छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 41–50
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 41–50
पृष्ठ 41
पाठ पढ़ें पाठ छिपाएँ
भूमिका ३७ एतेन ‘ स्वच्छन्दोच्छलदच्छे ' त्यादयः प्रयोगा अपि सुव्याख्याताः ॥ ( ८ ) ‘ राज्येन च्छन्दयामासुः ’ इत्यादावपि विरेचनस्य व्यावर्तनापरपर्यायस्य संवित्परिच्छेदानतिरेकान्नार्थान्तरत्वमापद्यते । तदित्थमनेकधा निर्दिष्टं संस्कृतं छन्दः प्रतिष्ठातत्त्वम् ॥ अथातः प्राकृतां छन्दः प्रतिष्ठामनुवर्तयामः । अस्ति हि - सर्वेषामेवार्थजातानां काचिदाकारनिबन्धना मात्राभूमि:, ज्ञानदर्शनचारित्र्यशक्तिनिबन्धना च वृत्तभूमिः प्रातिस्विक-भावेन प्रकृतिसिद्धाः, या भूयोदर्शनेन परीक्षकबुद्धिनिरूढा भवति । तां तामेव भूमिं बुद्धिनिष्ठां छन्दः प्रतिष्ठामालोचमानः शिल्पी तत्साम्येन बहिरर्थमुत्पादयति । इमां च दार्शनिका यद्यप्यनुभवाहितसंस्काररूपां विषयाकाराकारितान्तः करणवृत्त्यनुशयरूपां वाचक्षाणा विषयोत्पत्त्यनन्तरभाविनीमेवाभिप्रयन्ति । अथापि तद्वस्तूपपत्तेस्तच्छन्दः प्रतिष्ठानिघ्नतया वस्तुतस्तस्या औत्पत्तिकत्वसंसिद्धिः । नहि खलु ह्रस्वचिकीर्षया कार्यं गमितस्यापि हस्तिन: प्रोत्तुङ्गचिकीर्षया वा पोषं गमितस्यापि कीटस्य कपिशरीरमर्यादानुगमः शक्यते कर्तुम् । न वा तरुणकपिसमशरीरस्य मनुष्यशिशोर्महतापि प्रयत्नेन मुग्धत्वमपनोद्य तरुणकपिवद्गमनागमनप्रौढिं कर्तुं पारयामः । पञ्चविंशतिवर्षाणि यावददृष्टवर्धनभावस्यापि नरशरीरस्य तदुत्तरमुपायपरम्परयापि वृद्धियोग्यत्वं न दृश्यते । एते चान्ये चैवंविधास्तस्या एव सृष्ट्यादौ परमेश्वरेच्छानियमिताया: प्रतिष्ठाया महिमानो भवन्ति । सा चेयं छन्दःप्रतिष्ठा द्वेधा - मात्राप्रतिष्ठा वृत्तप्रतिष्ठा च । अवयवपिण्डपरिवृत्तिसहत्वे आद्यायाः, तदसहत्वे चान्याया व्यवस्थितिः । एतदव्यक्तप्रतिष्ठाव्यञ्जका एवावयवकूटाः प्रतिष्ठातुलितकेन संनिविष्टाश्छान्दसिकनयेऽक्षरशब्देन संज्ञायन्ते वर्णशब्देन च । तथा च श्रूयते-‘ स बृहतीमेवास्पृशद् द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः — कतमा सा देवाक्षरा बृहती यस्यां तत्प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः, द्वादशाष्टकाः, द्वादशामावास्याः एषा वाव सा देवाक्षरा बृहती यस्यां तत्प्रत्यतिष्ठदिति । ’ अत्र हि पौर्णमास्यकामावास्यानामहोरात्रयोश्चाक्षरत्वमाख्यायते छन्दः परिभाषायाम् । तथा शतपथश्रुतौ-' पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशो वै संवत्सरो भवन्नेति तद्रात्रीरवाप्नोति । पञ्चदशानामु वै गायत्रीणां त्रीणि च शतानि षष्टिश्चाक्षराणि, त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति । तद्वेव संवत्सरमाप्नोति । ' इत्येवमहोरात्राभ्यां संवत्सराप्ति प्रदर्शयता भगवता महर्षिणा पञ्चदशभिः पञ्चदशभिरंशैः प्रकल्पितशरीराणां वैदिकपर्याये संवत्सराख्याप्रतिपन्नक्रान्तिवृत्तप्रदेशानामर्धमासाख्यानां छन्दः परिभाषायामक्षराख्यया प्रतिपत्तव्यानां चतुर्विंशत्या संवत्सरस्य गायत्रीत्वं सुप्रतिपादितं भवतीति द्रष्टव्यम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 42
पाठ पढ़ें पाठ छिपाएँ
३८ छन्दः शास्त्रम् एतदभिप्रायेणैव च— ' अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । ' इत्येतन्मन्त्रविवरणप्रक्रमे शतपथे— " देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे । तान् स्पर्धमानान् गायत्र्यन्तरा तस्थौ । या वै सा गायत्र्यासीद्, इयं वै सा पृथिवी । इयं हैव तदन्तरा तस्थौ । त उभय एव विदांचक्रुः यतरान् वै न इयमुपावर्त्स्यति, ते भविष्यन्ति, परेतरे भविष्यन्तीति । तामुभय एवोपमन्त्रयांचक्रिरे — अग्निरेव देवानां दूत आस, सहरक्षा इत्यसुररक्षसमसुराणाम् । साग्निमेवानुप्रेयाय । तस्मादन्वाह ' अग्निं दूतं वृणीमह ' इति ॥ ” इत्यनेन ग्रन्थेन संवत्सरवत् पृथिव्या अपि गायत्रीत्वमाख्यायते । तत्राप्यंशानां षष्ठ्युत्तरत्रिशतीमितानां व्यवस्थिततया ' अर्धमासशो वै संवत्सरो भवन्नेति ' इति न्यायेन पञ्चदशशः परिच्छेदे चतुर्विंशत्यक्षरत्वोपलब्धेः ॥
अपर आह-“ यत्पर्यपश्यत् सरिरस्य मध्ये उर्वीमपश्यज्जगतः प्रतिष्ठाम् ।
तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनं हरामि ॥
याभिरगृहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् । ता नः शिवा: शर्कराः सन्तु सर्वाः ॥। ” ( तै. ब्रा. ) " आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत् - कथमिदं स्यादिति सोऽपश्यत् पुष्करपर्णं तिष्ठत् । सोऽमन्यत..... अस्ति वै तत् - यस्मिन्निदमधितिष्ठतीति स वराहो रूपं कृत्वोपन्यमज्जत् । स पृथिवीमध आर्च्छत् । तस्या उपहत्योदमज्जत् तत्पुष्करपर्णेऽप्रथयत् । यदप्रथयत् तत्पृथिव्यै पृथिवीत्वम् || अभूद्वा इदमिति तद्भूस्यै भूमित्वम् ॥ तां दिशोऽनु वातः समवहत् । तां शर्कराभिरर्दृहत् शं वै नोऽभूदिति तच्छर्क-राणां शर्करत्वम् । ” इत्येवं मन्त्रब्राह्मणाभ्यां तैत्तिरीयके जगतः प्रतिष्ठायाः शर्कराभिरक्षर-स्थानीयाभि संभृतत्वादस्याश्छन्दः सामान्यलक्षणे प्राप्ते छन्दोविशेषप्रतिपित्सायाम्— “ स वै खलु प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते । अयं वै लोको बर्हिः । ओषधयो बर्हिः । अस्मिन्नेवैतल्लोके ओषधीर्दधाति । ता इमा अस्मिल्लोके ओषधयः प्रतिष्ठिताः । तदिदं सर्वं जगदस्याम् । तेनेयं जगती, तज्जगतीं प्रथमामकुर्वन् । अथ नराशंसं द्वितीयं यजते । अन्तरिक्षं वै नरांशसः । अन्तरिक्षमु वै त्रिष्टुप् । तत्त्रिष्टुभं वै द्वितीयामकुर्वन् । ” इति शतपथोक्तप्रकारेण द्युलोकान्तरिक्षापेक्षया कनिष्ठायाः पृथिव्याः कनिष्ठत्व-साधर्म्याद्गायत्रीत्वं सर्वजगदाश्रयत्वाद्वा जगतीत्वमित्यादि तत्तत्प्रकरणप्राप्तं द्रष्टव्यमिति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 43
पाठ पढ़ें पाठ छिपाएँ
भूमिका ३ ९ क्वचित्तु - ' अवस्य श्लोकस्य स्रग्धराछन्दः, ' ' त्रैष्टुभमिदं पद्यमि ' त्यादिवदिहापि भेदेन व्यपदिशन्ति - ' गायत्री वै पृथिवी, त्रैष्टुभमन्तरिक्षम्, जागती द्यौः, आनुष्टुभीर्दिशः । ' इत्यादि । एवं यत्र गार्हपत्यात्प्राञ्चं सन्तमाहवनीयमुद्धर्तु विक्रमाधानं विधीयते तत्र-" तं वा अष्टासु विक्रमेष्वादधीत, अष्टाक्षरा वै गायत्री । गायत्र्यैवैतद्दिवमुपोत्क्रामति । एकादशस्वादधीत, एकादशाक्षरा वै त्रिष्टुप् । त्रिष्टुभैवैतद्दिवमुपोत्क्रामति । द्वादशस्वादधीत, द्वादशाक्षरा वै जगती | जगत्यैवैतद्दिवमुपोत्क्रामति ॥ नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येत तदादधीत । स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरति । तेनैव दिवमुपोत्क्रामति । " इत्येवं विक्रमाणां छन्दोनिदानसंख्यया संख्यातानां छन्द: परिभाषायामक्षरत्वं छन्दसां मात्रानिबन्धनत्वं च सुव्यक्तमाख्यातमिति द्रष्टव्यम् ॥ एवमग्निष्टोमप्रशंसायामैतरेयके-“ स वा एषा गायत्र्येव यदग्निष्टोमः । चतुविंशत्यक्षरा वै गायत्री, चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्राणि । स वा एष संवत्सर एव यदग्निष्टोमः । चतुविंशत्यर्धमासो वै संवत्सरः, चतुर्विंशतिरग्निष्टोस्य स्तुतशस्त्राणि । ' इत्येवमग्निष्टोमस्य गायत्रीत्वसंवत्सरत्वोपचारप्रसङ्गेन स्तुतशस्त्राणामक्षरत्वमवगतं भवति । यत्तु स्तोत्रशस्त्राणामर्धमासत्वानवगमवदक्षरत्वमपि नावगतं स्यादिति ब्रूयात्, तदपवाद्यम् । स्तोत्रशस्त्रयोरर्धमासत्वासिद्धौ चतुर्विंशत्यर्धमासत्वरूपसंवत्सरत्वस्या-प्यग्निष्टोमनिष्ठत्वेना प्रतिष्ठानापत्तेः । यत्तु — " सोऽब्रवीत् प्रजापतिश्छन्दांसि – रथो मे भवत, युष्माभिरहमेतमध्वानमनु-संचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक् च त्रिष्टुप् च प्रष्ठ्यौ । अनुष्टुप् च पङ्क्तिश्च धुर्यौ । बृहत्योवोद्धिरभवत् । स एतं छन्दोरथमास्थाय एतमध्वा-नमनुसमचरत् ” ॥ इति तैत्तिरीयके छन्दसां रथत्वम्; ( १ ) यच्च --- ' - “ पशवो वै देवानां छन्दांसि, तद् यथेदं पशवो युक्ता एवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति ॥ ' इति शतपथे छन्दसां यदपि - ' अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः ॥ १ ॥ ' ( ऋ. सं. १।४ )
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ २ ॥ ' ( ऋ. सं. ११४ )
' भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परिद्यावापृथिवी यन्ति सद्यः ॥
मनुष्येभ्यो वहन्ति । पशुत्वम्; ( २ ) ३ ॥ ' ( ऋ.सं. ११८ ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 44
पाठ पढ़ें पाठ छिपाएँ
680 छन्दः शास्त्रम् ' सप्त स्वसारः सुविताय सूर्य वहन्ति हरितो रथे ॥ ४ ॥ ( ऋ.सं. )
' सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाऽधि तस्थुः ॥ ' ( ऋ.सं.२।३ ) ‘ इमं रथमधि ये सप्त तस्थुः सप्त चक्रं सप्त वहन्त्यश्वाः । सप्त स्वसारो अभिसंनवन्ते यत्र गवां निहिता सप्तनाम ॥ ' ( ऋ.सं. २1३ ) इत्येतेषु मन्त्रेषु छन्दसामश्वत्वम्; ( ३ ) यच्च- - " तेऽब्रुवन्नङ्गिरस आदित्यान् । क्व स्थ क्व वः सभ्यो हव्यं वक्ष्याम इति । छन्दः सु इत्यब्रुवन् । गायत्रियां त्रिष्टुभि जगत्यामिति तस्माच्छन्दः सु सभ्य सभ्य आदित्येभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति । ' इति ब्राह्मणे छन्दसां सदनत्वं व्याख्यायतेः ( ४ ) — तेषामयमाशय: -सूर्यो हि दिवि गच्छन् त्रिशत्युत्तरषट्षष्टितमे दिवसे पुनः प्राक्तनं स्थानमागच्छन् यं पन्थानमाश्रयति तदयनवृत्तं त्रिशत्युत्तरषष्ठ्यंशैरङ्कितं याम्योत्तरतश्चै..... द्रष्टव्यम् । तदीययाम्यरेखातो दक्षिणतो द्वयंशान्तरेऽपरा रेखा तावदंशाङ्किता, ततोऽपि दक्षिणेन त्र्यंशान्तरेऽन्या, ततः पञ्चाशान्तरेऽप्यन्या कार्या । एवमुत्तररेखाया उत्तरतोऽपि तिस्रो रेखाः कार्याः । तदित्थमष्टरेखाभिः सप्तपर्वा सूर्यमार्गः । तत्र सर्वदक्षिणे पर्वणि पञ्चदशभिः पञ्चदशभिरंशैर्विभागे कृते चतुर्विंशतिर्विभागा लभ्यन्ते, तदतश्चतुर्विंशत्यक्षरेयं गायत्री द्रष्टव्या ( १ ) तदुत्तरपर्वणि च पादार्थोनैस्त्रयोदशभिस्त्रयोदशभिरंशैरष्टाविंशतिविभागाः स्युः, ततस्तावदक्षरा सेयमुष्णिक् संसिद्धा ( २ ) ततोऽप्युत्तरपर्वणि सपादैकादशांशैः कृत्वा द्वात्रिंशद्विभागलाभात्तावदक्षरा सेयमनुष्टुप् सिध्यति ( ३ ) अथ मध्यमपर्वणि सूर्यबिम्बा-धिष्ठिते दशभिर्दशभिरंशैर्मर्यादायां षट्त्रिंशद्विभागसिद्धौ तावदक्षराया बृहत्याः सिद्धि: ( ४ ) एवं तदुत्तरपर्वणि नवाशैः कृत्वा चत्वारिंशदक्षरायाः पङ्क्ते ( ५ ) तदुत्तरतश्च पादोनपादेन सपादैकादंशकलात्मकेन सहितैरष्टांशैः कृत्वा चतुश्चत्वारिंशदक्षरायास्त्रिष्टुभः ( ६ ) तथा सर्वोत्तरपर्वणि सार्धसप्तांशैः तथा हि न्यासः -१. २४ १५० २. २८ १२ ° ५२ ' ३० ३. ३२ ११ ° १५ ' ४. ३६ १०० ५. ४० ९ ° ६. ४४ ८ ° ११ ' १५ ” कृत्वा अष्टाचत्वारिंशक्षराया जगत्या संसिद्धिर्द्रष्टव्या ( ७ ) गायत्री ” प्रतिभाग सार्धसप्तविंशत्युत्तरशतकलापचये उष्णिक् प्रतिभागे सार्धसप्तनवतिकलापचये अनुष्टुप् प्रतिभागे पञ्चसप्ततिकलापचये बृहती प्रतिभागे षष्टिकलापचये पङ्क्तिः प्रतिभागे पादोनोनपञ्चाशत्कलापचये त्रिष्टुप् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 45
पाठ पढ़ें पाठ छिपाएँ
भूमिका ४१ ७. ४८ ७ ° ३० ' प्रतिभागे सपादैकचत्वारिंशत्कलापचये जगती अस्मिश्च निर्दिष्टे संवत्सरचक्रे यद्यपि निर्देशलाघवाय एकस्मादेव स्थानादारब्धानि तानि सर्वाणि छन्दांसि, अथापि तेषामारम्भणीयस्थानानि देवताविशेषैः प्रतिपत्तव्यानि । अग्नितारातो गायत्र्याः ( १ ), सवितृत उष्णिह: ( २ ), सोमादनुष्टुभः बृहत्या: ( ४ ), वरुणात् पङ्क्ते: ( ५ ), इन्द्रादेव त्रिष्टुभः ( ६ ), अथ जगत्या ( ७ ), उपक्रमणात् । एतदभिप्रायेणैवैतेषां देवानाम्— ‘ अग्नेर्गायत्र्यभवत् सयुग्वोष्णिहया सविता संबभूव अनुष्टुभा सोम उक्थैर्महस्वान् बृहस्पतेर्बृहती वाचमावत् विराण् मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः विश्वान् देवान् जगत्याविवेश तेन चाक्लृप्र ऋषयो मनुष्याः ( ३ ), बृहस्पतेश्च विश्वेभ्यो देवेभ्यो ॥॥ ॥ ' ( ऋ.सं. ८ ) इत्यस्मिन् मन्त्रे तत्तच्छन्दोभिः सयुक्त्वं तत्तच्छन्दोऽधिष्ठातृत्वं च महर्षय आमनन्ति ॥ तथैव जगदुपभोगाच्च । एतेषामेव तत्तच्छन्दः सयुजां देवानामंशुभिराप्यायितस्य सूर्यांशोस्तत्तदधिष्ठाने शुक्लसारङ्गादिरूपवत्त्वमुपदिश्यते छन्दः स्थितिनिदर्शनायामवगमसौकर्याय वा । तदिदं यथायथमुपेक्ष्यम् ॥ तथा च प्रकृते सूर्यप्रकाशात्मकस्य प्रजापतेर्बृहतीपदव्योमक्रममाणस्य बृहतीमुभयतो-भागा रथोपकरणवत् संचारसाधनान्येव भवन्तीति यथेच्छं रथवद्यानत्वमश्ववद्वा वाहनत्वमत्रैव सर्वदावस्थानात्सदनत्वं चोपचर्यते । सूर्यप्रकाशस्य प्रजापतित्वं चैतरेयशतपथयोराम्नायते— ' तदु तदिमांल्लोकान् समारुह्य अथैषा गतिरेषा प्रतिष्ठा य एष तपति । तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकः तदेवमिमांल्लोकान् समारुह्य अथैतां गतिमेतां प्रतिष्ठां गच्छति । तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यै-वावृतमन्वावर्तते । ' ' असावादित्य एकविंश उत्तमा प्रतिष्ठा, तद्दैवं क्षत्रम्, सा श्रीः, तदाधिपत्यम्, तद् ब्रध्नस्य विष्टपम्, तत्प्रजापतेरायतनम्, तत्स्वाराज्यमृध्नोति ॥ ' इति च ॥ तत्रैतस्य विशिष्टस्य रथत्वाभ्युपपत्तौ तदपेक्षिते रथचक्रे यथेच्छं छन्दोमर्यादावृत्ताभिप्रायेण कदाचित्सप्तचक्रत्वम्, कदाचिच्च रथपार्श्वत्वसाधर्म्याद्गायत्रीजगत्यभिप्रायेणद्विचक्रत्वम्, अथ कदाचित्पुनः कालचक्रपरिवृत्त्यभिप्रायेणैकचक्रत्वं च तत्र तत्र व्यपेक्षन्ते । ' एष स्य भानुरुदियर्ति युज्यते रथः परि ज्मा दिवो अस्य सानवि । ( ऋ.सं. ) इमं रथमधि ये सप्त तस्थुः सप्त चक्रं सप्त वहन्त्यश्वा: । ( ऋ.सं. ) सप्त स्वसारो अभसंनवन्ते यत्र गवां निहिता सप्तनाम । ' ( ऋ.सं. ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 46
पाठ पढ़ें पाठ छिपाएँ
४२ छन्दः शास्त्रम् इत्यादिषु सप्तचक्रत्वस्य, ' तस्य गायत्री च जगती च पक्षावभवताम् ' इत्यादिषु द्विचक्रत्वस्य, ' उद्वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य । ( ऋ.सं. ) समानं चक्रं पर्याविवृत्सन् यदेतशो वहति धूर्षु युक्तः ॥ ( ऋ.सं. ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । ( ऋ.सं. ) त्रिनाभिचक्रमजरमनर्व यत्रेमा विश्वा भुवनाधितस्थुः ॥ ( ऋ.सं. ) द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परिद्यामृतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्तशतानि विंशतिश्च तस्थुः ॥ ( ऋ.सं. )
पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा ।
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥
इत्येवमादिष्वेकचक्रत्वस्य च प्रतिपादनात् । एवमेवाश्वत्वाभ्युपपत्तावपि सप्ताश्वत्वैकराश्वत्वाभ्यां कल्पनाभेदोऽपि सर्वथा संभवादुपपद्यते, सिंहो माणवक इत्यादिवद्रुणशब्दतया तत्तात्पर्यविषयभूते वस्तुनि बाधादर्शनात् । विधीयते हि प्रकृते रथाश्वादिशब्दैः रथाश्वादिगुणश्छन्दसि वस्तुभूतः ', । स च स्वाधिष्ठितत्वस्व-व्यापारप्रयोजकव्यापारवत्त्वैतदुभयसंबन्धेन स्वविशिष्टं यत्, तन्निष्ठप्रवृत्तिजनकप्रवृत्तिमत्त्वरूपः । एतदेव हि देवताच्छन्दसोः सयुक्त्वमित्यवधेयम् ॥ एतदभिप्रायेणैव-' एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ - त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति । इत्येवमादयः श्रौतव्यवहाराः संगच्छन्ते । तदित्थंभूतस्य खल्वप्यस्य सप्त च्छन्दोमण्डलरूपस्य सूर्यमार्गस्य
' साशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ।
आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥
स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ ' इत्येवं विष्णुपुराणादिषु गतिप्राधान्येन रथत्वव्यवहारवदेव ऋतसत्यमयत्वादग्निप्राधान्ये यज्ञशब्देन, आदित्यप्राधान्ये प्रजापतिशब्देन, अथ कालप्राधान्ये संवत्सरशब्देन च भूयसा वैदिकव्यवहारा दृश्यन्ते । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 47
पाठ पढ़ें पाठ छिपाएँ
४३ अत एव-' यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ ' ( ऋ.सं. ८।४ ) इत्येतन्मन्त्रविवरणप्रक्रमे-' यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निना आग्रमयजन्त ते स्वर्गं लोकमायन् । छन्दांसि वै साध्या देवा: तेऽग्रेऽग्निना अग्निमयजन्त ते स्वर्ग लोकमायन् ॥ आदित्याश्चैवेहासन्नङ्गिरसश्च । ते अग्रे अग्निमयजन्त ते स्वर्ग लोकमायन् ॥ ' इत्येवमुक्तमैतरेयके । अत एव च-त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्च संवत्सर-स्याहानि तावान् संवत्सरः, संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ॥ ' इत्यादि श्रूयते । एतदभिप्रायेणैव चैतेषां छन्दसामग्नेः प्रजापतेश्च तनुत्वमपि तत्र तत्रोपचार्यते । तथा हि-' विष्णुमुखा वै देवाश्छन्दोभिरिमांल्लोकाननपजय्यमभ्यजयन् । यद्विष्णुक्रमान् क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिमांल्लोकाननपजय्यमभिजयति । इत्येवं विष्णुक्रमपरिक्रमणविथौ— “ अथावर्तते —– सूर्यस्यावृतमन्वावर्त इति । एवमिमाँल्लोकान् समारुह्य, अथैषा गतिरेषा प्रतिष्ठा- य एष तपति, तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकः; तदेवमिमाँल्लोकान् समारुह्य, अथैतां गतिमेतां प्रतिष्ठां गच्छति, तदेतां
गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते ।
इति माध्यन्दिना आहुः ॥
तैत्तिरीया अप्येवं— “ ऐन्द्रीमावृतमन्वावर्तते — इत्याह । असौ वा आदित्य इन्द्रः । तस्यैवावृतमनु पर्यावर्तते । तस्माद्दक्षिणोऽर्थ आत्मनो वीर्यावत्तरोऽथो आदित्यस्यैवावृतमनु पर्यावर्तते । ” इत्युक्त्वा, “ चतसृभिरावर्तते — चत्वारि च्छन्दांसि । छन्दांसि खलु वा अग्नेः प्रिया तनूः प्रियामेवास्य तनुवमभिपर्यावर्तते । ” इत्याद्यामनन्ति । “ सप्त छन्दांसि ऋतुमेकं तन्वन्ती " ( म.भा. ) त्याद्या: स्मृतयश्चैतदर्थपरा द्रष्टव्याः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 48
पाठ पढ़ें पाठ छिपाएँ
४४ छन्दः शास्त्रम् एवं हि भूयांसो याज्ञिकानां यज्ञानुबन्धिनो व्यवहारा एतदेव छन्दोमयमण्डलमनुसृत्य प्रवर्तमानाः सन्तीति तत्र तत्रान्वीक्षितव्यम् ॥ एवमेवादित्यप्राधान्यात् प्रजापतिशब्देन व्यवहारे प्रवर्तमाने मुख्यमादित्यबिम्बं तदुपलक्षितरेखां वोभयतो दश दश रेखा आक्रम्य कृतशरीरस्यैकविंशस्य प्रजापतिपुरुषस्य याम्यसौम्यभेदेन द्वैधे प्रतिपन्ने-‘ “ ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो वृषाग्निः । मिथुनमेवैतत्प्रजननं क्रियते । एवमिव हि मिथुनं क्लृप्तम् । उत्तरतो हि स्त्री पुमांसमतिशेते । ' इति शतपथोक्तयोषावृषन्यायेन सौम्याया अपां दिशो योषात्वं याम्याया अग्निदिशश्च वृषत्वं प्रतिपद्य तत्रांशानुरोधिदशरेखाभिप्रायेण विराट्त्वमाख्यातं दृश्यते श्रुतिस्मृत्यादिषु । तथा च विषुवदहः - संस्थानाभिप्रायेण तावत्— " यथा वै पुरुषः एवं विषुवान् । तस्य यथा दक्षिणोऽर्धः, एवं पूर्वोऽर्धो विषुवतः । यथोत्तरोऽर्धः, एवमुत्तरोऽथ विषुवतः । तस्मादुत्तर इत्याचक्षते । प्रवाहुक् सतः शिर एव विषुवान् । विदलसंहित इव वै पुरुषः । तद्धापि स्यूमेव मध्ये शीष्ण विज्ञायते । ” इत्युक्तमैतरेयके । तैत्तिरीयकेऽपि— “ एकविंश एष भवति । एतेन वै देवा एकविंशेनादित्यमित उत्तमं सुवर्ग लोकमारोहयन् । स वा एष इत एकविंशः । तस्य दशावरस्तादहानि दश परस्तात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् सर्वेषु सुवर्गेषु लोकेष्वभितपन्नेति ’ इत्युक्त्वा, “ देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपातादबिभयुः । तं छन्दोभिरर्दृहन् धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्यावाचोऽवपातादबिभयुः । तं पञ्चमी रश्मिभिरुदवयन् ॥ ” इत्यवमादयो इत्याद्याम्नायते ॥ ' सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृत्वा अत्यतिष्ठद्दशाङ्गुलम् । ‘ ततो विराडजायत विराजोऽधिपुरुषः । स जातोऽत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ' मन्त्रवर्णा अप्यमुमर्थं द्रढयन्ति । स्मर्यते चायमर्थो ‘ द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । मन्वादिभिरपि— अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥ ' इत्यादिना । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 49
पाठ पढ़ें पाठ छिपाएँ
भूमिका ४५ तदित्थं तावदंशानां दशकस्य दशकस्यैकैकमक्षरत्वमभिप्रेत्य बृहतीत्वमाख्यातम् । अन्यत्र पुनः ' इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, द्वादश द्वादशाभिता उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती ' इत्येवमाचक्षाणेन पौर्णमास्यष्टकामावास्यानां देवानामेवाक्षरत्वमभिप्रेत्य बृहतीत्वं संसाध्यते । एवं द्वादशाहस्तुतौ-“ तदाहुः — यदन्यानि च्छन्दांसि वर्षीयांसि भूयोऽक्षरतराणि अथ कस्मादेतां बृहतीत्याचक्षते इति । एतया हि देवा इमाँल्लोकानाश्रवत । ते वै दशभिरेवाक्षरैरिमं लोकमाश्रुवत, दशभिरन्तरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिँल्लोके प्रत्यतिष्ठन् । तस्मादेतां बृहतीत्याचक्षते ॥ ” इत्यैतरेयश्रुत्या संवत्सरवलयात्मकबृहतीव्याप्यैकपदा – विराजोऽक्षरत्वमाख्यायते । विराजोऽ भूयस्य: क्लृप्तयो भवन्ति । तैत्तिरीयके तावत्-“ नव प्रयाजा इज्यन्ते नवानुयाजाः, अष्टौ हवींषि, द्वावाधारौ द्वावाज्यभागौ । त्रिंशत्संपद्यन्ते । त्रिंशदक्षरा विराट् । ” इत्येवं प्रयाजादीनामक्षरत्वमाह । मैत्रायणीयकेऽप्येवम्— ' प्राणेभ्यो वै ताः प्रजाः प्राजायन्त । प्राणा वा एतानि नव हवीषि । नव हि प्राणाः । आत्मा देवता । ततः प्रजायते । नव प्रयाजाः, नवानुयाजा:, द्वावाज्यभागौ, अष्टौ हवींषि, अग्नये समवद्यति । वाजिनो यजति । तत्त्रिंशत् । त्रिंशदक्षरा विराट् । विराज्येव प्रतितिष्ठति । विराजो वै योने: प्रजापतिः प्रजा असृजत । विराजो वा एतद्योनेर्यजमानः प्रजायते । त्रिंशत् । त्रिंशद्वै रात्रयो मासः । यो मासः स संवत्सरः । संवत्सरः प्रजापतिः । तत्प्रजापतेश्च वा एतद्विराजश्च योनेर्मिथुनाद् यजमानः प्रजायते--इति प्रयाजादीनामिव त्रिंशद्रात्रीणां विराडक्षरत्वमुच्यते । अथ माध्यन्दिनीयके— ' शूर्पं चाग्निहोत्रहवणीं च, स्फ्यं च कपालानि च, शम्यां च कृष्णाजिनं च, उलूखलमुसले, दृषदुपले । तद्दश, दशाक्षरा विराट् । विराड् वै यज्ञः ।'— इति शूर्पादीनामक्षरत्वमुक्तम् । ऐतरेयके च-यदु गायत्री च, पङ्क्तिश्च - ते द्वे अनुष्टुभौ । यदुष्णिक् च, बृहती च - ते द्वे अनुष्टुभौ । यदु द्विपदा च विंशत्यक्षरा, त्रिष्टुप् च, ते द्वे अनुष्टुभौ । यदु द्विपदा च षोडशाक्षरा, जगती च- -ते द्वे अनुष्टुभौ । ' इत्येवं कृत्वा द्वयोर्द्वयोरनुष्टुप्त्वम् ', तथा अनुष्टुप्पङ्क्तयोरुष्णिक्त्रिष्टुभोर्गायत्रीजगत्योश्च CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA.
पृष्ठ 50
पाठ पढ़ें पाठ छिपाएँ
४६ छन्दः शास्त्रम् बृहतीत्वमिति विजातीयच्छन्दोद्वयाक्षराणां सजातीयछन्दोद्वयाक्षरत्वमाख्यायते । तदेतदेवमन्यत्रान्यत्र भूयसा तत्तच्छन्दः स्वरूपनिर्वचनपरतत्तच्छ्रौतवचनपरिशीलनया चत्वारोऽर्था निष्कृष्य सिध्यन्ति-( १ ) छन्दःस्वरूपनिरूपकतयाभिप्रेतस्य यथेष्टसमुदायावयवतां गतस्य यस्य कस्यादि द्रव्यजातस्य गुणजातस्य वा छन्दः परिभाषायामक्षरसंज्ञा - इत्येकः ॥ ( २ ) क — तादृशैश्चाक्षराख्यैर्द्रव्यगुणैश्चतुविंशतिसंख्यापूरणे च सा मर्यादा गायत्री, अष्टाविंशतिसंख्यापूरणे च सा मर्यादा उष्णिगित्येवं चतुरुत्तराणि तानि तानि छन्दांसि वेदितव्यानि । उत्तरोत्तरमेकैकाक्षरवर्धितपादत्वात् ॥ ( २ ) ख- पादप्राधान्येन चाष्टभिरक्षरैः कृता मर्यादा गायत्री, दशभिर्विराट्, एकादशभिस्त्रिष्टुप्, द्वादशभिर्जगतीत्यपीच्छन्तीति - द्वितीयः ॥ ( ३ ) एवं पर्यायतुलितकाख्या शिल्पाद्युपयोगिनी मितिश्छन्द इति – तृतीयः । ( ४ ) मितेरपि न मितित्वेन रूपेण छन्दस्त्वमपि तु तु कारणतापेक्षितस्वरूपविशेषजनकता-वच्छेदकत्वेनेति — चतुर्थः । एतमेव निष्कर्षमनुसृत्य लौकिकाः, वैदिकाः, वाचिकाः, आर्थिकाश्च सर्वे छन्दोव्यवहारा यथायथं प्रवर्तमानाः सन्तीति तत्र तत्रोपेक्ष्यम् || तदित्थमार्थिकेषु छन्दोव्यवहारेषु छन्दः प्रतिष्ठातत्त्वं वैशद्येन प्रदर्शितं भवति ॥ वाचिकेष्वपि छन्दः स्वर्णसामिवाशयसाम्येनार्णानामपि नियतसंख्यावच्छिन्नानां, संवेशोपवेशाभ्यां गायत्र्यादिछन्दोविशेषस्वरूपोपलब्धेस्तत्संवेशोपवेशाधिष्ठानस्य प्रस्तारादिक्रियाभिनेयस्यामूर्तस्य छन्दः प्रतिष्ठात्वमवतिष्ठते । सा च मात्रासंख्याप्रधाना, अक्षरसंख्याप्रधाना, नियतमात्राक्षरस्थानप्रधाना चेति त्रिविधाप्यनिरुक्तपृथग्रूपा गायत्र्यादिशब्दैर्लक्ष्यते 1 । तस्याश्चाक्षराणि धर्माः । अक्षरेषु चेयमनुगतेति कृत्वा तस्याश्छन्दः प्रतिष्ठाया ब्रह्मत्वम् । तस्माच्छन्दस्तत्त्वविज्ञानेन सर्वमिदं विज्ञातं भवतीति विज्ञेयम् । अथान्यः प्रत्यवतिष्ठते-‘ श्रोत्रियश्छन्दोऽधीते ॥ ' पाणिनि सू. ५ । २ । ८४ ॥ ‘ बहुलं छन्दसि ॥ ’ २ । ४ । ३ ९ ॥ इत्येवमादिभिः सूत्रजातेषु, ‘ युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् । ’ ‘ कामात्मऽऽकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नवीत । ' इत्येवमादिभि: स्मृतिजातेषु; ' आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव । ' CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA