ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 661–670
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 661–670
पृष्ठ 661
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः द्वितीयः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १५१३ द्वितीयः खण्डः सा ० भा ० – सम्भारान् विधत्ते— ( क्षत्रियाभिषेकार्थं सम्भारविधानम् ) ( तत्र वृक्षचतुष्टयविधानम् ) अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि सम्भरत- -नैयग्रोधान्यौ-दुम्बराण्याश्वत्थानि प्लाक्षाणीति ॥ १ ॥
हिन्दी— ( क्षत्रिय के अभिषेक के उपयुक्त सम्भारों का विधान कर रहे हैं— ) अथ - इस ( क्षत्रिय के शपथ ) के बाद ततः तब ब्रूयात् ( आचार्य परिचारकों से ) कहे कि ( हे परिचारको! ) न्यग्रोधानि औदुम्बराणि अश्वत्थानि प्लाक्षाणि बरगद, गूलर, पीपल और पकड़ी - चतुष्टयानि वानस्पत्यानि इन चार वनस्पतियों से सम्बन्धित ( फलों ) को सम्भरत एकत्रित करो ॥ सा ० भा ० - ' अथ ' क्षत्त्रियशपथानन्तरम्, यत् आचार्येणाभिषेकः कर्तव्यः, ' तत: ’ कारणादाचार्यः परिचारकान् ब्रूयात् — वनस्पतिसम्बन्धीनि न्यग्रोधादीनि फलानि चतुर्विधानि हे परिचारकाः सम्पादयतेति ॥ तत्र वृक्षचतुष्टयं क्रमेण प्रशंसति— ( वृक्षचतुष्टयस्य क्रमेण प्रशंसनम् ) क्षत्त्रं वा एतद्वनस्पतीनां यन्यग्रोधो; यन्नैयग्रोधानि सम्भरन्ति, क्षत्त्रमेवास्मिंस्तद्दधाति; भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरो; यदौदुम्बराणि सम्भरन्ति, भौज्यमेवास्मिंस्तद्दधाति; साम्राज्यं वा एतद्वनस्पतीनां यदश्वत्थो; यदाश्वत्थानि सम्भरन्ति, साम्राज्यमेवा-स्मिंस्तद्दधाति; स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षो; यत्प्लाक्षाणि सम्भरन्ति, स्वाराज्यवैराज्ये एवास्मिंस्तद्दधाति ॥ २ ॥
हिन्दी – ( वृक्षचतुष्टय की क्रम से प्रशंसा कर रहे हैं - ) यद् न्यग्रोधः जो बरगद ( का वृक्ष ) है, एतद् वनस्पतीनां क्षत्रम् यह वनस्पतियों में क्षत्रिय जाति वाला है । यद् नैयग्रोधानि सम्भरन्ति जो बरगद के फल को एकत्रित करते हैं तत् उससे अस्मिन् क्षत्रमेव दधाति उस ( अभिषिच्यमान क्षत्रिय ) में क्षत्रियत्व को ही धारण कराता है । यद् उदुम्बरः जो गूलर है, एतद् वनस्पतीनां भौज्यम् वह वनस्पतियों में भोग - समृद्धि है । यद् औदुम्बराणि सम्भरन्ति जो गूलर के फल को एकत्रित करते हैं तत् उससे अस्मिन् भौज्यमेव दधाति इस ( क्षत्रिय ) में भोग - समृद्धि को ही धारण कराता है । यद् अश्वत्थः
पृष्ठ 662
पाठ पढ़ें पाठ छिपाएँ
१५१४: ऐतरेयब्राह्मणम् [ ३ ९.२ अष्टमपञ्चिकायां जो पीपल है एतद् वनस्पतीनां साम्राज्यम् यह वनस्पतियों में साम्राज्य रूप वाला है । यद् आश्वत्थानि सम्भरन्ति जो पीपल के फलों को एकत्रित करते हैं तत् उससे अस्मिन् साम्राज्यमेव दधाति इस ( अभिषिच्यमान क्षत्रिय ) में साम्राज्य को धारण कराता है । यत् प्लक्षः जो पाकड़ का वृक्ष है, एतद् वनस्पतीनां स्वाराज्यं च ह वैराज्यं यह वनस्पतियों में स्वाराज्य और वैराज्य रूप वाला है । यत् प्लाक्षाणि सम्भरन्ति जो पाकड़ फल को एकत्रित करता है तत् उससे अस्मिन् स्वाराज्यवैराज्ये एव दधाति इस ( क्षत्रिय ) में स्वाराज्य और वैराज्य को ही धारण कराता है । सा ० भा०- - न्यग्रोधस्य वनस्पतीनां मध्ये राजवद् व्याप्त्याधिक्यात् क्षत्त्रत्वम् । उ-दुम्बरादीनां भौज्यादिसाधनत्वात् तद्रूपत्वम् । अतश्चतुर्विधफलसम्पादनेन यजमाने क्षत्त्र-भौज्यादिनिफलानि सम्पादयति ॥ सम्भारान्तराणि विधत्ते— ( सम्भारान्तरविधानम् ) अथ ततो ब्रूयाच्चतुष्टयान्यौषधानि सम्भरत तोक्मकृतानि, - व्रीहीणां, महाव्रीहीणां, प्रियंगूनां यवानामिति ॥३ ॥
हिन्दी – ( अन्य सम्भारों को कह रहे हैं - ) अथ इसके बाद ततः पुनः ब्रूयात् ( आचार्य परिचारकों से ) कहे कि ( हे परिचारको! ) व्रीहीणां महाव्रीहीणां प्रियङ्गुणां यवानाम् धानों, प्रौढ़धानों, प्रियङ्ग ( बड़ी पीपल अथवा एक विशेष प्रकार की लता ) और यवों — तोक्मकृतानि चतुष्टयानि औषधानि इन अङ्कुरित चार औषधियों को सम्भरत एकत्रित करो ॥ सा ० भा०- -‘अथ ' नैयग्रोधादिफलसम्पादनानन्तरं, यतो व्रीह्याद्यङ्कुरसम्पादनमपे-क्षितं, ‘ ततः ’ आचार्य एवं ब्रूयात्, – हे परिचारकाः, तोक्मकृतानि अङ्कुरनिमित्तान्योषधि-द्रव्याणि चतुर्विधानि सम्पादयत । सूक्ष्मबीजरूपा ' व्रीहय: ' । प्रौढबीजरूपा ' महाव्रीहयः ' । प्रियङ्गवो यवाश्च प्रसिद्धाः ॥ चतुर्विधमोषधिद्रव्यं प्रशंसति— ( चतुर्विधौषधिद्रव्यप्रशंसनम् ) क्षत्त्रं वा एतदोषधीनां यद् व्रीहयो यद्वीहीणां तोक्म सम्भरन्ति; क्षत्त्रमेवास्मिंस्तद्दधाति; साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयो; यन्महाव्रीहीणां तोक्म सम्भरन्ति, साम्राज्यमेवास्मिंस्तद्दधाति; भौज्यं वा एतदोषधीनां यत्प्रियंगवो यत्प्रियङ्गूनां तोक्म सम्भरन्ति; भौज्य-मेवास्मिंस्तद्दधाति, सैनान्यं वा एतदोषधीनां यद्यवा; यद्यवानां तोक्म
पृष्ठ 663
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५१५ सम्भरन्ति; सैनान्यमेवास्मिंस्तद्दधाति ॥४ ॥
हिन्दी— ( व्रीहि इत्यादि चारों सम्भारों की प्रशंसा कर रहे हैं - ) यद् व्रीह्यः जो व्रीहि है एतद् ओषधीनां क्षत्रम् यह ओषधियों में क्षत्रिय जाति वाला है, यद् व्रीहीणां तोक्म सम्भरन्ति जो व्रीहियों के अड्डर को एकत्रित करते हैं तत् उससे अस्मिन् क्षत्रमेव दधाति इस ( क्षत्रिय ) में क्षत्रियत्व को धारण कराता है । यद् महाव्रीहयः जो प्रौढ़ व्रीहि है, एतद् ओषधीनां यह ओषधियों में साम्राज्य रूप वाला है । यद् महाव्रीहीणां तोक्म सम्भरन्ति जो प्रौढ व्रीहि के अड्डर को एकत्रित करते हैं तत् उससे अस्मिन् साम्राज्यमेव दयाति इस ( क्षत्रिय ) में साम्राज्य को ही धारण कराता है । यत् प्रियङ्गवः जो प्रियङ्गु है एतद् ओषधीनां भोज्यम् यह औषधियों में भोग - समृद्धि है । यत् प्रियङ्गूणां तोक्म सम्भरन्ति जो प्रियङ्गू के अङ्कुर को एकत्रित करते हैं तत् उससे अस्मिन् भौज्यमेव दधाति इस ( क्षत्रिय ) में भोग - समृद्धि को धारण कराता है । यद् यवाः जो यव है एतद् ओषधीनां सैन्यान्यम् यह ओषधियों में सेनापति रूप वाला है । यद् यवानां तोक्म सम्भरन्ति जो यवों के अङ्कुर को एकत्रित करते हैं तत् उससे अस्मिन् सैन्यान्यमेव दधाति इस ( क्षत्रिय ) में सेनापतित्व को धारण कराता है ॥ सा ० भा ० - ओषधीनां मध्ये व्रीहीणां बलहेतुत्वात् क्षत्त्रत्वम् । महाव्रीह्यादीनाम-प्यनुष्ठानद्वारा साम्राज्यहेतुत्वात्तद्रूपत्वम् । अतो व्रीह्यादितोक्मानामङ्कुराणां सम्पादनेन यजमाने क्षत्त्रसाम्राज्यादिकं सर्वं सम्पादयति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये अष्टमपञ्चिकायां चतुर्थाध्याये ( एकोनचत्वारिंशाध्याये ) द्वितीयः खण्डः ॥२ ॥ ( १६ ) ( २७३ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ तृतीयः खण्डः ' .सा ० भा०- — आसन्द्यादिसम्भारान् विधत्ते— ( आसन्द्यादिसम्भारविधानम् ) अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति; तस्या उक्तं ब्राह्मणमौदुम्बर-श्चमसो वा पात्री वोदुम्बरशाखा; तानेतान् सम्भारान् सम्भृत्यौदुम्बर्यां पात्र्यां वा चमसे वा समावपेयुस्तेषु समोप्तेषु दघि मधु सर्पिरातपवर्ष्या
पृष्ठ 664
पाठ पढ़ें पाठ छिपाएँ
१५१६: ऐतरेयब्राह्मणम् [ ३ ९.३ अष्टमपञ्चिकायां आपोऽभ्यानीय प्रतिष्ठाप्यैतामासन्दीमभिमन्त्रयेत ॥ १ ॥
हिन्दी— ( अब आसन्दी इत्यादि सम्भारों का विधान कर रहे हैं - ) अथ इन ( सम्भारों को एकत्रित करने ) के बाद अस्मै इस ( अभिषिच्यमान क्षत्रिय ) के लिए औदुम्बरीम् आसन्दीम् गूलर की लकड़ी से बनी आसन्दी को सम्भरन्ति लाते हैं । तस्याः ब्राह्मणम् उस आसन्दी का विधायक ब्राह्मण वाक्य उक्तम् ( ' प्रादेशमात्रा: पाद: ' इत्यादि द्वारा ) पहले कहा जा चुका है । औदुम्बरः चमसः वा पानी वा ( उन सम्भारों के अतिरिक्त ) गूलर की लकड़ी का बना चमस अथवा पात्री और उदुम्बरशाखा गूलर की शाखा - तान् एतान् सम्भारान् सम्भृत्य उन ( पूर्वोक्त ) इन सम्भारों को एकत्रित करके औदुम्बर्यां पात्र्यां वा चमसे वा गूलर की लकड़ी से बने चमस अथवा पात्री में समावपेयुः डालना चाहिए । समोप्तेषु तेषु उनके मिल जाने पर दधि मधु सर्पिः आतपवर्ष्या आपः दधि, मधु, घृत और धूप वाली वर्षा के जल को अभ्यानीयः ले आकर तथा प्रतिष्ठाप्य ( पात्री अथवा चमस को भूमि पर रखकर एतान् आसन्दीम् अभिमन्त्रयेत् इस ( पूर्वोक्त ) आसन्दी को ( आगे कहे जाने वाले मन्त्र से ) अभिमन्त्रित करना चाहिए । सा ० भा ० — ‘ अथ ' वानस्पत्यौषधिसम्भारानन्तरम्, ' अस्मै ' क्षत्त्रियायौदुम्बरीमासन्दीं सम्पादयेयुः | ‘ तस्याः ' चाऽऽसन्द्या विधायकं ' ब्राह्मणं ' ' प्रादेशमात्राः पादाः ' —इत्यादिना पूर्वमेवोक्तम् ' । चतुष्कोणो दण्डयुक्तः पात्रविशेषश्चमसः ' । आकारनियमरहिता ' पात्री’४ । तयोः पात्रीचमसयोरन्यतरदौदुम्बरं सम्पादयेत् । यद्वा, पात्री मृन्मयी, शाखा चौदुम्बरी सम्पा-दनीया । ततः पात्रीचमसयोरन्यतरस्मिन् वानस्पत्यौषधिसम्भारान् समावपेयुः । समोप्तेषु तेषु सम्भारे दध्यादीनां सेचनं कृत्वा चमसं भूमौ प्रतिष्ठाप्यैतामासन्दी वक्ष्यमाण मन्त्रेणाभि-मन्त्रयेत् ॥ तं मन्त्रं दर्शयति— ( १ ) प्राय एष एव खण्डः किञ्चिद् पाठव्यत्ययेन पूर्वमपि श्रुतः, ( ३८.१ ) । ( २ ) द्र ० इतः पूर्वम्, १७.१ । ( ३ ) ' चमसो देवपान: ' - इति ऋ ० १०. १६.८ । ' औदुम्बरेण चमसेन चतुस्रक्तिना ' – इति शत ० ब्रा ० ७.२.११.२ । न्यग्रोध- रोहितक - पर्णान्यतमकाष्ठनिर्मितश्च स भवति । ‘ दश चमसान् सवृन्तान्धः’— इति कात्या ० श्र ० ९.२.२२ । ' त्सस्मत: ' - इति च मानव-सूत्रम् । तथा च ते मुष्टियुक्ताः, किञ्च होतुः, ब्रह्मण:, उद्गातुः, सुन्वतः, प्रशास्तुः, ब्राह्मणाच्छंसिनः, पोतुः, नेष्टुः, आग्नीध्रस्य, अच्छावाकस्येति दश । द्र ० कात्या ० श्रौ ० ९.९.२५; १२.३ भाष्यम् । ( ४ ) पात्री त्रिविधा भवति । तत्र ' इडापात्री ' अरत्निमात्री मध्यसङ्ग्रहीता; ' पुरोडाशपात्री ' प्रादेशमात्री समचतुरस्र अर्थात् षडङ्गुलपरिमिति परिमण्डलखातवती; ' पिष्टपात्री ' हवि-र्धारणी अतिविपुला; सैवाकारनियमरहिता इति विवेकः । द्र ० कात्या ० श्रौ ० १.३.३६ वृत्ति ।
पृष्ठ 665
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५१७ ( आसन्द्यभिमन्त्रणमन्त्रः ) बृहच्च ते रथन्तरं च पूर्वौ पादौ भवतां, वैरूपं च वैराजं चापरौ, शाक्कररैवते शीर्षण्ये, नौघसं च कालेयं चानूच्ये, ऋचः प्राचीना-तानाः सामानि तिरश्चीनवाया, यजुष्यतीकाशा, यश आस्तरणं, श्रीरुपबर्हणं, सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां, वायुश्च पूषा चापरौ, मित्रावरुणौ शीर्षण्ये, अश्विनावनूच्ये इति ॥ २ ॥
हिन्दी— ( अभिमन्त्रण मन्त्र — ) ( हे आसन्दी! ) ते तुम्हारे बृहत् च रथन्तरं च बृहत् और रथन्तर ( नामक साम ) पूर्वौ पादौ अगले दो पाद तथा वैरूपं च वैराजं च अपरौ वैरूप और वैराज ( नामक साम ) अन्य ( पिछले ) दो ( पाद ) भवताम् होवें । शक्वररैवते शीर्षण्ये शाक्वर और रैवत ( नामक साम ) शिर टिकाने के दोनों भाग, नौषधं च कालेयं च अनूच्ये नौषध और कालेय ( नामक साम ) दोनों हत्थे, ऋचः प्राचीनातानाः ऋचाएँ ताना ( लम्बाई वाले धागे ) सामानि चिरश्चीनवाट साम के मन्त्र बाना ( तिरछे वाले धागा ) यजूंषि अतीकाशाः यजुष् मन्त्र ( बीनने में बने ) च्द्रं, यशः आस्तरणम् यश आस्तरण, श्री उपबर्हणम् समृद्धि तकिया होवे ॥ सविता च बृहस्पतिः च सविता और बृहस्पति ते पूर्वौ पादौ तुम्हारे अगले दो पादों को तथा वायुः च पूषा च अपरौ वायु और पूषा अन्य ( पिछले ) दो पादों को, मित्रावरुणौ मित्र और वरुण शीषर्ण्य शीर्ष के दोनों भागों को तथा अश्विनौ अनूच्ये दोनों अश्विन् दोनों हत्थों को धारयताम् धारण करें ॥ सा ० भा ० – इन्द्रासन्दीप्रतिपादकवाक्यवदयं मन्त्रो व्याख्येयः ॥ अभिमन्त्रणादूर्ध्वमाचार्यकर्तव्यं दर्शयति— ( अभिमन्त्रणादूर्ध्वमाचार्यकर्त्तव्यम् ) अथैनमेतामासन्दीमारोहयेत् ॥ ३ ॥
हिन्दी – ( अभिमन्त्रण के बाद आचार्य के कर्त्तव्य को दिखला रहे हैं - ) अथ इस ( आसन्दी के अभिमन्त्रण ) के बाद एनम् इस ( अभिषिच्यमान क्षत्रिय ) को एताम् आसन्दीम् इस ( अभिमन्त्रित ) आसन्दी पर अरोहयेत् ( आगे कहे जाने वाले मन्त्रों से ) आरोहण करावे ॥ सा ० भा ० — ‘ अथ ' चाभिषिक्तम् ' एनं ' क्षत्त्रियमेतस्यामासन्द्यामारूढं कुर्यात् ॥ तत्र मन्त्रं दर्शयति— ( तत्रारोहणमन्त्रकथनम् ) वसवस्त्वा गायत्रेण च्छन्दसा, त्रिवृता स्तोमेन, रथन्तरेण साम्नाऽऽ-( १ ) द्र ० इतः पूर्वम्, ३८.१ । '
पृष्ठ 666
पाठ पढ़ें पाठ छिपाएँ
१५१८: ऐतरेयब्राह्मणम् [ ३ ९.३ अष्टमपञ्चिकायां रोहन्तु, तानन्वारोह साम्राज्याय; रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा, पञ्चदशेन स्तोमेन, बृहता साम्नाऽऽरोहन्तु, तानन्वारोह भौज्यायाऽऽदित्यास्त्वा जागतेन च्छन्दसा, सप्तदशेन स्तोमेन, वैरूपेण साम्नाऽऽ रोहन्तुः तानन्वारोह स्वाराज्याय; विश्वे त्वा देवा आनुष्टुभेन च्छन्दसैकविंशेन स्तोमेन, वैराजेन साम्नाऽऽरोहन्तु, तानन्वारोह वैराज्याय, मरुतश्च त्वाऽङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा, त्रयस्त्रिंशेन स्तोमेन, रैवतेन साम्नाऽऽरोहन्तु, तानन्वारोह पारमेष्ठ्याय; साध्याश्च त्वाऽऽप्त्याश्च देवाः पाङ्क्तेन च्छन्दसा, त्रिणवेन स्तोमेन, शाक्वरेण साम्नाऽऽ रोहन्तु तानन्वारोह राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽ-तिष्ठायाऽऽरोहेत्येतामासन्दीमारोहयेत् ॥ ४ ॥
हिन्दी – ( आरोहण मन्त्र - ) हे आसन्दी! वसवः त्वा वसुगण तुम पर गायत्रेण छन्दसा गायत्री ( नामक ) छन्द, त्रिवृता स्तोमेन त्रिवृत् ( नामक ) स्तोम और रथन्तरेण साम्ना रथन्तर ( नामक ) साम के साथ आरोहन्तु आरोहण करें, तान् अनु उन ( वसुओं ) के बाद ( हे क्षत्रिय! ) साम्राज्याय साम्राज्य के लिए आरोह तुम आरोहण करो । ( हे आसन्दी! ) रुद्राः त्वा रुद्रगण तुम पर त्रैष्टुभेन छन्दसा त्रिष्टुप् ( नामक ) छन्द पञ्चदशेन स्तोमेन पञ्चदश ( नामक ) स्तोम और बृहता साम्ना बृहत् ( नामक ) साम के साथ आरोहन्तु आरोहण करें, तान् अनु उन ( रुद्रों ) के बाद ( हे क्षत्रिय! ) भौज्याय भोग - समृद्धि के लिए आरोह तुम आरोहण करो । ( हे आसन्दी! ) आदित्याः त्वा आदित्यगण तुम पर जागतेन छन्दसा जगती ( नामक ) छन्द, सप्तदशेन स्तोमेन सप्तदश ( नामक ) स्तोम और वैरूपेण साम्ना वैरूप ( नामक ) साम के साथ आरोहन्तु आरोहण करें, तान् अनु उन ( आदित्यों ) के बाद ( हे क्षत्रिय! ) स्वाराज्याय स्वाराज्य के लिए आरोह तुम आरोहण करो | ( हे आसन्दी! ) विश्वेदेवाः त्वा सभी देवता तुम पर आनुष्टुभेन छन्दसा अनुष्टुप् ( नामक ) छन्द, एकविंशेन स्तोमेन एकविंश ( नामक ) स्तोम और वैराजेन साम्ना वैराज ( नामक ) साम के साथ आरोहन्तु आरोहण करें । तान् अनु उन ( विश्वेदेवों ) के बाद ( हे क्षत्रिय! ) वैराज्याय वैराज्य के लिए आरोह तुम आरोहण करो । ( हे आसन्दी! ) मरुतः च अङ्गिरसः च देवा त्वा मरुद्गणों और अङ्गिरसगण देव तुम पर अतिच्छन्दसा छन्दसा अतिच्छन्द ( नामक ) छन्द, त्रयस्त्रिंशेन स्तोमेन त्रयस्त्रिंश ( नामक ) स्तोम और रैवतेन साम्ना रैवत ( नामक ) साम के साथ आरोहन्तु आरोहण करें तान् अनु उन ( मरुतादि देवों ) के बाद ( हे क्षत्रिय! ) पारमेष्ठ्याय प्रजापति के लोक की प्राप्ति के लिए आरोह तुम आरोहण करो । ( हे आसन्दी! ) साध्याः च आप्त्या च देवाः साध्य और आप्त्य देवतागण त्वा तुम पर पाङ्केन छन्दसा पति ( नामक ) छन्द, त्रिणवेन स्तोमेन त्रिणव ( नामक ) स्तोम
पृष्ठ 667
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः तृतीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५१ ९ और शक्वरेण साम्ना शाक्वर ( नामक ) साम के साथ आरोहन्तु आरोहण करें । ( हे क्षत्रिय! ) तान् अनु उनके बाद राज्याय राज्य के लिए आरोह तुम आरोहण करो । इस प्रकार राज्याय राज्य के लिए, महाराज्याय महदैश्वर्य के लिए, आधिपत्याय आधिपत्य के लिए स्वाश्याय स्वतन्त्रता के लिए और आतिष्ठाय चिरकाल तक ( लोक में ) वास के लिए आरोह आरोहण करो । इति इस मन्त्र से एताम् आसन्दीम् इस ( अभिमन्त्रित ) आसन्दी पर आरोहयेत् ( आचार्य क्षत्रिय को ) आरोहण करावे ॥ सा ० भा ० – इन्द्रारोहणमन्त्रवद् व्याख्येयम् ' । तत्राऽऽरोहणकर्तुरप्रयोज्यत्वात् ‘ आ-रोहामि'- इत्युत्तमपुरुषः । अत्र त्वाचार्यप्रयोज्यत्वात् ' आरोह ' इति मध्यमपुरुषः । तत्रत्ययोः पञ्चमषष्ठमन्त्रयोरत्र क्रमविपर्यासोऽध्ययनसम्प्रदायप्राप्तः । अनेन मन्त्रेणाऽऽचार्य आसन्द्यां क्षत्त्रियमारोहयेत् ॥ आरोहणादूर्ध्वमभ्युत्क्रोशनं विधत्ते— ( आरोहणादूर्ध्वमुत्क्रोशनविधानम् ) तमेतस्यामासन्द्यामासीनं राजकर्तारो ब्रूयुर्न वा अनभ्युत्क्रुष्टः क्षत्रियो वीर्यं कर्तुमर्हत्यभ्येनमुत्क्रोशामेति; तथेति; तं राजकर्तारोऽभ्युत्क्रोश-न्तीमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानं राजपितरं, क्षत्त्रमजनि, क्षत्रियोऽजनि, विश्वस्य भूतस्याधिपतिरजनि, विशा-मत्ताऽजन्यमित्राणां हन्ताऽजनि, ब्राह्मणानां गोप्ताऽजनि, धर्मस्य गोप्ताऽजनीति ॥५ ॥
हिन्दी— ( आरोहण के बाद क्षत्रिय की गुणप्रशंसा का विधान कर रहे हैं— ) एतस्याम् आसन्द्याम् इस ( अभिमन्त्रित ) आसन्दी पर आसीनं तम् बैठे हुए उस ( अभिषिच्यमान क्षत्रिय ) के प्रति राजकर्तारः ब्रूयुः राजा बनाने वाले ( आचार्य तथा बान्धव इत्यादि ) इस प्रकार कहें— अनभ्युत्कृष्टः क्षत्रियः गुणाख्यान से रहित क्षत्रिय वीर्यं कर्तुं न अर्हति ( युद्ध में ) पराक्रम करने में समर्थ नहीं हो सकता है अतः एनम् उत्क्रोशाम हम लोग इस ( क्षत्रिय ) का गुणाख्यान करते हैं । तथा इति ' ठीक है ' इस प्रकार स्वीकार करते हुए राजकर्तारः राजा बनाने वाले ( आचार्य तथा बान्धव इत्यादि ) तम् उस ( अभिषिच्यमान क्षत्रिय ) का अभ्युत्क्रोशन्ति गुणकीर्तन करते हैं - ' जना: हे लोगो! इमम् अभ्युत्कोशत इस ( क्षत्रिय ) का गुणोत्कर्ष कहो जो सम्राजं साम्राज्यम् सम्राज्यरूप होकर स्वराज्य करने में समर्थ, भोजं भोजपितरम् भोक्ता होकर भोक्ताओं का रक्षक, स्वराज्यं स्वाराज्यम् स्वराज्यरूप होकर स्वराज्य करने में समर्थ, विराजं वैराज्यम् विराट् रूप होकर प्रभुता-( १-२ ) द्र ० इतः पूर्वम्, ३८.१ ।
पृष्ठ 668
पाठ पढ़ें पाठ छिपाएँ
१५२०: ऐतरेयब्राह्मणम् [ ३ ९.४ अष्टमपञ्चिकायां प्राप्ति में समर्थ, परमेष्ठिनं पारमेष्ठ्यम् प्रजापति - स्वरूप होकर प्रजापति के लोक को प्राप्त करने में समर्थ, राजानं राजपितरम् राजारूप होकर राजाओं के रक्षक हैं । इस प्रकार क्षत्रम् अजनि क्षत्रिय जाति लोक में पैदा हुई है । क्षत्रियः अजनि ( यह ) क्षत्रिय ( पुरुष ) पैदा हुआ है, विश्वस्य भूतस्य अधिपतिः अजनि समस्त प्राणिजगत् का अधिपति पैदा हुआ है, विशाम् अत्ता अजनि प्रजाजनों का भोक्ता पैदा हुआ है, अमित्राणां हन्ता अजनि सभी शत्रुओं का विनाश करने वाला पैदा हुआ है, ब्राह्मणानां गोप्ता अजनि ब्राह्मणों की रक्षा करने वाला पैदा हुआ है तथा धर्मस्य गोप्ता अजनि धर्म की रक्षा करने वाला पैदा हुआ है, इति इस प्रकार ( अभिषिच्यमान क्षत्रिय का गुणाख्यान करना चाहिए ) ॥ सा ० भा ० — राज्ञः कर्तारो ‘ राजकर्ता: ' पितृभ्रात्रादयः । इन्द्रविषयाभ्युत्क्रोशनवाक्य-वदिदं वाक्यं व्याख्येयम् ' ॥ आचार्यस्य क्षत्त्रियाभिमन्त्रणं विधत्ते— ( आचार्यद्वारा क्षत्रियाभिमन्त्रणम् ) तमभ्युत्क्रुष्टमेवंविदभिषेक्ष्यन्नेतयर्चाऽभिमन्त्रयेत ॥ ६ ॥
हिन्दी — ( आचार्य द्वारा क्षत्रिय के अभिमन्त्रण का विधान कर रहे हैं - ) अभ्युत्कृष्टं तम् गुणाकीर्तन किये गये उस ( क्षत्रिय ) को अभिषेक्ष्यन् एवंवित् अभिषिक्त करता हुआ इस प्रकार ( अभिषेक प्रयोग को जानने वाला ( आचार्य ) एतया ऋचा: इस ( चतुर्थ खण्ड में कही गयी ‘ निषसाद ' इत्यादि ) ऋचा से अभिमन्त्रयेत् अभिमन्त्रित करे ॥ सा ० भा ० — पूर्ववद्व्याख्येयम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये अष्टमपञ्चिकायां चतुर्थाध्याये ( एकोनचत्वारिंशाध्याये ) तृतीयः खण्डः ॥३ ॥ ( १७ ) ( २७४ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय के तृतीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ चतुर्थः खण्डः ' सा ० भा०- – एतयर्चेत्युक्तं मन्त्रं दर्शयति— ( १ ) द्र ० इतः पूर्वम्, ३८.१ । ( २ ) द्र ० इतः पूर्वम्, ( ३८.१ ) । ( ३ ) इतः पूर्वमप्याम्नात एष खण्ड: । तत्र द्वयोः पाठभेदः च अस्ति ( ३८.२ ) ।
पृष्ठ 669
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः चतुर्थः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५२१ ( एतयर्चेत्युक्तं मन्त्रकथनम् ) निषसाद घृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय, भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाऽऽधिपत्याय स्वा-वश्यायाऽऽतिष्ठाय, सुक्रतुरिति ॥१ ॥
हिन्दी - ( तृतीय खण्ड में कहे गये अभिषेचनीय क्षत्रिय के अभिमन्त्रण के मन्त्र को यहाँ दिखला रहे हैं— ) धृतव्रतः व्रत को धारण करने वाले वरुणः अनिष्ट के निवारक ( इन्द्र ) पस्त्यासु आ गृहों में आकर साम्राज्याय साम्राज्य के लिए, भौज्याय भोग - समृद्धि के लिए, स्वाराज्याय स्वातन्त्र्य के लिए, वैराज्याय प्रभुता के लिए, पारमेष्ठ्याय प्रजापति लोक की प्राप्ति के लिए, राज्याय ऐश्वर्य के लिए, माहाराज्याय महदैश्वर्य के लिए, आधिपत्याय आधिपत्य के लिए, स्वावश्याय स्वाधीनता के लिए और आतिष्ठाय चिरकाल तक ( इस लोक में ) वास के लिए निषसाद ( आसन्दी पर बैठें ॥ सा ० भा ० - – पूर्ववद्व्याख्येयम् ' ॥ अभिमन्त्रणादूर्ध्वमभिषेकप्रकारं दर्शयति— ( अभिमन्त्रणादूर्ध्वमभिषेकविधिः ) तमेतस्यामासन्द्यामासीनमेवंवित्पुरस्तात्तिष्ठन् प्रत्यङ्मुख औदुम्बर्या SS-या शाखया सपलाशयां जातरूपमयेन च पवित्रेधान्तर्धायाभि-षिञ्चतीमा आपः शिवतमा इत्येतेन तृचेन, देवस्य, त्वेति च यजुषा, भूर्भुवः स्वरित्येताभिश्च व्याहृमिभिः ॥ २ ॥
हिन्दी— ( अभिमन्त्रण के बाद अभिषेक - विधि को दिखला रहे हैं - ) एतस्याम् आ-सन्द्याम् इस ( पूर्वोक्त ) आसन्दी पर आसीनं तम् बैठे हुए उस ( क्षत्रिय ) को एवंवित् इस प्रकार ( अभिषेक - विधि को ) जानने वाला ( आचार्य ) प्रत्यङ्मुखः पूर्व मुख करके पुरस्तात् तिष्ठन् सम्मुख खड़ा होकर सपलाशया आर्द्रया औदुम्बर्याः शाखया पत्तों से युक्त आर्द्र गूलर की शाखा से और जातरूपमयेन पवित्रेण च सुवर्ण - निर्मित पवित्र से अन्तर्धाय व्यवधान करके ' इमा आपः शिवतमा ' इत्येतेन तृचेन इस तृच से, ' देवस्य त्वा ' इति च यजुषा इस यजुष् से और ' भुर्भुव: स्व: ' इत्येताभि च व्याहृतिभिः इन व्याहृतियों
से अभिषिञ्चति अभिषिञ्चित करता है ।
सा ० भा ० — इन्द्राभिषेकवाक्यवद् व्याख्येयम् ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये अष्टमपञ्चिकायां चतुर्थाध्याये ( एकोनचत्वारिंशाध्याये ) ( १ ) द्र ० इतः पूर्वम्, ३८.२ । ( २ ) द्र ० इतः पूर्वम्, ३८.२ ।
पृष्ठ 670
पाठ पढ़ें पाठ छिपाएँ
१५२२: ऐतरेयब्राह्मणम् [ ३ ९.५ अष्टमपञ्चिकायां चतुर्थः खण्डः ॥४ ॥ ( १८ ) ( २७५ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय के चतुर्थ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ पशमः खण्डः सा ० भा ० - – अभिषेकादूर्ध्वमभिमन्त्रणमाह— ( अभिषेकादूर्ध्वमभिमन्त्रणमन्त्रकथनम् ) प्राच्यां त्वा दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्च-न्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय, दक्षिण-स्यां त्वा दिशि रुद्रा देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भोज्याय, प्रतीच्यां त्वा दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्याय, उदीच्यां त्वा दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्वैराज्याय, ऊर्ध्वायां त्वा दिशि मरुतश्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः पारमेष्ठ्याय, अस्यां त्वा ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्त्याश्च देवाः षड्-भिश्चैव पञ्चविंशैरहोभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽ-तिष्ठायेति स परमेष्ठी प्राजापत्यो भवति ॥ १ ॥
हिन्दी— ( अभिषिञ्चन के बाद आचार्य द्वारा कहे गये क्षत्रिय के अभिमन्त्रण मन्त्र को कह रहे हैं— ) ( हे क्षत्रिय! ) प्राच्यां दिशि पूर्व दिशा में वसवः देवाः वसु देवगण षड्भि च पञ्चविंशैः अहोभिः छः और पचीस अर्थात् इकतीस दिनों तक एतेन च तृचेन इस ( ' इमा आप: ’ ) तृच से, एतेन यजुषा इस ( देवस्य त्वा ' ) यजुष् से और एताभिश्च व्याहृतिभिः इन ( ' भूर्भुव: स्व: ' ) व्याहृतियों से साम्राज्याय साम्राज्य के लिए त्वा अभिषिञ्चन्तु तुम्हारा अभिषिञ्चन करें । दक्षिणस्यां दिशि दक्षिण दिशा में रुद्राः देवाः रुद्र देवगण षड्भिः च पञ्च-