ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 71–80

ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 71–80

पृष्ठ 71

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 71 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ २ ९ अथ पश्चमः खण्डः सा ० भा ० – अथ सवनद्वये कांञ्चिदृग्विशेषान् विधत्ते-( प्रातः माध्यन्दिनसवनद्वये काञ्चिदृग्विशेषविधानम् ) पारुच्छेपीरुपदधाति पूर्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानां रो-हितं वै नामैतच्छन्दो यत्पारुच्छेपमेतेन वा इन्द्रः सप्त स्वर्गाल्लोका-नरोहत् ॥ १ ॥

हिन्दी – ( प्रातः और मध्यन्दिन - दोनों सवनों में कुछ विशेष ऋचाओं का विधान कर रहे हैं — ) पूर्वयोः सवनयोः पूर्ववतीं दो सवनों ( प्रातः सवन और माध्यन्दिनसवन ) में प्रस्थितयाज्यानां पुरस्तात् ( प्रकृतितः प्राप्त ) प्रस्थित याज्याओं से पहले पारुच्छेपीः परुच्छेप ( ऋषि ) द्वारा दृष्ट ( ऋचाओं ) को उपदधाति रखता है ( अर्थात् परुच्छेप ऋषि द्वारा दृष्ट एक - एक ऋचा को पढ़कर एक - एक याज्या का पाठ करना चाहिए ) । यत् पारुच्छेपम् जो परिच्छेप ( ऋषि ) द्वारा दृष्ट सूक्त है, एतत् छन्दः वह छन्द रोहित नाम वै रोहित नाम वाला है । एतेन वै इसी ( छन्द ) से ही इन्द्रः इन्द्र ने सप्त स्वर्गान् लोकान् सात स्वर्ग लोकों पर अरोहत् आरोहण किया था ॥ विमर्श - ( १ ) ' वृषद्यिन्द्र वृषपाणासः इन्दवः ' ( ऋ ० १.१३ ९.६ ), ' पिबा सोममिन्द्र सुवानमद्रिभिः ' ( ऋ ० १.१३०.२ ) इत्यादि परुच्छेप द्वारा दृष्ट ऋचाओं को आश्वलायन ने अपने श्रौतसूत्र में निर्दिष्ट किया है ( द्रष्टव्य आ ० श्री ० सू ० ८.१.१-११ ) । सा ० भा ० – प्रातः सवने माध्यन्दिनसवने च याः ' प्रस्थितयाज्याः ' चोदकेन प्रकृतितः प्राप्ताः, तासां पुरस्तात् ‘ पारुच्छेपी: ' परुच्छेपाख्येन महर्षिणी ' दृष्टा ऋच उपदध्युः – एकैकां पारुच्छेपीमृचमुक्त्वा पश्चादेकैकां प्रस्थितयाज्यां पठेत् । ' वृषद्यिन्द्र वृषपाणास इन्दवः’र इत्याद्याः ‘ पिबा सोममिन्द्र सुवानमद्रिभिः ' ३ – इत्याद्याश्च पारुच्छेप्य ऋच: * सूत्रकारेण विस्पष्टमुदाहृताः । ' पारुच्छेपीष्वृक्षु यच्छन्दोऽस्ति, तदिदं रोहितनामकम् ॥ कथमिति? तदुच्यते, – ' एतेन ' पारुच्छेपीयेन च्छन्दसा पुरा कदाचिदिन्द्रः ' सप्तस्वर्गीीँल्लोकान् अरोहत् ’ ( १ ) परुच्छेप ऋषिः; पर्ववच्छेपः परुषिपरुषि शेपोऽस्येति वा इति निरु ० १०,४.५ । ' परुच्छेपो दैवोदासि ' इति ऋक्सर्वा ० । ( २ ) ऋ ० १.१३ ९.६ । ( ३ ) ऋ ० १.१३०.२ । ( ४ ) ताः सर्वाः ऋ ० १.१२७-१३९ सूक्तगताः द्रष्टव्याः । ( ५ ) ' षष्ठस्य प्रातः सवने प्रस्थितयाज्यानां पुरस्तात् ' – इत्युपक्रम्य. ' वृषन्निन्द्र वृषपाणास इन्द्रवः ' .... पिबा सोममिन्द्र सुवानमद्रिभिः '..... पारुच्छेप्यः ' इति आश्व ० श्रौ ० ८.१.१-११ । ऐ.ब्रा.उ.- ५

पृष्ठ 72

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 72 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३०: ऐतरेयब्राह्मणम् [ २२.५ पञ्चमपञ्चिकायां उत्तमाधमभोगावस्थानविशेषाः सप्तसंख्याकाः स्वर्गाः । रोहत्यनेन च्छन्दसेति ‘ रोहितं ' नाम सम्पन्नम् ॥ वेदनं प्रशंसति-रोहति सप्त स्वर्गांल्लोकान् य एवं वेद ॥ २ ॥

हिन्दी- ( इस तथ्य के जानने की प्रशंसा कर रहे हैं - ) य एवं वेद जो इस प्रकार जानता है वह सप्त स्वर्गान् लोकान् रोहति वह सप्त स्वर्ग लोकों पर आरोहण करता है । तस्मिंश्छन्दसि चोद्यमुद्भावयति— तदाहुर्यत् पञ्चपदा एव पञ्चमस्याह्नो रूपं, षट् पदा; षष्ठस्याथ कस्मात् सप्त पदाः षष्ठेऽहञ्छस्यन्त इति ॥ ३ ॥

हिन्दी— ( उस छन्दों के विषय में प्रश्न को कह रहे हैं — ) तद् आहु ऐसा ( याज्ञिकों ने ) कहा है कि पञ्चपदाः एव पाँच पादों वाली ( ऋचा ) ही पञ्चमस्याह्नो रूपम् पञ्चम दिन का रूप है और षट् पदा षष्ठस्य छः पादों वाली ( ऋचा ) षष्ठ ( दिन का रूप हैं ) अथ कस्मात् तो किस कारण से सप्तपदा सात पादों वाली ( ऋचा ) षष्ठेऽहन् शस्यन्ते इति षष्ठ दिन में शंसन की जाती है? ॥ सा ० भा ० — संख्यासाम्यात् पञ्चपदोपेता ऋचः पञ्चमेऽहनि युक्ताः, षट्पदोपेताः षष्ठेऽहनि; पारुच्छेप्यस्तु सप्तपदोपेताः, अतः षष्ठेऽहनि तच्छंसनमयुक्तमिति चोद्यवादि-नामभिप्रायः ॥ तत्रोत्तरमाह— षड्भिरेव पदैः षष्ठमहराप्नुवन्त्यपच्छिद्यैवैतदहर्यत्सप्तमं, तदेव सप्त-मेन पदेनाभ्यारभ्य वसन्ति, वाचमेव तत्पुनरुपयन्ति संतत्यै ॥४ ॥

हिन्दी— ( उपर्युक्त प्रश्न का उत्तर दे रहे हैं - ) षड्भिः एव पदैः ( एक ऋचा के पूर्ववर्ती ) छः पादों से षष्ठम् अहः आप्नुवन्ति षष्ठ दिन को प्राप्त करते हैं तो यत् सप्तमम् जो सप्तम ( दिन ) है, एतत् अहः अपच्छिद्य वह ( सप्तम ) दिन को विच्छिन्न करके ( प्राप्त करते हैं ) । तत् एव उसी ( सप्तम दिन ) को ही सप्तमेन पदेन सप्तम पाद से अभ्यारभ्य वसन्ति अभिमुखता से उपक्रम करके प्राप्त करते हैं । तत् इससे सन्तत्यै ( मध्यम त्र्यह की ) निरन्तरता के लिए वाचमेव पुनरुपयन्ति वाणी को ही पुनः प्राप्त करते हैं ॥ सा ० भा०- — एकैकस्यामृचि य एते प्रथमभाविनः षट्पादास्तैः सर्वैर्यदा षष्ठमहरा-प्नुवन्ति, तदानीमुपरितमं यत्सप्तमहः, तत् ' अपच्छिद्यैव ' पृथक्त्वेन तस्य विच्छेदं कृत्वैव

पृष्ठ 73

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 73 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः षष्ठः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ३१ प्राप्नोति; ' तस्माद् विच्छिन्नं सप्तममहस्तेन सप्तमेन पादेनाऽऽभिमुख्येनोपक्रम्य वसन्ति । तथा सति विच्छिन्नां वाचमेव पुनरपि प्राप्नुवन्ति । तच्च मध्यमयोस्त्र्यहयोः ' संतत्यै ' संपद्यते ॥ वेदनपूर्वकमनुष्ठानं प्रशंसति— संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति ॥ ५ ॥

हिन्दी —ये विद्वांसः जो विद्वान् एवं यन्ति इस प्रकार ( निरन्तरता को जानते हुए ) अनुष्ठान करते हैं, वे सन्ततैः अव्यवच्छिन्नैः त्र्यहैः परस्पर सम्बन्धित ( अतः ) व्यवच्छेद-रहित त्र्यह के द्वारा यन्ति अनुष्ठान करते हैं || सा ० भा ० ० – पूर्ववद् व्याख्येयम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-भाष्ये पञ्चमपञ्चिकायां द्वितीयाध्याये ( द्वाविंशाध्याये ) पञ्चमः खण्डः ॥५ ॥ ( १० ) ( १६३ )

॥ इस प्रकार ऐतरेयब्राह्मण के बाइसवें अध्याय के पञ्चम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० — पारुच्छेपीयं छन्द उपाख्यानेन प्रशंसति-( उपाख्यानद्वारा पारुच्छेपीयछन्दः प्रशंसा ) देवासुरा वा एषु लोकेषु समयतन्त; ते वै देवाः षष्ठेनैवाह्नेभ्यो लोकेभ्योऽसुरान् प्राणुदन्त; तेषां यान्यन्तर्हस्तीनानि वसून्यासंस्ता-न्यादाय समुद्रं प्राप्यन्त; त एतेनैव च्छन्दसाऽनुहायान्तर्हस्तीनानि वसून्याददत तद् यदेतत् पदं पुनः पदं स एवाङ्कुश आसञ्जनाय ॥ १ ॥

हिन्दी – ( उपाख्यान के द्वारा परुच्छेपीय छन्द की प्रशंसा कर रहे हैं - ) एषु लोकेषु इन ( तीनों ) लोकों के विषय में देवासुराः वै देवताओं और असुरों ने समयतन्त परस्पर सङ्ग्राम किया । ते वै देवाः उन देवताओं ने षष्ठेन एव अह्वेभ्यः ( षष्ठ दिन का अनुष्ठान करके उस ) षष्ठ दिन के ( अनुष्ठान ) द्वारा असुरान् असुरों को लोकेभ्यः प्राणुदन्त लोकों ( १ ) ‘ अपच्छिद्य क्तार्थे ल्यप् । अपच्छिन्नं गलितम् । इव = एव । एतत् सप्तममहः । इति षड्गुरुशिष्यः ।

पृष्ठ 74

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 74 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३२: ऐतरेयब्राह्मणम् [ २२.६ पञ्चमपञ्चिकायां से निष्कासित कर दिया । तेषाम् उन ( असुरों ) के यानि अन्तर्हस्तीनानि जितने हाथियों पर लदे हुए ( अथवा हाथ में छिपाये हुए ) वसूनि आसन् धन थे, तानि आदाय उन ( धनों ) को लेकर समुद्रं प्रौप्यन्त ( असुरों ने ) समुद्र में फेंक दिया । ( तब उन देवों ने ) एतेनैव छन्दसा इस ( परुच्छेपीय ) छन्द के द्वारा ही अनुहाय ( उनका ) अनुगमन करके अन्तर्हस्तीनानि वसूनि ( उन ) हाथियों पर लदे ( अथवा हाथों में छिपाये गये ) धन को आददत् प्राप्त कर लिया । ( उन परुच्छेपीय ऋचाओं में ) तद् यद् एतत् वह जो यह पदम् ( छः ) पाद हैं और जो पुनः पदम् उनके बाद ( सप्तम ) पाद है सः एव वह ही आसञ्जनाय ( धनों को ) आकृष्ट करने के लिए अङ्कुशः अङ्कुश है ॥ सा ० भा ० — देवाश्चासुराश्च लोकविषये यदा ' समयतन्त ' सङ्ग्राममकुर्वत, तदानीं ‘ ते ’ देवा: षष्ठमहरनुष्ठाय तत्सामर्थ्येनासुराँल्लोकेभ्यो निःसारितवन्तः । तदानीं ‘ तेषाम् ’ असुराणां सम्बन्धीनि ' वसूनि ' धनानि बहून्यासन् । कीदृशानि? ' अन्तर्हस्तीनानि ' हस्तिनां गजानामुपरि भारवहनाय स्थापितानि; यद्वा, स्वकीयस्य हस्तस्यान्तर्मध्ये गोप्यत्वेन स्थापि-तानि ‘ अन्तर्हस्तीनानि ’; तानि सर्वाण्यादायासुराः ' समुद्रं ' ' प्राप्यन्त ' समुद्रं गतवद्भिरसुरैः तस्मिन् समुद्रे तानि धनानि प्रक्षिप्तानि । ततो ' ते ' देवा एतत्पारुच्छेपीयं छन्दोऽनुष्ठाय तस्मात् सामर्थ्यात् ‘ अनुहाय ' पृष्ठतो गत्वा हस्तिनामुपरि स्थितानि तदीयहस्तेऽवस्थितानि वा सर्वाणि धनानि ‘ आददत ' स्वीकृतवन्तः । समुद्रमध्यस्थितानां धनानामाकर्षणं किं सा-धनमिति? तदुच्यते — ‘ तत् ’ तत्र पारुच्छेपीयास्वृक्षु यदेतत्पदं पाठोऽस्ति, कीदृशम्? ' पुनःपदं ' षटसु पादेषु समाप्तेषु पुनः पश्चादुच्चार्यमाणः ' ' सुमृळीको न आगहि— इत्येवंविधः सप्तमः पादः । स एव धनानाम् ‘ आसञ्जनाय ' आसक्तानि कृत्वा समाकर्षणाय अङ्कुशोऽभूत् । यथा लोकेऽङ्कुशेनाऽऽकृष्यते, तद्वत्सप्तमेन पादेनासुरधनान्याकृष्टानि ॥ वेदनं प्रशंसति— आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते, य एवं वेद ॥ २ ॥

हिन्दी — ( इसे जानने की प्रशंसा कर रहे हैं - ) य एवं वेद जो इस प्रकार जानता है, वह द्विषतः वसु आदत्ते शत्रु के ( सम्पूर्ण ) धन को प्राप्त कर लेता है और एनम् इस ( शत्रु ) को एभ्यः सर्वेभ्यः लोकेभ्यः इन सभी लोकों से निर्णुदते निष्कासित कर देता है । सा ० भा ० — वेदिता ‘ द्विषतः ’ शत्रोः सम्बन्धि ' वसु ' धनं सर्वमादत्ते । एनं च ' द्विषन्तं ( १ ) अभ्यासे भूयासमर्थं मन्यन्ते, यथाहो दर्शनीयाहो दर्शनीयेति; तत् परुच्छेपस्य शीलम् इति निरु ० १०.४.५ । ( २ ) ' वृषन्निन्द्र...... सुमृळीको न आ गहि - इति ऋ ० १.१३ ९.६ । इह ' आ - गहि ' - पदाभ्यासः ।

पृष्ठ 75

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 75 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ३३ शत्रुं लोकेभ्यो ' निर्णुदते ' निःसारयति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण-. भाष्ये पञ्चमपञ्चिकायां द्वितीयाध्याये ( द्वाविंशाध्याये ) षष्ठः खण्डः || ६ || ( ११ ) ( १६४ ) || इस प्रकार ऐतरेयब्राह्मण के बाइसवें अध्याय के षष्ठ खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त । अथ सप्तमः खण्डः सा ० भा ० – इदानी षष्ठमहर्विधत्ते— ( द्वादशाहे नवरात्रस्य षष्ठमहर्विधानम् ) द्यौर्वै देवता षष्ठमहर्वहति त्रयस्त्रिशः स्तोमो रैवतं सामातिच्छन्दा-श्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ॥ १ ॥

हिन्दी - ( अब द्वादशाह में नवरात्र के षष्ठ दिन का विधान कर रहे हैं - ) द्यौः वै देवता द्युलोक देवता ही षष्ठम् अहः वहति षष्ठ दिन का निर्वहन करते हैं ( अर्थात् द्यु देवता षष्ठ दिन के निर्वाहक देवता हैं ) । त्रयस्त्रिंशः स्तोमः त्रयस्त्रिंश ( नामक ) स्तोम है, रैवतं साम रैवत ( नामक ) साम है और अतिच्छन्दाः छन्दः अतिच्छन्द ( नामक ) छन्द है । यः एवम् जो इस प्रकार यथादेवतम् इस देवता को, यथास्तोमम् इस स्तोम को, यथासाम इस साम को यथाच्छन्दसम् इस छन्द को वेद जानता है, वह एतेन इस ( ज्ञान ) से ( इन देवता इत्यादि का अनतिक्रमण करके ) राध्नोति समृद्ध होता है ॥ सा ० भा ० – पूर्वत्र वागेकं गौरेकं द्यौरेकमिति यत्तृतीयं देवतास्वरूपमुक्तं सेयं देवता षष्ठमहर्निवर्हति । तथा स्तोमानां मध्ये त्रयस्त्रिशः स्तोमा निर्वाहकः । तस्य स्तोमस्य स्वरूपं छन्दोगैरेवमाम्नायते — ‘ एकादशभ्यो हिं करोति स तिसृभिः स सप्तभिः स एकया, एका-दशभ्यो हिं करोति स एकया स तिसृभिः स सप्तभिरेकादशभ्यो हिं करोति स सप्तभिः स एकया स तिसृभिरन्तो वै त्रयस्त्रिशः " इति । अस्यायमर्थः – एक एव तृचस्त्रिभिः पर्यायैरा-वर्तनीयः; तत्र प्रथमे पर्याये प्रथमायास्त्रिरभ्यासः, मध्यमायाः सप्तकृत्वोऽभ्यासः, उत्तमायाः सकृत्पाठः । द्वितीयपर्याये प्रथमायाः सकृत्पाठः, मध्यमायास्त्रिरभ्यासः, उत्तमायाः सप्तकृ-( १ ) ता ० ब्रा ० ३.३-७ ख ० । त्रयस्त्रिशस्तोमस्य विष्टुतयः पञ्च तत्राद्या समत्र्यंशाख्या, सैवयम् ।

पृष्ठ 76

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 76 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३४: ऐतरेयब्राह्मणम् [ २२.७ पञ्चमपञ्चिकायां त्वोऽभ्यासः । तृतीयपर्याये प्रथमायाः सप्तकृत्वोऽभ्यासः, मध्यमायाः सकृत्पाठः, उत्तमा-यास्त्रिरभ्यासः । एवं ‘ त्रयस्त्रिशस्तोम ' निष्पत्तिरिति । ' रेवतीर्नः सधमादे ' इत्यस्यामृच्युत्पन्नं साम ‘ रैवतम् ’ । गायत्र्यादिभ्यश्छन्दोभ्योऽक्षरैरधिकत्वाद् ' अतिच्छन्दा; ' इति कस्यचिच्छन्दसो नामधेयम् । अन्यत् पूर्ववद् व्याख्येयम् ॥ अत्र शस्त्रगतमन्त्रलिङ्गानि दर्शयति— ( षष्ठस्याह्नो प्रयुक्तमन्त्रगतलिङ्गनिरूपणम् ) यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपं यद्ध्येव तृतीयमहस्तदेतत्पुन-र्यत्षष्ठं; यदश्ववद्यदन्तवद् यत्पुनरावृत्तं यत्पुनर्निनृतं यद्रतवद् यत्पर्य-स्तवद् यत्त्रिवद्यदन्तरूपं, यदुत्तमे पदे देवता निरुच्यते, यदसौ लोकोऽ-भ्युदितः ॥२ ॥

हिन्दी - – यद्वै समानोदर्कम् जो समान अन्त वाला मन्त्र है, तत् षष्ठस्याह्नो रूपम् वह षष्ठ दिन का निर्वाहक है । यद् हि एव जो अन्य तृतीयमहः ( प्रथम त्र्यह के ) तृतीय दिन ( का रूप कहा गया है ) तद् एतत् वह यह पुनः षष्ठम् पुनः षष्ठ ( दिन का रूप है ) । यद् जो ( ऋचा ) अश्ववत् अश्व ( शब्द ) वाली हो, यद् अन्तवत् जो अन्त ( शब्द ) वाली हो, यत् पुनः आवृतम् जिसमें पुनरावृत्ति हो, यत्पुनः निर्नृतम् जिसमें स्वर - विशेष द्वारा अक्षरों की पुनरावृत्ति हो, यद् रतवत् जो सहवास से युक्त है, यत् पर्यस्तवत् जो पर्यास से युक्त हो, यत् त्रिवत् जो त्रि शब्द वाली हो, यद् अन्तरूपम् जो अन्त ( शब्द ) से युक्त हो यद् उत्तमे पदे देवता निरुच्यते जिसके अन्तिम पाद में देवता अभिहित हो और यद् असौ लोकः अभ्युदितः जिसमें यह ( स्वर्ग ) लोक अभिहित हो ( वे मन्त्र षष्ठ दिन के रूप हैं ) ॥ सा ० भा ० – ‘ समानोदर्कं तुल्यसमाप्तिकं यदस्ति, तत्षष्ठस्याह्नो रूपम् । ‘ यद्धि एव ' यदप्यन्यत् पूर्वत्र प्रथमे त्र्यहे तृतीयमहरस्ति, तदेतत्पुरत्रानुसंधेयम् – यदिदानीं षष्ठ-महः प्रस्तूयते, तत् तदेव भवति पूर्वस्मिस्तृतीयेऽहनि, यद्यल्लिङ्गमुक्तं, तत्षष्ठेऽपि द्रष्टव्यमि-त्यर्थः । यदश्ववदित्यादिना यदसौ लोकोऽभ्युदित इत्यन्तेन तान्येतानि लिङ्गानि दर्शितानि ॥। अथ विशेषलिङ्गानि दर्शयति— यत्पारुच्छेपं यत्सप्तपदं, यन्नाराशंसं, यन्नाभानेदिष्ठं, यद्वैवतं, यदतिच्छन्दा, यत्कृतं यत्तृतीयस्याह्नो रूपमेतानि वै षष्ठस्याह्नो रूपाणि ॥३ ॥

हिन्दी — यत्पारुच्छेपम् जो ( ऋचा ) परुच्छेप ( ऋषि ) द्वारा दृष्ट है, यत्सप्तपदम् जो सात पादों वाली है, यद् नाराशंसम् जो नाराशंस ( नामक मन्त्र - सम्बन्धी ) है, यद् नाभानेदिष्ठम् जो नाभानेदिष्ट ऋषि द्वारा दृष्ट है, यद् रैवतम् जो रैवत ( साम से सम्बन्धित )

पृष्ठ 77

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 77 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ३५ है, यद् अतिच्छन्दा जो अतिच्छन्द ( नामक छन्द ) वाली है, यत्कृतम् जो भूतकालिक प्रत्यय से युक्त या धातु से युक्त है और जो तृतीयस्याह्नो रूपम् जो तृतीय दिन के रूप वाला है, एतानि वै षष्ठस्याह्नो रूपाणि ये सभी षष्ठ दिन के निर्वाहक हैं । सा ० भा ० — परुच्छेपेन दृष्टं ' पारुच्छेपम् ' सप्तभिः पादैरूपेतं ' सप्तपदम् । नराशंसाख्य-मन्त्रसम्बन्धि नाराशंसम् ' । नाभानेदिष्ठेन दृष्टं ' नाभानेदिष्ठम् ' । रैवतसामसम्बन्धि ' रैवतम् । सप्तभ्यश्छन्दोभ्योऽधिकाक्षरत्वाद् ' अतिच्छन्दाः ' । भूतार्थवाचिप्रत्यययुक्तं धातुमात्रं ' कृतं ' तदप्युक्तम् अनुक्तं वा तृतीयस्याह्नो निरूपकम् । एतानि सर्वाणि षष्ठस्याह्नो निरूपकाणि वेदितव्यानि ॥ अथाज्यशस्त्रं विधत्ते— ( षष्ठेऽहन्याज्यशस्त्रनिरूपणम् ) ' अयं जायत मनुषो धरीणमिति ' षष्ठस्याह्न आज्यं भवति, पारु-च्छेपमतिच्छन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥४ ॥

हिन्दी — ( षष्ठ दिन के आज्यशस्त्र का विधान कर रहे हैं — ) ' अयं जातो मनुषो धरीणम् ' इति षष्ठस्याह्नः यह ( सूक्त ) षष्ठ दिन का आज्यं भवति आज्य ( शस्त्र ) है जो पारुच्छेपम् परुच्छेप ( ऋषि ) द्वारा दृष्ट हैं, अतिच्छन्दाः अतिच्छन्द नामक छन्द वाला है, सप्तपदम् और सात पादों वाला है । षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त ) षष्ठस्याह्नो रूपम् षष्ठ दिन का निरूपक है ॥ सा ० भा ० — परुच्छेपेन दृष्टत्वमेकं लिङ्गम्, अतिच्छन्दस्त्वं द्वितीयं, सप्तपादोपेतत्वं तृतीयम् । एतेन लिङ्गत्रयेण षष्ठस्याह्नो निरूपकम् ॥ अथ प्रउगशस्त्रं विधत्ते — ( षष्ठेऽहनि प्रउगशस्त्रविधानम् ) स्तीर्णं बर्हिरुप नो याहि वीतय आ वां रथो नियुत्वान्वक्षदवसे सुषुमायातमद्रिभिर्युवां स्तोमेभिर्देवयन्तो अश्विनाऽवर्मह इन्द्र वृष-निन्द्रास्तु श्रौषको षू णो अग्ने शृणुहि त्वमीळितो ये देवासो दिव्ये-कादशंस्थेयमददाद्रभसमृणच्युतिमिति प्रउगं; पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥५ ॥

हिन्दी – ( षष्ठ दिन के प्रउगशस्त्र का विधान कर रहे हैं— ) ' स्तीर्णं बर्हिरुप नो याहि वीतय ' यह प्रथम तृच, ‘ आ वां रथोः नियुत्वान्वक्षदवसे ' यह द्वितीय तृच, ' सुषुमायातमद्रिभिः ’ यह तृतीय तृच, ‘ युवां स्तोमेभिर्देवयन्तो अश्विना ' यह चतुर्थ तृच, ' अवर्मह इन्द्र ' - ये दो ( १ ) ऋ ० १.१२८ ।

पृष्ठ 78

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 78 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३६: ऐतरेयब्राह्मणम् [ २२.७ पञ्चमपञ्चिकायां ऋचाएँ, ‘ वृषन्निन्द्र ' यह एक ऋचा ( इस प्रकार पञ्चम तृच ), ' अस्तु श्रौषट् ' यह ऋचा, ' ओ षु णो अग्ने श्रुणुहि त्वमीळित ' यह ऋचा, ' ये देवासो दिव्येकादशस्थ ' यह ऋचा ( इस प्रकार षष्ठ तृच ) और ‘ इयमदाद्रभसमृणच्युतिम् ' यह सप्तम तृच इति प्रउगम् यह प्रउग ( शस्त्र ) है जो पारुच्छेपम् परुच्छेप ऋषि द्वारा दृष्ट, अतिच्छन्दाः अतिच्छन्द ( नामक ) छन्द वाला सप्तपदम् और सात पादों वाला है । षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त यह ) षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है । सा ० भा ० – ‘ स्तीर्णं बर्हिः " - इत्याद्यस्तृच ' आ वां रथः ' ' इति द्वितीय: ‘ सुषुमा-यातमिति’३ तृतीयो ‘ युवा स्तोमेभिरिति चतुर्थो ' अवर्महः “ इति द्वे ऋचौ ‘ वृषन्निन्द्र ’ ' इत्येका उभाभ्यां पञ्चमस्तृच: । ' अस्तु श्रौषट् " इत्येका । ' ओ षू णः " इत्येका । ‘ ये देवासः ” इत्येका । एतत्त्रितयं षष्ठः । ' इयमददात् १० इति सप्तमः । इत्येतत् सर्वं प्रउगशस्त्रं

कुर्यात् । लिङ्गानि पूर्ववत् ॥

शस्त्रान्तरस्य प्रतिपदं तृचं विधत्ते— ( षष्ठेऽहनि मरुत्वतीयशस्त्रविधानम् ) ' स पूर्व्यं महानामिति, ११ मरुत्वतीयस्य प्रतिपदन्तो वै महदन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥ ६ ॥

हिन्दी - ( अब षष्ठ दिन के मरुत्वतीयशस्त्र का विधान कर रहे हैं - ) ( स पूर्व्यो महानाम् ' इति मरुत्वतीयस्य प्रतिपत् यह ( तृच ) मरुत्वतीय ( शस्त्र ) का प्रतिपत् है । अन्तो वै महत् ( इस तृच में प्रयुक्त ) महत् ही अन्त ( का सूचक ) है । अन्तः वै षष्ठमहः षष्ठ दिन ( मध्यम त्र्यह का ) अन्त ही है अतः षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त यह तृच ) षष्ठस्याह्नो रूपम् षष्ठ दिन का निरूपक है ॥ सा ० भा ० – अत्र महानामिति महच्छब्दः पादस्यान्ते दृश्यते, षष्ठं चाहः पृष्ठ्याख्यस्य षडहस्यान्तो भवति, तस्मादन्तत्वलिङ्गेन षष्ठेऽहनि योग्यम् । यद्वा, महतोऽप्यधिकस्थानस्या-` भावात् महदन्त इत्यन्तवत्त्वं व्याख्येयम् ॥ तृतीयेनाह्ना सह समानशस्त्रक्लृप्तियुक्तं मन्त्रजातं दर्शयति— ' त्रय इन्द्रस्य सोमा ' इन्द्र नेदीय एदिहि ' प्र नूनं ब्रह्मणस्पतिरग्निर्नेता ( १ ) ऋ ० १.१३५.१-३ । ( २ ) ऋ ० १.१३५.४-६ । ( ३ ) ऋ ० १.१३७.१-३ । · ( ४ ) ऋ ० १.१३ ९.३-५ । ( ५ ) ऋ ० १.१३३.६-७ । ( ६ ) ऋ ० १.३१३.६ । ( ७ ) ऋ ० १.१३ ९.१ । ( ८ ) ऋ ० १.१३ ९.७ । ( ९ ) ऋ ० १.१३ ९.११ । ( १० ) ऋ ० ६.६१.१-३ । ( ११ ) ऋ ० ८.६३.१ ।

पृष्ठ 79

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 79 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द्वितीयोऽध्यायः सप्तमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ९ ३७ ' त्वं सोम क्रतुभिः ' पिन्वन्त्यपो ' नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानः षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥७ ॥

हिन्दी —'त्रय इन्द्रस्य सोमा ', ' इन्द्र नेदीय एदिहि ', ' प्र नूनं ब्रह्मणस्पति ', ' अग्नि-र्नेता ’, ‘ त्वं सोम क्रतुभिः ’ ‘ पिन्वत्यपो ', ' नकि सुदासो रथम् ' इति ये ऋचाएँ तृतीयेनाह्ना समानः तृतीय दिन के समान आतानः क्रमागत षष्ठेऽहनि षष्ठ दिन में प्रयुक्त षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है ॥ परुच्छेपेन दृष्टं सूक्तं दर्शयति— ' यं त्वं रथमिन्द्र मेधसातय इति ' ' सूक्तं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥८ ॥

हिन्दी — ‘ यं त्वं रथमिन्द्र मेघसातय ' इति सूक्तम् यह सूक्त पारुच्छेपम् परुच्छेप ( ऋषि ) द्वारा दृष्ट सप्तपदम् सात पादों वाला अतिच्छन्दा अतिच्छन्द ( नामक ) छन्द वाला है, जो षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त ) षष्ठ्याह्नो रूपम् षष्ठ दिन का रूप है ॥ तुल्यावसानत्वलिङ्गोपेतं सूक्तं दर्शयति— ' स यो वृषा वृष्ण्येभिः समोका इति सूक्तं समानोदर्क; षष्ठेऽ-हनि षष्ठस्याह्नो रूपम् ॥९ ॥

हिन्दी – ( समान अवसान वाले सूक्त को दिखला रहे हैं — ) ' स यो वृषा वृष्ण्येभिः समोका ' इति सूक्तं समानोदर्कम् यह सूक्त समान अवसान वाला है जो षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त ) षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है । सा ० भा०—– ' मरुत्वान्नो भवतु ' इत्यस्य चतुर्थपादस्य सर्वास्वृक्षु विद्यमानत्वात् समानोदर्कत्वम् ॥ तृचात्मकं सूक्तान्तरं विधत्ते-' इन्द्र मरुत्व इह पाहि सोममिति ' सूक्तं; तेभिः साकं पिबतु वृत्रखाद इत्यन्तो वै खादोऽन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥१० ॥

हिन्दी— ( अब तृचात्मक अन्य सूक्त को कह रहे हैं— ) ‘ इन्द्र मरुत्व इह पाहि सोमम् ' इति सूक्तम् यह सूक्त है । ( इसमें तृतीय ऋचा के तृतीय पाद में ‘ तेभिः साकं पिबतु वृत्रखाद ' में अन्तो वै खाद खाद शब्द ( वृत्र के ) अन्त ( का सूचक है ) । अन्तं वै षडहः ( १ ) ऋ ० १.१२ ९ । ( २ ) ऋ ० १.१०० | ( ३ ) ऋ ० ३.५१.७ - ९ ।

पृष्ठ 80

ऐतरेय ब्राह्मण उत्तरार्द्ध, पृष्ठ 80 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ३८: ऐतरेयब्राह्मणम् [ २२.७ पञ्चमपञ्चिकायां यह षष्ठ दिन ( मध्यम त्र्यह का ) अन्त है अतः षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त यह सूक्त ) षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है । सा ० भा ० – अस्मिन् सूक्ते ' तेभिः साकम् ' इत्यादिस्तृतीयस्यामृचि तृतीयः पादः । तत्र वृत्रं खादति भक्षयतीति ‘ वृत्रखादः ' तेन भक्षणेन वृत्रस्यावसानं मरणं संपद्यते । तस्मात् खादो वृत्रस्यान्तः । षष्ठस्यान्तत्वं पूर्वमेवोक्तम्, अतोऽन्तवत्त्वलिङ्गम् । यद्यपीदं सूक्तं न भवति ', तथाऽपि सूक्तस्थानापन्नत्वात् सूक्तमित्युक्तम् ॥ सूक्तगतं छन्दः प्रशंसति— तदु त्रैष्टुभं, तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते ॥ ११ । हिन्दी —– ( ' इन्द्र मरुत्व इह पाहि सूक्त के छन्द की प्रशंसा कर रहे हैं - ) तदु वे ऋचाएँ त्रैष्टुभम् त्रिष्टुप् छन्द वाली है । प्रतिष्ठितपदेन तेन प्रतिष्ठित पद ( नियत अक्षर वाले पाद से युक्त ) उस ( सूक्त ) से सवनं दाधार ( माध्यन्दिन ) सवन ( वाला मरुत्वतीय शस्त्र ) धारित होता है । एतेन इस ( सूक्त ) से आयतनाद् न प्रच्यवते अपने घर से कभी

भी च्युत नहीं होता ।

सा ० भा ० -पूर्ववद् व्याख्येयम् ॥

शस्त्रस्यान्तिमं तृचं विधत्ते— ( शस्त्रस्यान्तिमतृचविधानम् ) ' अयं ह येन वा इदमिति ' पर्यासः; स्वर्मरुत्वता जितमित्यन्तो वै जितमन्तः षष्ठमहः, षष्ठेऽहनि षष्ठस्याह्नो रूपम् ॥ १२ ॥

हिन्दी— ( षष्ठ दिन के मरुत्वतीय शस्त्र के अन्तिम तृच को कह रहे हैं— ) ' अयं हि येन वा इदम् इति पर्यासः यह ( तृच ) पर्यासः पर्यास ( पूर्वोक्त ऋचाओं के अन्त में प्रक्षेपणीय ) है । इसके द्वितीय पाद ' मरुत्वता जितम् ' में अन्तो वै जितम् ( युद्ध के अवसान का सूचक होने के कारण ) ' जितम् ' अन्त है और अन्तं वै षड़हः षष्ठ दिन भी ( मध्यम त्र्यह का ) अन्त है अतः षष्ठेऽहनि षष्ठ दिन में ( प्रयुक्त यह तृचं ) षष्ठस्याह्नो रूपम् षष्ठ दिन का रूप है ॥ सा ० भा ० – ‘ स्वर्मरुत्वता जितम् ' इति द्वितीयः पादः तत्र भूतार्थवाचि - क्तप्रत्ययान्तो ( १ ) अस्ति दाशतय्यां तृतीयस्य चतुर्थे चर्षणीधृतमिति द्वादशर्चं त्रयोदशं सूक्तम्; तदीय तृतीयतृचस्यैवात्र ग्रहणमिष्टम् । तदेतत् ' षष्ठेऽहनि षष्ठस्य ' - इति खण्डे ( ८.१ ) आश्व-लायनेन स्पष्टीकृतम्ं — ‘ इन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम् ' – इति ( २ ) ऋ ० ८.६५ ।