ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 691–700
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 691–700
पृष्ठ 691
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः नवमः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: १५४३ सा ० भा ० — वसिष्ठगोत्रोत्पन्नो ' वासिष्ठः ', सत्यहव्यस्य पुत्रः ‘ सात्यहव्यः ' तादृशो मुनिरत्यरातिनामकाय जनंतपपुत्राय ब्राह्मणाय, महाभिषेकं प्रोवाच । तस्मादेव कारणाद-यमत्यरातिर्जानंतपिः स्वयमराजा सन्नप्यधिकविद्यया जयं प्राप्तः परितो गतवान् ॥ यथाऽभिषेके शपथं कृत्वा गुरुद्रोहो न कर्तव्य एवं विद्यायामपीति दर्शयति— ( विद्यादानेऽपि गुरुद्रोहवर्णनम् ) स होवाच वासिष्ठः सात्यहव्योऽजैषीर्वै समन्तं सर्वतः पृथिवीं महन् मा गमयेति; स होवाचात्यरातिर्जानंतपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमु हैव पृथिव्यै राजा स्याः, सेनापतिरेव तेऽहं स्यामिति; स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वै तन्न वैतन् मर्त्ये जेतुमर्ह-त्यक्षो वै म आत इदं दद इति ततो हात्यरातिं जानंतपिमात्तवीर्यं निः शुक्रममित्रतपनः शुष्मिणः शैब्यो राजा जघान ॥ १० ॥
हिन्दी - ( महाभिषेक में शपथ को लेकर क्षत्रिय को गुरु = आचार्च से द्रोह नहीं करना चाहिए - इसे दिखला रहे हैं - ) सः वासिष्ठः सातहव्यः ह उवाच उस वसिष्ठगोत्रीय सातहव्य ने ( अत्यराति जानंपति से ) कहा ( कि हे अत्यराति! ) सर्वतः समन्तं पृथिवीं अजैषिः वै तुमने सभी दिशाओं से समस्त पृथिवी को जीत लिया है, अतः महन् मा गमय तुम मुझे ऐश्वर्य को प्रदान करो । सः अत्यरातिः जानंपतिः ह उवाच ( तब ) उस अत्यराति जानंतपि ने कहा कि ब्राह्मण हे ब्राह्मण! यदा जब उत्तरकुरुं जयेयम् जब ( हिमालय पर्वत के उत्तर के देश ) उत्तरकुरु को जीतूंगा अथ त्वमु ह एव पृथिव्यै राजा स्याः तब तुम ही पृथिवी के राजा होना और अहं ते सेनापतिः एव स्याम मैं तुम्हारा सेनापति रहूँगा । सः वासिष्ठः सात्यहव्यः ह उवाच तब फिर उस वसिष्ठ - गोत्रीय सात्यहव्य ने ( अत्यराति जानंपति से ) कहा कि ( हे जानंपति! ) तत् वह ( उत्तरकुरु ) देवक्षेत्रं वै निश्चित रूप से देवताओं का क्षेत्र है अतः अनुक्षः वै मे निश्चित रूप से मुझे ( ऐश्वर्य देने में वञ्चना के लिए ) तुमने यह कहा है । अतः इदं आददे अतः इस ( अभिषेक ज्ञान ) का मैं अपहरण कर रहा हूँ । ततः इस ( महाभिषेक ज्ञान के अपहरण ) के बाद आत्तवीर्य निःशुक्रं अत्यरातिं जानंपतिम् अपहृत वीर्य वाले और तेजरहित अत्यरात्रि जानंपति को अमित्रतपनः शैव्यः शुष्मिणः राजा शत्रु को दुःखी करने वाले शिविदेश के शुष्मिण ( नामक ) राजा ने जघान मार डाला ॥ सा ० भा ० — सात्यहव्यो वासिष्ठो गुरुः, अत्यरातिं शिष्यमेवमुवाच - हे अत्यराते, विद्यासामर्थ्यात् पृथिवीं जितवानसि । अतो ' मां ' गुरुं ' महद्गमय ' महत्त्वमैश्वर्यं प्रापयः । ततः शिष्योऽत्यरातिरेवमुवाच — मा भूदिदानीं तव महत्त्वम्, हे ' ब्राह्मण आचार्य यदा अहम् उत्तरकुरुन् एतन्नामकान् हिमवत्पर्वतस्योत्तरदेशाञ्जयेयं, तदानीं त्वमेव पृथिव्याः राजा भव । अहं तु त्वदीयसेनापतिरेव भवामीति । ततः सात्यहव्यो वासिष्ठः ' सः ' गुरुरेवमुवाच -
