छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 21–30
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 21–30
पृष्ठ 21
पाठ पढ़ें पाठ छिपाएँ
भूमिका १७ लोकोऽनुरूपोऽमुष्य लोकोऽनुरूप: । ' इत्यैतरेयोक्तन्यायेनैतल्लोकानुरूपेऽमुष्मिन् लोके प्रति-माशब्दो लब्धावसर इति तत्पारिशेष्यादन्तरिक्षे प्रमाशब्दोऽवतिष्ठते । उभयोरेवानयोर्धा-वापृथिव्योरन्तरिक्षे प्रतिष्ठितत्वात्तत्र प्रमाशब्दसाद्गुण्याच्च । तदित्थं गौण्या वृत्त्या लोक-पराणामप्येषां मा - प्रमा- प्रतिमाशब्दानामवच्छेदविशेषार्थत्वं न विहन्यत इति सिद्धम् ॥ तदित्थं मा- प्रमा- प्रतिमात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राण एव वा छन्द इति लभ्यते । तत्रास्य प्राणस्यायमवच्छेदो यैरवयवभूतैरन्यान्यैः प्राणैः प्रसाध्यते ते प्राणश्छन्दः परिभाषायामक्षरशब्देनाख्यायन्ते तेषां चाक्षरप्राणानां प्रातिस्विकोऽवच्छेदो मात्राशब्देन । कयाचिन्मात्रया नियतैरनियतैर्वा तैस्तैरक्षरैवच्छेदसिद्धौ तदवच्छेदकाक्षरसंख्याभेदाच्छन्दांसि भिद्यन्ते । यथाष्टाक्षरा गायत्री, एकादशाक्षरा त्रिष्टुप्, द्वादशाक्षरा जगती चेत्यादीनि । तत्रैतान्य-क्षराणि वाचिकच्छन्दसि वाचिका एव प्राणा भवन्ति । आर्थिके तु छन्दस्यार्थिकाः प्राणाः । प्रसिद्धानि खलु वाचिकान्यक्षराणि, आर्थिकान्युदाहरामः तथा हि शतपथश्रुतावग्निरयि-रूपाया अस्याः पृथिव्याः पृथिवीप्राणरूपस्याग्नेश्च पृथग् पृथग् गायत्रीत्वमुपपादयितुमित्थ-माम्नायते ( ६ प्र. १।२।३६ ) -“ प्रजापतिर्वा इदमग्र आसीदेक एव । सोऽकामयत — बहु स्यां प्रजायेयेति । सोऽश्राम्यत् । स तपोऽतप्यत । तस्माच्छ्रान्तात् तेपानादापोऽसृज्यन्त ॥१ ॥ तस्मात्पुरुषात्तप्तादापो जायन्ते ।
आंपोऽब्रुवन् – क्व वयं भवामेति । तप्यध्वमित्यब्रवीत् । ता अतप्यन्त । ताः फेनमसृजन्त ॥२ ॥
तस्मादपां तप्तानां फेनो जायते । फेनोऽब्रवीत् - क्वाहं भवानीति । तप्यस्वेत्यब्रवीत् । सोऽतप्यत । स मृदमसृजत ॥ ३ ॥ एतद्वै फेनस्तप्यते - यदप्स्वावेष्टमानः प्लवते । स
यदोपहन्यते मृदेव भवति । मृदब्रवीत् क्वाहं — भवानीति । तप्यस्वेत्यब्रवीत् । सातप्यत । सा सिकता असृजत || ४ || एतद्वै मृत्तप्यते - यदेनां विकृषन्ति तस्माद्यद्यपि सुमात्स्न विकृषन्ति सैकतमिवैव भवति ( एतावन्नु तद् यत् क्वाहं भवानि क्वाहं भवानीति । ) सिकताभ्यः शर्करामसृजत ॥ ५ ॥ तस्मात् सिकताः शर्करैवान्ततो भवति । शर्कराया
अश्मानम् ॥६ ॥ तस्माच्छर्कराश्मैवान्ततो भवति । अश्मनोऽयः ॥ ७ ॥ तस्मादश्मनोऽयो
धमन्ति । अयसो हिरण्यम् ॥८ ॥ तस्मादयो बहु ध्मातं हिरण्यसंकाशमिवैव भवति ॥९ ॥
तद् यदसृज्यत । अक्षरत् तत् । यदक्षरत् तस्मादक्षरम् । यदष्टौकृत्वोऽक्षरत् । सैवाष्टाक्षरा गायत्र्यभवत् । अभूद्वा इयं प्रतिष्ठेति । तद्भूमिरभवत् । तामप्रथयत् । सा पृथिव्यभवत् । तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च पतिः संवत्सरायादीक्षन्त । भूतानां पतिर्गृहपतिरासीदुषाः पत्नी I । तद्यानि तानि भूतानि, ऋतवस्ते ॥१० ॥ अथ यः स भूतानां
पतिः संवत्सरः सः । अथ या सोषाः पत्नी, औषसी सा । तानीमानि भूतानि स भूतानां च पतिः संवत्सरः उषसि रेतोऽसिञ्चन् । स संवत्सरे कुमारोऽजायत ॥११ ॥ सोऽरोदीत् । तं
प्रजापतिखवीत् । कुमार, किं रोदिषि यच्छ्रमात्तपसोऽधिजातोऽसीति ॥१२ ॥ सोऽब्रवीत्-अनपहतपाप्मा वा अस्मि— अविहितनामा, नाम मे धेहीति । तस्मात् पुत्रस्य जातस्य नाम
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 22
पाठ पढ़ें पाठ छिपाएँ
१८ छन्दः शास्त्रम् कुर्यात् । पाप्मानमेवास्य तदपहन्ति । अपि द्वितीयम्, अपि तृतीयम् । अभिपूर्वमेवास्य तत् पाप्मानमपहन्ति ॥ १३ ॥ तमब्रवीत् - रुद्रोऽसीति । तद्यदस्य तन्नामाकरोत् — अग्नि-स्तद्रूपमभवत् । अग्रिर्वै रुद्रः । यदरोदीत् - तस्मादुद्रः ॥ १४ ॥ सोऽब्रवीत् — ज्यायान् वा
अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत् — सर्वोऽसीति । तद्यदस्य तन्नामाकरोत् । आपस्तद्रूपमभवत् । आपो वै सर्वः । अद्भ्यो हीदं सर्वं जायते ॥ १५ ॥ सोऽब्रवीत्—
ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत् — पशुपतिरसीति । तद्यदस्य तन्नामा-करोत् । ओषधयस्तद्रूपमभवन् । ओषधयो वै पशुपतिः । तस्माद्यदा पशव ओषधीर्लभन्तेऽथ पतीयन्ति ॥ १६ ॥ सोऽब्रवीत् — ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत्—
उग्रोऽसीति । तद्यदस्य तन्नामाकरोत् । वायुस्तद्रूपमभवत् । वायुर्वा उग्रः । तस्माद्यदा बलवद्वात्युग्रो वातीत्याहुः ॥ १७ ॥ सोऽब्रवीत् — ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत्—
अशनिरसीति । तद्यदस्य तन्नामाकरोत् — विद्युत्तद्रूपमभवत् । विद्युद्वा अज्ञनिस्तस्माद्यं विद्युद्धन्ति, अशनिरवधीदित्याहुः ॥ १८ ॥ सोऽब्रवीत् - ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति ।
तमब्रवीत् —भवोऽसीति । तद्यदस्य तन्नामाकरोत् पर्जन्यस्तद्रूपमभवत् । पर्जन्यो वै भवः । पर्जन्याद्धीदं सर्व भवति ॥ १ ९ ॥ सोऽब्रवीत् - ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत् — महान् देवोऽसीति । तद्यदस्य तन्नामाकरोत् चन्द्रमास्तद्रूपभवत् । प्रजापतिर्वै चन्द्रमाः, प्रजापतिर्वै महान्देवः ॥ २० ॥ सोऽब्रवीत् — ज्यायान् वा अतोऽस्मि धेह्येव मे
नामेति । तमब्रवीत्— ईशानोऽसीति । तद्यदस्य तन्नामाकरोत् आदित्यस्तद्रूपमभवत् । आदित्यो वा ईशानः । आदित्यो ह्यस्य सर्वस्येष्टे ॥ २१ ॥ सोऽब्रवीत् - एतावान् वा अस्मि मामेतः
परो नाम धा इति । तान्येतान्यष्टावग्निरूपाणि । कुमारो नवमः । सैवाग्नेस्त्रिवृत्ता । यद्वेवाष्टावग्निरूपाणि । अष्टाक्षरा गायत्री तस्मादाहुर्गायत्रोऽग्निरिति । सोऽयं कुमारो रूपाण्यनुप्राविशन्नवा अग्निं कुमारमिव पश्यन्त्येतान्येवास्य रूपाणि पश्यन्त्येतानि हि रूपाण्यनुप्राविशत् ॥ २२॥ ”
इत्येतावता महता प्रबन्धेनामीभिरप्फेनमृत्सिकताशर्कराश्मायोहिरण्यरूपैरष्टाभिरक्षरैः परिच्छेदादमुष्याः पृथिव्या भूतगायत्रीत्वमञ्जसोपपादितम् । एवं पृथ्वीजलतेजोवाय्वाकाश-सूर्यचन्द्रयजमानरूपैरष्टाभिरक्षरैः परिच्छेदादमुष्याग्ने रुद्रकुमारस्य भूतगायत्रीत्वमञ्जसैवोप-पादितम् । एवमेवैतच्छ्रुतितात्पर्यानुसारिभिरन्यत्राप्यार्थिकप्राणानामक्षरत्वमभ्युपगम्य तत: परिच्छेदादन्यान्या गायत्र्यः प्रतिपाद्यन्ते । यथा हि महाभारते भीष्मपर्वणि—
' सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ।
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ।
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥
एते वै पशवों राजन् ग्राम्यारण्याश्चतुर्दश । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 23
पाठ पढ़ें पाठ छिपाएँ
भूमिका वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।
वृक्षगुल्मलतावक्ष्यस्त्वक् सारास्तृणजातयः ॥
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु ।
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंगता ॥
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति । ' १ ९ इत्यादिना प्रबन्धेन पञ्चभिरचेतनजातीयैः, पञ्चभिश्चान्तचैतन्यजातीयैः स्थावरसंज्ञैः, तथा चतुर्दशभिश्चेतनजातीयैः प्राणिभिरवच्छेदाच्चतुर्विंशत्यक्षरा लोकगायत्री समाख्याता ॥ एवमेवान्यत्रान्यत्र सर्वत्रापि छन्दोव्यवहारः श्रौत: स्मार्तो वा सर्वोऽपि वाचिकाक्षरा-नुरूप्येणार्थिकाक्षरावच्छेदान्मा - प्रमा - प्रतिमात्मकभेदत्रयभिन्नः समर्थनीयः । तत्र च वाचिकाक्षरसंख्यानानां लक्षणत्वम्, आर्थिकाक्षरसंख्यानानां च लक्ष्यत्वं सर्वत्र समुन्नेयम् । एतेन सर्व एवात्रत्यप्रश्नग्रन्थोक्ता वैदिकनिदर्शनास्थानाश्छन्दोव्यवहारा व्याख्याताः । विषुवाहोरात्रवृत्तस्य बृहतीच्छन्दस्त्वम्, ततो दक्षिणतः क्रमेण हसितानां त्रयाणा-महोरात्रवृत्तानामनुष्टुवुष्णिग्गायत्रीत्वम्, विषुवादुत्तरतश्च क्रमेण हसितानां त्रयाणाम-होरात्रवृत्तानामनुष्टुवुष्णिग्गायत्रीत्वम्, विषुवादुत्तरतश्च क्रमेण दीर्घाणां त्रयाणामहोरात्रवृत्तानां पङ्क्तित्रिष्टुब्जगतीत्वं च पूर्वोक्तप्रकारेणैवाभिप्रेत्य सप्तानामेषां छन्दः संज्ञानां सूर्याश्वत्वमाख्यायते । ' प्रजापतेरक्ष्यश्वयत् । तदश्वोऽभवत् ' इति श्रुत्या सूर्यरथसमाविष्टानां चक्रस्थानां तेषाम-होरात्रवृत्तानामेव सूर्याश्वत्वात् । तदेतत्सर्वं वेदसमीक्षायां विस्तरतः समाख्याय स्पष्टीकृतमिति ततोऽवलोक्यम् ॥ इह तु मा - प्रमा- प्रतिमात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राणोऽपि वा छन्द इत्येतत् तावत् सर्वच्छन्दोरहस्यं सिद्धान्ततो व्याख्यातमिति दिक् ॥ नन्वेवमप्येतदपर्याप्तं छन्दोलक्षणमाख्यायते-' वासो अग्ने विश्वरूपं संव्ययस्व विभावसो । ' ' छन्दांसि वा अग्नेर्वासः । छन्दांस्येषवस्ते । छन्दोभिरेवैनं इति मैत्रायणीयश्रुतावभ्याच्छादनत्वेनाभिप्रेतस्यार्थस्य, ( १ ) ' छन्दांसि वै संवेश उपवेश: ' इति तैत्तिरीयश्रुतौ संप्राप्यावस्थानस्य, तत्रैवासनस्य चार्थस्य, ( ‘ शिल्पानि शंसन्ति देवशिल्पानि । एतेषां वै शिल्पानामनुकृतीह हस्ती कंसो वासो हिरण्यमश्वतरी रथः शिल्पम् । यदेव शिल्पानी ३, इति, परिददाति ' । २ ) शिल्पमधिगम्यते । आत्मसंस्कृतिर्वाव शिल्पानि — छन्दोमयं वा । एतैर्यजमान आत्मानं संस्कुरुते ॥ ' इत्यैतरेयश्रुतौ शिल्पभूतस्यार्थस्य CC - 0. JK Sanskrit Academy, Jammmu. Bigitized by S3 Foundation USA
पृष्ठ 24
पाठ पढ़ें पाठ छिपाएँ
२० छन्दः शास्त्रम् च ( ३ ) मानाद्यवच्छेदविलक्षणस्यापि छन्दस्त्वेन प्रतिज्ञानात् । इति चेत् । अत्रोच्यते-दैवतकाण्डे निरुक्ते भगवता यास्केन भत्यिसाहचर्यनिर्वचनावसरे - ' यच्च किचिद्दाष्टिविष-यिकं तदग्नेः कर्म ' इत्येवं प्रतिजानानेन दाष्टिविषयिकाणां स्थानावरोधकानां सर्वेषामेवार्था-नामग्निप्रधानत्वप्रतिबोधनात् तत्स्वरूपावच्छेदकानां दिग्देशकालसंख्यानानामेवानात्मधर्माणां छन्दस्त्वेनाभिप्रेतानामाच्छादकत्वसाधने मैत्रायणीयश्रुतेस्तात्पर्यमुपलभ्यते ॥ १ ॥ संवे-शोपवेशयोरप्यवयवसंनिवेशरूपतया तैत्तिरीयश्रुतेरपि परिमाणावच्छेदतात्पर्यकत्वमेवा-वसीयते ॥ २ ॥
अथ शिल्पं द्वेधा – अपूर्वकौशलकरणम्, प्रतिरूपकरणं च । यत्र प्रकतिदृष्टस्यार्थस्य भूयसा वैरूप्यमेव संसाधयितुमिष्यते तदाद्यम् । यत्र तु प्रकृतिदृष्टस्यार्थस्य भूयसानुरूप्यमेव संसाधयितुमिष्यते तद्द्द्वितीयम् ॥ तत्र—
‘ येभिः शिल्पैः पप्रथानामर्दृहद् येभिर्द्यामभ्यपिंशत् प्रजापतिः ।
येभिर्वाचं विश्वरूपां समव्यगत् तेनेममग्न इह वर्चसा समधि ॥
येभिरादित्यस्तपति प्रकेतुभिः सूर्यो ददृशे चित्रभानुः ।
येभिर्वाचं पुष्कलेभिरव्ययत् तेनेममग्न इह वर्चसा समद्धि ॥
यत्ते शिल्पं कश्यपं रोचनावद् इन्द्रियावत् पुष्कलं चित्रभानुः । यस्मिन् सूर्या अर्पिताः सप्त साकं तस्मिन् राजानमधिविश्रयेमम् ॥ ' इति मन्त्रवर्णकसिद्धमाद्यप्रकारं शिल्पं दैशिकावच्छेदरूपं वा स्यात्परिमाणावच्छेदरूपं वेति माप्रमयोरेवान्तर्भावः । यत्तु ' यद्वै प्रतिरूपं तच्छिल्पम् ' ( ३।२।१।५ ) इति शतपथ-श्रुतिबोधितमनुकरणलक्षणं द्वितीयं शिल्पं तत्पुनः प्रतिमानावच्छेदान्नातिरिच्यत इति सिद्धं माप्रमाप्रतिमातिरिक्तस्यार्थस्य छन्दस्त्वं नास्तीति ॥ नन्वेवमपि परिच्छेदप्रतिष्ठातुलितकातिरिक्तस्यार्थस्य सर्वथा छन्दस्त्वं नास्तीत्यन-वक्लृप्तम् ॥— छन्दोविशेषाणां गायत्र्यादीनामेवमर्थव्यतिरेकेणैवाद्यापि भूयसोपचार-दर्शनात् । ( १ ) तथा हि-“ स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति । पराच्येह देवेभ्यो यज्ञं वहति अर्वाची मनुष्यानवति । तस्माद्वा एति च प्रेति चान्वाह ॥ १ ॥ यद्वेवेति
च प्रेति चान्वाह । प्रेति वै प्राणः, एत्युदानः । प्राणोदानावेवैतद्दधाति । तस्माद्वा एति च प्रेति चान्वाह ॥ २ ॥ यद्वेवेति च प्रेति चान्वाह । प्रेति वै रेतः सिच्यते, एति प्रजायते ।
प्रेति पशवो वितिष्ठन्ते, एति समावर्तन्ते । सर्वं वा इदमेति च प्रेति च । तस्माद्वा एति च प्रेति चान्वाह || सोऽन्वाह - ' प्रवो वाजा अभिद्यव ' इति तन्नु प्रेति भवति । ‘ अग्न आयाहि वीतये ' इति, तद्वेति भवति ॥ " CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 25
पाठ पढ़ें पाठ छिपाएँ
भूमिका २१ इति शतपथश्रुत्या एतिप्रेतिक्रियोपलक्षितस्यार्थस्य गायत्रीत्वमाख्यायते ॥१ ॥
( २ ) एवमेव-' गायत्र्या ब्राह्मण निरवर्तयत्, त्रिष्टुभा राजन्यम्, जगत्या वेश्यम्, न केनचिच्छन्दसा शूद्रं निरवर्तयत् ' इति, ' गायत्रो वै ब्राह्मणः । त्रैष्टुभो वै राजन्यः । जागतो वै वैश्यः ॥ ' इति, ‘ इन्द्रो वै देवतया क्षत्रियो भवति, त्रैष्टुभश्छन्दसा, पञ्चदशस्तोमेन, सोमो राज्येन राजन्यो बन्धुना ' इति च । एवमादिभिरैतरेयादिश्रुतिभिश्च संस्कारस्य छन्दस्त्वं सुप्रतिपद्यते । " प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च ' ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ ' इति निगमो भवति । ' गायत्र्या छन्दसा ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यम्, जगत्या वैश्यम्, न केनचिच्छन्दसा शूद्रम् ॥ ' इत्यसंस्कार्यो भवति । त्रिप्वेव निवासः स्यात्सर्वेषाम् " इति वसिष्ठस्मरणे वाक्यशेषाद् ब्राह्मणादिविषयाणां संस्कारविशेषाणामेव गायत्र्यादित्वेनावधारणीयत्वात् ॥ ‘ न शूद्रे पातकं किंचिन्न च संस्कारमर्हति ' इति मनुस्मरणे छन्दः प्रातिनिध्येन संस्कारशब्दप्रयोगाच्च । न च ' शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः ॥ ' इति मनुयमादिस्मरणे छन्दः शब्दस्य मन्त्रपरतया व्याख्यानात्-' अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥ ' इति मरीचिवचने छन्दः प्रातिनिध्येन मन्त्रशब्दप्रयोगाच्च संस्कारपरत्वं दुर्वचमिति भ्रमितव्यम् ॥ संस्कारगुणभूतस्य मन्त्रस्य ब्राह्मणत्वादिप्रयोजकत्वप्रतिपत्त्यपेक्षया तत्तन्मन्त्रोपलक्षितसंस्कारस्यैव तदौचित्यात् ॥ मनुवचने हि पूर्वार्धे शूद्रत्वस्योद्देश्य-तावच्छेदकतयोत्तराधें पुनर्विधेयतावच्छेदकतया समानप्रतिपत्त्यभावेन तत्र छन्दःशब्दस्य मन्त्रपरत्वे मानाभावाच्च । मरीचिवचनेऽप्यमन्त्रस्य तस्य मन्त्रोपलक्षितसंस्कारायोग्यस्येत्येवार्थो युक्तियुक्तः शक्यते प्रतिपत्तुम् । अत एव-' चित्रकर्म यथानेकै रागैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः ॥ '
इत्येवमङ्गिरसा तत्तन्मन्त्रोपलक्षितसंस्कारस्यैव ब्राह्मण्यप्रयोजकत्वं स्मर्यते ।
तस्मात्सिद्धं छन्दः शब्दस्य संस्कारपरत्वम् ॥ २ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 26
पाठ पढ़ें पाठ छिपाएँ
२२ छन्दः शास्त्रम् ( ३ ) एवमेव-" तेजो वै ब्रह्मवर्चसं गायत्री । ब्रह्म गायत्री । ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् । क्षत्रं त्रिष्टुप् । जागताः पशवः । इषमूर्जं रयिः पुष्टिश्च ॥ ” इति भूयसा तेजः प्रभृतिषु तत्तदर्थविशेषेषु गायत्र्याद्युपचारेण द्रविणं छन्द इष्यते ॥ ३ ॥
तदित्थमागत्यप्रतिगच्छदर्थानां संस्काराणां द्रविणानां चानन्तर्भावादपर्याप्तमेतच्छन्दो-लक्षणं मन्यामहे । इति चेत् । उच्यते — आगत्यप्रतिगच्छदर्थानां गायत्रीत्वं तावद्वेधा प्रतिपद्यते — देवतासाहचर्य-भक्त्या च देवताहर्भक्त्या च । तदेतद्विज्ञानसौकर्याय यास्कनिरुक्तं देवतानां भक्तिसाहचर्यं तावद्व्याख्यास्यामः-: -तिस्र एवैता देवता भवन्ति पृथिवीस्थानोऽयमग्निः, अन्तरिक्षस्थानोऽयमिन्द्रः, द्युस्थानोऽयमादित्यश्च । अग्नीन्द्रादित्या अग्निवायसूर्या इत्यनर्थान्तरम् । नव नव चैतासां प्रत्येकं विभक्तयः -- लोकः, सवनम्, ऋतु:, छन्दः, स्तोमः, साम, समनुगता देवाः, संस्तविका देवाः, चेति भेदात् । तत्र तावदग्निभक्तीनि— १ अयं लोकः, २ प्रातः सवनम् ३ वसन्तऋतु:, ४ गायत्री छन्दः, ५ त्रिवृत् स्तोमः, ६ रथन्तरं साम, ७ प्रथमे स्थाने समाम्नाता देवगणाः, प्रथमस्थानीयाः स्त्रियश्च, ८ इन्द्रः, सोमः, वरुणः, पर्जन्यः, ऋतव इत्येते संस्तविका देवाः, हविरप्याग्नावैष्णवमा-ग्नापौष्णं च ॥ ९ अथ यच्च किंचिद्दार्ष्टिविषयिकं तत्सर्वमग्नेः कर्म हविषां वहनं च देवतानामावाहनं च ॥ अथेन्द्रभक्तीनि-१ अन्तरिक्षलोकः, २ माध्यंदिनसवनम् ३ ग्रीष्मऋतुः, ४ त्रिष्टुप् छन्दः, ५ पश्चदश: स्तोमः, ६ बृहत् साम, ७ मध्यमे स्थाने समाम्नाता देवगणाः, मध्यमस्थानीयाः स्त्रियश्च, ८ अग्निः, सोमः, वरुणः, पूषा, बृहस्पतिः, ब्रह्मणस्पतिः, पर्वतः, कुत्सः, विष्णुः, वायुः, इत्येते संस्तविका देवाः । मित्रो वरुणेन संस्तूयते, पूष्णा रुद्रेण च सोमः, अग्निना च पूषा, वातेन च पर्जन्यः संस्तूयते ॥ ९ अथ या च का च बलकृतिः सर्व तदिन्द्रस्यं कर्म, रसानुप्रदानं च वृत्रवधश्च ॥ अथादित्यभक्तीनि— १ असौ लोकः, २ तृतीयसवनम् ३ वर्षाऋतुः, ४ जगती च्छन्दः, ५ सप्तदश स्तोम:, ६ वैरूपं साम, ७ उत्तमे स्थाने समाम्नाता देवगणाः, उत्तमस्थानीयाः स्त्रियश्च, ८ चन्द्रमसा वायुना संवत्सरेणेति संस्तवः ॥ ९ अथ यच्च किंचित् प्रवह्नितं तत्सर्वमादित्यस्य CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 27
पाठ पढ़ें पाठ छिपाएँ
भूमिका २३ कर्म, रसादानं रश्मिभिश्च रसाधारणम् ॥ भक्तिशेष: -एतेष्वेव स्थानव्यूहेषु ऋतुच्छन्दः स्तोमपृष्ठस्य भक्तिशेषमनुकल्पयीत । शरदऋतुः, अनुष्टुप् छन्दः एकविंशः स्तोमः, वैराजं साम इति पृथिव्यायतनानि । हेमन्तऋतुः, पङ्क्तिश्छन्दः, त्रिणवः स्तोमः 1 शाक्करं साम इत्यन्तरिक्षायतनानि । शिशिरऋतुः, अतिच्छन्दाश्छन्दः, त्रयत्रिंशः स्तोमः, रैवतं साम इति द्युभक्तीनि ॥ इतीत्थंभूतया देवतासाहचर्यभक्त्या यावतामेव दार्ष्टिविषयिकाणामर्थानां देवागमनप्रतिगमनादीनां च कर्मणां गायत्रीच्छन्दोवदग्निभक्तित्वेनाभ्युपपत्तौ सिद्धमेवा-गत्यप्रतिगच्छदर्थानां गायत्रीत्वेन गायत्रीत्वम्, ब्रह्मणो वाचो गायत्रत्वेन गायत्रीत्ववत् । अथैवं देवतानां भक्त्या दशाहप्रतिपत्तिमैतरेयसमाम्रातां व्याख्यास्यामः -अग्निः १ प्रथममहर्वहति । त्रिवृत्स्तोमः, रथन्तरं साम, गायत्रीच्छन्दः । एति च प्रेति च । युक्तवत्, रथवत्, आशुमत्, पिबवत्, प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः
राथन्तरम्, गायत्रम्, करिष्यत । एतानि प्रथमस्याह्नो रूपाणि ॥
इन्द्रः २ द्वितीयमहर्वहति । पञ्चदशः स्तोमः, बृहत्साम, त्रिष्टुप्छन्दः । नेति न प्रेति, स्थितम्, ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुक्ता देवता, अन्तरिक्षमभ्युदितम्, बार्हतम्, त्रैष्टुभम् कुर्वत् । एतानि द्वितीयस्याह्नो रूपाणि ॥ विश्वेदेवाः ३ तृतीयमहर्वहन्ति । सप्तदशः स्तोमः, वैरूपं साम, जगतीच्छन्द । समानोदर्कम्, अश्ववत्, अन्तर्वत्, पुनरावृत्तम्, पुनर्निवृत्तम्, रथवत्, पर्यस्तवत्, त्रिवृत्, अन्तरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकोऽभ्युदितः, वैरूपम्, जागतम्, कृतम् । एतानि तृतीयस्याह्नो रूपाणि ॥ वाक् ४ चतुर्थमहर्वहति । एकविंशः स्तोमः, वैराजं साम, अनुष्टुप्छन्दः । एति च प्रेति च । युक्तवत्, रथवत्, आशुमत्, पिबवत्, प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः, जातवत्, धनवत्, शुक्रवत्, वाचोरूपम्, वैमदम्, विरिफितम्, विच्छन्दाः, ऊनातिरिक्तम्,
वैराजम्, आनुष्टुभम्, करिष्यत् । एतानि चतुर्थस्याह्नो रूपाणि ॥
गौ: ५ पञ्चममहर्वहति । त्रिणवः स्तोमः, शाक्वरं साम, पङ्क्तिश्छन्दः । नेति न प्रेति, यत् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 28
पाठ पढ़ें पाठ छिपाएँ
२४ छन्दः शास्त्रम् स्थितम्, ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुक्ता देवता, अन्तरिक्षमभ्युदितम्, दुग्धवत्, ऊधवत्, धेनुमत्, पृश्निमत्, मद्वत्, शाक्करम्, द्यौः ६ अध्यासवत्, ( विक्षुद्रा इव हि पशवः ) जागतम्, ( जागता हि पशव:) बार्हतम्, ( बार्हता हि पशव:) पाङ्क्तम् ( पाङ्क्ता हि पशव:) वामम् ( वामं हि पशवः ) हविष्मत् ( हविर्हि पशव:) वपुष्मत् ( वपुर्हि पशव:)
पाङ्क्तम्, कुर्वत् । एतानि पञ्चमस्याह्नो रूपाणि ॥
पशुरूपाम् ॥
षष्ठमहर्वहति । त्रयस्त्रिंशः स्तोमः, रैवतं साम, अतिच्छन्दाश्छन्दः । समानोदर्कम्, अश्ववत्, अन्तर्वत्, पुनरावृत्तम्, पुनर्निवृत्तम्, रथवत्, पर्यस्तवत्, त्रिवृत्, अन्तरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकोऽभ्युदितः, पारुच्छेपम्, सप्तपदम्, नाराशंसः, नाभानेदिष्ठम्,
रैवतम्, अतिच्छन्दाः, कृतम् । एतानि षष्ठस्याह्नो रूपाणि ॥
७ एति च प्रेति च, युक्तवत्, रथवत्, आशुमत्, पिबवत्, प्रथमपदनिरुक्ता देवता,
अयं लोकोऽभ्युदितः, जातवत्, अनिरुक्तं करिष्यत् । एतानि सप्तमस्याह्नो रूपाणि ॥
८ नेति न प्रेति, यत् स्थितम्, ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुक्ता देवता, अन्तरिक्षमभ्युदितम्, द्व्यग्नि, महद्वत्, शुचिवत् पुनर्वत् । एतान्यष्टमस्याह्नो रूपाणि ॥ ९ समानोदर्कम्, अश्ववत्, अन्तर्वत्, पुनरावृत्तम्, पुनर्निवृत्तम्, रथवत्, पर्यस्तवत्, त्रिवृत्, अन्तरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकोऽभ्युदितः, शुचिवत् सत्यवत्,
क्षेतिवत्, गतवत्, ओकवत्, कृतम् । एतानि नवमस्याह्नो रूपाणि ॥
इदं नवरात्रम् । १० पृष्ठ्यं षडहमुपयन्ति । मुखमिव पृष्ठ्यः षडहः । यथान्तरं मुखस्य जिह्वा, तालु दन्ताः, एवं छन्दोमाः । अथ येनैव वाचं व्याकरोति येन स्वादु चास्वादु च विजानाति तद्दशममहः । नासिके इव पृष्ठ्यः षडहः -- यथान्तरं नासिकयोरेवं छन्दोमा । अथ येनैव गन्धान् विजानाति तद्दशममहः । अक्षीव पृष्ठ्यः षडहः । यथान्तरमक्ष्णः कृष्णमेवं छन्दोमा । अथ यैव कनीनिका येन पश्यति तद्दशममहः । कर्ण इव सः — यथान्तरं कर्णस्य एवं
छन्दोमा । अथ येनैव शृणोति तद्दशममहः । श्रीर्दशममहः ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 29
पाठ पढ़ें पाठ छिपाएँ
भूमिका २५ इतीत्थं दशाहप्रतिपत्तिः श्रूयते । एतत्पदार्थनिरूपणं च वेदसमीक्षायां साधु कृतमिति ततः स्पष्टमवगंस्यते । इह तु सर्वेषामेवार्थानां त्रैविध्येनाभ्युपगमादग्न्यहोरूपतया सिद्धमेवागत्यप्रतिगच्छदर्थानां समानभक्त्या गायत्रीत्वमित्यवगम्यते ॥ अथ संस्कारो द्रष्टव्यः । कस्यचित् कस्मिंश्चित् कर्मणि योग्यतासंपादनं हि संस्कारः । तत्रेधा — दोषापनोदनेन, अतिशयाधानेन, हीनाङ्गपूरणेन च । एभिः संस्कारैस्तत्तदर्थस्यादुष्टत्वं विशिष्टत्वं स्वरूपसत्त्वं च संसिद्धं भवति 1 । अस्ति स संस्कारो यदभावे स्वरूपसन्नप्यसौ ब्राह्मणोऽधमतामेति न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे । प्रतिबन्धकसंनिधानेन कारणतानिरासादिति तदर्थः स संस्कारः शोधकः ॥ १ ॥ अस्ति च स संस्कारो यदभावे
स्वरूपसन्नप्यसौ ब्राह्मणो नोत्तमतामेति न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे । सहकारिसंनिधानाभावेन कारणतानिरासादिति तदर्थः स संस्कारो विशेषकः ॥ २ ॥ एवमस्ति
स संस्कारो यदभावे ब्राह्मण्यं नोपतिष्ठते, ब्राह्मण्यादपेतश्च कर्मविशेषायोग्यो भवति । कारणासंनिधानादिति तदर्थः संस्कारो भावकः || ३ || एषु च संस्कारशब्दस्य करणव्युत्पत्त्या संस्कारजनकक्रियापरत्वं द्रष्टव्यम् ॥ तत्र गर्भाधानं तावत्स्वरूपसंपादनोद्देशेन सहधर्मचारिणीक्षेत्रे गर्भाशयरूपे शारीराग्नि-समीपे वा संस्कार्यस्य संस्थापनं, सोऽयं गर्भभावकः संस्कारो द्रष्टव्यः । तथा च गर्भाधान-पुंसवनसीमन्तोन्नयन - कर्माणि तत्र गर्भे ब्रह्मभावयोग्यतारूपातिशयाधायकत्वाद् विशेषक-संस्कारा भवन्ति । ‘ गर्भाधानवदुपेतो ब्रह्मगर्भं संदधाति । पुंसवनात् पुंसीकरोति, फलस्नपनान्मातापितृजं पाप्मानमपोहति । ' इति हारीतस्मरणात् । त एतेऽन्तर्गर्भसंस्कारा उच्यन्ते । ततो बहिः शालायामिव गृहोदरबहिर्भूते गर्भे शुक्रशोणितोपगतदोषमार्जक-त्वादुत्तरे जातकर्म — नामकर्म – निष्क्रमाणाऽ – न्नप्राशन- कर्णवेध – मुण्डन – स्नानादीनि कतिपयकर्माणि शोधकसंस्कारा भवन्ति । ' रेतोरक्तगर्भोपघातः पञ्चगुणः, जातकर्मणा प्रथममपोहति, नामकरणेन द्वितीयम्, प्राशनेन तृतीयम्, चूडाकरणेन चतुर्थम्, स्नानेन पञ्चमम्, एतैरष्टभिः संस्कारर्गर्भोपघातात् पूतो भवति । ' इति हारीतस्मरणात् ।, ' एवमेन: ` शमं याति बीजगर्भसमुद्भवम् ' ( मनुः ) इत्यादिस्मृत्यन्तरेभ्यश्च त एते गर्भशुद्धिसंस्कारा r उच्यन्ते । सोऽयमेतावान् गर्भसंस्कारोऽनुव्रताद्युत्तरसंस्कारयोग्यतासम्पत्त्यर्थः पितृकर्तृकश्च । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मणत्वादिघटितवर्णत्वघटितम् । संस्कार्यनिष्ठं तु ब्राह्मणादिवर्णजन्यत्वमेव, न तु ब्राह्मणत्वादिकमपि तत्र फलोपधायकतारूपमपेक्ष्यते । अतः परमुपनयनं तावत् स्वरूपसंपादनोद्देशेन सावित्रीक्षेत्रे ब्रह्मचर्यव्रतरूपे कर्माग्नि-समीपे वा संस्कार्यस्य संस्थापनम् । सोऽयं वर्णभावकः संस्कारो द्रष्टव्यः । तथा चोपनयन-. व्रतादेश - वेदारम्भ - वेदाध्ययनानि, सावित्राऽऽग्नेयशुक्रियोपनिषदशौलभगोदानभौतिक - महा-नाम्नीव्रतोत्सर्गाः, केशान्तः, समावर्तनस्नानं चेत्येते तत्र ब्राह्मणादिवर्णे यज्ञक्रियायोग्यता-रूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 30
पाठ पढ़ें पाठ छिपाएँ
२६ छन्दः शास्त्रम् ‘ उपनयनाद्याभिरष्टाभिर्व्रतचर्याभिरन्तर्व्रतेश्चाष्टभिः स्वच्छन्दः सम्मितो ब्राह्मणः परं पात्रं देवपितॄणां भवति छन्दसां पारं गच्छति छन्दसामायतनम् इति हारीतस्मरणात्; ‘ स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया शुभैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ ' ( मनुः २।२८ ) इत्यादिस्मृत्यन्तरेभ्यश्च । त एते आचार्यकर्तृका अनुव्रतसंस्कारा उच्यन्ते । यद्यपि ' गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥ ' ( मनु. २।२७ ) इति मनुस्मरणात् । ‘ सांवत्सरिकस्य चूडाकरणम्, तृतीये वा प्रतिहते, षोडशवर्षस्य केशान्तः । ' इति पारस्करसूत्रे मुण्डनगोदानयोर्गर्भसंस्कारप्रकरणोपात्तत्वादुपनयनकेशान्त-योरपि गर्भसंस्कारत्वमाक्षिपन्ति । अथापि दधिदर्शनन्यायेन संभवत्येव कतिपयाना-मुभयविधसंस्कारत्वमित्यतः प्रकरणातिरेको न दोषायेत्यनुसंधेयम् । ततो बहिः शालायामिव पितृगृहं प्रत्यावृत्ते वर्णे ऋणपञ्चकसूनापञ्चकोपगतदोषमार्जक-त्वादुत्तरे नैमित्तिकवार्षिकमासिंकाह्निकात्मकभेदचतुष्टयभिन्नाः शोधकसंस्कारा भवन्ति ॥
' अतः परं द्विजातीनां संस्कृतिर्नियतोच्यते ।
संस्काररहिता ये तु तेषां जन्म निरर्थकम् ॥।
गर्भाधानं पुंसवनं सीमन्तो बलिकर्म च ।
जातकृत्यं नामकर्म विश्रुतोऽन्नाशनं परम् ॥
चौलकर्मोपनयनं तद्व्रतानां चतुष्टयम् स्नानोद्वाहौ चाग्रयणमष्टकासु यथायथम् श्रावण्यामाश्वयुज्यां च मार्गशीर्ष्या च पार्वणम् उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यशः संस्कारा नियता ह्येते ब्राह्मणस्य विशेषतः नैमित्तिकाः षोडशोक्ताः समुद्वाहावसानकाः सप्तैवाग्रयणाद्याश्च संस्कारा वार्षिका मताः मासिकं पार्वणं प्रोक्तमशक्तानां तु वार्षिकम् महायज्ञास्तु नित्याः स्युः संध्यावद्वाग्निहोत्रवत्
' अशुचिः स्त्रीविहीनश्च दैवे पित्र्ये च कर्मणि ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥
॥।
॥
॥
॥
॥
। ॥ ' इत्याश्वलायनोक्तेः; इति ब्राह्मोक्तेः, १. नित्याः संस्काराः = पञ्च महायज्ञाः । ५ २. मासिकाः संस्काराः = पार्वणादयः । ५ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA