एत्य घर को आकर बाद में गृह्यस्य अग्नेः गृह्याग्नि के पश्चाद् उपविष्टाय पीछे बैठकर अन्वारब्धाय ऋत्विक् अन्वारब्ध ( परस्पर स्पर्श किये गये क्षत्रिय ) के लिए ऋत्विक् अन्ततः अन्त में कंसेन काँस्य पात्र से चतुर्गृहीताः चार बार में गृहीत ऐन्द्री इन्द्रदेवताक तिस्रः आज्याहुतीः तीन आज्य की आहुतियाँ अरिष्ट्यै अज्यान्यै अभयाय रोगोत्पन्न- पीड़ाराहित्य, द्रव्य - हानि से रहितता के लिए और चौरादि से निर्भयता के लिए ( सप्तम अनुवाक में पठित तीन मन्त्रों से ) प्रपदं जुहोति प्रपद ( = पादादि वैकल्य से रहित ) होम करता है ॥ सा ० भा०—– ' एत्य ' गृहान् प्रत्यागत्य, योऽयं ' गृह्यः ' गृहे वर्तमान औपासनोऽग्निः, तस्य पश्चाद्भागे ‘ उपविष्टाय ' आसीनाय ऋत्विजे ' अन्वारब्धाय ' उपसृष्टवते क्षत्रियाय तादृशस्य क्षत्रियस्यानार्त्यादिसिद्ध्यर्थम् ' ऋत्विक् ' अध्वर्युः ' अन्ततः ' सर्वप्रयोगान्ते ' कंसेन ' कांस्य-पात्रेण ' चतुर्गृहीताश्चतुर्वारं स्वीकृता ' ऐन्द्री ' इन्द्रदेवताका वक्ष्यमाणैस्त्रिभिर्मन्त्रैतिस्र आ-ज्याहुतीः प्रपदं यथा भवति तथा जुहुयात् । ' प्रपदं ' प्रकृष्टं पदम् । तथा च आहुः— ' पादा यस्यास्तु यावन्तो यावदक्षरसंमिताः । ऋच्यध्ययनमेतेषां प्रपदं तद्विदुर्बुधाः ' ॥ इति । अतः प्रपदशब्देनाक्षरपादादिवैकल्यरहितं लाक्षणिकमुच्चारणमभिधीयते । ‘ अना-र्तिः ' व्याधिपीडाराहित्यम् । ' अरिष्टिः शत्रुभिरहिंसा ' । ' अज्यानिः ' द्रव्यहानिराहित्यम् । ‘ अभयं ’ चोरादिभयराहित्यम् ' ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये अष्टमपञ्चिकायां द्वितीयाध्याये ( सप्तत्रिंशाध्याये ) षष्ठः खण्डः ॥६ ॥ ( १० ) ( २६७ )
॥ इस प्रकार ऐतरेयब्राह्मण के सैंतीसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ सप्तम: खण्ड: सा ० भा ० — उक्ताहुत्यर्थं प्रथमं मन्त्रमाह— ( प्रपदनमाहुतित्रयमन्त्राः ) पर्यूषु प्रधन्व वाजसातये परि वृत्रा, भूर्ब्रह्मा प्राणममृतं प्रपद्य-( १ ) द्र ० तै ० सं ० १.८.१.५ । तै ० ब्रा ० १.७.९ । शत ० ब्रा ० ५.४.३ । कात्या ० श्रौ ० १५.६ । ऐ.ब्रा.उ.- ४०
पृष्ठ 638
पाठ पढ़ें पाठ छिपाएँ
१४ ९ ०: ऐतरेयब्राह्मणम् [ ३७.७ अष्टमपञ्चिकायां तेऽयमसौ शर्मं वर्माभयं स्वस्तये । सह प्रजया सह पशुभिर्णि, सक्षणिर्द्विषस्तरध्या ऋणया न ईयते स्वाहा ॥ १ ॥
हिन्दी— ( अनुवाक ६ में कथित तीन आहुतियों के तीन प्रपद मन्त्रों को कह रहे हैं । उनमें प्रथम होम मन्त्र- ) ( ' पर्यषु प्रधन्व ' इत्यादि ऋचा का द्वितीय पाद ' परि वृत्राणि सक्षणिः ' है । उस द्वितीय पाद के वृत्राणि शब्द में ' वृत्रा ' और ' णि ' के मध्य में ' भूर्ब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्मं वर्माभयं स्वस्तये । सह प्रजया सह पशुभिः ' तक के पदों का प्रक्षेप किया जाता है इस उच्चारण को प्रपद कहा जाता है ) । ( मन्त्रार्थ — ) हे इन्द्र! वाजसातये हमें अन्न देने के लिए परि उषु सभी ओर से प्रधन्व प्रकृष्ट रूप से धारण करो । वृत्राणि परि सक्षणिः शत्रुओं को सभी ओर से निराकरण करने वाले होवो । द्विषः तरध्यै शत्रुओं को मारने के लिए ऋणयाः प्रयत्न करने वाले नः हमारे लिए ईयसे चेष्टा करते हो । ( प्रक्षिप्त पदों का अर्थ - ) अयम् वह असौ यह ( अमुक क्षत्रिय ) भूः ब्रह्म प्राणम् अमृतम् पृथिवी, वेद, प्राण और अमरता को प्रपद्ये प्राप्त करता है । ( शरण में गये हुए इस क्षत्रिय की ) प्रजया पशुभिः सह सन्तान और पशुओं के साथ स्वस्तये कल्याण के लिए शर्म वर्म अभयम् सुख, कवच और निर्भय ( देवतादि रूप स्थान को प्रदान करो ) | सा ० भा ० – अत्र ' पर्यूषु ' इत्यादिकाया ऋचः परि वृत्राणि सक्षणिरिति द्वितीयः पादः ' । तस्मिन् पादे ‘ वृत्राणीति यत्पदं, तस्य पदस्य मध्ये भूरित्यादिकं पशुभिरित्यन्तं पदजातं प्रक्षेपणीयम् । वृत्रेत्येतदक्षरद्वयं पुरस्तात्, णीत्येतत्परस्तात्, मध्ये प्रक्षेपः । अत एवास्योच्चारणस्य प्रपदमिति नाम सम्पन्नम् । प्रक्षिप्तं पदजातं यस्मिन्नुच्चारणे तदुच्चारणं ‘ प्रपदम् ’ । तत्र तावत्संहितायामाम्नाताया ऋचोऽयमर्थ: - हे इन्द्र ' वाजसातये ' अन्नलाभाय । ‘ परि ’ - उषु ' इतिनिपातत्रयसमूहेन परित इत्येतावानेवार्थोऽभिधीयते । ' परितः ' सर्वतः । ‘ प्रधन्व ' प्रकर्षेण धारय । धारणार्थो धन्वतिधातुः अस्मभ्यमन्नं दातुं चित्तं धारयेत्यर्थः । ‘ वृत्राणि ’ शत्रून् परिसक्षणिः ' परितो निराकरिष्णुर्भव । ' सक्षणि ' - धातुरौचित्यान्निराकरणं ब्रूते । ‘ द्विषः ' शत्रून् ' तरध्यै ' तरीतुम् । ' ऋणयाः ' प्रयत्नं प्राप्तः । ' नः ' अस्मदर्थम् ' ईयसे ’ चेष्टसे - इति । अस्यामृचि ‘ वृत्राणीति ' पदस्य मध्ये प्रक्षिप्तस्य भूरित्यदिपशुभिरित्यन्तपद-जातस्यायमर्थः – अयं क्षत्त्रियो ' असौ ' विष्णुगुप्तादिनामको भूरादीन् ‘ प्रपद्यते ’ शरणं ग-च्छति । ‘ भू: ’ पूथिवी । ‘ ब्रह्म ' वेदः । ‘ प्राणः ' प्रसिद्धः । ‘ अमृतं ’ मरणरहितम् । देवतारूपं भूरादिकं शरणं प्रपन्नस्य क्षत्रियस्य ' प्रजया ' पुत्रादिरूपया सह, ' पशुभिः ' गवादिभिश्च सह ' स्वस्तये ' क्षेमार्थं, त्वं ' शमं ' सुखं ' वर्म ' कवचम् ' अभयं भयरहितं देवतादिरूपं स्थां च ( १ ) पर्यूषु प्र धन्व वाजसातये, परि वृत्राणि सक्षणिः द्विषस्तरध्या ॠणया न ईयसे ' - इति ऋ ० ९.११०.१ ।
पृष्ठ 639
पाठ पढ़ें पाठ छिपाएँ
द्वितीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १४ ९ १ कुर्विति शेषः । एतत्सिद्ध्यर्थं ' स्वाहा ' तुभ्यमिदं सुहुतमस्तु ॥ प्रपदनामकं प्रथमं मन्त्रमुक्त्वा तन्नामकं द्वितीयं मन्त्रमाह— अनु हि त्वा सुतं सोम मदामसि महे सम, भुवो ब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये । सह प्रजया सह पशुभि-( भी ) र्य राज्ये वाजां अभि पवमान प्रगाहसे स्वाहा ॥ २ ॥
हिन्दी — ( द्वितीय होम मन्त्र - ) ( पूर्ववर्ती प्रपद मन्त्र के समान यहाँ भी ' अनु हि त्वा सुतं सोम ' से प्रारम्भ ऋचा के द्वितीय पाद ' महे समर्य राज्ये ' के समर्य शब्द में ' सम ’ और ' र्य ' के मध्य में ‘ भुवो ब्रह्म प्राणममृतं प्रपद्येऽयमसौ शर्म वर्माभयं स्वस्तये । सह प्रजया पशुभिः ' तक के पदों का प्रक्षेप किया जाता है ) । ( मन्त्रार्थ - ) पवमान हे सोम! त्वा सुतम् तुम्हारे अभिषुत होने पर अनु मदामसि हमलोग हर्षित होते हैं । समर्थ: हे समर के योग्य ( इन्द्र )! पवमान हे सोम! तुम राज्य में ( इस क्षत्रिय को स्थापित करो ) । वाजान् अन्नों को अभि प्रगाहसे सभी ओर से प्रकृष्ट रूप से सम्पादित करते हो । ( प्रक्षिप्त पदों का अर्थ — ) अयम् असौ यह वह ( अमुक क्षत्रिय ) भुवः ब्रह्म प्राणम् अमृतम् अन्तरिक्ष, वेद, प्राण और अमरता को प्रपद्यते प्राप्त करता है । ( शरण में गये हुए इस क्षत्रिय की ) प्रजया पशुभिः सह प्रजा और पशुओं के साथ स्वस्तये कल्याण के लिए शर्म वर्म अभयम् सुख, कवच और निर्भय ( देवता रूप स्थान को प्रदान करो ) ॥ सा ० भा ० – अत्रापि ' अनुहि त्वेत्येतस्यामृचि ' महे समर्य राज्ये ' इति द्वितीयः पादः ' । तत्र ‘ समर्यं ’ - इति यत्पदं, तस्य समेत्यक्षरद्वयमधस्तात् कृत्वा, येत्येतत्तृतीयमक्षरमुपर्यव-स्थाप्य, भुव इत्यादिकं पदजातं प्रक्षेपणीयम् । तस्या ऋचोऽयमर्थ: - हे सोम, ' सुतम् ' अभिषुतं त्वाम् ‘ अनुमदामसि ' वयं हृष्यामः । समरं युद्धं तमर्हति ' समर्थ: ' शूरः, तथाविध हे इन्द्रः ' महे ' महति राज्ये ' । ' एनं ' क्षत्त्रियं स्थापयेति शेषः । हे ' पवमान ' शोधक ' वाजान् ' अन्नानि ‘ अभिप्रगाहसे ' सर्वतः प्रकर्षेण गाहसे विलोडयसि, सम्पादयसीत्यर्थः । पदमध्ये प्रक्षिप्तस्य पदजातस्याऽऽदौ ‘ भुवः ’ इत्यन्तरिक्षमुच्यते । ब्रह्मेत्यादिकं स्वाहाकारान्तं पूर्ववत् ॥ प्रपदनामकं तृतीयं मन्त्रमाह— अजीजनो हि पवमान सूर्यं विधारे श, स्वर्ब्रह्म प्राणममृतं प्रपद्यतेऽ-यमसौ शर्म वर्माभयं स्वस्तये । सह प्रजया सह पशुभिः, क्मना ( १ ) ' अनु हि त्वा सुतं सोम मदामसि महे समर्य राज्ये । वाजा अभि पवमान प्रगाहसे ' इति ऋ ० ९.११०.२ । ( २ ) पदपाठे तु ‘ समर्यराज्ये'- इत्येकं पदम्; समनुष्यराज्ये इति च तद्व्याख्यानं कृतमनेनै-वाचार्येण संहिताभाष्ये ।
पृष्ठ 640
पाठ पढ़ें पाठ छिपाएँ
१४ ९ २: ऐतरेयंब्राह्मणम् [ ३७.७ अष्टमपञ्चिकायां पयो गोजीरया रंहमाणः पुरं ध्या, स्वाहेति ॥ ३ ॥
हिन्दी – ( तृतीय होम मन्त्र - ) ' अजीजनो हि पवमान ' से प्रारम्भ ऋचा के द्वितीय पाद ‘ विधारे शक्मना पयः ' में ' शक्मना ' पद के ' श ' और ' कमना ' के मध्य में ' स्वर्ब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये । सह प्रजया पशुभिः ' तक के पदों का प्रक्षेप किया जाता है 1 । ( मन्त्रार्थ - ) पवमान हे सोम शोधन करने वाले ( इन्द्र )! सूर्यम् अजीजनः तुमने सूर्य को उत्पन्न किया है । शक्मना पय: विधारे अपनी शक्ति से जल को ( मेघ के मध्य में ) विशेष रूप से धारण करते हो । गोजीरया गायों के जीवन के लिए ( अर्थात् सभी प्राणियों के जीवन के लिए ) रंहमाणः वृष्टि प्रदान हेतु सञ्चरण करते हुए पुरं ध्या सम्पूर्ण फल का ध्यान करो । ( प्रक्षिप्त पदों का अर्थ - ) अयम् असौ यह अमुक ( क्षत्रिय ) स्वः ब्रह्म प्राणम् अमृतम् स्वर्गलोक, वेद, प्राण और अमर ( देवताओं ) को प्रपद्ये प्राप्त करता है । ( शरण में गये हुए इस क्षत्रिय की ) प्रजया पशुभिः सह प्रजा और पशुओं के साथ स्वस्तये कल्याण के लिए शर्म वर्म अभयम् सुख, कवच और निर्भय ( देवता रूप स्थान को प्रदान करो ) ॥ सा ० भा ० — अजीजन इत्यस्यामृचि ' विधारे शक्मना ' - इति द्वितीयः पादः ' । तत्र-त्यस्य ‘ शक्मना ’ – इति पदस्य शेत्येकमक्षरमधस्तादुच्चार्यं, क्मनेत्यक्षरद्वयमुपरिष्टादव-स्थाप्य, मध्ये स्वस्त्यिादिकं पशुभिरित्यन्तं पदजातं प्रक्षेपणीयम् । तस्या ऋचोऽयमर्थः— हे ' पवमान ' शोधकेन्द्र त्वं सूर्यम् ' अजीजनः ' उत्पादितवानसि । ' शक्मना ' स्वशक्त्या ‘ पयः ’ जल ‘ विधारे ’ विशेषेण मेघमध्ये धारयसि । ' गोजीरया ' गवां जीवनेन निमित्तेन ‘ रंहमाणः ' वृष्टिप्रदानार्थं सञ्चरन्, ' पुरं ' पूर्णफलं ' ध्या ' चिन्तय ' । गोजीरयत्युपलक्षण॑म्, सर्वप्राणिजीवननिमित्तमित्यर्थः । अत्रापि शक्मनेतिपदमध्ये प्रक्षिप्तस्य पदजातस्याऽऽदौ स्वरिति द्युलोकोऽभिधीयते । ब्रह्मेत्यादिकं स्वाहाकारान्तं पूर्ववत् । एतेषां प्रपदनामकानां मन्त्राणां लक्षणं पूर्वमेव ‘ पादा यस्यास्त्विति ' श्लोकेनोदाहृतम् । पर्युष्वित्यादिकाया ऋचो मध्ये भूर्ब्रह्म प्राणेत्यादिकाया अस्या ऋचो यावन्तः पादा यावदक्षरसंमिताः, तेषां सर्वेषां पतनं प्रपदमिति तस्य लक्षणवाक्यस्यार्थः ॥ उक्तमन्त्रत्रयसाध्या आहुतीः प्रशंसति— ( मन्त्रत्रयसाध्याहुतिप्रशंसनम् ) अनार्तो ह वा अरिष्टोऽजीतः सर्वतो गुप्तस्त्रय्यै विद्यायै रूपेण सर्वा दिशोऽ नुसञ्चरत्यैन्द्रे लोके प्रतिष्ठितो यस्मा एता ऋत्विगन्ततः कंसेन ( १ ) ' अजीजनो हि पवमान सूर्यं, विधारे शक्मना पयः । गोजीरया रंहमाणः पुरंध्या'- इति ऋ ० ९.११०.३ । ( २ ) ' पुरन्ध्या = बहुविध प्रज्ञानेन ' - इति सायणः संहिताभाष्ये ।