पृष्ठ 692
पाठ पढ़ें पाठ छिपाएँ
१५४४: ऐतरेयब्राह्मणम् [ ३ ९.९ अष्टमपञ्चिकायां हेऽत्यराते हिमवत्पर्वतस्योत्तरतो ' तद्देवक्षेत्रम्, अतस्तत्क्षेत्रं मनुष्यो जेतुं नैवार्हति । त्वं ‘ मे मह्यम् ‘ अद्रुक्षो वै ’ कृतवानेव । मदपेक्षितं महत्त्वं दातुमनिच्छुः सन् वञ्चनार्थं यत्कि-ञ्चिदुक्तवानसि । अतः शपथोल्लङ्घिनो गुरुद्रोहिणस्तव ' इदं ' सामर्थ्यम् ' आददे अपहरा-मीति । ‘ ततः ’ सामर्थ्यापहरणादत्यरातिं जानंतपिं ' आतवीर्यं ' गुरुणाऽपहृतवीर्यम् ' निः-शुक्रम् ' अपहृततेजस्कं, कश्चिच्छत्रुतापनः शिबिपुत्रः शुष्मिणाख्यो ' राजा ' जघान हतवान् ॥ एतद्वृत्तान्तकथनफलं दर्शयति— तस्मादेवंविदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो दुह्येन्द्राष्ट्रादवपद्येयं नेवा मा प्राणो जहदिति, जहदिति ॥११ ॥
हिन्दी – ( इस वृत्तान्त के फल को कह रहे हैं - ) तस्मात् इसी कारण ' न इद् राष्ट्राद् अवपद्येयम् मैं राष्ट्र से च्युत न हो जाऊँ अथवा न इट् मा प्राणः जहत् ( मेरे ) प्राण मुझको न छोड़ दें'- इस अभिप्राय से इति एवं चक्रषे इस महाभिषेक को कराने वाले एवं विदुषे ब्राह्मणाय इस प्रकार ( इस महाभिषेक ) के ज्ञाता ब्राह्मण से क्षत्रियः न दुहेत् ( अभिषिक्त ) क्षत्रिय को द्रोह नहीं करना चाहिए । सा ० भा ० — यस्माद्गुरुद्रोहे महती हानिरुक्ता, ' तस्मादेवंविदुषे ' महाभिषेकाभिज्ञाय ' एवंचक्रुषे ' अभिषेककर्त्रे, ' ब्राह्मणाय आचार्याय क्षत्रियो न ह्येत् । केनाभिप्रायेणेति? सोऽभिधीयते – ‘ राष्ट्राद् ’ अस्माद्देशात् ' न इत् अवपद्येयं ' नैव भ्रष्टो भूयासम् । अथवा मा प्राणो
न इत् जहन्नेव परित्यजत्वित्यभिप्रायः । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये अष्टमपञ्चिकायां चतुर्थाध्याये ( एकोनचत्वारिंशाध्याये ) नवमः खण्डः ॥९ ॥ ( २३ ) ( २८० )
॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय के नवम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधर-माधवाचार्यादेशतो श्रीमत्सारणाचार्येण विरचिते माधवीये ' वेदार्थ-प्रकाशे ' नामभाष्ये ऐतरेय ब्राह्मणभास्ये अष्टमपञ्चिकायाः चतुर्थोऽध्यायः ( एकोनचत्वारिंशोऽध्यायः ) ॥४ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के उनतालीसवें अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ' मेरोरुत्तरतो ' - इति वा पाठ: ।. ( २ ) ' शुष्म्याख्यो'- इति वा पाठः ।
पृष्ठ 693
पाठ पढ़ें पाठ छिपाएँ
अथाष्टमपञ्चिकायां पञ्चमोऽध्यायः [ अथ चत्वारिंशोऽध्यायः ] प्रथमः खण्डः
सायणभाष्यम्— महाभिषेक ऐन्द्रो यः क्षत्त्रस्यासौ पुरोहितः ।
पौरोहित्यं ब्राह्मणस्य वक्तव्यमधुनोच्यते ॥१ ॥
तदेतत् प्रतिजानीते— ( पौरोहित्यविधिकथनम् ) अथातः पुरोधाया एव ॥१ ॥
हिन्दी — अथ अब ( क्षत्रिय के अभिषेक के कथन के बाद ) पुरोधायाः एव पौरोहित्य की ( विधि को कह रहे हैं ) ॥ सा ० भा०- - ' अथ ' क्षत्रियस्य महाभिषेककथनानन्तरम्, यतो ब्राह्मणस्य पौरोहित्यं बहुषु श्रुतं ' भवति । अतः कारणात् ' पुरोधाया एव ' पौरोहित्यस्यैव विधिः, उच्यत इति शेषः ॥ तद्विधिं दर्शयति— न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति, तस्माद् राजा यक्ष्यमाणो ब्राह्मणं पुरोदधीत, - देवा मेऽन्नमदन्निति ॥ २ ॥
हिन्दी - अपुरोहितस्य राज्ञः पुरोहितविहिन राजा के अन्नम् अन्न को देवाः देवता लोग न ह वै अदन्ति निश्चित रूप से ही नहीं खाते हैं । तस्मात् इसी कारण यक्ष्यमाणः राजा यजन करने की इच्छा करता हुआ राजा ब्राह्मणं पुरोदधीत् ब्राह्मण को ( इस प्रयोजन से ) आगे रखे अर्थात् पुरोहित बनावे कि देवाः मे अन्नम् अदन् देवता मेरे अन्न को खायें ॥ सा ० भा ० — यस्माद् ' अपुरोहितस्य राज्ञोऽन्नं देवा ' ' नादन्ति ' न भक्षयन्ति; ‘ त-स्माद् ' राजा यक्ष्यमाणो ब्राह्मणं पुरोहितं कुर्यात् । केनाभिप्रायेणैति? सोऽभिधीयते— देवाः मदीयमन्नमदन्नदन्त्विति तस्याभिप्रायः । ' अयक्ष्यमाणः ' इति वा पदच्छेदः । यागा-भावेऽपि प्रजापरिपालने धर्मबोधनाय पुरोहितः सम्पादनीयः ॥ तदेवमेतत्प्रशंसति— ( १ ) ' बुभुत्सितं ' इति वा पाठः ।
पृष्ठ 694
पाठ पढ़ें पाठ छिपाएँ
१५४६: ऐतरेयब्राह्मणम् [ ४०.१ अष्टमपञ्चिकायां ( पुरोहितप्रशंसनम् ) अग्नीन् वा एष स्वर्ग्यान् राजोद्धरते, यत्पुरोहितम् ॥ ३ ॥
हिन्दी - यद् राजा जो राजा पुरोहितम् उद्धरते पुरोहित का सम्पादन करता है, एषः यह स्वर्ग्यान् अग्निन् स्वर्ग ले जाने वाली अग्नि का स्थापन करता है ॥ सा ० भा ० – पुरोहितं सम्पादयतीति यदस्ति, तेन ' एष: ' राजा स्वर्गहेतूनग्नीने-वोद्धरते ॥ तानग्नीन् दर्शयति— तस्य पुरोहित एवाऽऽहवनीयो भवति जाया गार्हपत्यः, पुत्रोऽ-न्वाहार्यपचनः, स यत्पुरोहिताय करोत्याहवनीय एव तज्जुहोत्यथ यज्जायायै करोति गार्हपत्य एव तज्जुहोत्यथ यत्पुत्राय करोत्य-न्वाहार्यपचन एव तज्जुहोति; त एनं शान्ततनवोऽभिहता अभिप्रीताः स्वर्गं लोकमभिवहन्ति, - क्षत्त्रं च बलं च राष्ट्रं च विशं च ॥ ४ ॥
हिन्दी— ( उन अग्नियों को दिखला रहे हैं - ) तस्य उस ( राजा ) का पुरोहितः एव पुरोहित ही आहवनीयः आहवनीयाग्नि है, जाया गार्हपत्यः पत्नी गार्हपत्याग्नि, पुत्रः अन्वाहार्यपचनः पुत्र दक्षिणाग्नि भवति है । सः वह ( राजा ) पुरोहिताय यत्करोति पुरोहित के लिए जो भी करता है तद् आहवनीये एव जुहोति वह आहवनीय में ही होम करता है, यत् जायायै करोति जो पत्नी के लिए करता है, तद् गार्हपत्ये एव जुहोति वह गार्हपत्याग्नि में ही होम करता है । अथ और यत् पुत्राय करोति जो पुत्र के लिए करता है तद् अन्वाहार्यपचने एव जुहोति वह अन्वाहार्यपचन ( दक्षिणाग्नि ) में ही होम करता है । अत: ते वे ( अग्नियाँ ) शान्ततनवः अभिहुताः अभिप्रीताः ( अपने उग्ररूप को छोड़कर ) अभीष्ट होम से शान्त और प्रसन्न होकर एनम् - इस ( क्षत्रिय ) को स्वर्गं लोकम् अभिवहन्ति स्वर्गलोक को प्राप्त कराती हैं । ( और पुरोहित की प्रसन्नता से ) क्षत्रं च बलं च राष्ट्रं च विशं च क्षत्रियत्व, बल, राष्ट्र और प्रजा को प्राप्त कराती हैं । सा ० भा ० – ‘ तस्य ' राज्ञः पुरोहितादय एवाऽऽहवनीयाद्यग्निस्थानीयाः । ‘ अन्वा-हार्यपचनः ' दक्षिणाग्निः । ' सः ' राजा पुरोहितादिभ्यो ' यत् ' अपेक्षितं करोति, तदेतदाह-वनीयादिषु होमसमानम् । अतः पुरोहितद्वारा ' ते ' अग्नयः ' शान्ततनव: ' स्वकीयमुग्ररूपत्वं परित्यज्याभीष्टहोमेन प्रीताः ' एनं ' क्षत्त्रियं स्वर्गादिकं प्रापयन्ति । क्षत्त्रं मानसोत्साहरूपं शौर्यम् । ‘ बलं ’ शारीरम् । ‘ राष्ट्रं ' देश: । ' विट् ' प्रजाः । पुरौहितादिप्रीत्या तदेतत् सर्वं प्राप्यते ॥ विपक्षे बाधकमाह—
पृष्ठ 695
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५४७ त एवैनमशान्ततनवोऽनभिहुता अनभिप्रीताः स्वर्गील्लोकानुदन्ते, क्षत्त्राच्च बलाच्च राष्ट्राच्च विशश्च ॥ ५ ॥
हिन्दी – ते एव वे ही ( तीनों अग्नियाँ पुरोहित इत्यादि के द्वारा ) अशान्त तनवः उग्ररूप वाली, अनभिहुताः अभीष्ट होम से रहित और अनभिप्रीताः अप्रसन्न होकर स्वर्गाल्लोकाद् स्वर्ग लोक से, क्षत्रात् क्षत्रियत्व से, बलात् च बल से, राष्ट्रात् च राष्ट्र से और विशः च प्रजाओं से उदन्ते च्युत कर देती है । सा ० भा०- - ' त एव ' पुरोहितादयोऽभीष्टहोमाभावेन प्रीतिरहिताः ' अशान्ततनवः ’ स्वर्गादेः ‘ एनं ’ राजानम् अपनुदन्ते ॥ पुनरपि पुरोहितं प्रकारान्तरेण प्रशंसति— ( प्रकारान्तरेण पुरोहितप्रशंसनम् ) अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्तस्य वाच्येवैका मेनि-र्भवति, पादयोरेका, त्वच्येका, हृदय एकोपस्थ एका, ताभिर्ज्वलन्ती-भिर्दीप्यमानाभिरुपोदेति राजानं, स यदाह क्व भगवोऽवात्सीस्तृणा-न्यस्मा आहरतेति तेनास्य तां शमयति याऽस्य वाचि मेनिर्भवत्यथ यदस्मा उदकमानयन्ति पाद्यं, तेनास्य तां शमयति याऽस्य पादयो-निर्भवत्यथ यदेनमलं कुर्वन्ति, तेनास्य तां शमयति याऽस्य त्वचि मेनिर्भवत्यथ यदेनं तर्पयन्ति, तेनास्य तां शमयति याऽस्य हृदये मेनिर्भवत्यथ यदस्यानारुद्धो वेश्मसु वसति, तेनास्य तां शमयति याऽस्योपस्थे मेनिर्भवति ॥ ६ ॥
हिन्दी – ( प्रकारान्तर से पुरोहित की प्रशंसा कर रहे हैं - ) यत् पुरोहितः जो पुरोहित है, एषः वैश्वानरः अग्निः वै यह वैश्वानर अग्नि ही है । पञ्चमेनिः परोपद्रवकारी ( क्रोधरूपी ) पाँच शक्तियों से सम्पन्न तस्य वाचि उस ( पुरोहित ) की वाणी में एका मेनिः भवति एक ( बाधक ) शक्ति होती है, पादयोः एका पैरों में एक, त्वचि एका त्वचा में एक, हृदये एका हृदय में एक और उपस्थे एका उपस्थ में एक ( बाधक शक्ति होती हैं ) । अतः ताभिः ज्वलन्तीभिः दीप्यमानाभिः उन जलती हुई देदीप्यमान ( पाँच शक्तियों के साथ पुरोहित ) राजानम् उपादेति राजा के समीप आता है । सः यदा आह वह ( राजा ) जब ( पुरोहित से ) कहता है कि भगवः हे भगवन्! क्व अवात्सीः ( अब तक ) कहाँ थे? अरे हे परिचारको! अस्मै तृणानि अहरत इस ( पुरोहित को बैठने के लिए ( कुशादि ) तृण से निर्मित आसन को ले आओ तो या अस्य वाचि मेनिः भवति जो इस पुरोहित की वाणी में बाधक शक्ति होती है तेन उस ( प्रियवचन ) से अस्य इस ( पुरोहित ) के तां शमयति उस ( बाधिका शक्ति ) का शमन कर देता है । यद् अस्मै पाद्यम् उदकम्
पृष्ठ 696
पाठ पढ़ें पाठ छिपाएँ
१५४८: ऐतरेयब्राह्मणम् [ ४०.१ अष्टमपञ्चिकायां आनयन्ति जो इस ( पुरोहित ) के लिए पैर धोने का जल लाते हैं, तो या अस्य पादयोः मेनिः भवति जो इस ( पुरोहित ) के दोनों पैरों में बाधक शक्ति होती है तेन उस ( जल लाने ) से तां शमयति उस ( बाधक शक्ति ) का शमन करता है । अथ इसके बाद यद् एनम् अमलं कुर्वन्ति जो इस ( पुरोहित ) को ( वस्त्र इत्यादि ) से अलङ्कृत करते हैं तो या अस्य त्वचि मेनिः भवति जो इस ( पुरोहित ) की त्वचा में बाधक शक्ति होती है तेन उस ( अलङ्करण ) से अस्य तां शमयति इस ( पुरोहित ) के उस ( बाधक शक्ति ) को शान्त करता । अथ इसके बाद यद् एनं तर्पयन्ति जो इस ( पुरोहित ) को ( सम्पत्ति इत्यादि देकर ) तृप्त करते हैं तो या अस्य हृदये मेनिः भवति जो इस ( पुरोहित ) के हृदय में क्रोध की बाधक शक्ति होती है तेन उसी ( धनादि के देने ) से अस्य तां शमयति इस पुरोहित की उस ( शक्ति ) को शान्त करता है । अथ इसके बाद यद् अस्य वेश्मसु अनारुद्धः वसति जो इस ( राजा ) के भवन में स्वतन्त्र होकर पुरोहित निवास करता है तो या अस्य उपस्थे मेनिः भवति जो इस ( पुरोहित ) के उपस्थ में बाधक शक्ति होती है तेन उस ( निवास ) से अस्य तां शमयति इस ( पुरोहित ) की उस शक्ति का शमन करता है ॥ सा ० भा ० – परोपद्रवकारिणीक्रोधरूपा ' शक्तिः ' ' मेनिः ’ - इत्युच्यते, —यथाऽ-ग्नेर्ज्वाला, तद्वत् । अतो यः पुरोहितोऽस्ति, सोऽयं पञ्चविधमेन्युपेतो वैश्वानरनामकाग्नि-समानः । वागादीनि पञ्च मेनिस्थानानि । अतः पुरोहितः ताभि: मेनिभिः ज्वलन्तीभि ज्वा-लासदृशीभिः दीप्यमानाभिः परेषु दीप्तिं संतापं कुर्वन्तीभिः सह राजानाम् ' उपोदेति ' समीपे प्राप्नोति । तदा ‘ स: ’ राजा हे भगवन्नेतावन्तं कालं कुत्रावात्सीः? एतस्य पुरोहितस्यो-पवेशनार्थं हे परिचारकाः ‘ तृणानि ' तृणनिर्मितकुशाद्यासनान्याहरत, ' इति ' अनेन राज-सम्बन्धिना प्रियवाक्येन वाच्येका या ' मेनिः ' बाधिका शक्तिः, तां स राजा शमयति । पाद्यासर्थोदकानयनेन पादगता मेनिः शाम्यति । वस्त्रगन्धाद्यलङ्करणेन त्वग्गता मेनिः शाम्यति । धनादिना संतर्पणेन हृदयगता मेनिः शाम्यति । ' अस्य ' राज्ञो वेश्मसु ‘ अनारुद्धोः ' निरोध-रहितः शयनादिकं कुर्वन् विस्रंम्भेण वसतीति यदस्ति, तेनोपस्थास्था मेनिः शाम्यति । गृहे समागतस्य पुरोहितस्यैतावन्त उपचाराः कर्तव्या इत्यर्थः ॥ अन्वयव्यतिरेकाभ्यामुक्तोपचारं प्रशंसति— स एनं शान्ततनुरभिहुतोऽभिप्रीतः स्वर्गं लोकमभिवहति, क्षत्त्रं च बलं च राष्ट्रं च विशं च स एवैनमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वर्गांल्लोकान्नुदते क्षत्त्राच्च बलाच्च राष्ट्राच्च विशश्च ॥७ ॥
हिन्दी— ( अन्वय और व्यतिरेक के द्वारा पूर्वोक्त उपचार की प्रशंसा कर रहे हैं— ) सः शान्ततनुः अभिहुतः अभिप्रीतः वह ( अग्नि रूप पुरोहित ) होम ( उपचार ) के द्वारा शान्त शरीर वाला और प्रसन्न होकर एनं इस ( राजा ) को स्वर्गं लोकम् स्वर्गलोक, क्षत्रं
पृष्ठ 697
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५४ ९ च बलं च राष्ट्रं च विशं च क्षत्रियत्व, बल, राष्ट्र और प्रजा को प्राप्त कराता है । तथा सः अशान्ततनुः अनभिहुतः अनभिप्रीतः वह ( अग्निरूप पुरोहित ) होम ( उपचार ) के अभाव के कारण अशान्त शरीर वाला तथा अप्रसन्न होकर एनम् इस ( राजा ) को स्वर्गात् लोकात् स्वर्ग लोक, क्षत्रात् च क्षत्रियत्व, बलात् च बल और राष्ट्रात् च राष्ट्र से नुदते च्युत कर देता है |
सा ० भा ० -उक्तोपचारहोमेन प्रीतौ सत्यां शान्ततनुः स्वर्गादिकं प्राययतित्यन्वयः ।
उक्तोपचारहोमाभावे स्वर्गादेरपनुदतीति व्यतिरेकः ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये अष्टमपञ्चिकायां पञ्चमाध्याये ( चत्वारिंशाध्याये ) प्रथमः खण्डः ॥१ ॥ ( २४ ) ( १८१ )
॥ इस प्रकार ऐतरेयब्राह्मण के चालीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ द्वितीयः खण्डः सा ० भा ० — उक्तोपचारेण प्रीतं पुरोहितं दृष्टान्तेन प्रशंसति— ( दृष्टान्तेन पुरोहितस्य प्रशंसनम् ) अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति, समुद्र इव भूमिम् ॥ १ ॥
हिन्दी – ( उपचार से प्रसन्न पुरोहित की प्रशंसा कर रहे हैं— ) यद् एषः पञ्चमेनिः पुरोहितः जो यह पाँच उपद्रवकारी शक्तियों वाला पुरोहित है, वह वैश्वानरः अग्निः वै वैश्वानर अग्नि रूप ही है । ( वह पुरोहित ) ताभिः उन ( पाँच शान्त शक्तियों ) से समुद्रः भूमिम् इव भूमि को घेरे हुए समुद्र के समान राजानं परिगृह्य तिष्ठति राजा को चारो ओर से घेरकर स्थित होता है । सा ० भा ० — योऽयं पुरोहितोऽस्ति स एषः ' पञ्चमेनिः ' पञ्चविधोग्रशक्तियुक्तो वैश्वानरनामकोऽग्निरेव निग्रहानुग्रहयोरग्निवच्छक्तिमहत्त्वात् । पुरोहितः ' ताभिः ' शान्ताभिः शक्तिभिस्तं राजानं ‘ परिगृह्य ' परितः स्वीकृत्य तिष्ठति । यथा समुद्रो भूमिं परितः स्वीकृत्य तिष्ठति, तद्वत् ॥ पुरोहितवशादनिष्टं परिहारयति— अयुवमार्यस्य राष्ट्रं भवति, नैनं पुराऽऽयुषः प्राणो जहात्याजरसं
पृष्ठ 698
पाठ पढ़ें पाठ छिपाएँ
१५५०: ऐतरेयब्राह्मणम् [ ४०.२ अष्टमपञ्चिकायां जीवति, सर्वमायुरेति, न पुनम्रियते, यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः ॥२ ॥
हिन्दी – यस्य जिस ( राजा ) का एवं विद्वान् इस प्रकार ( वेदादि को ) जानने वाला राष्ट्रगोपः ब्राह्मणः राष्ट्र के रक्षण में समर्थ ब्राह्मण पुरोहितः पुरोहित होता है, उस आर्यस्य श्रेष्ठ ( राजा ) का राष्ट्रम् राष्ट्र अयुवम् भवति स्थिर अथवा युवकों की मृत्यु से रहित होता है । एनम् इस ( राजा ) को प्राणः प्राण, आयुषः पुरा आयुष से पहले न जहाति नहीं छोड़ता है । वह आजरसं जीवति वृद्धावस्था तक जीवित रहता है, सर्वम् आयुः एति सम्पूर्ण आयु को प्राप्त करता है और न पुनः म्रियते ( मृत्यु को प्राप्त करके पुनर्जन्माभाव के कारण ) पुनः मृत्यु को नहीं प्राप्त करता है । सा ० भा ० — ‘ यस्य ' राज्ञ ' एवं विद्वान् ' वेदशास्त्रोक्तप्रकारेण धर्माधर्मौ बोधयि-तुमभिज्ञो ब्राह्मणो ‘ राष्ट्रगोपः ' राज्यपरिपालनक्षमः पुरोहितो भवति । ईदृशस्याऽऽर्यस्य राज्ञो राष्ट्रम् ‘ अयुवं ’ कदाचिदपि पृथग्भावरहितं भवति । ' यु मिश्रणामिश्रणयोः ' इति धातुः १ अमिश्रणे वर्तते । अयुवमिति पदेन स निषिध्यते । राष्ट्रमस्थिरं न भवतीत्यर्थः । अथवा ' अस्य ' राष्ट्रम् ‘ अयुवमारि ' युवमरणरहितं भवतीत्यर्थः । ' एनं ' राजानम् ' आयुषः ' ' पुरा ' प्राणो न परित्यजति, अपमृत्युर्न भवतीत्यर्थः । अत एव ' आजरसं ' जरापर्यन्तं सुखेन जीवति । ‘ सर्वमायुरेति ’ प्राप्तायामपि जरायामवशिष्टं सर्वमायुः प्राप्नोति । ततः सकृन्मृत्वा ' न पुनर्मियते ' पुरोहितमुखेन तत्त्वज्ञानं सम्पाद्य मुच्यत इत्यर्थः ॥ अनिष्टपरिहारं दर्शयित्वेष्टप्राप्तिं दर्शयति— क्षत्त्रेण क्षत्त्रं जयति, बलेन बलमश्नुते, यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपपुरोहितः ॥ ३ ॥
हिन्दी — अस्य जिस ( राजा ) का एवं विद्वान् राष्ट्रगोपः ब्राह्मणः पुरोहितः इस प्रकार वेदशास्त्रादि का ज्ञाता और राष्ट्र- रक्षण करने में समर्थ ब्राह्मण पुरोहित होता है, वह क्षत्रेण क्षत्रं जयति ( अपने पुत्र, सैनिक इत्यादि ) क्षत्रियों अथवा अपने क्षत्रियत्व से ( शत्रु ) क्षत्रिय ( राजा ) को जीत लेता है तथा बलेन बलम् अश्नुते बल ( अपनी सेना ) से ( शत्रु के ) बल ( सेना ) को प्राप्त करता ( पराभूत करता है ॥ सा ० भा ० — उक्तविधपुरोहितयुक्तो राजा स्वकीयेन ' क्षत्त्रेण ' कुमारादिना, परकीयं ‘ क्षत्त्रं ’ कुमारादिकं जयति । तथा स्वकीयेन ' बलेन ' सैन्येन, परकीयं ' बलं ’ ' सैन्यम् ‘ अश्नुते ’ व्याप्नोति, अभिभवतीत्यर्थः ॥ इष्टप्राप्त्यनिष्टपरिहारौ दर्शयित्वा प्रजानुरागं दर्शयति— ( १ ) अदा ० ११०७ ।
पृष्ठ 699
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः तृतीयः खण्डः ] तस्मै विशः सञ्जानते, सम्मुखा राष्ट्रगोपः पुरोहितः ॥४ ॥
हिन्दी - यस्य जिस ( राजा ) का एवं वाला राष्ट्र - रक्षा में समर्थ ब्राह्मण पुरोहितः ( राजा ) के लिए प्रजायें एकमत होती है ( उसके सम्मुख रहती हैं । सा ० भा ० – उक्तविधपुरोहितयुक्ताय सायणाचार्यकृतभाष्योपेतम्: १५५१ एकमनसो यस्यैवं विद्वान् ब्राह्मणो विद्वान् राष्ट्रगोपः ब्राह्मणः इस प्रकार जानने पुरोहित होता है तस्मै विशः सञ्जानते उस और सम्मुखाः एकमनसः एकमत होकर ' तस्मै ' तस्य राज्ञो ‘ विशः ' प्रजाः ‘ सञ्जानते ’ राज्ञा सहैकमत्यं प्राप्नुवन्ति । प्राप्य च परस्परमप्येकमनस्का राज्ञः सम्मुखा भवन्ति । न तु कस्मिन्नपि कार्ये विमुखाः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये अष्टमपञ्चिकायां पञ्चमाध्याये ( चत्वारिंशाध्याये ) द्वितीयः खण्डः || २ ॥ ( २५ ) ( २८२ ) ॥ इस प्रकार ऐतरेयब्राह्मण के चालीसवें अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ तृतीयः खण्डः सा ० भा ० – पुरोहितमहिमानं दर्शयितुं मन्त्रमुदाहरति— ( ऋषिप्रोक्तं पुरोहितमाहात्म्यम् ) तदप्येतदृषिणोक्तम् ॥ १ ॥
हिन्दी – ( पुरोहित की महिमा को दिखलाने के लिए मन्त्र को उदाहरित कर रहे हैं— ) तदपि उस ( पुरोहित की महिमा ) के विषय में ऋषिणा एतदुक्तम् ऋषि के द्वारा यह ( ऋचार्ध ) कहा गया है । सा ० भा०- - ' तदेतत् ' पुरोहितमाहात्म्यम् ' अपि ' ' ऋषिणा ' मन्त्रदर्शिना तिसृभि-ऋग्भिः ' उक्तम् ॥ तत्र प्रथमाया ऋचः पूर्वार्धं दर्शयति-स इन्द्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति ॥ २ ॥
( १ ) ऋ ० ४.५०.७ - ९
पृष्ठ 700
पाठ पढ़ें पाठ छिपाएँ
१५५२: ऐतरेयब्राह्मणम् [ ४०.३ अष्टमपञ्चिकायां हिन्दी — ( प्रथमर्च: पूर्वार्ध — ) सः इत् राजा वही ( पुरोहित से सम्पन्न ) राजा विश्वा प्रतिजन्यानि सम्पूर्ण विपक्षियों ( शत्रु राजाओं ) को शुष्मेण वीर्येण ( अपने ) पराक्रम और अधिक बल से अभितस्थौ पराभूत कर देता है ॥ सा ० भा ० — ' स इत् स एव पुरोहितयुक्तो राजा ' प्रतिजन्यानि ' प्रतिपक्षबलानि ' विश्वा ' सर्वाणि ' शुष्मेण ' वीर्येण स्वकीयेनाधिकेन बलेन ' अभितस्थौ ' अभितिष्ठति, अभिभवतीत्यर्थः ॥ अस्यार्धस्य तात्पर्यं दर्शयति-सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानेव तच्छुष्मेण वीर्येणा-धितिष्ठति ॥ ३ ॥
हिन्दी— ( इस'ऋचार्ध के तात्पर्य को दिखला रहे हैं - ) जन्यानि ( मन्त्र में प्रयुक्त ) ' जन्यानि ' ( शब्द से ) सपत्नाः द्विषन्तः भ्रातृव्याः सपत्न अर्थात् द्वेष करने वाले शत्रु ( कहे गये हैं ) । तान् एव उन्हीं ( द्वेष करने वाले शत्रुओं ) को तत् शुष्मेण वीर्येण उस पराक्रम और बल से अधितिष्ठति पराभूत करता है ॥ ' सा ० भा ० — ' जन्यानि ' इत्यनेन ' सपत्ना ' एवाभिधीयन्ते । सपत्नशब्दस्य व्याख्यानं द्विषन्तो भ्रातृव्या इति । तानेव भ्रातृव्यान् ' तत् ' तेन ' शुष्मेण ' अधिकेन ' वीर्येण ' सामर्थ्येन ' अधितिष्ठति ' अभिभवति ॥ तृतीयं पादमनूद्य व्याचष्टे— बृहस्पतिं यः सुभृतं बिभर्तीति, बृहस्पतिर्ह वै देवानां पुरोहितस्त-मन्वन्ये मनुष्यराज्ञां पुरोहिता; बृहस्पतिं यः सुभृतं बिभर्तीति यदाह, पुरोहितं यः सुभृतं बिभर्तीत्येव तदाह ॥४ ॥
हिन्दी— ( मन्त्र के तृतीय पाद को कहकर व्याख्यान कर रहे हैं - ) ' बृहस्पतिं यः सुभृतं बिभर्तिः ' अर्थात् ‘ जो ( राजा ) बृहस्पति का अच्छी प्रकार से पालन करता है ' ( -यह मन्त्र का तृतीय पाद है ) । ( इसमें कहा गया ) बृहस्पतिः हि वै बृहस्पति ही निश्चित रूप से देवानां पुरोहितः देवताओं का पुरोहित है । तम् अनु उस ( बृहस्पति ) के बाद अन्ये अन्य ( ब्राह्मण ) मनुष्यराज्ञाम् मनुष्य राजा के पुरोहिताः पुरोहित होते हैं । ( मन्त्र का तृतीय पाद ) ‘ बृहस्पतिं यः सुभृतं विभर्ति ' कहा गया है इससे ' पुरोहितं यः सुभृतं विभर्ति ' पुरोहित का जो अच्छी प्रकार से पालन करता है'- तदाह यह कहा गया है ॥ सा ० भा ० - हितोपदेशेन राजानं सुष्ठु बिभर्तीति ' सुभृत् ' । तादृशं ‘ बृहस्पतिं ’ बृहस्पतिसमानं पुरोहितं ‘ बिभर्ति ' पोषयति । स इद्राजेति पूर्वत्रान्वयः ' । ' बृहस्पतिर्हं वै देवानां पुरोहितः ' । यो देवानां बृहस्पतिः पुरोहितः तं बृहस्पतिम् ' अनु ' पश्चान्मनुष्यराज्ञा-