छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 31–40
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 31–40
पृष्ठ 31
पाठ पढ़ें पाठ छिपाएँ
भूमिका ३. वार्षिकाः संस्काराः = आग्रयणादयः । ४. नैमित्तिकाः संस्काराः उद्वाहान्ताः । ५. काम्याःसंस्काराः = अग्निष्टोमादयः, प्रायश्चित्तानि =
' ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि ।
पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः ॥
यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन् ।
पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान् ॥
ऋणमुन्मुच्य देवानामृषीणां च तथैव च ।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥
देवानां च पितॄणां च ऋषीणां च तथा नरः ।
ऋणवान् जायते यस्मात्तन्मोक्षे प्रयतेत्सदा ॥
देवानामनृणो जन्तुर्यज्ञैर्भवति मानव ।
अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥
श्राद्धेन प्रजया चैव पितॄणामनृणो भेवत् ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः ॥ ' इत्यादिपुराणस्मृतिवचनेभ्यः,
' पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥
तासां क्रमेण सर्वासां निष्कृत्यर्थं महात्मभिः ।
पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भीतो नृयज्ञोऽतिथिपूजनम् ॥ ' इत्येवं मन्वादिस्मृतिवचनेभ्यश्च तथावगमात् । त एते स्वकर्तृका २७ ७ १६ ( गुणाधानाः ) ( दोषनिरासाः ) धर्मशुद्धिसंस्कारा उच्यन्ते । सोऽयमेतावान् व्रतसंस्कारो यज्ञादिदैवसंस्कास्योग्यतासंपत्त्यर्थः । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मणत्वादिघटितवर्णत्वघटितम्, संस्कार्यनिष्ठं तु पूर्वसंस्कारसंस्कृतत्वं वा; CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 32
पाठ पढ़ें पाठ छिपाएँ
२८ छन्दः शास्त्रम् ‘ धृतिः क्षमा दया शौचमनायासोऽनसूयितम् । अस्पृहत्वमकामत्वं ब्राह्मणानाममी गुणाः ॥ ' इत्युक्तात्मगुणाष्टक वैशिष्ट्यं वा । तेषां पूर्वेषां संस्कारकर्मणामप्येतद्गुणाष्टक-रूपातिशयभावकत्वात् । विज्ञायते चैतदेषामष्टानां गुणानामपि संस्कारत्वम् । अष्टचत्वारिं-शत् - संस्कारानाचक्षाणेन भगवता गौतमेन चत्वारिंशत्संस्कारानाख्याय परिशेषे-' अष्टावात्मगुणाश्च ' इति स्मरणात्,
‘ संस्कारैः संस्कृतः पूर्वैरुत्तरैरपि संस्कृतः ।
नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रह्म लौकिकम् ॥
ब्राह्मं पदमवाप्नोति यस्मान्न च्यवते पुनः । ' इति शङ्खादिस्मरणाच्च धृत्याद्यात्मगुणानां ब्राह्मणत्वप्रयोजकत्वेनाभिधानात् । ‘ अर्धं वै प्रजापतेरात्मनो धैर्यमासीदर्धं माल्व्यम् । यद्धैर्यं तत् पुरस्तात् कुरुत । यन्माल्व्यं तत् पश्चात् पर्यौहत । यद्धैर्यं सोमो वै सः । ततो ब्राह्मणमसृजत । तस्माद् ब्राह्मणः सर्व एव ब्रह्माभिधीरः । यन्माल्व्यं सुरा वै सा । ततो राजन्यमसृजत । तस्माज्यायांश्च कनीयांश्च स्नुषा च श्वशुरश्च सुरां पीत्वा विलालपंत आसते । मालल्व्यं हि तत् । पाप्मा वै माल्व्यम् । तस्माद् ब्राह्मणः सुरां न पिबेत् । पाप्मनात्मानं नेत् संसृजा इति ' । इत्येवं मैत्रायणीयश्रुत्यादिषु तत्र तत्र ब्राह्मणत्वप्रयोजकानां धृत्यादीनामाम्नानाच्च । तदित्थमेतावानयमुक्तो ब्राह्मसंस्कारः स स्मार्तो द्रष्टव्यः । अथातः परम् ‘ अग्ने व्रतपते व्रतं चरिष्यामि, वायो व्रतपते व्रतं चरिष्यामि, आदित्य व्रतपते व्रतं चरिष्यामि ' इति; ' इदमहमनृतात् सत्यमुपैमि । ' इति वा व्रतोपायनं तावत् स्वरूपसंपादनोद्देशेन सत्यक्षेत्रे देवव्रतरूपे गार्हपत्याहवनीयाग्निसमीपे वा संस्कार्यस्य संस्थापनम् । सोऽयं देवभावकः संस्कारो द्रष्टव्यः । तथा च व्रतोपायनमभ्याधेयं च पुरस्कृत्य कृतमग्निहोत्रम्, दर्शपूर्णमासौ, पिण्डपितृयज्ञः, आग्रयणेष्टिः, चातुर्मास्यम्, निरूढपशुबन्धः, सौत्रामणी चेत्येते सप्तहविर्यज्ञसंस्थाख्या यजमाने देवत्वयोग्यता-रूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति । ‘ आरब्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजते ' इत्यैतरेयादिश्रवणात् । अथ गृह्याग्निपरिग्रहः, पञ्चयज्ञानुष्ठानम्, अष्टका पार्वणम्, श्रावणी, आग्रहायणी, चैत्री, आश्वयुजीत्येताः सप्त पाकयज्ञसंस्थाः । औपासनहोमः, वैश्वदेवम्, पार्वणम्, अष्टका, ग्रहमासिकश्राद्धम्, बलिः, श्रावणी चेति वा सप्त पाकयज्ञाः । औपासनम्, वैश्वदेवः, स्थालीपाकः, आग्रयणम्, सर्पबलिः, ईशानबलिः, अष्टकान्वष्टका चेत्येवं विभक्ता वा स्मार्ताग्निकृत्याः सप्त पाकयज्ञाः, यजमाने ऋणसम्बन्धोपगतदोषमार्जकत्वाच्छोधकसंस्कारा भवन्ति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 33
पाठ पढ़ें पाठ छिपाएँ
भूमिका २ ९ ' जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते । ब्रह्मचर्येणर्षिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः । एष वा अनृणी, यः पुत्री यज्वा ब्रह्मचारी इति श्रवणात् । ' ॠणं ह वै जायते योऽस्ति, स जायमान एव देवेभ्यः, ऋषिभ्यः, पितृभ्यो, मनुष्येभ्यः । स यदेव यजेत, तेन देवेभ्य ऋणं जायते, तद्ध्येभ्य एतत्करोति । यदेनान् यजते यदेभ्यो जुहोति ॥ १ ॥ अथ
यदेवानुब्रवीत तेन ऋषिभ्य ऋणं जायते । तद्ध्येभ्य एतत्करोति । ऋषीणां निधिगोप इति ह्यनूचानमाहुः ॥ २ ॥ अथ यदेव प्रजामिच्छेत, तेन पितृभ्य ऋणं जायते । तद्ध्येत
एतत्करोति । यदेषां संतताव्यवच्छिन्ना प्रजा भवति ॥ ३ ॥ अथ यदेव वासयेत, तेन
मनुष्येभ्य ऋणं जायते । तद्ध्येभ्य एतत्करोति । यदेनान् वासयते, यदेभ्योऽशनं ददाति ॥४ ॥
स य एतानि सर्वाणि करोति स कृतकर्मा । तस्य सर्वमाप्तं सर्वं जितम् ॥ ' इति शतपथादिश्रवणेभ्यश्च पञ्चयज्ञादीनामृणशोधकत्वेन प्रतिपत्तेः । सोऽयमेतावान् यजमानसंस्कारः सौम्यादिकाम्यसंस्कारयोग्यतासंपत्त्यर्थः । अत्र संस्कर्तृसंस्कार्ययोरेकत्वा-न्नाधिकारितावच्छेदकं भिद्यते ॥ अतः परमग्निष्टोमो, ऽत्यग्निष्टोमः, उक्थः, षोडशी, वाजपेय:, अतिरात्रः, आप्तोर्यामश्चेति सप्त सोमसंस्थाः | महाव्रतम्, राजसूयः, कुरुवाजपेयः, सर्वतोमुखम्, पौण्डरीकम्, अभिजित्, विश्वजित्, अश्वमेधनरमेधगोमेधाः, गवामयनाङ्गिरसामयनादित्यानामयन-विश्वसृजामयनानि सत्राणि, बृहस्पतिसव:, आङ्गिरसः, अष्टादशविधानि चयनानीत्येवम-नेकविधा उत्तरक्रतवस्ततोऽन्ये काम्यविधयश्चोपतिष्ठन्ते । तेऽप्येते संस्कारा भवन्ति । अदृष्टोत्पादनद्वारा फलसिद्धावङ्गभावात् । तदित्थमेतावानयमुक्तो दैवसंस्कारः स श्रौतो द्रष्टव्यः । इदं चात्रावधार्यते— सोमयागा द्विविधाः - आवृता अनावृत्ताश्च । तत्रानावृत्ता एकाहाः । आवृत्ता अपि द्वेधा - अहीनरूपाः सत्ररूपाश्च । द्विरात्रमारभ्यैकादशरात्रपर्यन्ता अहीना एव । एकादशरात्रद्वादशरात्रौ तु द्वेधा - अहीनरूपौ सत्ररूपौ च । त्रयोदशरात्रमारभ्योपरितनानि सर्वाणि सत्राण्येव । तान्यपि द्विविधानि - रात्रिसत्राणि, अयनसत्राणि चेति । तत्र शतरात्र-पर्यन्तानि रात्रिसत्राणि । संवत्सरसत्रमारभ्योपरितनान्ययनरूपाणि । तेषा च सर्वेषां प्रकृतिभूतं गवामयनमिति ॥ इत्थं च निरूपितो द्विविधः संस्कारो ब्राह्मो दैवश्चेति । तत्र ब्राह्मेणार्षी तनुः क्रियते । दैवेन दैवी । तदुक्तं भगवता हारीतेन-' द्विविध एव संस्कारो भवति- ब्राह्मो दैवश्च । गर्भाधानादिस्रानान्तो ब्राह्मः । पाकयज्ञहविर्यज्ञसौम्याश्चेति दैवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समानतां सायुज्यतां गच्छति । दैवेनोत्तरेण संस्कारेणानुसंस्कृतो देवानां समानतां सालोक्यतां सायुज्यतां गच्छतीति ' । तदित्थं प्रतिपन्नेष्वात्मसंस्कारेषु कतिपयस्यैव छन्दस्त्वमिष्यते? आहोस्विदविशेषेण CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 34
पाठ पढ़ें पाठ छिपाएँ
३० छन्द: शास्त्रम् सर्वस्येति विचार्यते । किं चात:? । यदि कतिपयस्यैवोच्यते तत् तर्हि अर्धजरतीयत्वापत्तिः । संस्कारत्वाविशेषेऽपि कस्यचिच्छन्दस्त्वमन्यस्य नेत्यत्र विनिगमकाभावात् ॥ अथ यदि सर्वस्योच्येत तत् तर्हि शूद्रस्यापि सच्छन्दस्त्वमापद्यते ॥
द्विजानां षोडशैव स्युः शूद्राणां द्वादशैव तु ।
पञ्च मिश्रकजातीनां संस्काराः कुलधर्मतः ॥
वेदव्रतोपनयनमहानाम्नीमहाव्रतम् विना द्वादश शूद्राणां संस्कारा नाममन्त्रतः ॥ ' ‘ स्त्रिया जातकर्म - नामकरण- निष्क्रमा - न्नप्राशन- चूडा- विवाहाः षडेते, पञ्च महायज्ञाश्चेत्येकादशेति मदनरत्नोक्ते: --' गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमोऽन्नप्राशनं वपनक्रिया ॥
कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः ।
केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः ॥
त्रेताग्निसंग्रहश्चैव संस्काराः षोडश स्मृताः ।
नवैताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियाः ॥
विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश । ' ' विवाहमात्रसंस्कारं शूद्रोऽपि लभतां सदा । ' कतिपयसंस्काराणां विवाहमात्रस्य वा तत्राप्यनुवर्तमानत्वात् । ' आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । तस्माच्छूद्रः स्वयं कर्म यजुर्वेदीव कारयेत् ॥ ' इति शार्ङ्गधरोक्तेः । षट् । शूद्राणां तु इति व्यासोक्ते: -इति ब्राह्मोक्तेश्च इति शूद्राह्निकाचारतत्त्वधृतस्मृतिवचनेन शूद्राणामपि वेदसंबन्धात् — इति चेत् । अत्रोच्यते — यथेच्छसि तथास्तु । उभयथाप्येतच्छक्यते प्रतिपत्तुं कतिपयस्य वा सर्वस्य वा छन्दस्त्वमस्तीति । ननु चोक्तमुभयत्रापि दूषणमिति चेत् — नैतदस्ति । अस्ति ह्येतत्— यदारम्भे यदारम्भः, यदवसाये यदवसाय:, यदभ्युच्चये यदभ्युच्चयः, यदवचये यदवचयः, तत्तदायतनमित्युच्यते । यदाश्रयेण वा यस्य प्रतिपत्तिः सा तस्य प्रतिष्ठाऽभिज्ञायते । तथा चायं तावद् ब्राह्मसंस्कारः साक्षात्परम्परया च ब्राह्मणत्वक्षत्रियत्ववैश्यत्वानां प्रतिष्ठा भवति । तदधीनोपपत्तिकत्वात् । प्रतिष्ठायां च श्रूयते प्रमाशब्दः, तस्मात् संसिद्धं प्रमालक्षणं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 35
पाठ पढ़ें पाठ छिपाएँ
भूमिका ३१ छन्दस्त्वमेतस्य । तत्र योग्यात्मनि संस्कारविशेषेण ब्रह्माधीयते, योग्यात्मनि च संस्कारविशेषेण क्षत्रं, विड् वा । श्वोवस्यसं चेदं ब्रह्म, रौद्रं क्षत्रम्, मारुत्यो विशः । आतश्चाग्नेयं ब्रह्म, ऐन्द्रं क्षत्रम्, वैश्वदेव्यो विशः । अग्नेस्तु छन्दो गायत्री सा चाष्टवर्णा, इन्द्रस्य त्रिष्टुबेकादशवर्णा, विश्वेषां देवानां जगती द्वादशवर्णा । आतश्च गायत्रं ब्रह्म, त्रैष्टुभं क्षत्रम्, जागती विट् । तदित्थमष्टवर्णनिबन्धनं ब्रह्माधेयम्, एकादशवर्णनिबन्धनं चेदं क्षत्रम्, द्वादशवर्णनिबन्धना त्वेषां विडिति वर्णछन्दोबद्धतया त्रयो वर्णा उच्यन्ते - ब्राह्मणः क्षत्रियो वैश्य इति । शूद्रस्यैवमवर्णत्वेऽपि वर्णत्वमौपचारिकं द्रष्टम् । अच्छन्दस्त्वस्यैव छन्दस्त्वेन विवक्षित-त्वात् । तथा च यथा हि वाग्वर्णो गायत्रीछन्दाः, त्रिष्टुप्छन्दाः, जगतीच्छन्दाः, विच्छन्दा वा भवति, एवमयं मनुष्यवर्णोऽपि चतुर्विधो भवति । सर्वोऽप्ययं प्राणिवर्गोऽप्राणिवर्गों वा तैरेतैर्वर्णच्छन्दोभिरेव सच्छन्दस्कतया वर्णो भवति । ब्राह्मण, क्षत्रिय, वैश्य, शूद्र इति । यथा च ग्राम्येषु पशुषु तावदजो ब्राह्मणः, अविः क्षत्रियः, गौर्वैश्यः, अश्वः शूद्र इति । यथा वान्यत्र स्थावरादिषु । एवमयं मनुष्येषु संस्कारसिद्धो भूत्वा गायत्रीच्छन्दा ब्राह्मणः, त्रिष्टुप्-छन्दा: क्षत्रिय:, जगतीच्छन्दा वैश्यः, प्राजापत्यच्छन्दा विच्छन्दा वा शूद्र इति ॥ ' ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पभ्यां शूद्रो अजायत ॥ ' इति । ‘ प्रजापतिरकामयत – प्रजायेयेति, स मुखतस्त्रिवृतं निरमिमीत ॥ तमग्निर्देवता अन्व-सृजत, गायत्री छन्दो, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम् । तस्मात्ते मुख्याः — मुखतो ह्यसृज्यन्त ॥ उरसो बाहुभ्यां पञ्चदशं निरमिमीत । तमिन्द्रो दैवतान्यसृजत, त्रिष्टुप्छन्दः, बृहत्साम, राजन्यो मनुष्याणाम्, अविः पशूनाम् । तस्मात्ते वीर्यवन्तो-वीर्याद्व्यसृज्यन्त ॥ मध्यतः सप्तदशं निरमिमीत । तं विश्वेदेवा देवता अन्वसृजन्त । जगतीछन्दो, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्, । तस्मात्ते आद्या: -अन्नधानाद्ध्यसृज्यन्त । तस्माद्भूयांसोऽन्येभ्यो भूयिष्ठा हि देवता अन्वसृज्यन्त ॥ पत्त एकविंश निरनिमीत । तमनुष्टुप् छन्दोऽन्वसृज्यत । वैराजं साम, शूद्रो मनुष्याणाम्, अश्वः पशूनाम्, तस्मात्तौ भूतसंक्रामिणावश्चश्च शूद्रश्च । तस्माच्छूद्रो यज्ञेऽनवक्लृप्तो — न हि देवता अन्वसृज्यत । तस्मात्पादावुपजीवतः, पत्तो ह्यसृज्येताम् । प्राणा वै त्रिवृत्, अर्धमासाः पञ्चदश, प्रजापतिः सप्तदशः, त्रय इमे लोकाः; असावादित्य एकविंशः । तस्मिन् वै एते श्रिताः, एतस्मिन् प्रतिष्ठिताः, य एवं वेदैतस्मिन्नेव श्रयते एतस्मिन् प्रतितिष्ठति ॥ ' इति ( शतपथ ० ७ | १ | १ ) इति मन्त्रब्राह्मणाभ्यां तथाम्नानात् । यत्तु - — एवंविधादेव मन्त्रब्राह्मणाद्याम्नानात् सृष्ट्यादौ मनुष्याकारपरमेश्वरस्य CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 36
पाठ पढ़ें पाठ छिपाएँ
३२ छन्दः शास्त्रम् मुखाद्यङ्गेभ्यश्चत्वारः सृष्ट्यादिभूता ब्राह्मणक्षत्रियवैश्यशूद्रा उत्पन्ना इति लभ्यते, ततश्चोत्पत्तिलभ्यमेव ब्राह्मणत्वादिकं न संस्कारलभ्यमित्याक्षिपन्ति, तदज्ञानात् । ‘ अर्धं वै प्रजापतेरात्मनो धैर्यमासीदर्धं माल्व्यम् । यद्धैर्यं - सोमो वै सः । ततो ब्राह्मणमसृजत । यन्माल्व्यं - सुरा वै सा । ततो राजन्यमसृजत ॥ ' इत्यादिश्रुतिष्वि-वेहापि मुखाद्ब्राह्मणमसृजत, उरसः क्षत्रियमित्यादीनामपेक्षितार्थविशेषपरत्वात् । तदित्थं सिद्धमग्न्यादिभक्तिसिद्धद्रविणसंयोगाद्ब्राह्मणादिसंस्कारविशेषाणामपि गायत्र्यादित्वमिति दिक् ॥ निरूपयिष्यते चायमर्थो वैशद्येन धर्मसमीक्षायामित्यतोऽत्र विरम्यते ॥ अथ द्रविणम्-‘ तत्र समिधमातिष्ठ | गायत्री त्वा छन्दसामवतु, त्रिवृत् स्तोमः, रथन्तरं साम, अग्निर्देवता, ब्रह्म द्रविणम् ॥ उग्रामातिष्ठ । त्रिष्टुप् त्वा छन्दसामवतु, पञ्चदशः स्तोमः, बृहत्साम, इन्द्रो देवता, क्षत्रं द्रविणम् ॥ विराजमातिष्ठ । जगती त्वा छन्दसामवतु । सप्तदशः स्तोमः, वैरूपं साम, मरुतो देवताः, विड् द्रविणम् ॥ उदीचीमातिष्ठ । अनुष्टुप् त्वा छन्दसामवतु, एकविंशस्तोमः, वैराजं साम, मित्रावरुणौ देवता, बलं द्रविणम् ॥ ऊर्ध्वामातिष्ठ, पङ्क्तिस्त्वा छन्दसामवतु, त्रिणवत्रयस्त्रिंशौ स्तोमौ । शाक्कररैवते सामनी । बृहस्पतिर्देवता । वर्चो द्रविणम् ॥ ' इति तैत्तिरीयश्रवणात्— ‘ प्राचीमारोह | गायत्री त्वावतु, रथन्तरं साम, त्रिवृत् स्तोमो, वसन्त ऋतुः, ब्रह्म द्रविणम् ॥ दक्षिणामारोह । त्रिष्टुप् त्वावतु, बृहत्साम, पञ्चदश: स्तोमो, ग्रीष्म ऋतु:, क्षत्रं द्रविणम् ॥ उदीचीमारोह । जगती त्वावतु, वैरूपं साम, सप्तदशः स्तोमो, वर्षा ऋतु:, विड् द्रविणम् ॥ प्रतीचीमारोह । अनुष्टुप् त्वावतु, वैराजं साम, एकविंशः स्तोमः, शरदृतुः, फलं द्रविणम् ॥ ऊर्ध्वामारोह । पङ्क्तिस्त्वावतु, शाक्वररैवते सामनी, त्रिणवत्रय-स्त्रिंशौ स्तोमौ । हेमन्तशिशिरावृत् । वर्चो द्रविणम् ॥ ' इति माध्यन्दिनीयश्रवणाच्चाऽग्निभक्तं द्रविणं ब्रह्म, इन्द्रभक्तं द्रविणं क्षत्रम्, तथा मरुद्भक्तं द्रविणं विट् प्रतिपद्यते । ब्रह्मशब्देन चात्र यज्ञः, क्षत्रशब्देन च राष्ट्रं विवक्ष्यते । ' ब्रह्म वा एष प्रपद्यते यो यज्ञं प्रपद्यते । ब्रह्मवै यज्ञः । क्षत्रं वा एष प्रपद्यते यो राष्ट्रं प्रपद्यते । क्षत्रं हि राष्ट्रम् । ' इत्यैतरेयादिश्रवणात् । यज्ञशब्दः पुनरत्र सोमसूर्याधिष्ठितत्रयीविद्यापरः । ‘ अयं वै यज्ञो योऽयं पवते । तदिमं यज्ञं संभृत्य एतस्मिन् यज्ञे यज्ञं संदधातीति । यज्ञं वा एष जनयति यो यजते । सैषा त्रयी एतच्छिल्पमेष वर्णः ॥ ' इति । प्रतिष्ठापयति । यज्ञेन विद्या यज्ञः । तस्या CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 37
पाठ पढ़ें पाठ छिपाएँ
भूमिका ३३ ' प्रजापतिर्यज्ञमसृजत । यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् । ब्रह्मक्षत्रे अनु द्वय्यः प्रजा असृज्यन्त । हुतादश्चाहुतादश्च । ब्रह्मैवानु हुतादः । क्षत्रमन्वहुतादः । एता वै प्रजा हुतादो यद् ब्राह्मणाः । अथैता अहुतादो यद् राजन्यो वैश्यः शूद्र इति । यज्ञाद्वै प्रजाः प्रजायन्ते । यज्ञात् प्रजायमाना मिथुनात् प्रजायन्ते । मिथुनात् प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते ॥ ' इत्यैतरेयादिश्रुतिभ्यः सर्वजगदुत्पत्तिस्थितिक्रियापरिकरविद्याया एव यज्ञशब्दत्व-व्यवस्थापनात् । ईदृशयज्ञार्थप्रतिपादनपरतयैव च सर्व एवैते वेदाः प्रवर्तन्ते इत्यप्यवधेयम् । तथा च - विद्यादयो ब्रह्मप्रकाराः ब्राह्मणस्य स्वम् । तच्चाग्निभक्तम्, गायत्रीच्छन्दः साध्यमतोऽग्निभक्त्या ब्रह्मणो गायत्रीत्वम् । राष्ट्रादयो हि क्षत्रप्रकारा राजन्यस्य स्वम् । तच्चेन्द्रभक्तम्, त्रिष्टुप्छन्दः साध्यमत इन्द्रभक्त्या क्षत्रस्य त्रिष्टुप्त्वम् । विडेव तु इषोर्जरयिपशुपुष्ठ्यादिमेदभिन्ना वैश्वस्य स्वम् । तच्च वैश्वदेवभक्तम्, जगतीछन्दः साध्यमतो विश्वदेवभक्त्या विशो जगतीत्वमितीत्थं द्रविणानामपि संसिद्धं भक्त्या छन्दस्त्वमतो नाति-रिक्तार्थत्वं प्रसज्यते — इत्यवधेयम् । तथा चागत्यप्रतिगच्छदर्थेषु संस्कारेषु द्रविणेषु च छन्दः शब्दप्रयोगेऽपि नार्थान्तरतेति संसिद्धम् ॥ स्यादेतत् । ( १ ) — अथापि यदेतदाध्वर्यवे छन्दोभाषाम्नायते— ‘ मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः, अस्त्रीवयश्छन्दः, पङ्क्तिश्छन्दः, उष्णिक् छन्दः, बृहती च्छन्दः, अनुष्टुप् छन्दो, विराट् छन्दो, गायत्री च्छन्दः, त्रिष्टुप् छन्दो, जगती च्छन्दः ॥ १ ॥ ’
' पृथिवीच्छन्दोऽन्तरिक्षं छन्दो द्यौश्छन्दः समाश्छन्दो नक्षत्राणि च्छन्दो मनश्छन्दो वाक्छन्दः, कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजाश्छन्दोऽश्वश्छन्दः ॥ २ ॥
' एवश्छन्दो वरिवच्छन्दः शम्भूश्छन्दः परिभूश्छन्दः आच्छच्छन्दो मनश्छन्दो वाच-श्छन्दः सिन्धुश्छन्दः समुद्रं छन्दः सलिलं छन्दः संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरं छन्दो निकायच्छन्दो विवधश्छन्दो गिरश्छन्दो भ्रजश्छन्दः सन्तुप्छन्दोऽनुष्टुप् छन्दः ककुप्छन्दस्त्रिककुप्छन्दः काव्यं छन्दोऽङ्कुपं छन्दः पदपाङ्क्तश्छन्दोऽक्षरपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्दः क्षुरोभृज्वा छन्दः प्रच्छच्छन्दः पक्षश्छन्द एवश्छन्दो वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विशालं छन्दो विष्पर्धाश्छन्दश्छदिश्छन्दो दूरोहणं छन्दस्तन्द्रं छन्दोऽङ्काङ्कं छन्द इति ॥ ३ ॥
( २ ) - यच्च वाथर्वणे त्रयश्छन्दोविशेषो आख्यायन्ते-‘ त्रीणि छन्दांसि कवयो वियेतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ' ॥ १ ॥
इति । तेनातिरिच्यते छन्दः पदार्थ इति गम्यते— इति चेत् । न; यथा हि गायत्र्युष्णिग-नुष्टुवादयो विष्टारपङ्क्तिसतोबृहतीककुबादयश्च वाचिकच्छन्दोविशेषा उपदिश्यन्ते । एवमेव भू ० छ ० शाल BK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 38
पाठ पढ़ें पाठ छिपाएँ
३४ छन्दः शास्त्रम् सन्ति खलु माप्रमाप्रतिमादयः, एवोवरिवः शम्भ्वादयश्चार्थिकच्छन्दोविशेषास्तत्तदर्थव्यव-स्थापका इत्यत्रैव छन्दोभाषातात्पर्यावगमात् । तत्र च सिद्धं परिच्छेदलक्षणं छन्दस्त्वमिति नार्थान्तरत्वप्रसक्तिः ॥ यत्पुनराथर्वणेऽवादीनां त्रयाणां छन्दस्त्वमुपदिश्यते, तस्यायमाशयः -- यदिदमनेकरूपं विश्वशब्देनाख्यातं किंचिदृश्यते तदेतत्सर्वं त्रेधा व्यवच्छिद्य गृह्यते । आपश्च वाताश्चौषधय-श्चेति । एतदेवान्यत्र तिस्र एव देवास्तेजोऽबन्नानीत्येवं देवताप्रकरणेनाम्नातम् । भवन्ति हि निबिडावयवास्तरलावयवा विरलावयवाश्च पदार्थभेदा लोके । न चैतत्रैविध्यापचारेण किंचिदिहोपलभ्यते । तत्र निबिडावयवा अत्रौषधिमृदादिशब्दैः, तरलावयवा अप्छब्देन, विरलावयवास्तु तेजोवाय्वादिशब्दैर्व्यपदिश्यन्ते । औषध्यादिवातादीनां स्वानुगत-भावोपलक्षकत्वात् त्रयोऽप्येते भावा एकैकस्मिन्नर्थे प्रत्यर्पिता द्रष्टव्याः । सर्वस्याप्यर्थ-जातस्य मृदवस्थया, अबवस्थया, तेजोऽवस्थया च निमित्तानुरोधेन विपरिणमनात् । एतेष्वेव त्रिषु भावेषु विश्वमेतत्प्रतिष्ठितमित्यतः सिद्धमेषां प्रतिष्ठालक्षणं छन्दस्त्वमिति नार्थान्तर-त्वप्रसक्तिः ॥ यत्तु — ( १ ) शब्दचन्द्रिकादौ छन्दः शब्दस्य विषपरत्वम्, ( २ ) यच्च ‘ छन्दानुवृत्तिदुःसाधा: सृहृदो विमनीकृताः ' इत्यादौ वा ( ३ ) यदपि वा — ' मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि । श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम् ॥ ' ( इत्यादिषु रुचिपरत्वम्, तस्य रह: परत्वम्, रामा. २।९। ७ ) ( ४ ) — ‘ वरदानात् पितुः कामं छन्दमृत्युरसि प्रभो । ' इत्यादिष्वभिलाषपरत्वम्, ( ५ ) — ‘ दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु । ' इत्यादिषु वशतापरत्वम्, ( ६ ) — ‘ स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गित: । ' इत्यादिषु स्वैराचार ( ७ ) — ‘ स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा इत्यादिषु निष्प्रतिबन्धपरत्वम्, ) 2 ( - ' त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् । राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गरौ ॥ ' इत्यादिषु विरेचनपरत्वं वा प्रतिपद्यते; तावतापि नार्थान्तरत्वमापादयितुं युक्तम् । ( १ ) —विषस्य नाडीमार्गावरोधकतया दैशिकावच्छेदलक्षणत्वात् ॥ ( २ ) — छन्दानुवृत्तीतिपदं तु द्वेधा व्याख्येयम् – छन्दः शब्दस्येच्छापरत्वे - यथा सुहृदामिच्छा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 39
पाठ पढ़ें पाठ छिपाएँ
भूमिका ३५ स्यात्तथानुवर्तनीयमिति कृत्वा त एते दुःखेन साधयितुं शक्या भवन्ति, सर्वथा परेच्छानुवर्तनस्य दुःखरूपत्वादित्येकोऽर्थः । छन्दः शब्दस्य परिच्छेदपरत्वेत - वाच्यमवाच्यं देयमदेयमित्येव मर्यादया व्यवहारनियमेनानुवृत्तौ क्रियमाणायां सुहृदो दुःसाधा भवन्ति, मित्रतायाः परिच्छेदासहत्वादित्यन्योऽर्थः । तथा चेच्छापरत्वे वक्ष्यमाणलक्षणम्, परिच्छेदपरत्वे तूक्तलक्षणं छन्दस्त्वं सिद्धमिति नार्थान्तरम् ॥ ( ३ । ४ । ५ । ६ । ) — अथ ‘ श्रोतुं छन्दः ’, ‘ छन्दमृत्युः ' इत्यादिषु तु सर्वत्रैवेच्छार्थकत्वं छन्दःशब्दस्येति न तावदनैकार्थ्यम् । रुच्यादीनामिच्छाविशेषरूपत्वात् । इच्छा चाभिप्रायो मनसश्छन्दः । तथा चाहुः कोशकाराः - ' अभिप्रायश्छन्द आशयः ' इति । यद्यपि च विषयविशेषाभिमुख्येन मनसः प्रवृत्तिरेवाभिप्रायस्तथाप्युपचारभेदादसौ द्वेघा – मनोगृहीत-विषयो वा विषयारूढमनो वा । अस्मिन् विषये कीदृशस्तवाभिप्रायः? केनाभिप्रायेणा-गतोऽसि? धनं नोऽभिप्रेतमित्येतत्सर्वं विषयाभिप्रायम्, धनाभिप्रायेणागतः, द्रष्टुं विज्ञातुं वा ममाभिप्रायः, किमत्राभिप्रैषीति, मनोऽभिप्रायम् इतीत्थमुभयथा व्यवहारदर्शनात् ॥ तत्र मनोगृहीतविषयस्य मनोऽवच्छेदकत्वान्मनश्छन्दस्त्वं भवति । अभिप्रायानुसारेणैव मनसः स्वरूपलाभात् तत्रैव तत्प्रतिष्ठानात् । अथ विषयसंक्रान्तमनसः खलु मनुष्यावच्छेद-कत्वान्मनुष्यच्छन्दस्त्वं भवति । स्वसंयुक्तमनोऽनुरोधेन प्रवर्तमानस्यात्मन एव मनुष्यत्वात् तत्रैव तत्प्रतिष्ठानात् । अत एव यावानस्य देहः सायौगिका वार्थास्ते सर्वे दीनमनसो दीनाः, उदारमनसस्तूदारा भवन्ति; नीचमनसो नीचत्वम्, महाशयमनसस्तु महाशयत्यं प्रतिपद्यन्ते । अङ्गुल्य उत्तिष्ठन्तामित्याभिप्रयत एवास्याङ्गुलय उत्तिष्ठन्ते, हस्त उत्तिष्ठतामित्यभिप्रयतश्च हस्तः । गच्छति तिष्ठेयमिति तिष्ठत्यव्यतिरेकेण ॥ यत्र तु गच्छे-यमिति न गच्छति, तत्रेयता कालेन गच्छेयमिति कालविशेषस्य विशेषणविधया विषयी-भावो वा, सामर्थ्यापचयादिप्रतिबन्धकसद्भावो वा, हेतुः समीक्षणीयः । अत एव, ' आकूत्यै प्रयुजेऽग्नये स्वाहा ' इति । ' आत्मना वा अग्रे आकुवते यजेयेति । तमात्मन एव प्रयुङ्क्ते यत्तनुते । ते अस्यैते आत्मन् देवते आधीते भवतः - आकूतिश्च प्रयुक् च । मेधायै मनसेऽग्नये स्वाहेति । मेधायां वा मनसाभिगच्छति - यजेयेति । ते अस्यैते आत्मन् देवते आधीते भवतः — मेधा च मनश्च – इत्यादिना, तथा ' इमे वै प्राणा मनोजाता मनोयुजो दक्षक्रतवः, वागेवाग्निः, प्राणोदानौ मित्रावरुणौ, चक्षुरादित्यः, श्रौत्रं विश्वेदेवाः ' इत्येव-मादिना च सर्वव्यवहारप्रयोजकत्वं मनसः समाम्नायते । ' तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ ' इति मनुना च । एतदभिप्रायेणैव पुरुषेषु मनुष्यमानुषमानवमनुजाः शब्दाः प्रवर्तन्ते । मनुमनुर्मनसामैकार्थ्यात् । ( अत एव-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 40
पाठ पढ़ें पाठ छिपाएँ
३६ छन्दः शास्त्रम् ' पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वाभूतानि जातवेदः पुनीहि मा ॥ ' इति मन्त्रस्याथर्वणे — ‘ पुनन्तु मनवो धियः ' इति पाठ संगच्छते मनस्वीत्यादिशब्दानां व्यक्तिविशेषनिरूढानां मन: संयुक्तयावदर्थपरत्वाभाववन्मनुष्यादिशब्दानामपि पशुपक्ष्या-दिष्वनुपचारः प्राशस्त्याभिप्रायः । प्राशस्त्यं च वृत्त्यष्टकबीजाङ्कुरयोग्यक्षेत्ररूपस्यास्य मनुषः संपूर्णात्मत्वेन द्रष्टव्यम् । अत एव मनुष्यवन्नैतेषु तिर्यग्योनिजेषु वृत्तयोऽष्ठविधा उत्पद्यन्ते । तदुत्पत्तिक्षेत्रस्य मनुषस्तेषु खिलरूपेणैवानुवर्तमानत्वात्तदनुसारेण यत्किंचिद् वृत्तेरवततः समुदयात् । वृत्त्यष्टकं चेदमाथर्वणे समामनन्ति-' मनसे चेतसे धिय आकूतय उत चित्तये । त्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥ ' इति एतस्मिन्नेव मनुषि प्रयोजकादितादात्म्याभिप्रायेण कतिपये शब्दाः प्रवर्तन्ते । तथा च मनुः—
' प्रशासितारं सर्वेषामणीयांसमणोरपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥
एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ ' इति । अथैतस्मिन् मनुष्यसामान्ये स्वस्वद्रविणाप्यायनसमर्थकसंस्कारविशेषोत्पत्तावन्यथा-न्यथाचारग्राही भवतीति कस्यचिद्ब्राह्मणत्वमन्यस्य क्षत्रियत्वं वैश्यत्वं शूद्रत्वं वा प्रवर्तते । तदेतदेवं तत्तद्विभिन्नप्रवृत्तिप्रयोजकानां तत्तदाशयगतसंस्कारविशेषाणां ब्राह्मणादिच्छन्द-स्त्वमाख्यायते । दुराचारानुमितेन तादृशसंस्कारभ्रंशेनोन्मर्यादो ब्राह्मणः स्वरूपात् पततीति तादृशपातित्यप्रतिबन्धद्वारा यथास्थितस्वरूपसंरक्षकस्य तादृशसंस्कारस्य ब्रह्मादिद्रविणस्य वा ब्राह्मणादिच्छन्दस्त्वोपपत्तेः । ब्राह्मणादीनां तत्रैव प्रतिष्ठितत्वाच्चेति । तथा च न तत्राप्यर्थान्तरतेति सूक्ष्मेक्षिकया समीक्ष्यम् । जडेष्वप्येवं स्वस्वप्रवृत्तिप्रयोजकस्य स्वस्वासाधारणधर्मस्य स्वस्वच्छन्दस्त्वमिति सर्व एव स्वकर्मणि स्वच्छन्दसो भवन्ति । बलवत्परधर्मसंक्रमे तु परच्छन्दसो जायन्ते । अन्याधीनप्रवृत्तिकत्वात् । यथा हि कपाटादिषु समवायिनोः काष्ठखण्डयोर्जटितयोरालम्बनस्य कीलितलौहादिशकलस्य कपाटच्छन्दस्त्वम्, अन्यथा काष्ठखण्डद्वयविभागात्कपाटस्वरूपहानिः प्रसज्यतेः एवं पादद्वयावसक्तरश्मिना आच्छन्दितः पशुस्तदधीनवृत्तिको भवतीत्यसौ रश्मिश्छन्दः स्यात् । एवमेवान्यत्रान्यत्र सर्व एव जडश्चेतनो वा धर्मी स्वगतेन धर्मविशेषेण छन्दितस्तदधीनवृत्तिको भवतीत्यतस्तस्मिन् स्वधर्मे प्रतिष्ठानादस्य स्वच्छन्दस्त्वम्, स्वरूपाननुगतेन च केनचिद्धर्मेणाच्छन्दने तस्य परच्छन्दस्त्वं भवतीति पर्यालोच्यम् । ( ७ ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA