छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 41–50

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 41–50

पृष्ठ 41

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 41 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ३७ एतेन ‘ स्वच्छन्दोच्छलदच्छे ' त्यादयः प्रयोगा अपि सुव्याख्याताः ॥ ( ८ ) ‘ राज्येन च्छन्दयामासुः ’ इत्यादावपि विरेचनस्य व्यावर्तनापरपर्यायस्य संवित्परिच्छेदानतिरेकान्नार्थान्तरत्वमापद्यते । तदित्थमनेकधा निर्दिष्टं संस्कृतं छन्दः प्रतिष्ठातत्त्वम् ॥ अथातः प्राकृतां छन्दः प्रतिष्ठामनुवर्तयामः । अस्ति हि - सर्वेषामेवार्थजातानां काचिदाकारनिबन्धना मात्राभूमि:, ज्ञानदर्शनचारित्र्यशक्तिनिबन्धना च वृत्तभूमिः प्रातिस्विक-भावेन प्रकृतिसिद्धाः, या भूयोदर्शनेन परीक्षकबुद्धिनिरूढा भवति । तां तामेव भूमिं बुद्धिनिष्ठां छन्दः प्रतिष्ठामालोचमानः शिल्पी तत्साम्येन बहिरर्थमुत्पादयति । इमां च दार्शनिका यद्यप्यनुभवाहितसंस्काररूपां विषयाकाराकारितान्तः करणवृत्त्यनुशयरूपां वाचक्षाणा विषयोत्पत्त्यनन्तरभाविनीमेवाभिप्रयन्ति । अथापि तद्वस्तूपपत्तेस्तच्छन्दः प्रतिष्ठानिघ्नतया वस्तुतस्तस्या औत्पत्तिकत्वसंसिद्धिः । नहि खलु ह्रस्वचिकीर्षया कार्यं गमितस्यापि हस्तिन: प्रोत्तुङ्गचिकीर्षया वा पोषं गमितस्यापि कीटस्य कपिशरीरमर्यादानुगमः शक्यते कर्तुम् । न वा तरुणकपिसमशरीरस्य मनुष्यशिशोर्महतापि प्रयत्नेन मुग्धत्वमपनोद्य तरुणकपिवद्गमनागमनप्रौढिं कर्तुं पारयामः । पञ्चविंशतिवर्षाणि यावददृष्टवर्धनभावस्यापि नरशरीरस्य तदुत्तरमुपायपरम्परयापि वृद्धियोग्यत्वं न दृश्यते । एते चान्ये चैवंविधास्तस्या एव सृष्ट्यादौ परमेश्वरेच्छानियमिताया: प्रतिष्ठाया महिमानो भवन्ति । सा चेयं छन्दःप्रतिष्ठा द्वेधा - मात्राप्रतिष्ठा वृत्तप्रतिष्ठा च । अवयवपिण्डपरिवृत्तिसहत्वे आद्यायाः, तदसहत्वे चान्याया व्यवस्थितिः । एतदव्यक्तप्रतिष्ठाव्यञ्जका एवावयवकूटाः प्रतिष्ठातुलितकेन संनिविष्टाश्छान्दसिकनयेऽक्षरशब्देन संज्ञायन्ते वर्णशब्देन च । तथा च श्रूयते-‘ स बृहतीमेवास्पृशद् द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः — कतमा सा देवाक्षरा बृहती यस्यां तत्प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः, द्वादशाष्टकाः, द्वादशामावास्याः एषा वाव सा देवाक्षरा बृहती यस्यां तत्प्रत्यतिष्ठदिति । ’ अत्र हि पौर्णमास्यकामावास्यानामहोरात्रयोश्चाक्षरत्वमाख्यायते छन्दः परिभाषायाम् । तथा शतपथश्रुतौ-' पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशो वै संवत्सरो भवन्नेति तद्रात्रीरवाप्नोति । पञ्चदशानामु वै गायत्रीणां त्रीणि च शतानि षष्टिश्चाक्षराणि, त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति । तद्वेव संवत्सरमाप्नोति । ' इत्येवमहोरात्राभ्यां संवत्सराप्ति प्रदर्शयता भगवता महर्षिणा पञ्चदशभिः पञ्चदशभिरंशैः प्रकल्पितशरीराणां वैदिकपर्याये संवत्सराख्याप्रतिपन्नक्रान्तिवृत्तप्रदेशानामर्धमासाख्यानां छन्दः परिभाषायामक्षराख्यया प्रतिपत्तव्यानां चतुर्विंशत्या संवत्सरस्य गायत्रीत्वं सुप्रतिपादितं भवतीति द्रष्टव्यम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 42

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 42 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८ छन्दः शास्त्रम् एतदभिप्रायेणैव च— ' अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । ' इत्येतन्मन्त्रविवरणप्रक्रमे शतपथे— " देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे । तान् स्पर्धमानान् गायत्र्यन्तरा तस्थौ । या वै सा गायत्र्यासीद्, इयं वै सा पृथिवी । इयं हैव तदन्तरा तस्थौ । त उभय एव विदांचक्रुः यतरान् वै न इयमुपावर्त्स्यति, ते भविष्यन्ति, परेतरे भविष्यन्तीति । तामुभय एवोपमन्त्रयांचक्रिरे — अग्निरेव देवानां दूत आस, सहरक्षा इत्यसुररक्षसमसुराणाम् । साग्निमेवानुप्रेयाय । तस्मादन्वाह ' अग्निं दूतं वृणीमह ' इति ॥ ” इत्यनेन ग्रन्थेन संवत्सरवत् पृथिव्या अपि गायत्रीत्वमाख्यायते । तत्राप्यंशानां षष्ठ्युत्तरत्रिशतीमितानां व्यवस्थिततया ' अर्धमासशो वै संवत्सरो भवन्नेति ' इति न्यायेन पञ्चदशशः परिच्छेदे चतुर्विंशत्यक्षरत्वोपलब्धेः ॥

अपर आह-“ यत्पर्यपश्यत् सरिरस्य मध्ये उर्वीमपश्यज्जगतः प्रतिष्ठाम् ।

तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनं हरामि ॥

याभिरगृहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् । ता नः शिवा: शर्कराः सन्तु सर्वाः ॥। ” ( तै. ब्रा. ) " आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत् - कथमिदं स्यादिति सोऽपश्यत् पुष्करपर्णं तिष्ठत् । सोऽमन्यत..... अस्ति वै तत् - यस्मिन्निदमधितिष्ठतीति स वराहो रूपं कृत्वोपन्यमज्जत् । स पृथिवीमध आर्च्छत् । तस्या उपहत्योदमज्जत् तत्पुष्करपर्णेऽप्रथयत् । यदप्रथयत् तत्पृथिव्यै पृथिवीत्वम् || अभूद्वा इदमिति तद्भूस्यै भूमित्वम् ॥ तां दिशोऽनु वातः समवहत् । तां शर्कराभिरर्दृहत् शं वै नोऽभूदिति तच्छर्क-राणां शर्करत्वम् । ” इत्येवं मन्त्रब्राह्मणाभ्यां तैत्तिरीयके जगतः प्रतिष्ठायाः शर्कराभिरक्षर-स्थानीयाभि संभृतत्वादस्याश्छन्दः सामान्यलक्षणे प्राप्ते छन्दोविशेषप्रतिपित्सायाम्— “ स वै खलु प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते । अयं वै लोको बर्हिः । ओषधयो बर्हिः । अस्मिन्नेवैतल्लोके ओषधीर्दधाति । ता इमा अस्मिल्लोके ओषधयः प्रतिष्ठिताः । तदिदं सर्वं जगदस्याम् । तेनेयं जगती, तज्जगतीं प्रथमामकुर्वन् । अथ नराशंसं द्वितीयं यजते । अन्तरिक्षं वै नरांशसः । अन्तरिक्षमु वै त्रिष्टुप् । तत्त्रिष्टुभं वै द्वितीयामकुर्वन् । ” इति शतपथोक्तप्रकारेण द्युलोकान्तरिक्षापेक्षया कनिष्ठायाः पृथिव्याः कनिष्ठत्व-साधर्म्याद्गायत्रीत्वं सर्वजगदाश्रयत्वाद्वा जगतीत्वमित्यादि तत्तत्प्रकरणप्राप्तं द्रष्टव्यमिति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 43

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 43 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ३ ९ क्वचित्तु - ' अवस्य श्लोकस्य स्रग्धराछन्दः, ' ' त्रैष्टुभमिदं पद्यमि ' त्यादिवदिहापि भेदेन व्यपदिशन्ति - ' गायत्री वै पृथिवी, त्रैष्टुभमन्तरिक्षम्, जागती द्यौः, आनुष्टुभीर्दिशः । ' इत्यादि । एवं यत्र गार्हपत्यात्प्राञ्चं सन्तमाहवनीयमुद्धर्तु विक्रमाधानं विधीयते तत्र-" तं वा अष्टासु विक्रमेष्वादधीत, अष्टाक्षरा वै गायत्री । गायत्र्यैवैतद्दिवमुपोत्क्रामति । एकादशस्वादधीत, एकादशाक्षरा वै त्रिष्टुप् । त्रिष्टुभैवैतद्दिवमुपोत्क्रामति । द्वादशस्वादधीत, द्वादशाक्षरा वै जगती | जगत्यैवैतद्दिवमुपोत्क्रामति ॥ नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येत तदादधीत । स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरति । तेनैव दिवमुपोत्क्रामति । " इत्येवं विक्रमाणां छन्दोनिदानसंख्यया संख्यातानां छन्द: परिभाषायामक्षरत्वं छन्दसां मात्रानिबन्धनत्वं च सुव्यक्तमाख्यातमिति द्रष्टव्यम् ॥ एवमग्निष्टोमप्रशंसायामैतरेयके-“ स वा एषा गायत्र्येव यदग्निष्टोमः । चतुविंशत्यक्षरा वै गायत्री, चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्राणि । स वा एष संवत्सर एव यदग्निष्टोमः । चतुविंशत्यर्धमासो वै संवत्सरः, चतुर्विंशतिरग्निष्टोस्य स्तुतशस्त्राणि । ' इत्येवमग्निष्टोमस्य गायत्रीत्वसंवत्सरत्वोपचारप्रसङ्गेन स्तुतशस्त्राणामक्षरत्वमवगतं भवति । यत्तु स्तोत्रशस्त्राणामर्धमासत्वानवगमवदक्षरत्वमपि नावगतं स्यादिति ब्रूयात्, तदपवाद्यम् । स्तोत्रशस्त्रयोरर्धमासत्वासिद्धौ चतुर्विंशत्यर्धमासत्वरूपसंवत्सरत्वस्या-प्यग्निष्टोमनिष्ठत्वेना प्रतिष्ठानापत्तेः । यत्तु — " सोऽब्रवीत् प्रजापतिश्छन्दांसि – रथो मे भवत, युष्माभिरहमेतमध्वानमनु-संचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक् च त्रिष्टुप् च प्रष्ठ्यौ । अनुष्टुप् च पङ्क्तिश्च धुर्यौ । बृहत्योवोद्धिरभवत् । स एतं छन्दोरथमास्थाय एतमध्वा-नमनुसमचरत् ” ॥ इति तैत्तिरीयके छन्दसां रथत्वम्; ( १ ) यच्च --- ' - “ पशवो वै देवानां छन्दांसि, तद् यथेदं पशवो युक्ता एवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति ॥ ' इति शतपथे छन्दसां यदपि - ' अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः ॥ १ ॥ ' ( ऋ. सं. १।४ )

सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ २ ॥ ' ( ऋ. सं. ११४ )

' भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।

नमस्यन्तो दिव आ पृष्ठमस्थुः परिद्यावापृथिवी यन्ति सद्यः ॥

मनुष्येभ्यो वहन्ति । पशुत्वम्; ( २ ) ३ ॥ ' ( ऋ.सं. ११८ ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 44

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 44 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

680 छन्दः शास्त्रम् ' सप्त स्वसारः सुविताय सूर्य वहन्ति हरितो रथे ॥ ४ ॥ ( ऋ.सं. )

' सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाऽधि तस्थुः ॥ ' ( ऋ.सं.२।३ ) ‘ इमं रथमधि ये सप्त तस्थुः सप्त चक्रं सप्त वहन्त्यश्वाः । सप्त स्वसारो अभिसंनवन्ते यत्र गवां निहिता सप्तनाम ॥ ' ( ऋ.सं. २1३ ) इत्येतेषु मन्त्रेषु छन्दसामश्वत्वम्; ( ३ ) यच्च- - " तेऽब्रुवन्नङ्गिरस आदित्यान् । क्व स्थ क्व वः सभ्यो हव्यं वक्ष्याम इति । छन्दः सु इत्यब्रुवन् । गायत्रियां त्रिष्टुभि जगत्यामिति तस्माच्छन्दः सु सभ्य सभ्य आदित्येभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति । ' इति ब्राह्मणे छन्दसां सदनत्वं व्याख्यायतेः ( ४ ) — तेषामयमाशय: -सूर्यो हि दिवि गच्छन् त्रिशत्युत्तरषट्षष्टितमे दिवसे पुनः प्राक्तनं स्थानमागच्छन् यं पन्थानमाश्रयति तदयनवृत्तं त्रिशत्युत्तरषष्ठ्यंशैरङ्कितं याम्योत्तरतश्चै..... द्रष्टव्यम् । तदीययाम्यरेखातो दक्षिणतो द्वयंशान्तरेऽपरा रेखा तावदंशाङ्किता, ततोऽपि दक्षिणेन त्र्यंशान्तरेऽन्या, ततः पञ्चाशान्तरेऽप्यन्या कार्या । एवमुत्तररेखाया उत्तरतोऽपि तिस्रो रेखाः कार्याः । तदित्थमष्टरेखाभिः सप्तपर्वा सूर्यमार्गः । तत्र सर्वदक्षिणे पर्वणि पञ्चदशभिः पञ्चदशभिरंशैर्विभागे कृते चतुर्विंशतिर्विभागा लभ्यन्ते, तदतश्चतुर्विंशत्यक्षरेयं गायत्री द्रष्टव्या ( १ ) तदुत्तरपर्वणि च पादार्थोनैस्त्रयोदशभिस्त्रयोदशभिरंशैरष्टाविंशतिविभागाः स्युः, ततस्तावदक्षरा सेयमुष्णिक् संसिद्धा ( २ ) ततोऽप्युत्तरपर्वणि सपादैकादशांशैः कृत्वा द्वात्रिंशद्विभागलाभात्तावदक्षरा सेयमनुष्टुप् सिध्यति ( ३ ) अथ मध्यमपर्वणि सूर्यबिम्बा-धिष्ठिते दशभिर्दशभिरंशैर्मर्यादायां षट्त्रिंशद्विभागसिद्धौ तावदक्षराया बृहत्याः सिद्धि: ( ४ ) एवं तदुत्तरपर्वणि नवाशैः कृत्वा चत्वारिंशदक्षरायाः पङ्क्ते ( ५ ) तदुत्तरतश्च पादोनपादेन सपादैकादंशकलात्मकेन सहितैरष्टांशैः कृत्वा चतुश्चत्वारिंशदक्षरायास्त्रिष्टुभः ( ६ ) तथा सर्वोत्तरपर्वणि सार्धसप्तांशैः तथा हि न्यासः -१. २४ १५० २. २८ १२ ° ५२ ' ३० ३. ३२ ११ ° १५ ' ४. ३६ १०० ५. ४० ९ ° ६. ४४ ८ ° ११ ' १५ ” कृत्वा अष्टाचत्वारिंशक्षराया जगत्या संसिद्धिर्द्रष्टव्या ( ७ ) गायत्री ” प्रतिभाग सार्धसप्तविंशत्युत्तरशतकलापचये उष्णिक् प्रतिभागे सार्धसप्तनवतिकलापचये अनुष्टुप् प्रतिभागे पञ्चसप्ततिकलापचये बृहती प्रतिभागे षष्टिकलापचये पङ्क्तिः प्रतिभागे पादोनोनपञ्चाशत्कलापचये त्रिष्टुप् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 45

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 45 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ४१ ७. ४८ ७ ° ३० ' प्रतिभागे सपादैकचत्वारिंशत्कलापचये जगती अस्मिश्च निर्दिष्टे संवत्सरचक्रे यद्यपि निर्देशलाघवाय एकस्मादेव स्थानादारब्धानि तानि सर्वाणि छन्दांसि, अथापि तेषामारम्भणीयस्थानानि देवताविशेषैः प्रतिपत्तव्यानि । अग्नितारातो गायत्र्याः ( १ ), सवितृत उष्णिह: ( २ ), सोमादनुष्टुभः बृहत्या: ( ४ ), वरुणात् पङ्क्ते: ( ५ ), इन्द्रादेव त्रिष्टुभः ( ६ ), अथ जगत्या ( ७ ), उपक्रमणात् । एतदभिप्रायेणैवैतेषां देवानाम्— ‘ अग्नेर्गायत्र्यभवत् सयुग्वोष्णिहया सविता संबभूव अनुष्टुभा सोम उक्थैर्महस्वान् बृहस्पतेर्बृहती वाचमावत् विराण् मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः विश्वान् देवान् जगत्याविवेश तेन चाक्लृप्र ऋषयो मनुष्याः ( ३ ), बृहस्पतेश्च विश्वेभ्यो देवेभ्यो ॥॥ ॥ ' ( ऋ.सं. ८ ) इत्यस्मिन् मन्त्रे तत्तच्छन्दोभिः सयुक्त्वं तत्तच्छन्दोऽधिष्ठातृत्वं च महर्षय आमनन्ति ॥ तथैव जगदुपभोगाच्च । एतेषामेव तत्तच्छन्दः सयुजां देवानामंशुभिराप्यायितस्य सूर्यांशोस्तत्तदधिष्ठाने शुक्लसारङ्गादिरूपवत्त्वमुपदिश्यते छन्दः स्थितिनिदर्शनायामवगमसौकर्याय वा । तदिदं यथायथमुपेक्ष्यम् ॥ तथा च प्रकृते सूर्यप्रकाशात्मकस्य प्रजापतेर्बृहतीपदव्योमक्रममाणस्य बृहतीमुभयतो-भागा रथोपकरणवत् संचारसाधनान्येव भवन्तीति यथेच्छं रथवद्यानत्वमश्ववद्वा वाहनत्वमत्रैव सर्वदावस्थानात्सदनत्वं चोपचर्यते । सूर्यप्रकाशस्य प्रजापतित्वं चैतरेयशतपथयोराम्नायते— ' तदु तदिमांल्लोकान् समारुह्य अथैषा गतिरेषा प्रतिष्ठा य एष तपति । तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकः तदेवमिमांल्लोकान् समारुह्य अथैतां गतिमेतां प्रतिष्ठां गच्छति । तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यै-वावृतमन्वावर्तते । ' ' असावादित्य एकविंश उत्तमा प्रतिष्ठा, तद्दैवं क्षत्रम्, सा श्रीः, तदाधिपत्यम्, तद् ब्रध्नस्य विष्टपम्, तत्प्रजापतेरायतनम्, तत्स्वाराज्यमृध्नोति ॥ ' इति च ॥ तत्रैतस्य विशिष्टस्य रथत्वाभ्युपपत्तौ तदपेक्षिते रथचक्रे यथेच्छं छन्दोमर्यादावृत्ताभिप्रायेण कदाचित्सप्तचक्रत्वम्, कदाचिच्च रथपार्श्वत्वसाधर्म्याद्गायत्रीजगत्यभिप्रायेणद्विचक्रत्वम्, अथ कदाचित्पुनः कालचक्रपरिवृत्त्यभिप्रायेणैकचक्रत्वं च तत्र तत्र व्यपेक्षन्ते । ' एष स्य भानुरुदियर्ति युज्यते रथः परि ज्मा दिवो अस्य सानवि । ( ऋ.सं. ) इमं रथमधि ये सप्त तस्थुः सप्त चक्रं सप्त वहन्त्यश्वा: । ( ऋ.सं. ) सप्त स्वसारो अभसंनवन्ते यत्र गवां निहिता सप्तनाम । ' ( ऋ.सं. ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 46

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 46 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२ छन्दः शास्त्रम् इत्यादिषु सप्तचक्रत्वस्य, ' तस्य गायत्री च जगती च पक्षावभवताम् ' इत्यादिषु द्विचक्रत्वस्य, ' उद्वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य । ( ऋ.सं. ) समानं चक्रं पर्याविवृत्सन् यदेतशो वहति धूर्षु युक्तः ॥ ( ऋ.सं. ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । ( ऋ.सं. ) त्रिनाभिचक्रमजरमनर्व यत्रेमा विश्वा भुवनाधितस्थुः ॥ ( ऋ.सं. ) द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परिद्यामृतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्तशतानि विंशतिश्च तस्थुः ॥ ( ऋ.सं. )

पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा ।

तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥

इत्येवमादिष्वेकचक्रत्वस्य च प्रतिपादनात् । एवमेवाश्वत्वाभ्युपपत्तावपि सप्ताश्वत्वैकराश्वत्वाभ्यां कल्पनाभेदोऽपि सर्वथा संभवादुपपद्यते, सिंहो माणवक इत्यादिवद्रुणशब्दतया तत्तात्पर्यविषयभूते वस्तुनि बाधादर्शनात् । विधीयते हि प्रकृते रथाश्वादिशब्दैः रथाश्वादिगुणश्छन्दसि वस्तुभूतः ', । स च स्वाधिष्ठितत्वस्व-व्यापारप्रयोजकव्यापारवत्त्वैतदुभयसंबन्धेन स्वविशिष्टं यत्, तन्निष्ठप्रवृत्तिजनकप्रवृत्तिमत्त्वरूपः । एतदेव हि देवताच्छन्दसोः सयुक्त्वमित्यवधेयम् ॥ एतदभिप्रायेणैव-' एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ - त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति । इत्येवमादयः श्रौतव्यवहाराः संगच्छन्ते । तदित्थंभूतस्य खल्वप्यस्य सप्त च्छन्दोमण्डलरूपस्य सूर्यमार्गस्य

' साशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ।

आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥

स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ ' इत्येवं विष्णुपुराणादिषु गतिप्राधान्येन रथत्वव्यवहारवदेव ऋतसत्यमयत्वादग्निप्राधान्ये यज्ञशब्देन, आदित्यप्राधान्ये प्रजापतिशब्देन, अथ कालप्राधान्ये संवत्सरशब्देन च भूयसा वैदिकव्यवहारा दृश्यन्ते । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 47

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 47 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३ अत एव-' यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ ' ( ऋ.सं. ८।४ ) इत्येतन्मन्त्रविवरणप्रक्रमे-' यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निना आग्रमयजन्त ते स्वर्गं लोकमायन् । छन्दांसि वै साध्या देवा: तेऽग्रेऽग्निना अग्निमयजन्त ते स्वर्ग लोकमायन् ॥ आदित्याश्चैवेहासन्नङ्गिरसश्च । ते अग्रे अग्निमयजन्त ते स्वर्ग लोकमायन् ॥ ' इत्येवमुक्तमैतरेयके । अत एव च-त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्च संवत्सर-स्याहानि तावान् संवत्सरः, संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ॥ ' इत्यादि श्रूयते । एतदभिप्रायेणैव चैतेषां छन्दसामग्नेः प्रजापतेश्च तनुत्वमपि तत्र तत्रोपचार्यते । तथा हि-' विष्णुमुखा वै देवाश्छन्दोभिरिमांल्लोकाननपजय्यमभ्यजयन् । यद्विष्णुक्रमान् क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिमांल्लोकाननपजय्यमभिजयति । इत्येवं विष्णुक्रमपरिक्रमणविथौ— “ अथावर्तते —– सूर्यस्यावृतमन्वावर्त इति । एवमिमाँल्लोकान् समारुह्य, अथैषा गतिरेषा प्रतिष्ठा- य एष तपति, तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकः; तदेवमिमाँल्लोकान् समारुह्य, अथैतां गतिमेतां प्रतिष्ठां गच्छति, तदेतां

गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते ।

इति माध्यन्दिना आहुः ॥

तैत्तिरीया अप्येवं— “ ऐन्द्रीमावृतमन्वावर्तते — इत्याह । असौ वा आदित्य इन्द्रः । तस्यैवावृतमनु पर्यावर्तते । तस्माद्दक्षिणोऽर्थ आत्मनो वीर्यावत्तरोऽथो आदित्यस्यैवावृतमनु पर्यावर्तते । ” इत्युक्त्वा, “ चतसृभिरावर्तते — चत्वारि च्छन्दांसि । छन्दांसि खलु वा अग्नेः प्रिया तनूः प्रियामेवास्य तनुवमभिपर्यावर्तते । ” इत्याद्यामनन्ति । “ सप्त छन्दांसि ऋतुमेकं तन्वन्ती " ( म.भा. ) त्याद्या: स्मृतयश्चैतदर्थपरा द्रष्टव्याः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 48

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 48 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४ छन्दः शास्त्रम् एवं हि भूयांसो याज्ञिकानां यज्ञानुबन्धिनो व्यवहारा एतदेव छन्दोमयमण्डलमनुसृत्य प्रवर्तमानाः सन्तीति तत्र तत्रान्वीक्षितव्यम् ॥ एवमेवादित्यप्राधान्यात् प्रजापतिशब्देन व्यवहारे प्रवर्तमाने मुख्यमादित्यबिम्बं तदुपलक्षितरेखां वोभयतो दश दश रेखा आक्रम्य कृतशरीरस्यैकविंशस्य प्रजापतिपुरुषस्य याम्यसौम्यभेदेन द्वैधे प्रतिपन्ने-‘ “ ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो वृषाग्निः । मिथुनमेवैतत्प्रजननं क्रियते । एवमिव हि मिथुनं क्लृप्तम् । उत्तरतो हि स्त्री पुमांसमतिशेते । ' इति शतपथोक्तयोषावृषन्यायेन सौम्याया अपां दिशो योषात्वं याम्याया अग्निदिशश्च वृषत्वं प्रतिपद्य तत्रांशानुरोधिदशरेखाभिप्रायेण विराट्त्वमाख्यातं दृश्यते श्रुतिस्मृत्यादिषु । तथा च विषुवदहः - संस्थानाभिप्रायेण तावत्— " यथा वै पुरुषः एवं विषुवान् । तस्य यथा दक्षिणोऽर्धः, एवं पूर्वोऽर्धो विषुवतः । यथोत्तरोऽर्धः, एवमुत्तरोऽथ विषुवतः । तस्मादुत्तर इत्याचक्षते । प्रवाहुक् सतः शिर एव विषुवान् । विदलसंहित इव वै पुरुषः । तद्धापि स्यूमेव मध्ये शीष्ण विज्ञायते । ” इत्युक्तमैतरेयके । तैत्तिरीयकेऽपि— “ एकविंश एष भवति । एतेन वै देवा एकविंशेनादित्यमित उत्तमं सुवर्ग लोकमारोहयन् । स वा एष इत एकविंशः । तस्य दशावरस्तादहानि दश परस्तात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् सर्वेषु सुवर्गेषु लोकेष्वभितपन्नेति ’ इत्युक्त्वा, “ देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपातादबिभयुः । तं छन्दोभिरर्दृहन् धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्यावाचोऽवपातादबिभयुः । तं पञ्चमी रश्मिभिरुदवयन् ॥ ” इत्यवमादयो इत्याद्याम्नायते ॥ ' सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृत्वा अत्यतिष्ठद्दशाङ्गुलम् । ‘ ततो विराडजायत विराजोऽधिपुरुषः । स जातोऽत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ' मन्त्रवर्णा अप्यमुमर्थं द्रढयन्ति । स्मर्यते चायमर्थो ‘ द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । मन्वादिभिरपि— अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥ ' इत्यादिना । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 49

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 49 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ४५ तदित्थं तावदंशानां दशकस्य दशकस्यैकैकमक्षरत्वमभिप्रेत्य बृहतीत्वमाख्यातम् । अन्यत्र पुनः ' इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, द्वादश द्वादशाभिता उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती ' इत्येवमाचक्षाणेन पौर्णमास्यष्टकामावास्यानां देवानामेवाक्षरत्वमभिप्रेत्य बृहतीत्वं संसाध्यते । एवं द्वादशाहस्तुतौ-“ तदाहुः — यदन्यानि च्छन्दांसि वर्षीयांसि भूयोऽक्षरतराणि अथ कस्मादेतां बृहतीत्याचक्षते इति । एतया हि देवा इमाँल्लोकानाश्रवत । ते वै दशभिरेवाक्षरैरिमं लोकमाश्रुवत, दशभिरन्तरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिँल्लोके प्रत्यतिष्ठन् । तस्मादेतां बृहतीत्याचक्षते ॥ ” इत्यैतरेयश्रुत्या संवत्सरवलयात्मकबृहतीव्याप्यैकपदा – विराजोऽक्षरत्वमाख्यायते । विराजोऽ भूयस्य: क्लृप्तयो भवन्ति । तैत्तिरीयके तावत्-“ नव प्रयाजा इज्यन्ते नवानुयाजाः, अष्टौ हवींषि, द्वावाधारौ द्वावाज्यभागौ । त्रिंशत्संपद्यन्ते । त्रिंशदक्षरा विराट् । ” इत्येवं प्रयाजादीनामक्षरत्वमाह । मैत्रायणीयकेऽप्येवम्— ' प्राणेभ्यो वै ताः प्रजाः प्राजायन्त । प्राणा वा एतानि नव हवीषि । नव हि प्राणाः । आत्मा देवता । ततः प्रजायते । नव प्रयाजाः, नवानुयाजा:, द्वावाज्यभागौ, अष्टौ हवींषि, अग्नये समवद्यति । वाजिनो यजति । तत्त्रिंशत् । त्रिंशदक्षरा विराट् । विराज्येव प्रतितिष्ठति । विराजो वै योने: प्रजापतिः प्रजा असृजत । विराजो वा एतद्योनेर्यजमानः प्रजायते । त्रिंशत् । त्रिंशद्वै रात्रयो मासः । यो मासः स संवत्सरः । संवत्सरः प्रजापतिः । तत्प्रजापतेश्च वा एतद्विराजश्च योनेर्मिथुनाद् यजमानः प्रजायते--इति प्रयाजादीनामिव त्रिंशद्रात्रीणां विराडक्षरत्वमुच्यते । अथ माध्यन्दिनीयके— ' शूर्पं चाग्निहोत्रहवणीं च, स्फ्यं च कपालानि च, शम्यां च कृष्णाजिनं च, उलूखलमुसले, दृषदुपले । तद्दश, दशाक्षरा विराट् । विराड् वै यज्ञः ।'— इति शूर्पादीनामक्षरत्वमुक्तम् । ऐतरेयके च-यदु गायत्री च, पङ्क्तिश्च - ते द्वे अनुष्टुभौ । यदुष्णिक् च, बृहती च - ते द्वे अनुष्टुभौ । यदु द्विपदा च विंशत्यक्षरा, त्रिष्टुप् च, ते द्वे अनुष्टुभौ । यदु द्विपदा च षोडशाक्षरा, जगती च- -ते द्वे अनुष्टुभौ । ' इत्येवं कृत्वा द्वयोर्द्वयोरनुष्टुप्त्वम् ', तथा अनुष्टुप्पङ्क्तयोरुष्णिक्त्रिष्टुभोर्गायत्रीजगत्योश्च CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA.

पृष्ठ 50

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 50 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ छन्दः शास्त्रम् बृहतीत्वमिति विजातीयच्छन्दोद्वयाक्षराणां सजातीयछन्दोद्वयाक्षरत्वमाख्यायते । तदेतदेवमन्यत्रान्यत्र भूयसा तत्तच्छन्दः स्वरूपनिर्वचनपरतत्तच्छ्रौतवचनपरिशीलनया चत्वारोऽर्था निष्कृष्य सिध्यन्ति-( १ ) छन्दःस्वरूपनिरूपकतयाभिप्रेतस्य यथेष्टसमुदायावयवतां गतस्य यस्य कस्यादि द्रव्यजातस्य गुणजातस्य वा छन्दः परिभाषायामक्षरसंज्ञा - इत्येकः ॥ ( २ ) क — तादृशैश्चाक्षराख्यैर्द्रव्यगुणैश्चतुविंशतिसंख्यापूरणे च सा मर्यादा गायत्री, अष्टाविंशतिसंख्यापूरणे च सा मर्यादा उष्णिगित्येवं चतुरुत्तराणि तानि तानि छन्दांसि वेदितव्यानि । उत्तरोत्तरमेकैकाक्षरवर्धितपादत्वात् ॥ ( २ ) ख- पादप्राधान्येन चाष्टभिरक्षरैः कृता मर्यादा गायत्री, दशभिर्विराट्, एकादशभिस्त्रिष्टुप्, द्वादशभिर्जगतीत्यपीच्छन्तीति - द्वितीयः ॥ ( ३ ) एवं पर्यायतुलितकाख्या शिल्पाद्युपयोगिनी मितिश्छन्द इति – तृतीयः । ( ४ ) मितेरपि न मितित्वेन रूपेण छन्दस्त्वमपि तु तु कारणतापेक्षितस्वरूपविशेषजनकता-वच्छेदकत्वेनेति — चतुर्थः । एतमेव निष्कर्षमनुसृत्य लौकिकाः, वैदिकाः, वाचिकाः, आर्थिकाश्च सर्वे छन्दोव्यवहारा यथायथं प्रवर्तमानाः सन्तीति तत्र तत्रोपेक्ष्यम् || तदित्थमार्थिकेषु छन्दोव्यवहारेषु छन्दः प्रतिष्ठातत्त्वं वैशद्येन प्रदर्शितं भवति ॥ वाचिकेष्वपि छन्दः स्वर्णसामिवाशयसाम्येनार्णानामपि नियतसंख्यावच्छिन्नानां, संवेशोपवेशाभ्यां गायत्र्यादिछन्दोविशेषस्वरूपोपलब्धेस्तत्संवेशोपवेशाधिष्ठानस्य प्रस्तारादिक्रियाभिनेयस्यामूर्तस्य छन्दः प्रतिष्ठात्वमवतिष्ठते । सा च मात्रासंख्याप्रधाना, अक्षरसंख्याप्रधाना, नियतमात्राक्षरस्थानप्रधाना चेति त्रिविधाप्यनिरुक्तपृथग्रूपा गायत्र्यादिशब्दैर्लक्ष्यते 1 । तस्याश्चाक्षराणि धर्माः । अक्षरेषु चेयमनुगतेति कृत्वा तस्याश्छन्दः प्रतिष्ठाया ब्रह्मत्वम् । तस्माच्छन्दस्तत्त्वविज्ञानेन सर्वमिदं विज्ञातं भवतीति विज्ञेयम् । अथान्यः प्रत्यवतिष्ठते-‘ श्रोत्रियश्छन्दोऽधीते ॥ ' पाणिनि सू. ५ । २ । ८४ ॥ ‘ बहुलं छन्दसि ॥ ’ २ । ४ । ३ ९ ॥ इत्येवमादिभिः सूत्रजातेषु, ‘ युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् । ’ ‘ कामात्मऽऽकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नवीत । ' इत्येवमादिभि: स्मृतिजातेषु; ' आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव । ' CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA