ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 681–690
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 681–690
पृष्ठ 681
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५३३ गाथा को हि रहे हैं — ) ' भूमिः ह जगौ ' भूमि देवता ने ( विश्वकर्मा के प्रति ) कहा ' इति उदाहरन्ति इस उदाहरण को कह रहे हैं - ॥ सा ० भा ० - — ' भूमिः ' देवता ' जगौ ' भौवनं प्रति किञ्चिद्वाक्यं गाथारूपमुक्तवती ' इति ' एवं पूर्वे महर्षय उदाहरन्ति ॥ तां गाथां दर्शयति-न मा मर्त्यः कश्चन दातुमर्हति, विश्वकर्मभौवन मां दिदासिथ । निमङ्क्ष्येऽहं सलिलस्य मध्ये, मोघस्त एष कश्यपाया ss स संगर इति ॥ १० ॥
हिन्दी – ( उस गाथा को दिखला रहे हैं - ) भौवन विश्वकर्मन् हे भुवनपुत्र विश्व-कर्मन्! कश्चन मर्त्यः कोई मनुष्य मा मुझ ( भूमि ) को दातुं न अर्हति देने में समर्थ नहीं है और मां दिदासिथ तुम ( मुझको ) देना चाहते हो । इससे अहं सलिलस्य मध्ये मैं ( समुद्र के ) जल के मध्य में निमङ्क्ष्ये डूब जाऊँगी, अतः ते एषः संगर: मोघः आसः तुम्हारा यह भूमिप्रतिग्रह का प्रयत्न व्यर्थ है । सा ० भा ० — भुवनाख्यस्य पुत्र हे विश्वकर्मन् कश्चिदपि मनुष्यो ' मां ' भूमिं दातुं नार्हति । अत एव मीमांसका विचार्यं सर्वस्वदाने महाभूमिदानं निवारितवन्तः । एवं सति त्वं ' मां ' भूमिं ' दिदासिथ ' कश्यपाय त्वदीयाचार्याय दातुमिच्छसि । अहं तु ' सलि-लस्य ' समुद्रस्य मध्ये ‘ निमङ्क्ष्ये ' निमज्जनं करिष्ये । तथा सति ' ते कश्यपाय ' त्वदीया-चार्यस्य कश्यपस्य ‘ एषः ’ ‘ संगर: ' भूमिप्रतिग्रहविषयो ' मोघः आस ' व्यर्थ एव बभूवेति । ' इति ' ईदृशमपि महाभूमिमज्जनं महाभिषेकमहिम्ना निवारितमिति तात्पर्यार्थः ॥ सुदास इत्येतन्नामकं पिजवनस्य पुत्रं राजानमुदाहरति-( सुदासनिदर्शनम् ) एतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच; तस्मादु सुदाः पैजवनः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे ॥ ११ ॥
हिन्दी— ( पिजवन के पुत्र सुदास नामक क्षत्रिय का उदाहरण दे रहे हैं - ) एतेन ह वै ऐन्द्रेण महाभिषेकेण इसी इन्द्र के महाभिषेक से ही वसिष्ठः वसिष्ठ ने पैजवनं सुदासम् पिजवन के पुत्र सुदास नामक ( क्षत्रिय ) को अभिषिषेच अभिषिक्त किया । तस्मादु उस ( अभिषेक ) से पैजवनः सुदाः पिजवन पुत्र सुदा ने सर्वतः समन्तं पृथिवीं ( १ ) द्र ० जै ० सू ० ६.७.२.३ ।
पृष्ठ 682
पाठ पढ़ें पाठ छिपाएँ
१५३४: ऐतरेयब्राह्मणम् [ ३ ९.७ अष्टमपञ्चिकायां जयन् सभी दिशाओं से समस्त पृथिवी को जीतकर परियाय चारो ओर विचरण किया और मेध्येन अश्वेन ईजे यजनीय अश्व द्वारा याग किया था ॥ अविक्षिन्नामकस्य पुत्रं मरुत्तनामानं राजानमुदाहरति— ( मरुत्तनिदर्शनम् ) एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त आङ्गिरसो ' मरुत्तमा-विक्षितमभिषिषेच; तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे ॥ १२ ॥
हिन्दी- ( अविक्षित् के पुत्र मरुत्त नामक क्षत्रिय के उदाहरण को कह रहे हैं— ) एतेन ह वै ऐन्द्रेण महाभिषेकेण इसी ( पूर्वोक्त ) इन्द्र के महाभिषेक से संवर्तः आङ्गिरसः अङ्गिरा के पुत्र संवर्त ने मरुत्तम् आविक्षितम् अविक्षित के पुत्र मरुत्त को अभिषिषेच अभिषिक्त किया । तस्मादु उस ( अभिषेक ) से आविक्षितः मरुतः आविक्षित पुत्र मरुत्त ने सर्वतः समन्तं पृथिवीं जयन् सभी ओर से समस्त पृथिवी को जीतते हुए परियाय चारो ओर भ्रमण किया और मेध्येन अश्वेन ईजे यजनीय अश्व द्वारा याग किया था ॥ सा ० भा०- -संवर्तनामको महर्षिरङ्गिरसः पुत्रः ॥ तेन कृतं मरुत्ताभिषेकं प्रशंसितुं श्लोकमुदाहरति— तदप्येष श्लोकोऽभिगीतः ॥ १३ ॥
हिन्दी – ( मरुत्त के अभिषेक की प्रशंसा के लिए श्लोक को उदाहरित कर रहे हैं— ) तदपि इस ( विषय ) में एषः श्लोकः अभ्यगीतः यह श्लोक कहा गया है- 11 सा ० भा०- - ' तत् ' तस्मिन्नपि मरुत्ताभिषेकमाहात्म्ये ' एषः ' वक्ष्यमाणः ' श्लोकः ' ' पादबद्धो मन्त्रः ‘ अभिगीत: ' अभितः सर्वैः पठितः ॥ तं श्लोकं दर्शयति—
मरुतः परिवेष्टारो: मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥ १४ ॥
हिन्दी – मरुत्तस्य गृहे उप वसन् मरुत्त के घर में निवास करते हुए परिवेष्टारः परिवेषण करने वाले मरुत् मरुत् नामक देवता आवसन् निवास करते थे । कामप्रेः आविक्षितस्य कामनाओं के पूर्ण करने वाले अविक्षित के पुत्र ( मरुत्त ) के ( घर ) विश्वेदेवाः सभी देवता सभासद सभा में उपस्थित रहते थे । ( १ ) द्र ० वा ० रा ० ( उत्तर ० ) १८; महा ० ( वन ० ) १२ ९.१६ । मार्क ० १२७.१०, १२६. ११-१२ ।
पृष्ठ 683
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५३५ सा ० भा ० - मरुत्तनाम्नो राज्ञो गृहे मरुत्संज्ञका देवा भोजनकाले परिवेषणकर्तारो भूत्वाऽवसन् । तथैव ‘ आविक्षितस्य ' अविक्षित्पुत्रस्य ' कामप्रेः ' सर्वकामपूरितस्य मरुत्तस्य गृहे ‘ विश्वे ’ सर्वे देवाः ‘ सभासदः ' सभायामुपविष्टाः सेवन्तः इति शेषः । ' इति ' एष सर्वोऽपि महाभिषेकस्य महिमेत्यभिप्रायः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये अष्टमपञ्चिकायां चतुर्थाध्याये ( एकोनचत्वारिंशाध्याये ) सप्तमः खण्डः || ७ || ( २१ ) ( २७८ ) ॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय के सप्तम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अष्टमः खण्डः सा ० भा ० – अङ्गनामकं राजानमुदाहरति-( अङ्गनामकराज्ञः निदर्शनम् ) एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयोऽङ्गमभिषिषेच; तस्माद्वङ्गः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे ॥ १ ॥
हिन्दी – ( अङ्ग नामक राजा का उदाहरण दे रहे हैं— ) एतेन ह वै ऐन्द्रेण महा-भिषेकेण इस ( पूर्वोक्तं ) इन्द्र से सम्बन्धित महाभिषेक से आत्रेयः उदमयः अत्रि के पुत्र उदमय ने अङ्गम् अङ्ग ( नामक क्षत्रिय ) को अभिषिषेच अभिषिक्त किया । तस्मादु इसी ( अभिषेक ) से अङ्गः अङ्ग ने सर्वतः समन्तं पृथिवीं जयन् सभी ओर से समस्त पृथिवी को जीतते हुए परीयाय चारो ओर विचरण किया और मेध्येन च अश्वेन ईजे यजनीय अश्व द्वारा याग किया था ॥ सा ० भा ० — उदमयनामकः कश्चिन्महर्षिरत्रेः पुत्रः, अङ्गमभिषिषेच ॥ तस्याङ्गाभिषेकस्य माहात्म्यं दर्शयितुं कञ्चिद्वृत्तान्तमाह— स होवाचालोपाङ्गो - दश नागसहस्राणि दश दासीसहस्राणि ददामि ते, ब्राह्मणोप माऽस्मिन् यज्ञे ह्वयस्वेति ॥ २ ॥
हिन्दी - ( अङ्ग के महाभिषेक के माहात्म्य को दिखलाने के लिए किसी वृत्तान्त को कह रहे हैं - ) सः अलोपाङ्गः ह उवाच उस सर्वाङ्गसम्पन्न अङ्गराज ने ( अपने आचार्य से ) कहा कि ( हे आचार्य! ) ते तुम्हारे लिए मैं दश नागसहस्राणि दश हजार हाथी और
पृष्ठ 684
पाठ पढ़ें पाठ छिपाएँ
१५३६: ऐतरेयब्राह्मणम् [ ३ ९.८ अष्टमपञ्चिकायां दश दासीसहस्राणि दश हजार दासियाँ ददामि दे रहा हूँ । ब्राह्मण हे ब्राह्मण ( आचार्य )! अस्मिन् यज्ञे इस याग में मा हमको ह्वयस्व आहूत करना ॥ सा ० भा ० — योऽयमङ्गनामको राजोक्तः ' सः ' अयम् ' अलोपाङ्गः ’ सम्पूर्णावयव इत्यर्थः । महदस्याङ्गसौष्ठवम् । स कदाचित्स्वकीयाभिषेककर्तर्युदमयनामके पुरोहिते स्वार्थं यागं कुर्वाणे सति तं प्रत्येवमुवाच – हे ब्राह्मण, ' अस्मिन् ' त्वदीये यज्ञे माम् ' उप-ह्वयस्व ' समाह्वानं कुरु | अहमागत्य त्वदीययज्ञे दक्षिणासम्पूर्त्यर्थं तुभ्यं गजसह-स्राणि दासीसहस्राणि च ददामीति । सेयं बहुदानसम्पत्तिः, सदबुद्धिश्च महाभिषेक-प्रसादलब्धा ॥ एवमेवार्थं प्रपञ्चयितुं श्लोकानुदाहरति— तदप्येते श्लोका अभिगीताः ॥ ३ ॥
हिन्दी —— ( इस विषय को प्रपञ्चित करने के लिए श्लोकों को उदाहरित कर रहे हैं— ) तदपि उस ( अङ्गराज के आचार्य के विषय में ) एते श्लोकाः अभिगीताः ये
श्लोक कहे गये हैं- ||
सा ० भा०- ~ - ~~ -तस्मिन्नप्यङ्गराजपुरोहितस्य यागे दानप्रतिपादका ' एते ' पञ्च ‘ श्लोकाः ’ ‘ अभिगीताः ’ अभितो गीताः सर्वतोऽभिज्ञैः पठिताः ॥ तत्र प्रथमं श्लोकमाह—
याभिर्गोभिरुदमयं प्रैयमेधा अयाजयन् ।
द्वे द्वे सहस्रे बद्धानामात्रेयो मध्यतोऽऽददात् ॥४ ॥
हिन्दी — ( प्रथम श्लोक— ) प्रैयमेधा प्रियमेध के पुत्रों प्रैयमेधों ने याभिः गोभिः जिन गायों द्वारा उदमयम् उदमय ( नामक अङ्गराजा के पुरोहित ) को अयाजयन् याग कराया । उस आत्रेयः अत्रि के पुत्र ( उदयमय ) ने बद्धानां मध्यतः बँधी हुई ( उन सौ करोड़ गायों ) में से द्वे द्वे सहस्र दो - दो हजार ( गायें ) अददात् प्रतिदिन दान किया ॥ सा ० भा ० - – प्रियमेधस्य पुत्राः ' प्रैयमेधाः ' महर्षयः, उदमयनामकमङ्गराजपुरोहितं ‘ याभिर्गोभिः ’ दक्षिणारूपाभिः ' अयाजयन् ' । ता गावो वक्ष्यन्त इति शेषः । ' बद्धम् ' इति शतकोटिसंख्याया नामधेयम् ' ' । ' बद्वानां ' शतकोटिसंख्याकानां गवां मध्ये, प्रतिदिनं द्वे द्वे ( १ ) किन्तु मूले तु ' दश नागसहस्राणि, दश दासीसहस्राणि ' – इति विद्यते । ( २ ) दश, ( शतं ), सहस्रम्, अयुतम्, प्रयुतम्, नियुतम्, अर्बुदम्, न्यर्बुदम्, निखर्वम्, बद्धम्, अक्षितम् । एताश्च संख्या क्रमाद् दशगुणोत्तरा वैदिक्यः ( द्र ० ता ० ब्रा ० १७.१४.२ ) । तथा च प्रयुतमिति लक्षस्यैव नामान्तरम्, अर्बुदमिति च कोटेर्नामान्तरम्, एवं शतकोटेर्नाम स्यान्निखर्वमिति, तथा बद्वमिति तु पश्चात् सहस्रकोटेरेव नामधेयमिति विचार्यम् । कस्य-
पृष्ठ 685
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः अष्टमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५३७ सहस्रे ‘ मध्यतः ’ माध्यंदिनसवनेऽत्रिपुत्र उदमयो दत्तवान् ॥ द्वितीयं श्लोकमाह—
अष्टाशीतिः सहस्राणि श्वेतान् वैरोचनो हयान् ।
प्रष्टीन्निश्चत्य प्रायच्छद् यजमाने पुरोहिते ॥५ ॥
हिन्दी - ( द्वितीय श्लोक - ) वैरोचनः विरोचन के पुत्र ( अङ्गराज ) ने पुरोहिते यजमाने पुरोहित ( उदमय नामक ) यजमान ( के याग ) में अष्टाशीतिः सहस्राणि अट्ठासी हजार प्रष्ठीन् वयस्क श्वेताम् हयान् श्वेत अश्वों को निश्चत्य ( अपनी घुड़शाला से ) निकाल कर प्रायच्छत् दान में दे दिया ॥ सा ० भा ० — ‘ वैरोचनः ’ विरोचनस्य पुत्रोऽङ्गनामको राजा, स्वकीयपुरोहित उदयम-नामके यजमाने यागं कुर्वाणे स्वयमागत्याष्टाशीतिसहस्रसंख्याकानश्वाञ्श्वेतवर्णान् प्रष्टीन् पृष्ठवाहनयोग्यवयस्कान्निश्चत्य स्वकीयाश्वबन्धनस्थानान्निःसार्यं प्रायच्छद्दत्तवान् ॥ तृतीयं श्लोकमाह—
देशाद्देशात्समोह्ळानां सर्वासामाढ्यदुहितृणाम् ।
दशाददात् सहस्राण्यात्रेयो निष्ककण्ठ्यः ॥६ ॥
हिन्दी – ( तृतीय श्लोक — ) देशाद् देशात् समोळ्हानाम् ( दिग्विजय के समय ) प्रत्येक देश से लायी गयी सर्वासाम् आठ्यदुहितृणाम् समस्त धनिकों की कन्याओं में निष्ककण्ठ्यः गले से निष्क ( नामक आभूषण ) पहने हुई दश सहस्राणि दश हजार को आत्रेयः ( अङ्गराज के पुरोहित ) अत्रिपुत्र ( उदमय ) ने अददात् दे दिया ॥ सा ० भा ० – देशाद्देशाद्दिग्विजयकाले तत्तद्देशविशेषात् ' समोह्ळानां ' सम्यगास-मन्तात् ऊढानाम् आनीतानामाढ्यदुहितृणां धनिकपुत्रीणां सर्वासां दश सहस्राण्यात्रेयोऽपि
अङ्गराजपुरोहितो दत्तवान् । ताश्च दुहितरो निष्ककण्ठ्य आभरणोपेतकण्ठयुक्ताः ॥
चिन्मते त्विह बद्वशब्दः स्यात् बद्वन्निति बान्तस्यार्थे । तथा च ' बद्वानां ' स्थिराणां दानार्थ-रक्षितानां गवामिति, देवयजनमार्गस्थानां गवामिति वार्थः सम्भाव्येत । नान्तबद्वव्याख्यानम्— ता ० ब्रा ० १.१.६ सा ० भा ० द्रष्टव्यम् । “ चतुरशीत्यधिकैस्त्रयोदशसहस्रैरेकं बद्धं ( बद्वं ) भवति । तथाहि — ‘ हिरण्येन... सप्त च ' - इति श्रुत्युक्तानि सप्ताधिकशतं बद्वानि श्रीशुकेनोत्तरश्लोके चतुर्दशलक्षत्वेन सङ्गृहीतानि, – ' अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ' – इति ( २८ श्लोक ) । एवं चतुर्दशलक्षाणां सप्ताधिकशतभागो बिद्वमित्युक्तं भवति । इयञ्च बद्वसंख्या श्लोकेन सङ्गृह्यते— ‘ चतुर्दशानां लक्षाणां सप्ताधिकशतांशकः । बद्धं चतुरशीत्यग्रसहस्राणि त्रयोदश ॥ - इति भाग ० पु ० ९.२०. ३६ श्लोकस्य, १०.७०.९ श्लोकस्य च व्याख्याने स्वामीश्रीधरः । ऐ.ब्रा.उ.- ४३
पृष्ठ 686
पाठ पढ़ें पाठ छिपाएँ
१५३८: ऐतरेयब्राह्मणम् [ ३ ९.८ अष्टमपञ्चिकायां चतुर्थं श्लोकमाह—
दश नागसहस्राणि दत्त्वाऽऽत्रेयोऽवचनुके ।
श्रान्तः पारिकुटान् प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः ॥७ ॥
हिन्दी – ( चतुर्थ श्लोक — ) अवचलुके अवचत्नुक नामक स्थान पर अङ्गस्य आत्रेयः ब्राह्मणः अङ्गराज के ( पुरोहित ) अत्रिगोत्रीय ब्राह्मण ( उदमय ) दशनागसहस्राणि दत्वा दश हजार हाथियों का दान करके श्रान्तः थक गये तब दानेन दान देने के लिए पारिकुटान् प्रेप्सत् परिचारकों को भेजा ॥ सा ० भा ० — अङ्गराजस्य पुरोहितो ब्राह्मण आत्रेयः, अवचत्नुकनामदेशे गजसहस्राणि दशसंख्याकानि दत्त्वा दानेन श्रान्तः सन् ' पारिकुटान् ' परिचारकान् ‘ प्रैप्सत् ' हे परिचारका यूयं दत्तेत्येवमुक्तवानित्यर्थः ॥ पञ्चमं श्लोकमाह—
शतं तुभ्यं शतं तुभ्यमिति स्मैव प्रताम्यति ।
सहस्रं तुभ्यमित्युक्त्वा प्राणान् स्म प्रतिपद्यत इति ॥८ ॥
हिन्दी – ( एक - एक हाथी का दान करते - करते थक गये परिचारकों ने ) शतं तुभ्यं शतं तुभ्यम् इति सौ तुम्हारे लिए, सौ तुम्हारे लिये - इस प्रकार ( देते हुए भी ) प्रताम्यति स्म जब थक गये तब सहस्रं तुभ्यम् इति उक्त्वा हजार तुम्हारे लिए इस प्रकार कहकर ( दान करते हुए थक जाने पर थकाननिवारणार्थक बीच - बीच में ) प्राणान् प्रतिपद्यते स्म लम्बी प्राणवायु ( नि: श्वास ) को ले लेते हैं । सा ० भा ० — परिचारकाणामप्यग्र एकैकशो वक्तुमशक्तः, तुभ्यं शतं तुभ्यं शतमिति शतसंख्यां प्रोक्त्वा तत्रापि प्रताम्यति स्मैव ग्लानिमेव प्राप्तवान् । ततः शतसंख्यां परि-त्यज्य सहस्रं तुभ्यमित्युक्त्वा तस्यापि संख्यायां बहुशः प्रोक्तायामाश्रान्तः सन् प्राणान् प्रतिपद्यते स्म । मध्ये मध्ये श्रमपरिहाराय दीर्घश्वासं कृतवानित्यर्थः । अङ्गराजस्य पुरोहिता-याप्येतादृशसामर्थ्यं महाभिषेकप्रसादलब्धमिति तात्पर्यार्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेय ब्राह्मणभाष्ये अष्टमपञ्चिकायां चतुर्थाध्याये ( एकोनचत्वारिंशाध्याये ) अष्टमः खण्डः ॥८ ॥ ( २२ ) ( २७ ९ )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय के अष्टम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
पृष्ठ 687
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५३ ९ नवमः खण्डः सा ० भा ० – दुष्यन्तस्य पुत्रं भरताख्यं राजानमुदाहरति— ( भरताख्यराज्ञः निदर्शनम् ) एतेन ह वा ऐन्द्रेण महाभिषेकेन दीर्घतमा मामतेयो भरतं ' दौष्यन्ति-मभिषिषेच, तस्मादु भरतो दौष्यन्तिः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्चैश्च मेध्यैरीजे ॥ १ ॥
हिन्दी – ( दुष्यन्त के पुत्र भरत नामक राजा का उदाहरण दे रहे हैं - ) एतेन ह वै इन्द्रेण महाभिषेकेण इसी ( पूर्वोक्त ) इन्द्र के महाभिषेक से मामतेयः दीर्घतमा ममता नामक स्त्री के पुत्र दीर्घतमा ने भरतं दौष्यन्तिम् दुष्यन्तपुत्र भरत को अभिषिषेच अभिषिञ्चित किया । तस्मादु इसी ( अभिषेक ) से ही भरतः दौष्यन्तिः दुष्यन्त पुत्र भरत ने सर्वतः सभी दिशाओं से समन्तं पृथिवीं जयन् सम्पूर्ण पृथिवी को जीतते हुए परीयाय चारो ओर ( पृथिवी पर ) विचरण किया और अश्वैः च मेध्यैः ईजे यजनीय अश्वों से यजन किया || सा ० भा ० — ममताख्यायाः स्त्रियाः पुत्रो दीर्घतमा इत्येतन्नामा मुनिर्भरतमभिषि-षेच । भरतोऽपि दिग्विजयेन पृथिवीं परीत्य मेध्यैरश्वैरपीजे । उ चेति निपातयोः समूहः समुच्चयार्थः ॥ भरताभिषेकमाहात्म्यं दर्शयितुं श्लोकानुदाहरति-तदप्येते श्लोका अभिगीताः ॥ २ ॥
हिन्दी – ( भरत के महाभिषेक की महत्ता को दिखलाने के लिए श्लोकों को कह रहे हैं - ) तदपि उस ( भरत के ( महाभिषेक की महत्ता के विषय में ) एते श्लोकाः अभिगीताः ये श्लोक कहे गये हैं- ॥ सा ० भा०- -'तत् ' तस्मिन् भरताभिषेकमाहाम्येऽप्येते वक्ष्यमाणाः पञ्च ‘ श्लोकाः ’ अभितः परिगीयन्ते ॥ तत्र प्रथमं श्लोकमाह—
हिरण्येन परीवृतान् कृष्णाञ्शुक्लदतो मृगान् ।
मष्णारे भरतोऽददाच्छतं बद्वानि सप्त च ॥ ३ ॥
हिन्दी — ( प्रथम श्लोक — ) भरतः भरत ने मष्णारे मष्णार ( नामक स्थान ) में हिरण्येन परीवृतान् सुवर्ण के आभूषणों से सभी ओर विभूषित शुक्लदतः सफेद दाँतों ( १ ) ' दौष्यन्ति ' - – इति वा पाठ ।
पृष्ठ 688
पाठ पढ़ें पाठ छिपाएँ
१५४०: ऐतरेयब्राह्मणम् [ ३ ९.९ अष्टमपञ्चिकायां वाले कृष्णान् कृष्ण वर्ण ' वाले शतं सप्त च सौ और सात अर्थात् एक सौ सात मृगान् द्वानि हाथी के समूहों को अददात् दान किया ॥ सा ० भा०- -मृगशब्देनात्र गजा विवक्षिताः । मृगवदिति बाहुल्यविवक्षयाः मृग-शब्दः । ते च गजाःहिरण्येन परीवृताः सर्वाभरणयुक्ताः, शरीरपुष्ट्या वर्णोंत्कर्षे सत्यत्यन्तं कृष्णाः प्रतिभासन्ते । शुक्लाभ्यां दन्ताभ्यां युक्ताः, तादृशान् गजान् मष्णारनामके देशे भरतो राजा दत्तवान् । शतमित्यादि तत्संख्योच्यते । ' बद्धं ' ' वृन्दम् ' इत्येतौ पर्यायौ । वृन्दशब्दश्च ' शतकोटिवाचित्वेन गणिते ग्रन्थकारैर्दर्शितः— “ “ एकं दश च शतं च सहस्रं चायुतनियुते तथा । प्रयुतकोट्यर्बुदं वृन्दं स्थानं स्थानाद्दशगुणं स्यात् I २ ॥ इति । तानि च शतकोटिरूपाणि ' बद्वानि ' सप्ताधिकशतसंख्याकानि । तावतो गजान् दत्तवानित्यर्थः ॥ द्वितीयं श्लोकमाह—
भरतस्येष दौष्यन्तेरग्निः साचीगुणे चितः ।
यस्मिन् सहस्रं ब्राह्मणा बद्वशो गां विभेजिरे ॥४ ॥
हिन्दी— ( द्वितीय श्लोक— ) साचीगुणे साचीगुण ( नामक स्थान विशेष ) में दौष्यन्तेः भरतस्य दुष्यन्तपुत्र भरत ने अग्निः चित्तः अग्निचयन किया । यस्मिन् जिस ( अग्निचयन ) में सहस्र ब्राह्मणाः एक हजार ब्राह्मणों में बद्वशः गाः विभेजिरे सौ करोड़ गायों को बाँट लिया ॥ सा ० भा ० – साचिगुणनामके कस्मिंनश्चिद्देशे दुष्यन्तपुत्रस्य ‘ भरतस्यैषोऽग्निश्चितः ’ । अग्निचयनं कृतवानित्यर्थः । यस्मिन् अग्निचयने सहस्रसंख्याका ब्राह्मणाः ' बद्वशः ' प्रत्येकं शतकोटिसंख्यया गाः ४ विभेजिरे ' गवां विभागं कृतवन्तः ॥ ( १ ) अत्र किञ्चित् मानं न पश्यामः । ( २ ) “ एकदशशतसहस्त्रायुतलक्ष प्रयुतकोटयः क्रमशः । अर्बुदमब्जः ( शङ्खः ) खर्वनिखर्वौ महापद्मशङ्खवस्तस्मात् । जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञाः सङ्ख्याया व्यवहारार्थं कृताः पूर्वैः - इति लीला ० । ‘ एकं दश शतं चैव सहस्रमयुतं तथा, लक्षं च नियुतं चैव कोटिरर्बुदमेव च । वृन्दः खर्वो निखर्वश्च शङ्खपद्मौ च सागरः, अन्त्यं मध्यं परार्द्धं च दशवृद्ध्या यथोत्तरम् ॥ इति ब्राह्माण्डपु ० । ( ३ ) ‘ बद्वानि ’ - इत्यस्य स्थिराणि गजरूपद्रव्याणि देवयजनस्थितानि वेति चार्थः स्यात् । ( ४ ) ‘ बद्वश: ’ - इत्यस्य बन्धनक्रमेणेत्यप्यर्थः सुकरः स्यात्, स्थिरभावत इति वा ।
पृष्ठ 689
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः नवमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५४१
तृतीयं श्लोकमाह-अष्टसप्ततिं भरतो दौष्यन्तिर्यमुनामनु ।
गङ्गायां वृत्रघ्नेऽबध्नात् पञ्चपञ्चाशतं हयान् ॥५ ॥
हिन्दी – ( तृतीय श्लोक - ) दौष्यन्तिः भरतः दुष्यन्तपुत्र भरत ने यमुनाम् अनु यमुना के किनारे अष्टासप्ततिम् अठहत्तर और गङ्गायाम् गङ्गा के किनारे वृत्रघ्ने वृत्रघ्न नामक स्थान पर पञ्चपञ्चाशत् पचपन हयान् घोड़े को अबध्नात् बाँधा था ॥ सा ० भा ० – ' मेध्यैरश्वैरीजे ' इत्युक्ते ' तेषामश्वानां संख्याऽत्रोच्यते — अष्टाधिका सप्ततिः ‘ अष्टासप्ततिः ’ । ताम् अश्वानामष्टासप्ततिं दुष्यन्तपुत्रो भरतः ' यमुनामनु ' यमुनायास्तीरे ‘ अबध्नात् बद्धवान्, तावतोऽश्वमेधान् कृतवानित्यर्थः । ‘ गङ्गायां ' गङ्गातीरे वृत्रघ्ननामके देशे पञ्चाधिकपञ्चाशत् संख्याकान् हयान् ‘ अबध्नात् ' बद्धवान् । तावतोऽश्वमेधान् कृतवान् ॥ चतुर्थं श्लोकमाह—
त्रयस्त्रिंशच्छतं राजाऽश्वान् बद्ध्वाऽयं मेध्यान् ।
दौष्षन्तिरत्यगाद्राज्ञो मायां मायवत्तरः २ ॥६ ॥
हिन्दी – ( चतुर्थ श्लोक — ) दौष्यन्तिः दुष्यन्त के पुत्र भरत ने त्रयत्रिंशत् शतम् एक सौ तैंतीस मेध्यान् अश्वान् बध्वा यजनीय अश्व बाँधकर अयं राजा इस राजा ने मायावत्तरः अत्यन्त मायावी होकर राज्ञां मायाम् ( अपने शत्रु ) राजा की माया को अत्यगात् अतिक्रान्त ( तिरस्कृत ) कर दिया ॥ सा ० भा ० - – यमुनातीरे गङ्गातीरे चानुष्ठिता अश्वास्त्रयस्त्रिंशदधिकशतसंख्याकाः । तावतोऽश्वान् ‘ मेध्यान् ’ यज्ञयोग्यान् विध्युक्तक्रमेण बन्धनं कृत्वा, सोऽयं राजा दौष्यन्तिः ‘ मायवत्तरः ’ अतिशयेन मायावी सन्, ' राज्ञः ' स्वकीयशत्रोर्मायाम् ‘ अत्यगाद् ' अतिक्रान्तवान् ॥ पञ्चमं श्लोकमाह—
महाकर्म भरतस्य न पूर्वे नापरे जनाः ।
दिवं मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवा इति ॥७ ॥
हिन्दी — ( पञ्चम श्लोक— ) भरतस्य महाकर्म भरत के महान् कर्म को न पूर्वे न अपरे जनाः न ( उससे ) पूर्ववर्ती ( पिता इत्यादि ) और न उससे परवर्ती ( पुत्र इत्यादि ) लोग ( करने में समर्थ हुए ) । हस्ताभ्यां दिवं मर्त्यः इव न जिस प्रकार दोनों हाथों से द्युलोक को मनुष्य नहीं उदापुः प्राप्त करता है उसी प्रकार पञ्चमानवाः पञ्चमानव ( ब्राह्मण, क्षत्रिय, वैश्य, शूद्र और निषाद् ) ( इसके कार्यों की समानता को ) नहीं प्राप्त कर सके ॥ ( १ ) द्र ० इतः पूर्वम्, ३ ९.९ । ( २ ) मायावत्तरः- इति वा पाठ: ।
पृष्ठ 690
पाठ पढ़ें पाठ छिपाएँ
१५४२: ऐतरेयब्राह्मणम् [ ३ ९.९ अष्टमपञ्चिकायां सा ० भा०– ' भरतस्य ' राज्ञो तदेतत् ' महाकर्म '; तदेतत् ' पूर्वे ' पित्रादयो न कर्तुं शक्ताः । ‘ अपरे ’ जनाः पुत्रपौत्रादयश्च न कर्तुं शक्ताः । तत्र दृष्टान्तः - यथा मनुष्यो ‘ दिवं ’ स्वर्गं हस्ताभ्यां स्प्रष्टुमशक्तः, एवं ' पञ्च मानवाः ' निषादपञ्चमाश्चत्वारो वर्णाः ' ' नोदापुः ’ तदीयं कर्म प्राप्तुमशक्ताः सोऽयं सर्वोऽपि महाभिषेकस्य महिमेत्यर्थः ॥ अथ सम्प्रदायकथनमुखेन महाभिषेकं प्रशंसति— एतं ह वा ऐन्द्रं महाभिषेकं बृहदुक्थ ऋषिर्दुर्मुखाय पाश्चालाय प्रोवाच; तस्मादु दुर्मुखः पाञ्चालो राजा सन् विद्यया समन्तं सर्वतः पृथिवीं जयन् परीयाय ॥८ ॥
हिन्दी - ( अब सम्प्रदाय कथन द्वारा महाभिषेक की प्रशंसा कर रहे हैं - ) एतं ह वै ऐन्द्रं महाभिषेकम् इसी इन्द्र के महाभिषेक को बृहदुक्थ ऋषिः बृहदुक्थ नामक ऋषि ने दुर्मुखाय पाञ्चालाय दुर्मुख पाञ्चाल के लिए प्रोवाच कहा था । तस्मादु उसके कारण दुर्मुखः पाञ्चालः दुर्मुख पाञ्चाल ने राजा सन् राजा होकर विद्यया महाभिषेक की विद्या ( के ज्ञान ) से समन्तः समन्तं पृथिवीं सभी दिशाओं से सम्पूर्ण पृथिवी को जीतते हुए परियाय चारो ओर विचरण किया । सा ० भा ० — बृहदुक्थनामकः कश्चिदृषिः पञ्चालदेशस्वामिने दुर्मुखनाम्ने राज्ञे तमेत-मिन्द्रसम्बन्धिनं महाभिषेकं प्रोवाच । तस्मादेव कारणाद् स राजा सन् ' विद्यया ' महाभिषेक-ज्ञानेनैव सर्वासु दिक्षु समन्तं समग्रं जयन् ' परीयाय ' परितः सञ्चचार ॥ अथ ब्राह्मणस्योक्ताभिषेकाधिकाराभावेऽपि तद्विद्याधिकारसद्भावात् फलसिद्धिं दर्शयति— एतं ह वा ऐन्द्रं महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जानंतपये प्रोवाच; तस्माद्वत्यरातिर्जानंतपिरराजा सन् विद्यया समन्तं सर्वतः पृथिवीं जयन् परीयाय ॥९ ॥
हिन्दी - ( अब ब्राह्मण के उस इन्द्र के महाभिषेक का अधिकारी न होने पर भी उस विद्या के ज्ञान के होने से उसके फल को दिखला रहे हैं - ) एतं ह वै ऐन्द्रं महाभिषेकम् इस इन्द्र के महाभिषेक को वासिष्ठः सातहव्यः वसिष्ठ गोत्रीय सातहव्य ने अत्यरातये जानंतपये अत्यराति जानंतपि से प्रोवाच कहा । तस्मादु इससे अत्यरातिः जानंतपिः अत्यराति जानंतपि ने अराजा सन् राजा न होकर भी विद्यया ( इस महाभिषेक के ) ज्ञान से सर्वतः सभी दिशाओं से समन्तं पृथिवीं जयन् सम्पूर्ण पृथिवी को जीतते हुए परीयाय चारो ओर ( पृथिवी पर ) विचरण किया । ( १ ) गान्धर्वाः पितरौ देवा असुरा रक्षांसीत्येके, चत्वारो वर्णा निषादः पञ्चमः —— - ' इत्यौपम-न्यवः ' - इति निरु ० ३.२.२ ।