ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 651–660
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 651–660
पृष्ठ 651
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५०३ ( आसन्दी पर बैठा है । सा ० भा ० – ‘ धृतव्रतः ' स्वीकृतनियमो ' वरुणः ' सर्वस्थानिष्टस्य निवारयितेन्द्रः, ‘ पस्त्स्यासु ’ गृहेष्वागत्य, साम्राज्यादिफलसिद्ध्यर्थं ' सुक्रतुः ' शोभनसङ्कल्पो भूत्वा ' निष-साद ' अस्यासन्द्यां निषष्णवान् ॥ अनेन मन्त्रेणाभिमन्त्रितस्येन्द्रस्याभिषेकप्रकारं दर्शयति— ( अभिमन्त्रितस्येन्द्रस्याभिषेकप्रकारः ) तमेतस्यामासन्द्यामासीनं प्रजापतिः पुरस्तात्तिष्ठन् प्रत्यङ्मुख औदु-म्बर्याऽऽर्द्रया शाखा सपलाशया जातरूपमयेन च पवित्रेणा-न्तर्धायाभ्यषिञ्चद्, इमा आपः शिवतमा इत्येतेन तृचेन, देवस्य त्वेति च यजुषा, भूर्भुवः स्वरित्येताभिश्च व्याहृतिभिः ॥ २ ॥
( हिन्दी - ( उपर्युक्त मन्त्र से अभिमन्त्रित इन्द्र के अभिषेक की विधि को दिखला रहे हैं— ) एतस्यामासन्द्याभासीनं तम् इस ( पूर्वोक्त ) आसन्दी पर बैठे हुए उस ( इन्द्र ) को प्रत्यङ्मुखः ( पूर्व दिशा में खड़े होकर ) पश्चिम मुख करके पुरस्तात् तिष्ठन् सम्मुख खड़े प्रजापतिः प्रजापति ने सपलाशया औदुम्बर्या आर्द्रया शाखया पत्ते सहित गूलर की गीली शाखा से और जातमयेन पवित्रेण च सुवर्ण - निर्मित पवित्र से अन्तर्धाय व्यवधान करके ' इमा आपः शिवतमा ' इति तृचेन इस तृच से, ' देवस्य त्वा ' इति यजुषा इस यजुष् से और ‘ भूर्भुवः स्वः ' इति एताभिः व्याहृतिभिः च इन व्याहृतियों से अभ्यषिञ्चत् अभिषिक्त किया ॥ सा ० भा ० – ' एतस्यां ' पूर्वोक्तायां वेदमय्यामासन्द्यामासीनं ' तम् ' ' इन्द्रं प्रजापति-रभ्यषिञ्चत् । किं कुर्वन्? ‘ पुरस्तात्'आसन्द्याः पूर्वस्यां दिशि प्रत्यङ्मुखस्तिष्ठन् । किं कृत्वा? ‘ आर्द्रया ' आर्द्रपत्रोपेतयोदुम्बरशाखया सुवर्णमयेन च पवित्रेण ' अन्तर्धाय ' व्य-वधानं कृत्वा । केन मन्त्रेण? ' इमा आपः शिवतमा ' इत्यादिकेन, क्रत्वङ्गाभिषेके प्रोक्तेन त्रिविधेन मन्त्रजातेन ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मण-भाष्ये अष्टमपञ्चिकायां तृतीयाध्याये ( अष्टात्रिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( १३ ) ( २७० )
॥ इस प्रकार ऐतरेयब्राह्मण के अड़तीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 652
पाठ पढ़ें पाठ छिपाएँ
१५०४: ऐतरेयब्राह्मणम् [ ३८.३ अष्टमपञ्चिकायां तृतीयः खण्डः सा ० भा ० - इन्द्रस्य प्रजापतिकृताभिषेकादूर्ध्वं दिग्भेदेन देवविशेषैरभिषेकः कृतः । तत्र प्राच्यां दिशि तमभिषेकं दर्शयति— ( इन्द्रस्य प्राच्यां दिशि कृताभिषेककथनम् ) अथैनं प्राच्यां दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभि-रभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्रा-ज्याय ॥ १ ॥
हिन्दी — ( प्रजापति द्वारा किये गये अभिषेक के बाद दिशा - विशेष के अभिमानित देव - विशेषों द्वारा किये गये अभिषेक को कह रहे हैं । इनमें से पूर्व दिशा में किये गये इन्द्र के अभिषेक को कहा जा रहा है — ) अथ अब ( प्रजापति द्वारा किये गये अभिषेक के बाद ) प्राच्यां दिशि पूर्व दिशा में वसवः देवाः वसु देवताओं ने षड्ड्भिः चैव पञ्चविंशैः अहोभिः छः और पच्चीस अर्थात् इकतीस दिनों तक साम्राज्याय साम्राज्य - प्राप्ति के लिए एतेनैव तृचेन इसी ' इमा आप: ' तृच से, एतेन च यजुषा इसी ( ' देवस्य त्वा ' ) यजुष् से और ‘ एताभिश्च व्याहृतिभिः ’ इन्हीं ( ' भूर्भुव: स्व: ' ) व्याहृतियों से अभिषिञ्चन् अभिषिञ्चित किया ॥ सा ० भा०- -‘अथ ' प्रजापत्यभिषेकानन्तरम् ' एनम् ' इन्द्रं प्राच्या दिश्यवस्थिता वसवो देवा एकत्रिंशत्स्वहःसु पूर्वोक्तैर्मन्त्रैरभ्यभिञ्चन् । तच्च साम्राज्यसिद्धये भवति ॥ इदानींतनलौकिकाचारप्रदर्शनेनेन्द्रस्य प्राच्यां दिशि तमभिषेकं द्रढयति— तस्मादेतस्यां प्राच्यां दिशि ये के च प्राच्यानां राजानः साम्राज्यायैव तेऽभिषिच्यन्ते सम्राळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ॥ २ ॥
हिन्दी – ( पूर्व दिशा में किये गये अभिषेक को दृढ़ कर रहे हैं — ) तस्मात् इसी कारण एतस्यां प्राच्यां दिशि इस पूर्व दिशा में ये के च प्राच्यानां राजानः जो कोई भी प्राचीन राजा हैं, ते वे सभी साम्राज्याय साम्राज्य प्राप्ति के लिए एतां देवानाम् इन्हीं ( वसु ) देवताओं के विहितिम् अनु विधान के अनुसार अभिषिच्यन्ते अभिषिक्त किये जाते हैं । एनान् अभिषिक्तान् इन अभिषिक्त ( राजाओं ) को समाड् इति आचक्षते सम्राट् कहा जाता है ॥ · सा ० भा ० - यस्माद्वसुभिः प्राच्यां दिश्यभिषेकः कृतः, ' तस्मात् ' इदानीमपि ‘ प्रा-च्यानां ' पूर्वदिग्वर्तिनां मनुष्याणां ये के च राजानः सन्ति, ते सर्वेऽपि ' देवानां ' च वसूनां च
पृष्ठ 653
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५०५ सम्बन्धिनीम् ‘ एतामेव विहितिं ' पूर्वोक्तमेव विधानमनु ' साम्राज्याय ' साम्राज्यसिद्ध्यर्थम-भिषिच्यन्ते । अत एवाभिषिक्तान् ' एनान् ' राज्ञः सम्राळित्यनेन शब्देन व्यवहरन्ति ॥ दिगन्तरेऽपि देवान्तरैरिन्द्राभिषेकं दर्शयति— ( दिगन्तरेऽपि देवान्तरैरिन्द्राभिषेककथनम् ) अथैनं दक्षिणस्यां दिशि रुद्रा देवाः षड्भिश्चैव पञ्चविंशैरहो-भिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भोज्याय तस्मादेतस्यां दक्षिणस्यां दिशि ये के च सत्वतां राजानो भौज्यायैव तेऽभिषिच्यन्ते भोजेत्येनानभिषिक्तांनाचक्षत एतामेव देवानां विहिति-मन्वथैनं प्रतीच्यां दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्य-षिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्याय तस्मादेतस्यां प्रतीत्यां दिशि ये के च नीच्यानां राजानो येऽपाच्यानां स्वराज्यायैव तेऽभिषिच्यन्ते स्वराळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमुदीच्यां दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्या-हृतिभिर्वैराज्याय तस्मादेतस्यामुदीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैव तेऽभिषिच्यन्ते विराळि-त्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय तस्मादस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च • कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव तेऽभिषिच्यन्ते राजत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमूर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्ने-तेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः पारमेष्ठ्याय माहा-राज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठायेति स परमेष्ठी प्राजा-पत्योऽभवत् ॥ ३ ॥
हिन्दी - ( अन्य दिशाओं में भी अन्य देवताओं द्वारा किये गये इन्द्र के अभिषेक को दिखला रहे हैं — ) अथ इसके बाद एनम् इस ( इन्द्र ) को दक्षिणस्यां दिशि दक्षिण दिशा में रुद्राः देवाः रुद्र देवताओं ने षड्भिः च पञ्चाविंशैः अहोभिः छः और पच्चीस अर्थात्. इकतीस दिनों तक भौज्याय भोग - समृद्धि के लिए एतेन च तृचेन इसी ( ' इमा आप: ' ) ऐ.ब्रा. उ. - ४१.
पृष्ठ 654
पाठ पढ़ें पाठ छिपाएँ
१५०६: ऐतरेयब्राह्मणम् [ ३८.३ अष्टमपञ्चिकायां तृच से, एतेन च यजुषा इसी ( ' देवस्य त्वा ' ) यजुष् से और एताभिः च व्याहृतिभिः · इन्हीं ( भूर्भुवः स्वः ) व्याहृतियों से अभ्यषिञ्चन् अभिषिञ्चन किया । तस्मात् इसी कारण एतस्यां दक्षिणस्यां दिशि इस दक्षिण दिशा में ये के च सत्वतां राजानः जो कोई भी सत्व नामक दक्षिणात्यों के राजा हैं, ते वे एतामेव देवानां विहितमनु इन्हीं ( रुद्र ) देवताओं की विधि के अनुसार भोज्याय भोग - समृद्धि के लिए अभिषिच्यन्ते अभिषिञ्चन किये जाते हैं | एनान् अभिषिक्तान् इन अभिषिक्त ( राजाओं ) को भोज इति आचक्षते भोज कहा जाता है । अथ इसके बाद प्रतीच्यां दिशि पश्चिम दिशा में आदित्या देवाः आदित्य देवों ने एनम् इस ( इन्द्र को ) षड्भिः च पञ्चविंशैः अहोभिः छः और पच्चीस अर्थात् इकतीस दिनों तक एतेन च तृचेन इसी ( ' इमा आप: ' ) तृच से, एतेन च यजुषा इस ( ‘ देवस्य त्वा ' ) यजुष् से और एताभिः च व्याहृतिभिः इन्हीं ( ' भूर्भुवः स्वः ' ) व्याहृतियों से स्वाराज्याय स्वाराज्य के लिए अभ्यषिञ्चन् अभिषिञ्चन किया । तस्मात् इसी कारण प्रतीच्यां दिशि पश्चिम दिशा में ये के च नीच्यानां नीच्यों के और ये अपाच्यानाम् जो अपाच्यों के राजानः राजा हैं, ते वे ( राजा ) एतामेव देवानां विहितमनु इन्हीं ( आदित्य ) देवताओं की विधि के अनुसार स्वाराज्याय स्वाराज्य के लिए अभिषिच्यन्ते अभिषिञ्चन किये जाते हैं । एनान् अभिषिक्तान् इन अभिषिक्त ( राजाओं ) को स्वाराड् इति आचक्षते . स्वराट् कहा जाता है । अथ इसके बाद उदीच्यां दिशि उत्तर दिशा में विश्वेदेवाः विश्वेदेवों ने एनम् इस ( इन्द्र ) को षड्भिः च पञ्चविंशै अहोभिः छः और पच्चीस अर्थात् इकतीस दिनों तक वैराज्याय वैराज्य ( प्रभुसत्ता ) के लिए एतेन तृचेन इसी ( ' इमा आप: ' ) तृच से, एतेन यजुषा इसी ( ' देवस्य त्वा ' ) यजुष् से और एताभिश्च व्याहृतिभिः इन्हीं ( भूर्भुवः स्वः ) व्याहृतियों से अभ्यषिञ्चन् अभिषिञ्चन किया । तस्मात् इसी कारण उदीच्यां दिशि उत्तर दिशा में ये के च जो कोई ( राजा ) हिमवन्तं परेण हिमालय के ऊपर स्थित उत्तरकुरवः उत्तरमद्राः जनपदाः उत्तर कुरु और उत्तरमद्र ग्राम - विशेषों के हैं, वे वैराज्याय वैराज्य ( प्रभुसत्ता ) के लिए एतामेव देवानां विहितम् अनु इन्हीं ( विश्वेदेव ) देवताओं की विधि के अनुसार अभिषिच्यन्ते अभिषिञ्चन किये जाते हैं । एनान् अभिषिक्तान् इन अभिषिक्त ( राजाओं ) को विराड् इति आचक्षते विराट् कहा जाता है । अथ इसके बाद अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि इस मध्य की निश्चल और प्रतिष्ठित दिशा में साध्याश्च आप्त्याश्च देवाः साध्य और आप्त्य देवताओं ने एनम् इस ( इन्द्र ) को राज्याय राज्य ( स्वामित्व ) के लिए षड्भिश्चैव पञ्चाविंशैः अहोभिः छः और पच्चीस अर्थात् इकतीस दिनों तक एतेन तृचेन इसी ( ' इमा आप: ' ) तृच से एतेन यजुषा इसी ( ‘ देवस्य त्वा ' ) यजुष् से और एताभिः व्याहृतिभिः इन्हीं ( भूर्भुवः स्वः )
पृष्ठ 655
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५०७ व्याहृतियों से अभ्यषिञ्चन् अभिषिञ्चन किया । तस्मात् इसी कारण अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि इस मध्यम निश्चल और प्रतिष्ठित दिशा में ये के च जो कोई कुरुपाञ्चालानां सवशोशीनराणां राजानः वश और उशीनरों के साथ कुरु और पाञ्चालों-के राजा हैं, ते वे एतामेव देवानां विहितम् अनु इन ( साध्य और आप्त्य ) देवताओं की विधि के अनुसार राज्याय राज्य के लिए अभिषिच्यन्ते अभिषिञ्चन किये जाते हैं । एतान् अभिषिक्तान् इन अभिषिक्त ( राजाओं ) को राजा इति आचक्षते राजा कहा जाता है । अथ इसके बाद ऊर्ध्वायां दिशि ऊपर की दिशा में मरुतश्च अङ्गिरसश्च देवाः मरुत् और अङ्गिरा देवताओं ने एनम् इस ( इन्द्र ) को षड्भिः चैव पञ्चाविंशैः अहोभिः छः और पच्चीस अर्थात् इकतीस दिनों तक पारमेष्ठ्याय प्रजापति के स्थान की प्राप्ति के लिए महाराज्याय महान् समृद्धि की प्राप्ति के लिए आधिपत्याय स्वतन्त्रता के लिए आतिष्ठाय चिरकाल तक इस लोक में वास के लिए एतेन च तृचेन इसी ( ' इमा आप: ' ) तृच से, एतेन यजुषा इसी ( ' देवस्य त्वा ' ) यजुष् से और एताभिः व्याहृतिभिः इन्हीं ( भूर्भुवः स्वः ) व्याहृतियों से, अभ्यषिञ्चन् अभिषिञ्चन किया । इस अभिषेक से सः वह ( इन्द्र ) परमेष्ठी प्राजापत्यः अभवत् परम पद पर अवस्थित होकर प्रजापति से सबन्धित हो गया ॥ सा ० भा ० – प्रथमपर्यायवद् व्याख्येयम् । ' सत्वतां ' दक्षिणस्यां दिशि वर्तमानाः प्राणिनः सत्वन्नामकाः १, तेषां ये राजानोऽभिषिक्तास्ते ' भोज ' ' इति ' अनेन शब्देन व्याहि-यन्ते । प्रतीच्यां दिशि वर्तमानाः प्राणिनो नीच्या अपाच्याश्चर । निकर्षमञ्चन्तीति ' नी-च्याः ’ । अपकर्षमञ्चन्तीति ' अपाच्या: ' । जात्या निकर्षः । व्यवहारेणापकर्षः । उभयविधानां प्राणिनां ये राजानः सन्ति, ते ' स्वराडिति ' अनेन शब्देन व्यवह्रियन्ते । उदीच्यां दिशि ' हिमवन्तं परेण ' हिमवत्पर्वतपरभागे ' जनपदाः ' ग्रामविशेषाः ' उत्तरकुरुवः ' उत्तरकुरु-नामका: े, ‘ उत्तरमद्राः ’ उत्तरमद्रनामकाः सन्ति, तत्रत्या राजानो ' विराट् ' ' इति ' अनेन शब्देन व्यवह्रियन्ते । ‘ मध्यमा दिक् ' मध्यदेशः । स च प्राच्यादिभिर्दिग्भिः सर्वाभिरपेक्षितत्वेन ( १ ) तदेतद् गाथयाभिगीतम्— ‘ शतानीकः समन्तासु मेध्यं सात्राजितो हयम् । आदत्त यज्ञं काशीनां भरतः सत्वतामिव ' ॥ इति । इति शतब्रा ० ( २ ) उड्ड्राः कुन्तलाश्च अपाच्याः - इति हे ० अभि ० चि ० ९ ६१ । ( ३ ) द्र ० - अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् । उत्तरान् वा कुरुन् पुण्यानथ वाप्यमरावतीम् ॥ इति महाभा ० नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय । स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥ इति १३.५.४.२१ । १३.२८.४१ च तत्रै ० २ ९.५८
पृष्ठ 656
पाठ पढ़ें पाठ छिपाएँ
१५०८: ऐतरेयब्राह्मणम् [ ३८.३ अष्टमपञ्चिकायां ' ध्रुवः ' भवति । तदपेक्षयैव पूर्वा पश्चिमेत्यादिव्यवहारः । स च देशः सर्वेषां वैदिकाना-माश्रयः । तत्र ते वशदेशैः उशीनरदेशैश्च सहिताः कुरुपञ्चालंदेशाः सन्ति, तेषां देशानां ये राजानः, ते ‘ राजा ’ ‘ इति ’ अनेन शब्देन व्यवह्रियन्ते । ' ऊर्ध्वायां दिशि ' स्वर्गरूपायाम्, मनुष्यस्य सञ्चाराभावात्तत्र राजानो नोदाहृताः । किंत्विन्द्रस्यैवाभिषेक उक्तः । तस्यां दिश्यभिषेकेण ‘ सः ’ इन्द्र: ' परमेष्ठी ' परमपदेऽवस्थितः, ' प्राजापत्यः ' प्रजापतिसम्बन्धी ' अभवत् ' ॥ कृत्स्नमिन्द्राभिषेकं निगमयति— ( इन्द्राभिषेकस्य निगमनम् ) स एतेन महाभिषेकेणाभिषिक्त इन्द्रः सर्वा जितीरजयत् सर्वांल्लोका-नविन्दत् सर्वेषां देवानां श्रैष्ठ्यमतिष्ठां परमतामगच्छत् साम्राज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यं जित्वाऽस्मिँल्लोके स्वयंभूः स्वराळमृतोऽमुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत्, समभवत् ॥४ ॥
हिन्दी - ( सम्पूर्ण इन्द्राभिषेक का निगमन कर रहे हैं— ) एतेन महाभिषेकेण इस महाभिषेक से अभिषिक्तः सः इन्द्रः अभिषिक्त हुए उस इन्द्र ने सर्वा जिती: अजयत् जीतने योग्य सभी ( युद्धों ) को जीता, सर्वान् लोकान् अविन्दत् सभी लोकों को प्राप्त किया, सर्वेषां देवानाम् सभी देवताओं में श्रेष्ठ्यम् अतिष्ठां परमताम् श्रेष्ठता, सर्वोपरि पद और ( गुणों की ) उत्कृष्टता को अगच्छत् प्राप्त किया । अस्मिन् लोके साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यं आधिपत्यम् इस पृथिवीलोक में साम्राज्य को, भोग - समृद्धि को, स्वाराज्य को, वैराज्य को, प्रजापति लोक को, राज्य को, महदैश्वर्य को और आधिपत्यं को जित्वा जीतकर ( प्राप्त कर ) स्वयंभूः स्वराट् अमृतः प्रजापति रूप स्वतन्त्र राजा और अमर ( देवता ) होकर अमुष्मिन् स्वर्गे लोके उस स्वर्ग लोक में सर्वान् कामान् आप्त्वा सभी कामनाओं को प्राप्त करके अमृतः समभवत् अमर हो गया । सा ० भा ० — पूर्वोक्ताभिषेकेणाभिषिक्त इन्द्रो ' जिती: ' जेतव्याः सर्वा युद्धभूमीरज-यत् । तेन जयेन सवीँल्लोकान् ' अविन्दत् ' अलभत । देवानां मध्ये ‘ श्रेष्ठ्यम् ’ अतिशयेन प्रशस्तत्वम्, ‘ अतिंष्ठां ’ सर्वानतिक्रम्यावस्थानं ' परमताम् ' उत्कृष्टत्वमगच्छत् । जातित उत्तमत्वं श्रैष्ठ्यम् । गुणैरुत्तमत्वं परमत्वम् । साम्राज्यादीनि पदान्यस्मिँल्लोके ‘ जित्वा ’ ( ४ ) वश इत्यस्यैवाक्षरविपर्ययेणेकारद्वययोगेन च महाभारतादौ प्रसिद्धाः किं शिविरिति: तथा ह्यादिपर्वणि ‘ शिविरौशीनरः ' – इति ३६.६ ९ ।
पृष्ठ 657
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५० ९ प्राप्य, स्वयंभूः प्रजापतिरूपः, ' स्वराट् ' स्वतन्त्रराजः, ' अमृत: ' इतरमनुष्यवदल्पकाले मरणरहितः सन् ‘ अमुष्मिन् ' परोक्षे स्वर्गे लोके सर्वान् ' कामान् ' भोगान् प्राप्य ' अमृतः ’
मरणरहितः मुक्तः समभवत् । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये अष्टमपञ्चिकायां तृतीयाध्याये ( अष्टात्रिंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( १४ ) ( २७१ )
॥ इस प्रकार ऐतरेयब्राह्मण के अड़तीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधर-माधवाचार्यादेशतो श्रीमत्सारणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाशे ' नामभाष्ये ऐतरेय ब्राह्मणभास्ये अष्टमपञ्चिकायाः तृतीयाध्यायः ( अष्टात्रिंशोऽध्यायः ) ॥३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के अड़तीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 658
पाठ पढ़ें पाठ छिपाएँ
अथाष्ठमपञ्चिकायां चतुर्थोऽध्यायः [ अथ एकोनचत्वारिंशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्- पुरुषार्थाभिषेकार्थमादावैन्द्राभिषेचनम् ।
उक्तमत्र पुमर्थोऽयमभिषेक उदीर्यते ॥१ ॥
तमभिषेकं विधत्ते— ( क्षत्रियराज्ञः महाभिषेकः ) स य इच्छेदेवंवित् क्षत्त्रियमयं सर्वा जितीर्जयेतायं सवीँल्लोकान् विन्देतायं सर्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां गच्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुष आऽन्तादा परार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराळिति तमेतेन्द्रेण महाभिषेकेण क्षत्त्रियं शापयित्वाऽभिषिञ्चेत् ॥ १ ॥
हिन्दी – ( अब क्षत्रिय पुरुष के लिए अभिषेक का विधान कर रहे हैं - ) यः एवंविद् इच्छेत् जो इस प्रकार ( इन्द्र के महाभिषेक को जानने वाला आचार्य पुरोहित यदि यह ) इच्छा करे कि अयं क्षत्रियः यह क्षत्रिय सर्वा जितीः जयेत सभी जीतने योग्य ( भूमि ) को जीते, अयं सर्वान् लोकान् विन्देत् यह सभी लोकों ( देशों ) को प्राप्त करे, अयं सर्वेषां राज्ञाम् सभी राजाओं में श्रैष्ठ्यम् अतिष्ठां परमतां गच्छेत् श्रेष्ठता, उत्कृष्टता और सर्वव्याप्यता को प्राप्त करे तथा साम्राज्यं भौज्यं स्वाराज्यं, वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यं आधिपत्यम् साम्राज्य, भोग, स्वाराज्य, वैराज्य, प्रजापति के लोक, राज्य, महदैश्वर्य और आधिपत्य को प्राप्त करे, समन्तपर्यायी स्यात् सर्वत्र विख्यात होवे, सार्वभौमः सर्वायुषः समस्त राज्यसभा का स्वामी और सम्पूर्ण आयु वाला तथा आपरार्धात् आऽन्तात् समुद्रपर्यन्तायाः पृथिव्यै आयुपर्यन्त एक छोर से दूसरे छोर तक समुद्रपर्यन्त पृथिवी का एकराट् अकेले राजा हो तो सः वह ( आचार्य पुरोहित ) तं क्षत्रियम् उस क्षत्रिय को एतेन ऐन्द्रेण महाभिषेकेण इस ( अष्टात्रिंश अध्याय में प्रोक्त ) इन्द्र - सम्बन्धी महाभिषेक से शापयित्वा शपथ दिलाकर अभिषिश्चेत् अभिषिक्त करें ।!. सा ० भा ० - ' एवंविद् ' इन्द्रसम्बन्धिमहाभिषेकविद् ' य: ' आचार्यः क्षत्त्रियं प्रति सर्वजयादिफलमिच्छेत् । ‘ सः ’ आचार्यः क्षत्रियमेतं ' शापयित्वा ' शपथं कारयित्वा ‘ एतेन ’
पृष्ठ 659
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः प्रथमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १५११ पूर्वोक्तेनेन्द्रसम्बन्धिना महाभिषेकविधानेन ' तं ' क्षत्त्रियमभिषिञ्श्चेत् । कीदृशी फले-च्छेति? सोऽभिधीयते — ‘ अयं ' क्षत्रियो जेतव्याः सर्वा युद्धभूमीर्जयेत् । तथा ' सवल्लो-कान् ’ देश - विशेषाल्लँभेत । ' सर्वेषां ' राज्ञां मध्ये श्रैष्ठयाद्याधिपत्यान्तगुणयुक्तो भवेत् । ‘ समन्तपर्यायी ’ देशतः कालतः सर्वव्यापी स्यात् । ' आ अन्तात् ' समुद्रतीरपर्यन्तं सार्वभौमत्वं देशव्याप्तिः ‘ आपरार्धात् ’ परार्धशब्दाभिधेयकालसंख्यापर्यन्तं सर्वायुषत्वं कालव्याप्तिः । एवंविधो भूत्वा समुद्रपर्यन्ताया पृथिव्या एक एव राजा अस्तु; ' इति ' अनयेच्छयाऽऽचार्यो महाभिषेकेण तमभिषिञ्चेत् ॥ शापयित्वेति यदुक्तं तमेव शपथप्रकारं दर्शयति— ( अभिषेचनीय क्षत्रियस्य शपथप्रकारकथनम् ) यां च रात्रीमजायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीयं यदि मे द्रुह्येरिति ॥२ ॥
हिन्दी – ( क्षत्रिय की शपथ - विधि को बतला रहे हैं - ) ( हे अभिषिक्त किये जाते हुए क्षत्रिय! तो ) यदि मे द्रुह्येः यदि तुम मुझ ( आचार्य ) से द्रोह करोगे तो यां च रात्रीं जायेथाम् जिस रात्रि में तुमने जन्म लिया है और यां च प्रेता असि जिस ( रात्रि ) में तुम मृत्यु को प्राप्त करोगे, तदुभयम् अन्तरेण उन दोनों के मध्य में ते इष्टापूर्तम् तुम्हारे इष्ट ( श्रौतकर्म फल ) और पूर्त ( स्मार्तकर्म फल ) को तथा लोकं सुकृतम् आयुः प्रजां वृञ्जीयम् लोक ( के पुण्य ) को, सत्कर्म को, आयु को और प्रजा को ( तुमसे ) वर्जित कर दूँगा, ( इस शपथ को लेने के बाद क्षत्रिय का अभिषेक करना चाहिए ) ॥ सा ० भा ० — अभिषिच्यमान, हे क्षत्रिय, यद्याचार्याय मे ' दुह्ये: ' द्रोहं कुर्या:, तदानीं त्वं ‘ यां रात्रिमजायेथाः ’ यस्यां रात्रावुत्पन्नोऽसि, ' यां च रात्रिं प्रेतासि ' यस्यां रात्रौ मरि-ष्यसि, तदुभयमन्तरेण उत्पत्तिमरणदिनयोर्द्वयोर्मध्ये ' ते ' तव ‘ इष्टापूर्तं ' श्रौतस्मार्तकर्मद्वयं, तथा पुण्यलोकं, तद्धेतुभूतमन्यदपि सुकृतं, दीर्घमायुः, ' प्रजां ' पुत्रादिकां ' वृञ्जीयं ' त्वत्तो
वर्जयेयम् ‘ इति ’ एतदाचार्यस्य वाक्यम् । तदेतदङ्गीकारयित्वा पश्चादभिषिञ्चेत् ॥
आचार्यः क्षत्त्रियार्थं यादृशीं फलपरम्परां कामयित्वा शपथं कारयति । क्षत्त्रियोऽपि तादृशीं फलपरम्परां कामयमानः शपथं कुर्यात् । तदेतत्क्षत्त्रियवाक्यं दर्शयति— क्षात्रियस्य कामनानुसारोक्तिः ) स य इच्छेदेवंवित् क्षत्रियोऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान् विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठां परमतां गच्छेयं साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वभौमः सर्वायुष आऽन्तादा परार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराळिति, स न विचिकित्सत्, स ब्रूयात् सह
पृष्ठ 660
पाठ पढ़ें पाठ छिपाएँ
१५१२: ऐतरेयब्राह्मणम् [ ३ ९.१ अष्टमपञ्चिकायां श्रद्धया, यां च रात्रीमजायेऽहं, यां च प्रेतास्मि, तदुभयमन्तरेणेष्टापूर्तं मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते गुह्येयमिति ॥३ ॥
हिन्दी — ( क्षत्रिय की कामनानुसार उक्ति — ) सः यः एवंवित् क्षत्रियः वह जो इस प्रकार ( इस महाभिषेक के महत्त्व को ) जानने वाला क्षत्रिय इच्छेत् यदि इच्छा करें कि अहं सर्वा जितीः जयेयम् मैं सभी जीतने योग्य ( युद्धों ) को जीत लूँ, अहं सर्वान् लोकान् विन्देयम् मैं सभी लोकों को प्राप्त करूँ, अहं सर्वेषां राज्ञाम् मैं सभी राजाओं में श्रेष्ठ्यम् अतिष्ठां परमता गच्छेयम् श्रेष्ठता, उत्कृष्टता और बड़प्पनं को प्राप्त करूँ, साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यम् आधिपत्यम् मैं साम्राज्य, भोग, स्वातन्त्रत्व, प्रभुत्व, प्रजापति के लोक, राज्य, महदैश्वर्य और सर्वस्वामित्व को ( प्राप्त करूँ ), अहं समन्तपर्यायी स्याम मैं सर्वत्र विख्यात होऊँ, सार्वभौमः सर्वायुषः सार्वभौम ( समस्त पृथिवी का स्वामी ) और सम्पूर्ण आयु वाला होऊँ, आऽन्ताद् आप-रार्धात् समुद्रपर्यन्तायै पृथिव्यै एकराट् तथा एक छोर से दूसरे छोर तक समुद्रपर्यन्त पृथिवी का आजीवन अकेला स्वामी रहूँ तो सः न विचिकित्सेत् वह ( क्षत्रिय आचार्य के शपथ - कथन में ) शंसय न करे । सः श्रद्धया सह ब्रूयात् वह श्रद्धापूर्वक ( आचार्य से ) कहे कि ( हे आचार्य! ) यदि ते द्रुह्येयम् यदि मैं तुमसे द्रोह करूँ तो यां रात्रीम् अहम् अजाये जिस रात्रि में मैंने जन्म लिया है और यां च प्रेता अस्मि जिस ( रात्रि ) में मैं मरूँगा, तदुभयमन्तरेण उन दोनों के मध्य में मे इष्टापूर्तम् मेरे इष्ट ( श्रौतकर्म फल ) और पूर्त ( स्मार्तकर्म फल ) को तथा लोकम् सुकृतम् आयुः प्रजाम् लोक, सुकृत, आयु और प्रजा को वृञ्जीथा हमसे दूर कर देना ॥ सा ० भा ० — ‘ य: ’ क्षत्त्रियः ' एवंवित् ' महाभिषेकमाहात्म्याभिज्ञः, सर्वजयादिकं समुद्रपर्यन्तं, पृथिव्यामेकंराजत्वपर्यन्तं फलजातिमिच्छेत् । पूर्वत्राऽऽचार्यवाक्यत्वाज्जयेत विन्देतेत्यादिप्रथमपुरुषप्रयोगः । अत्र तु क्षत्रियवाक्यत्वाज्जयेयमित्याद्युत्तमपुरुषप्रयोगः । ‘ सः ’ क्षत्त्रियः फलकामी ‘ न विचिकित्सेत् ' आचार्योक्तेऽर्थे संशयं न कुर्यात् । ' स ' क्षत्त्रियः आचार्यस्याभीष्टं शपथमेवं कुर्यात् — हे आचार्य, अहं यदि ते द्रुह्येयम्, तदानीं त्वं मम जन्ममरणमध्यवर्तीष्टापूर्तादिकं सर्वं ' वृञ्जीथा: ' नाशये:, इति श्रद्धया सहितं शपथं ब्रूयात् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये अष्टमपञ्चिकायां चतुर्थाध्याये ( एकोनचत्वारिंशाध्याये ) प्रथमः खण्डः || १ || ( १५ ) ( २७५ ) ॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