छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 221–230
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 221–230
पृष्ठ 221
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः ६ ९ ( आदिपदग्राह्य ) स्वर आदि छन्दोगत चिह्नविशेषाऽनुसार किया जाना चाहिए ॥ ६२ ॥
( आगे के सूत्र से गायत्री आदि सातों छन्दों के देवता को कहते हैं - ) अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा
देवताः १ । ३।६३ ॥
( १ ) मित्रावरुणौ विराजो देवते, न पङ्क्तेः । अत्रोद्देशक्रमानुसारेण ( छन्दः शा ० २।१५ ) गायत्र्यादिछन्दः सप्तके पञ्चमस्य पङ्क्तित्वेन तत्र तद्देवताया एव वक्तव्यत्वेऽपि, तत्स्थाने विराड्देवतोक्तिः पङ्क्तिविराजोश्चत्वारिंशदक्षरत्वाविशेषेण ' अक्षराण्येव सर्वत्र निमित्तं बलवत्तरम् । विद्याद्विप्रतिपन्नानां पादवृत्ताक्षरैर्ऋचाम् ॥ ' ( ऋ ० प्रा ० १७।३५ ) इति शौनकोक्तिबलादभेदाभिप्रायेण, उपजीव्यश्रुत्यर्थानुसरणैकपरतया चेति ज्ञेयम् । तथा चैतन्मूलभूतौ मन्त्रौ दृश्येते - ' अ॒ग्ने॒गा॑य॒त्र्य॑भवत्स॒यु॒ग्वो॒ष्णिह॑या सवि॒ता सम्ब॑भूव । अ॒नुष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्व॒न् बृह॒स्पति॑र्बृह॒ती वाच॑मावत् । वि॒रा मित्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रष्टुबि्रह भा॒गो अह्नः । विश्वा॑न् दे॒वान् जग॑त्या वि॑वेश॒ तेन॑ चाक्लृप्र॒ ऋष॑यो मनुष्यः ॥ ' ( ऋ ० सं ० ८ / ७ / १८ / ४-५ ) इति । कात्यायनस्तु शुक्लयजुः सर्वानुक्रमणिकायाम् — ' विराजो मित्रः, स्वराजो वरुण ' ( ४।१० ) इति विशेषमाह । ‘ पङ्क्तेर्वरुण ' इत्यपि तत्रैव दृश्यते, परं भगवता शौनकेन पङ्क्तिं प्रकृत्य ‘ सा तु वासवी ' ( ऋ ० प्रा ० १७।२२ ) इत्युक्तत्वात्, अनुपदमेव वरुणस्य विराड्देवतात्वाभिधानाच्च ' वसव ' इत्यस्य स्थले ' वरुण ' इति लेखकप्रमाद एवेति सम्भाव्यते । ' छन्दसां देवताः क्रमात् । अग्निः सूर्यः शशी जीवो वरुणश्चेन्द्र एव च । विश्वेदेवाश्च- ' ( ३३०।१ ९ ) इत्याग्नेयसंवादाच्छाखाभेदेन वा व्यवस्था । वासवी वसुदैवत्या । जगत्या देवता अवयुत्याह साङ्ख्यायनब्राह्मणम्- ' वारुणं बार्हस्पत्यं वैष्णवमिति शंसति, जगती वा एतेषां छन्दः ' ( ३०।२ ) अन्येषामपि च्छन्दसां देवता आह शौनकः - प्राजापत्यास्त्वतिच्छन्दा ', विच्छन्दा वायुदैवता । द्विपदा पौरुषं छन्दो, ब्राह्मी त्वेकपदा स्मृता ॥ ' ( ऋ ० प्रा ० १७।२३-२६ ) इति । अतिजग-त्यादीनि च्छन्दांस्यतिच्छन्दः शब्देनोच्यन्ते । विच्छन्दा अवान्तरभेदाः पदपङ्क्तयादय ' इत्युव्वटः । कृष्णीये त्वन्या एव देवता उक्ताः—
' गायत्र्या देवता वह्निर्विश्वेदेवास्तथोष्णिहः ।
बृहत्या देवता सूर्यो बृहस्पतिरनुष्टुभः ॥
अश्विनौ देवता पङ्क्तेस्त्रिष्टुभश्च सुधाकरः ।
जगतीछन्दसः प्रोक्तो देवता नाकनायकः ॥
पृथ्वी विराट्छन्दसः स्यात्ककुदस्तु त्रिविक्रमः । ककुद्विराट्छन्दसस्तु केचिद्देवं हरिं विदुः ॥ ' इति । तत्र मूलं मृग्यम् । ( मं ० म ० बिं ० ११ ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 222
पाठ पढ़ें पाठ छिपाएँ
७० छन्दः शास्त्रम् मृतसञ्जीवनी – गायत्र्यादीनां जगतीपर्यन्तानां यथाक्रममग्न्यादयो देवता वेदितव्याः । तत्र संदिग्धे छन्दसि यदाग्नेयं, तदा गायत्री । यदि सावित्रं तदोष्णिग् । एवं सर्वत्र । वैदिकेष्वेव छन्दः सुः निचृद्भुरिजौ, तथा विराट्स्वराजौ च दृश्येते; न लौकिकेषु । अतो लौकिकेषु संदेहाभावात्तन्निर्णयभूता देवतादयो नेष्यन्ते ॥ शिवप्रसादिनी - पूर्व में कहे गये - " गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पंक्ति, त्रिष्टुप्, जगती ” इन सातों छन्दों का क्रमश: ( १ ) अग्नि, ( २ ) सविता, ( ३ ) सोम, ( ४ ) बृहस्पति, ( ५ ) मित्रावरुण, ( ६ ) इन्द्र और ( ७ ) विश्वेदेवा, ये सात देवता समझने चाहिए । वैदिक छन्दों में ही निचृत् और भूरिक् एवं विराट् और स्वराट् नाम विशेष से प्रसिद्ध चार दृष्टिगोचर होते हैं, लौकिक छन्दों में नहीं । अतः विशेषसञ्ज्ञामूलक सन्देह की सम्भावना केवल वैदिक छन्द स्थलों में ही होती है, जिसके निदानाऽर्थ समाधान सूत्र प्रस्तुत किये गये हैं । लौकिक स्थलों में नाही शंका और न समाधान । इसलिए लौकिक छन्द में निर्णायक देवता, स्वर आदि की विवक्षा नहीं की जाती है । सूत्र का पर्यवसि-तार्थ यह है कि वैदिक छन्द से सम्बन्धित सन्देह स्थलों में जहाँ जिस देवता के नाम का निर्देश हो, वहाँ उसके अनुसार छन्द का निर्णय करना चाहिए । जैसे- ' अग्नि ' देवता का निर्देश करने से गायत्री का, ' सविता ' देवता का निर्देश करने से उष्णिक् का ग्रहण करना चाहिए । इसी प्रकार अनुष्टुवादि में भी समझना चाहिए ॥६३ ॥
( गायत्री आदि सात छन्दों के षड्ज आदि सात स्वरों में ही उच्चारण होने से सन्दिग्ध छन्द के निर्णयाऽर्थ स्वरों की भी हेतुता है, अग्रिम सूत्र से उसी का प्रकाश किया जा रहा है— ) स्वराः षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः । ३।६४ ॥ मृतसञ्जीवनी – स्वरा गायत्र्यादिषु क्रमेण द्रष्टव्याः ॥ शिवप्रसादिनी - ( १ ) गायत्री ( २ ) उष्णिक् ( ३ ) अनुष्टुप् ( ४ ) बृहती ( ५ ) पंक्ति ( ६ ) त्रिष्टुप् ( ७ ) जगती इन सातों छन्दों के स्वर भी क्रमश: ( १ ) षड्ज ( २ ) ऋषभ ( ३ ) गान्धार ( ४ ) मध्यम ( ५ ) पञ्चम ( ६ ) धैवत ( ७ ) और निषाद, ये सात प्रकार के होते हैं || ३४ || ( गायत्री आदि सातों छन्दों के सात वर्णों ( रूपों ) को प्रकाशित करने के लिए आगे का सूत्र आरम्भ करते हैं- ) सितसारङ्गपिशङ्गकृष्णनीललोहितगौरावर्णाः । ३।६५ ॥ मृतसञ्जीवनी – गायत्र्यादिषु क्रमेण वर्णा वर्णनिर्णयनिमित्तमभिधीयन्ते ॥ शिवप्रसादिनी —– गायत्री आदि सात छन्दों के क्रमशः सात प्रकार के वर्ण ( रूप ) होते हैं और वे हैं सित्, चित्र, पिशङ्ग, कृष्ण, नील, रक्त और गौर ॥६५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 223
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः ७१ ( अब गायत्री आदि छन्दों के गोत्र निश्चायकृ सूत्र कहते हैं - ) आग्निवेश्यकाश्यपगौतमाङ्गिरसभार्गवकौशिकवासिष्ठानि गोत्राणि । ३ । ६६ ॥ ' ( १ ) एतदग्रे - ' श्यामान्यतिच्छन्दांसि ' ( ३/६७ ) रोचनाभाः कृतयः ( ३।६८ ) अनुक्तानां कामतो वर्णा इति ( ३१६ ९ ) इति सूत्रत्रयं स्पष्टार्थमेव । हलायुधीयमस्यानुपपन्नत्वप्रतिपादनमव्याख्यानं च ' द्वाभ्यां- ' ( छं ० शा ० ३।६० ) इत्यस्योपलक्षणार्थत्वेन त्र्याद्यूनाधिकेष्वतिच्छन्दस्सु निर्णायकान्तरापेक्षासत्वात्, ‘ यश्छन्दसां वेद विशेषमेनं भूतानि च त्रैष्टुभजागतानि । सर्वाणि रूपाणि च भक्तितो यः स्वर्गं जयत्येति तथामृतत्वम् ॥ ' ( ऋ ० प्रा ० १८/४६ ) इति विशेषज्ञानस्य श्रेयोहेतुत्वस्मरणात्, एतत्सूत्रत्रयत्यागे च प्रत्यध्यायसमाप्ति दृश्यमानेतिशब्दाभावेनात्र तृतीयाध्यायसमाप्त्यनिश्चयात्, अविच्छिन्नवैदिकाध्ययनपरम्परया ' गोरोचनाभाः कृतयो ह्यतिच्छन्दो हि श्यामलम् । ' ( ३३०।२२ ) इत्यग्निपुराणेऽनुवाददर्शनेन चास्य मौलिकत्वनिश्चयात्, आर्षशास्त्रदूषणे ' य: प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् । दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥ ' ( म ० भा ० अनु ० २४।८ ) इत्यादौ महादोषस्मरणाच्चातिसाहसमात्रम् ॥ अत्र विशेषः प्रातिशाख्ये- ' अरुणं श्यामगौरे च बभ्रु वै नकुलं तथा । पृश्निवर्ण च वैराजं निचृच्छयावं पृषद्भुरिक् ॥ ब्रह्मसामर्ग्यजुश्छन्दः कपिलं वर्णतः स्मृतम् । ( १७।२८-३२ ) इति । अरुणं प्रातः सन्ध्याभवर्णं पाङ्क्तम् । श्यामं कृष्णवर्णमतिच्छन्दः । गौरं सिद्धार्थवर्णं विच्छन्दः । बभ्रु कपिलवर्णं द्वैपदं छन्दः । नकुलवर्णमेपदं छन्दः । पृश्निवर्णं बहुवर्णचित्रं वैराजम् । अथ कस्मात् वैराजस्य द्विवर्णोपदेशः क्रियते? । तत्र क्रमेणैव नीलत्वं सिद्धम् । न सिद्ध्यति; कथम्? एतास्तिस्रो विराजः - अनुष्टुबेका, पङ्क्तिरेका, द्वाभ्यां न्यूना चैका तत्र पूर्वयोर्नीलवर्णः, अस्याः पृश्निरिति वेदितव्यम् । एवमपि कथमेतदध्यवसीयते - पूर्वयार्नीलः, अस्याः पृश्निरिति? । निचृद्भुरिजोर्न्यूनाधिकयोः समीपोपदेशात् अस्याः पृश्निरिति, परिशेषादितरयोर्नील इत्यध्यवसीयते । एके क्रमात्पङ्क्तेरेव विराजो नीलत्वं मन्यन्ते । श्यावं कृमिदूषितपत्रवर्णं निचृद्भवति । विद्रुमवद्भूरिक् भवति । ब्रह्मणः सामर्ग्यजुषां च छन्दो वर्णतः कपिलं जटाकलापसूर्यरश्मिवर्णं स्मृतम् । इत्युव्वटभाष्यम् ॥ छन्दसां धातवोऽप्युक्ताः साङ्ख्यायनारण्यके - ' अश्मानं जागतमयत्रैष्टुभं लोहमौष्णिहं सीसं काकुभं रजतं स्वाराज्यं सुवर्णं गायत्रम् ' ( ११।७ ) इति । एवमन्यदप्यतिच्छन्दसां स्वरादिग्रन्थान्तराज्ज्ञेयम् । विस्तरभयान्त्र संगृह्यते । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 224
पाठ पढ़ें पाठ छिपाएँ
७२ छन्दः शास्त्रम् मृतसञ्जीवनी – गायत्र्यादीनां क्रमेणैतानि गोत्राणि भवन्तीति वाक्यशेषः । अत्र ‘ रोचनाभाः कृतयः; श्यामान्यतिच्छन्दांसि ', इत्येवमादिकमधीयते छान्दसाः । तन्नोप-पद्यते । कृतीनायतिच्छन्दसां च निचृदुरिजोर्विराट्स्वराजोश्च प्रदेशाभावात् कश्चिन्नास्ति संशयः, यस्य निर्णयनिमित्तं वर्णोपन्यासः क्रियते । तदपि ऋषिदेवतास्वरवर्णानां ज्ञाना-न्निःश्रेयसमिच्छन्ति छान्दसाः ॥ ॥ इति भट्टहलायुधकृतायां पिङ्गलछन्दोवृत्तौ तृतीयोऽध्यायः ॥ शिवप्रसादिनी - गायत्री आदि सात छन्दों के गोत्र क्रमशः ( १ ) आग्निवेश्य ( २ ) काश्यप ( ३ ) गौतम ( ४ ) आङ्गिरस ( ५ ) भार्गव ( ६ ) कौशिक और ( ७ ) वासिष्ठ । जिन छन्दों में सन्देह की स्थिति उत्पन्न होती है वहाँ तो सन्देह निवारणार्थ स्वर, देवता, वर्ण, ननु भगवता पिङ्गलाचार्येण कृतो योऽयं देवतादिनियमः, स किं विधिर्नियमोऽनु-वादार्थो वा,? | नाद्यः, तत्तद्वेदानुक्रमणिकाकारैः स्मृतिकारैश्च संहितास्थमन्त्राणां कर्मकाण्डीयमन्त्राणां च देवतादीनां विहितत्वेनापूर्वत्वाभावात् । किंच ' गायत्र्याः सविता जातवेदसः ’ त्रिष्टुभोऽग्निर्देवता ' इत्यादिना, सप्तव्याहृतीनामपि छन्दसां देवतानां चानेन महाविरोधापातात् । यथाह संवर्तः - ' व्याहृतीनां च सर्वेषामार्षं चैव प्रजापतिः । गायंत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिरेव च । त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त 1 अग्निर्वायुस्तथा सूर्यो बृहस्पतिरपांपतिः । इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः ॥ ' इति । नापि द्वितीयः, अनन्तव्यभिचारात् । नापि तृतीयः, निष्फलत्वाद्विरोधापाताच्च । अत्रेदमवधेयम्— येषां मन्त्राणां छन्दोदेवतादीनि नोक्तानि, अपि तु विराट्-स्वराडादिलक्षणद्वयलक्षितत्वेन ' गायत्र्युष्णिग्भ्याम् ' ' उष्णिगनुष्टुब्भ्याम् ' इत्यादि संशयो भवेत्, तत्राद्यपादेन क्वचिद्देवतादिभ्यश्च विरोधः परिहरणीय इत्यभिप्रयता भगवता पिङ्गलाचार्येण ‘ आदित: संदिग्धे ' ( पि ० सू ० ३।६१ ) इत्यादि नव सूत्राणि विहितानि, इति । एतेषामुदाहरणानि बहूनां वेदशाखानामनुपलम्भाद्दुर्लभानि । यत्तु — ' शुक्लमुच्चं विजानीयान्नीचं लोहितमेव च । श्यामं तु स्वरितं विद्यादग्निरुच्चस्य देवता ॥ नीचे सोमं विजानीयात्स्वरिते सविता भवेत् । उदात्तं ब्राह्मणं विद्यात्रीचं क्षत्रियमेव च ॥ वैश्यं तु स्वरितं विद्यादुदात्तं तु भारद्वाजम् । नीचं गोतममित्याहुर्गार्यं तु स्वरितं विदुः ॥ विद्यादुदात्तां गायत्री नीचं त्रैष्टुभमेव च । जागतं स्वरितं विद्यादेवमेव नियोगत: ॥ गान्धर्ववेदे ये प्रोक्ताः सप्त षड्जादयः स्वराः । त एव वेदे विज्ञेयास्त्रय उच्चादयः स्वराः ॥ उच्चौ निषादगान्धारौ नीचावृषभधैवतौ । शेषास्तु स्वरिते ज्ञेयाः षड्जमध्यमधैवताः । ' इति याज्ञवल्कीयशिक्षोक्तेस्त्रिष्टुभो लोहितो वर्णः, सोमो देवता, ऋषभधैवतौ स्वरौ, गोतमऋषिः । जगत्याः श्यामो वर्णः, सविता देवता, षड्जमध्यमपञ्चमाः स्वराः, गार्ग्यऋषिरित्यादिभिः पिङ्गलोक्तेनानैक्यं; तदपि शाखामेदेन परिहरणीयम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 225
पाठ पढ़ें पाठ छिपाएँ
तृतीयोऽध्यायः ७३ गोत्राऽऽदिकों का होना आवश्यक है, ही, किन्तु जहाँ पर सन्देह नहीं हैं वहाँ पर भी देवता विषयक ज्ञान द्वारा महान मङ्गल का प्रादुर्भाव हुआ करता है, अतः छन्दों में सर्वत्र देवताऽऽदि स्वरूपों को छन्दःशास्त्र प्रणेताओं ने प्रकाश किये हैं ॥ ६६ ॥
॥ इति सांख्य - योग - न्याय - वैशेषिक - पद - वाक्य- पारावारीणेन मैथिलपण्डित-चित्तनारायणपाठकाऽऽह्वयेन कृतायां पिङ्गलछन्दः शास्त्रीय-शिवप्रसादिनीव्याख्यायां तृतीयोऽध्यायः ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 226
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः उत्कृति छन्द का लक्षण करते हैं-चतुःशतमुत्कृतिः । ४।१ ॥ मृतसञ्जीवनी - चतुरधिकं शतं चतुःशतम् । मध्यमपदलोपी समासः । अथ वा चत्वारि च शतं च चतुःशतम् । द्वन्द्वसमासः । कर्मधारयस्तु नेष्यते । तत्र चतुःशतानीति प्राप्नोति । यत्र चतुःशतमक्षराणां संख्या भवति, तत् ' उत्कृति: १ ' नाम छन्दः । यथा— छाग॑स्य ह॒विषं॒ आत्ता॑म॒द्य ( १ ) म॑ध्य॒तो भेद॒ उद्धृतं ( २ ) पुरा द्वेषब्भ्यः ( ३ ) पुरा पौरुषेय्या गृभो ( ४ ) घस्तां नूनं ( ५ ) घा॒से अ॑ज्राणा॒ यव॑सप्रथमानां ( ६ ) सु॒मत्क्ष॑राणां शतरु॒द्रया॑णाम् ( ७ ) अग्निष्वा॒त्तानां॒ पीर्वोपवसनानां ( ८ ) पार्श्वतः नो॑ण॒तः ( ९ ) शि॒िताम॒तः उ॑त्साद॒तः ( १० ) अगा॑ददव॑त्तानां॒ ( ११ ) करत वाश्विना॑ ( १२ ) जुषेता॑ ह॒विः ( १३ ) ( यजुर्वेद - अ ० २१ मं ० ४३ ) । उत्कृति छन्द का लक्षण करते हैं-शिवप्रसादिनी – चार अधिक सौ संख्या को चतुःशत शब्द कहते हैं । इस अर्थ का लाभ पुनः “ चतुरधिकं शतम् = चतुःशतम् ' इस विग्रहाऽर्थ की विवक्षा में मध्यमपद लोपी समास के माध्यम से होता है । अथवा “ चत्वारि च शतञ्च " इस विग्रहाऽर्थ की विवक्षा में द्वन्द्व समास में उक्त " एक सौ चार ” इस अर्थ का लाभ होता है । तदनुसार सूत्रार्थ होगा — जिस छन्द में एक सौ चार संख्याओं में लघु - गुरु अक्षर उपलब्ध होगा, वह “ उत्कृति ” नाम वाला छन्द होता है ॥ १ ॥
( आगे जिन छन्दों के लक्षण कहे जाने वाले हैं, इस प्रकार के अभिकृति, संकृति आदि छन्दों के लक्षणों की निष्पत्ति के लिए सूत्र कहते हैं— ) चतुरश्चतुरस्त्यजेदुत्कृतेः । ४।२ ॥ मृतसञ्जीवनी – चतुःशताक्षराच्छन्दसः क्रमेण चतुरश्चतुरः संख्याविशेषांस्त्यजेत् । एतदुक्तं भवति – उत्कृतेरारभ्य चतुर्भिश्चतुर्भिरक्षरैर्न्यूनानि छन्दांस्यन्यानि स्थापयेत्, ( १ ) उत्कृत्यादिकृतिपर्यन्तानामुदाहरणानि श्रीमता हलायुधेन न दर्शितानि, अतस्तानि सर्वानुक्रमभाष्योपलब्धानि, अन्यत्र सुप्रसिद्धानि च सर्वोपकृतये वृत्तिमध्येऽस्माभिर्नि-वेशितानि ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 227
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः ७५ अष्टाचत्वारिंशदक्षरं यावत् ॥ एक सौ चार अक्षरों वाले उत्कृति छन्द से आरम्भ करके चार - चार अक्षरों से हीन करके छन्दों की स्थापना तब तक होगी, जब तक अडतालिस अक्षरों वाले छन्द न आ जाय । अर्थात् ( १०४ ) अक्षरों वाले उत्कृति से लेकर चार - चार अक्षरों को घटा - घटा करके अड़तालिस अक्षरों तक अन्य अन्य छन्दों को रखना चाहिए ॥ २ ॥
( इस प्रकार से “ उत्कृति ” छन्द के अनन्तर ( ४८ ) अक्षरों तक होने वाली अनेक सञ्ज्ञाओं के अन्तर्गत सम्पन्न होने वाले अभि - सं - वि - आङ् - प्र से परे कृति सञ्ज्ञाओं को पहले कहा जा रहा है— ) तान्यभिसंव्याप्रेभ्यः कृतिः । ४।३ ॥ मृतसञ्जीवनी — तान्युत्कृतेरनन्तराणि छन्दांसि अभि - सं - वि - आङ् - प्र इत्येतेभ्यः पराणि ' कृति ' संज्ञानि भवन्ति । तत्र शताक्षरं छन्दः ' अभिकृति: ' । यथा— ‘ दे॒वो अग्निः स्वि॑ष्ट॒कृत् ( १ ) । दे॒वान्य॑क्षद्यथाय॒थम् ( २ ) । होता॑रा॒विन्द्र॑म॒श्विना॑ ( ३ ) । वा॒चा वा॒ सर॑स्वतीम् ( ४ ) । अ॒ग्निः सोम॑ स्विष्ट॒कृत् ( ५ ) । स्वि॑ष्ट॒ इन्द्र॑ः सु॒त्रामा॑ ( ६ ) । सवि॒ता वरु॑णो भि॒षक् ( ७ ) । इ॒ष्टो दे॒वो वन॒स्पति॑ः ( ८ ) । स्वि॒िष्टा दे॒वा आ॑ज्य॒पाः ( ९ ) । इ॒ष्टो अ॒ग्निर॒ग्निना॑ ( १० ) । होता॑ हो॒त्रे स्वि॑िष्ट॒कृत् ( ११ ) । यशो॒ न दध॑दिन्द्रि॒यम् ( १२ ) । ऊर्ज॒मप॑चिति॑ स्व॒धाम् ( १३ ) ॥ ' ( तैत्तिरीयब्राह्मणे अ ० २ प्र ० ६ अ ० १४ मं ० ११ ) । षण्णवत्यक्षरं संकृतिः । यथा— ‘ दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् ( १ ) । सु॒द्रवि॑णा म॒न्द्रः क॒विः ( २ ) । स॒त्यम॑न्मा य॒जी होता॑ ( ३ ) । होतु॑र्होतु॒राय॑जी यान् ( ४ ) । अग्ने॒ यान् दे॒वानया॑ट् ( ५ ) । या ँ अपि॑ मे॒ ( ६ ) । येते॑ लो॒हो॒त्रे अम॑त्सत॒ ( ७ ) । ता स॑स॒नुषी॒होत्रा॑ देव॑ग॒मां ( ८ ) । दि॒वि दे॒वेषु॑ यज्ञमेर॑ये॒मम् ( ९ वसुधेय॑स्य नमो वा॒के वीहिं ( ११ ) मं ० १ ) । द्वानवत्यक्षरं विकृतिः । यथा-' इ॒मे सोमा॑ः सु॒रामा॑ण॒ः ( १ ) ( १ ) ‘ कृति: प्रकृतिराक्रतिः । विक्रतिः पू ०५७ / १३ ) ) । स्वि॒ष्ट॒ कृच्चाग्ने॒ होतार्भूः ( १० ) । वसु॒वर्ने ॥ ' ( तैत्तिरीयब्राह्मणे - अ ० ३ अ ० ६ अं ० १४ । छायै॒र्न मे॒षैर्ऋष॒भैः सु॒ताः ( २ ) । श॒ष्पैर्न सङ्कतिश्चैव तथातिकृतिरुत्कृतिः ॥ ' ( नार ० पु ० CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 228
पाठ पढ़ें पाठ छिपाएँ
७६ छन्दः शास्त्रम् तोमे॑भिः ( ३ ) । लो॒जैर्मह॑स्वन्द॒ः ( ४ ) । मदा॒ मार्सरेण॒ परि॑ष्कृताः ( ५ ) । शुक्राः पय॑स्वन्तो॒ऽमृता॑ः ( ६ ) । प्रस्थि॑ता वा मधुश्रुतेः ( ७ ) । तान॒श्विना॒ सर॑स्व॒ती ( ८ ) न्द्र॑ः सु॒त्रामा॑ वृत्र॒हा ( ९ ) । जु॒षन्ता॑सो॒म्य॑ मधु॑ ( १० ) पिबन्तु॒ मद॑न्तु॒ वि॒यन्तु॒ सोम॑म् ( ११ ) ॥ ' ( तैत्तिरीयब्राह्मणे - अ ० २ प्र ० ६ अ ० ११ ) । अष्टाशीत्यक्षरमाकृतिः । यथा— ‘ तच्चक्षु॑र्दे॒वहि॑तं ( १ ) पु॒रस्ता॑च्छुक्रमु॒च्चर॑त् ( २ ) । पश्ये॑म श॒रद॑ः श॒तं ( ३ ) जीवे॑म श॒रद॑ः श॒तं ( ४ ) नन्दा॑म श॒रद॑ः श॒तं ( ५ ) मोदा॑म श॒रद॑ः श॒तं ( ६ ) भवा॑म श॒रद॑ः श॒तः ( ७ ) शृणवा॑म श॒रद॑ श॒तं ( ८ ) प्रव॑वाम श॒रद॑ः श॒तं ( ९ ) मर्जीता: स्याम श॒रद॑ः श॒तं ( १० ) ज्योक्च॒ सूर्य दृशे ॥ ' ( तैत्तिरीयारण्यके- प्र ० ४ अ ० ४२ मं ० २२ ) । चतुरशीत्यक्षरं प्रकृतिः । यथा-' अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृतेभ्यः ( १ ) । पापेभ्यो॑ रक्ष॒न्ताम् ( २ ) । यदह्ना पाप॑मका॒र्षम् ( ३ ) । मनसा वाचा॑ हस्ता॒भ्याम् ( ४ ) । पभ्द्यामुदरे॑ण शि॒िश्ना ( ५ ) । अह॒स्तद॑वलुम्पतु ( ६ ) । यत्किंच॑ दुरि॒तं मयि॑ ( ७ ) । इदमहं माममृ॑तयो॒नौ ( ८ ) । सत्ये ज्योतिषि जुहमि स्वा॒हा ( ९ ) ॥ ' ( तै ० आ ० प्र ० १० अ ० २४ ) । शिवप्रसादिनी – तानि = उत्कृतिछन्द के अनन्तर होने वाले छन्द, “ अभि - सं-वि - आङ् ( आ ) प्र ' ' इन उपसर्गों से परे कृति सञ्ज्ञक होते हैं । अर्थात् “ उत्कृति ” छन्द के बाद चार - चार अक्षरों की संख्या घटकर क्रमश: - १०० ) अक्षरों वाले छन्द की अभिकृति सञ्ज्ञा होगी, चार कम ( ९ ६ ) छियानवे अक्षरों वाले छन्द की " संकृति " सञ्ज्ञा, वानवे ( ९ २ ) अक्षरों वाले छन्द की “ विकृति " सञ्ज्ञा, ( ८८ ) अठासी अक्षरों वाले छन्द की ‘ “ आकृति ’ ” सञ्ज्ञा ( ८४ ) चौरासी अक्षरों वाले छन्द की प्रकृति सञ्ज्ञा होती है || ३ || ( उत् आदि उपसर्गों से रहित शुद्ध कृति सञ्ज्ञा को कही जा रही है— ) प्रकृत्या चोपसर्गवर्जितः ।४।४ ॥ मृतसञ्जीवनी— उपसर्गेण वर्जितः शुद्धः कृतिशब्दः प्रकृत्या स्वरूपेणैवावतिष्ठते । तेनैतदुक्तं भवति — अशीत्यक्षरं छन्दः ‘ कृति: ' नाम । यथा— ( १ ) कात्यायनेन त्वतिच्छन्दसां पादनियमविशेष उक्त: -CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 229
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः ७७ ‘ दे॒वे इन्द्रो॒ नरा॒शस॑ ( १ ) स्त्रिवरू॒थस्त्र॑वन्धुरो ( २ ) दे॒वमिन्द्र॑मवर्धयत् ( ३ ) । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः ( ४ ) स॒हस्त्रे॑ण॒ प्रव॑र्तते ( ५ ) मित्राव॑रुणेद॑स्य हो॒हो॒त्रमहि॑तो॒ ( ६ ) बृह॒स्पति॑ स्तो॒त्र ( ७ ) म॒श्विनाध्व॑र्यव्ं ( ८ ) वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ( ९ ) ॥ ' ( यजुर्वेदे - अ ० २८ मं ० १ ९ ) ॥ शिवप्रसादिनी - उपसर्ग से रहित शुद्ध कृति शब्द अपने स्वरूप से ही सञ्ज्ञा के रूप में यहाँ पर विद्यमान होता है, ऐसा समझना चाहिए । ऊपर में ( ८४ ) अक्षरों तक के छन्दों में सञ्ज्ञा का विधान किया जा चुका है । प्रकृत में ( ८० ) अक्षरों वाले छन्द
" कृति " नाम वाला होता है । यह सूत्राऽर्थ पर्यवसित होता है ॥ ४ ॥
( अतिधृति आदि आठ प्रकार के वैदिक छन्दों के निर्णय पूर्वक पुनः वैदिक छन्दों का तीन सूत्रों के द्वारा इस विषय से सम्बन्धित विचारों का उपसंहार किया जा रहा है— ) धृत्यष्टिशक्वरीजगत्यः ।४।५ ॥ मृतसञ्जीवनी - कृतेरधस्ताद्धृतिरष्टिः शक्वरी जगतीत्येते शब्दाः क्रमेण व्यवस्थापनीयाः || शिवप्रसादिनी - कृते के नीचे ( कृति छन्द के अनन्तर ) धृति, अष्टि, शक्वरी, एवं जगती सञ्ज्ञाओं को चार - चार अक्षरों के हीन क्रम में स्थापित किया जाना चाहिए ॥५ ॥
' पादा अतिजगत्यास्तु त्रयो द्वादशकाः परौ । अष्टकौ शक्वरीपादाः सप्तै-वाष्टाक्षराः स्मृताः ॥१ ॥ अतिशाक्वरपादौ द्वावादितः षोडशाक्षरौ ।
जागतोऽथाष्टका वष्टिपादाः षोडशकास्त्रयः ॥२ ॥ अष्टकौ चात्यष्टिपादौ
जागतौ चाष्टकास्त्रयः । जागतश्चाष्टकश्चाथ धृतिपादौ तु जागतौ ॥३ ॥
पादास्त्रयोऽष्टकाश्चाथ षोडशाक्षर एव च । अष्टकश्चाथातिधृतौ द्वौ पादौ जागतौ ततः ॥ ४ ॥ त्रयोऽष्टका जागतश्च तथाष्टाक्षरकावपि । परः सप्त-कपादास्तु प्रसङ्गात्स्वयमीरिताः ॥५ ॥ ' इति । शौनकोऽप्याह - ‘ सन्त्यति-च्छन्दसां पादा एकोत्कर्षेण जागतात् । षोडशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः ॥ '
( ऋ ० प्रा ० १७।५८ ) इति । एक एवाष्टादशाक्षर: - ' अ॒भि त्य॑ दे॒वं स॑वि॒तार॑मो॒ण्यो॑ः क॒विक्र॑तु ( १ ) मर्चामि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒ति॑ क॒विम् ( २ ) । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ ( ३ ) हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑ः कृ॒पा स्वः॑ः ( ४ ) ॥ ' ( आश्व ० श्रौ ० सू ० ४।६ शु ० य ० ४।२५ ) इत्यस्यामृचि द्वितीय: । छ ० शा०-१५ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 230
पाठ पढ़ें पाठ छिपाएँ
७८ छन्दः शास्त्रम् ( अतिधृति आदि सञ्ज्ञाओं के विधान के लिए सूत्र कहते हैं - ) पृथक्पृथक्पूर्वत एतान्येवैषाम् । ४ । ६ ॥ मृतसञ्जीवनी – एषां धृत्यादीनां पूर्वतः पृथक्पृथगेतान्येव शब्दरूपाणि विन्यसेत् । पृथक्पृथग्ग्रहणं प्रत्येकं पूर्वत्वज्ञापनार्थम् । अन्यथा हि समुदायपूर्वत्वमेषां स्यात् । तेना-यमर्थः— धृतिशब्दात् पूर्वं धृतिशब्दः, अष्टिशब्दात्पूर्वमष्टिशब्दः, शक्वरीशब्दात्पूर्व शक्वरीशब्दः, जगतीशब्दात् पूर्वं जगतीशब्दः ॥ शिवप्रसादिनी - पूर्व सूत्र में कहे गये धृति, अष्टि आदि सञ्ज्ञा शब्दों के पूर्व में, पृथक् - पृथक् ( = अलग - अलग ) करके ही धृति, अष्टि आदि शब्दों का प्रयोग किया जाना चाहिए । अर्थात् धृति सञ्ज्ञा के आने पर उससे पूर्व और उससे पृथक् रूप में एक अतिरिक्त धृति शब्द का प्रयोग करके " धृति - धृति " प्रयोग करना चाहिए, इसी प्रकार अष्टि शब्द के प्रयोग में " अष्टि- अष्टि " शब्द शक्वरी शब्द के प्रयोग में " शक्करी शक्वरी " शब्द तथा जगती शब्द के प्रयोग में " जगती - जगती " शब्द का उच्चारण किया जाना चाहिए ॥६ ॥
( जब धृति आदि चारों का दो - दो उच्चारण करके प्रयोग में लाने का विधान पूर्व सूत्र से किया गया, तो पुनः उसके द्विधा उच्चारण का क्या प्रयोजन है,? उसके समाधानाऽर्थ आगे का सूत्र कहा जा रहा है— ) द्वितीयं द्वितीयमतितः ।४।७ ॥ मृतसञ्जीवनी — अत्र द्वितीयं द्वितीयं शब्दरूपमतिशब्दात्परतः प्रयोक्तव्यम् । एवं सत्युत्तरेषां छन्दसामेताः संज्ञाः क्रमेण भवन्ति । तत्र षट्सप्तत्यक्षरमतिधृतिः । यथा— ‘ स हि शर्धो न मारु॑तं तुविष्वण॒ ( १ ) रन॑स्वतीषूर्वरा॑स्व॒ष्टनि॒ ( २ ) रार्तनास्व॒ष्टनि॑ः ( ३ ) । आद॑द्ध॒व्यान्या॑द॒दि ( ४ ) र्य॒ज्ञस्य॑ के॒तुरु॒र्हणा॑ ( ५ ) अर्ध स्मास्य॒ हषि॑तो॒ हृषी॑वतो॒ ( ६ ) विश्वे॑ जुषन्त॒ पन्था॑ ( ७ ) नर॑ः शुभेन पन्था॑म् ' ( ८ ) ॥ ' ( ऋग्वेदे - अ ० २ अ ० १ ० १३ मं ० १ ) । द्वासप्तत्यक्षरं धृतिः । यथा— अ॒वमे॒ह इ॑न्द्र दादृहि श्रु॒धी: ( १ ) शुशोच॒ हि द्यौः क्षा न भीषाँ अ॑द्रिवो ( २ ) घृणान्न भि॒षाँ अ॑द्रिवः ( ३ ) । शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिनि॑ ( ४ ) र्व॒धैरु॒ग्रे-भि॒रीय॑से ( ५ ) । अर्पूरुषघ्नो अप्रतीत शूर सत्त्व॑भि ( ६ ) स्त्रिस॒प्तैः शूर॒सत्व॑भिः ( १ ) एषु व्यूहान्त्र्यूनता परिहार्या. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA