छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 51–60
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 51–60
पृष्ठ 51
पाठ पढ़ें पाठ छिपाएँ
भूमिका ४७ इत्येवमादिभिः काव्यजातेषु एवमन्यत्रान्यत्र च वेदविषयतया छन्दः शब्दः प्रयुज्यते । ' अनन्ताश्च वेदाः श्रूयन्ते ' – इत्यनवच्छिन्नत्वेऽवच्छेदत्वानुपपत्त्या सिद्धमतिरिक्तवृत्तिकत्वं छन्दः शब्दस्य - इति चेत् । अत्रोच्यते - पद्यगद्यगेयात्मकैस्त्रिविधैर्वाचिकच्छन्दोभिरेव सर्वस्य वेदस्य छन्दनात्तद्भेदादेव च भेदेन तत्प्रतिपत्तेस्तात्स्थ्यात्ताच्छब्द्यन्यायेन तत्र तदुपचार इष्यते । किं च पृथिव्यादिलोकानामग्न्यादिदेवानां च तत्तच्छन्दश्छन्दितानामेव स्वरूपलाभात् कार्यकारित्वव्यवस्थापनाच्चेह द्यावापृथिवीधर्मनिरूपणे यज्ञवेदे भूयसा छन्दसामाम्रेडनाच्छन्दः प्राधान्याच्छन्दः शब्दोपचार इष्यते । उक्तं च सर्वेषां कार्यजातानामाधारभूतं प्राकृतं छन्दो ब्रह्माख्यम् । तदनुगतधर्मप्रति-पादनपरो ग्रन्थश्छन्द उच्यते इति युक्तम् । सांख्यन्यायवेदान्तादिधर्मप्रतिपादनपरेषु ग्रन्थेषु सांख्यादिशब्दवत् । तथा च गौणवृत्त्या क्वचिदन्यत्र प्रयोगेऽपि मुख्यवृत्त्यावच्छेद एव छन्द इति संसिद्धम् ॥ अथ छन्दोवादः . ननु किमिदं वाक्छन्द इति जिज्ञासायां गतियत्यध्वपरिच्छित्त्यतिरेकेण छन्दः स्वरूपं निरूप्यते तन्नावकल्पते । गतियत्यध्वपरिच्छितिच्छन्दसामनर्थान्तरत्वात् । न च वृत्ति-र्लयो ध्वनिरिति गतेस्त्रयो भेदाः अवसायो विच्छेदो विरतिर्यतिरणुयतिरिति यतेः पञ्च भेदाः, लिप्यध्वपरिच्छित्तिर्गत्यध्वपरिच्छित्तिरित्यध्वयोगस्य द्वौ भेदौ, वर्णच्छन्दो गण-च्छन्दो मात्राच्छन्दश्चेति छन्दसस्त्रयो भेदाः, -इतीत्थमेषां चतुर्णां नितान्तवैषम्यं प्रतिपद्यत इति वाच्यम् । आपाततस्तेषां भेदकल्पनायामपि वस्तुतः स्वरूपानतिरेकात् । तथा हि— गतित्रैविध्ये वृत्तिध्वन्योर्वर्णवेदीयपदार्थत्वाच्छन्दसश्च वर्णोपलक्षितत्वेऽपि वर्णानात्मक-त्वात्तत्र यद्यपि वृत्तिध्वन्योरप्रवेशः प्रतिपद्यते । अथाप्येष लयः खलु यतितारतम्यनिबन्धनो न यतेरतिरिच्यते । अयमेव तु लयो गत्यध्वपरिच्छित्तिशब्दान्तरेणाप्याख्यायते । तयोर्विवेकानुपलम्भात् । मसजसततगेषु हि वर्णैरभिनीयमानेषूच्चारयितुरुच्चारण-सामञ्जस्यमनुभूयते । जसयोः स्थाने तभयो संनिवेशे त्ववश्यमुच्चारणक्लिष्टता भवति । तत्र चायं द्वितीयः सगणोऽष्टम्भी विष्टम्भमजानताप्यभिनीयमानः स्वयमवष्टम्भमुपस्थाप-यति स्वान्ते । तदिदमवष्टम्भित्वं तत्र केन रूपेण-? द्वादशाक्षरत्वेन वा, शार्दूल-विक्रीडितसंबन्धित्वेन वा, तथाविधसत्त्वेन वा गणतुरीयत्वविशिष्टसत्त्वेन वा, मगणोत्तर-त्वविशिष्टसगणोत्तरत्वविशिष्टजगणोत्तरत्वविशिष्टसत्त्वेन वा? । नाद्यः - मरभनयययेषु नगणघटकस्य द्वादशाक्षरत्वेऽप्यवष्टम्भानपेक्षणात् । न द्वितीयः- तत्र मगणजगणादीनां विष्टम्भनिरपेक्षत्वात् । न तृतीयः- तत्रैव द्वितीयसगणस्यानवष्टम्भित्वात् । न तुरीयः-सजससगेषु तुरीयस्यापि तस्य तदनपेक्षणात् । तस्मान्मसजोत्तरसगणघटकत्वेनैव रूपेण CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 52
पाठ पढ़ें पाठ छिपाएँ
४८ छन्दः शास्त्रम् तस्य द्वादशाक्षरस्यावष्टम्भित्वं वाच्यम् । तथा च मस्य सगणाव्यवहितपूर्ववृत्तित्वेनावस्थानं, सस्य मगणोत्तरवृत्तित्वजगणपूर्ववर्तित्वाभ्यां, जस्य च सगणद्वयमध्यवर्तित्वेन । सस्य पुनर्जगणोत्तरवर्तित्वतगणप्राग्वर्तित्वाभ्यां चेत्येवमवस्थानक्रम एवाध्वपरिच्छित्तिः स्यात् । ततः क्रमात्प्रच्यवमानानां तेषामुच्चारणे क्लिष्टतानुभवात् । अथेत्थं पौर्वापर्येणोच्चारण-मेवैषां लयगतिविशेषः स्यात् । निर्दिष्टरीत्या तेनैव रूपेणावष्टम्भसापेक्षत्वात् । अवष्टम्भा-पेक्षाप्रयोजकत्वाप्रयोजकत्वाभ्यामेव च लयगतिप्रत्यवमर्शात् । तदिदं पौर्वापर्यं च मसजसाना प्रत्येकस्य क्रमिकावस्थानलक्षणान्नातिरिच्यते — इति लयगतेरनतिरिक्ताध्वपरिच्छित्तिः । यतश्च मसंजोत्तरसघटकत्वेन यतिमत्त्वं दृश्यते, ततो यतिमत्त्वव्याप्यतया मसजोत्तरसघटकत्वरूपाया लयगतैरध्वपरिच्छित्तेर्वा यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति, अथाप्यवष्टम्भप्रयोजकत्वा-प्रयोजकत्वोपलक्षितपौर्वापर्यस्यैव गतिरूपत्वप्रतिपत्त्या अन्वयव्यतिरेकाभ्यामस्या वष्टम्भस्य गतिस्वरूपसंपादकतया च गतिग्रहणे तद्ग्रहणसंभवः । तस्मादासां गतियतिपरिच्छित्तीनां नैकान्ततोऽर्थान्तरत्वमुपलभामहे - इति सिद्धमासामैकार्थ्यम् ॥ एवमेवावष्टम्भप्रयोजक-त्वाप्रयोजकत्वोपलक्षितपौर्वापर्येणावस्थितानां मसजादिगणानामेव छन्दस्त्वादस्य छन्दसो यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति अथापि स राजा संवृत्तः ' ' स पाचको जातः ‘ स नेदानीं कुण्डली न दण्डी ' इत्यादिषु विधिनिषेधयोर्विशेष्यव्यपदिष्टयोरपि विशेषणमात्रविश्रान्ति-वदिहापि लाघवान्मसजादिगणसमवेतस्य तत्पौर्वापर्यस्यैव छन्दस्त्वसिध्द्या छन्दसो गतियतिपरिच्छित्त्यनतिरिक्तत्वं फलतीत्यलं छन्दसोऽर्थान्तरत्वपरिष्कारेण; इति चेद्— अत्रोच्यते — मसजोत्तरसगणचरमावयवोत्तरत्वावच्छेदेन ततगाव्यवहितपूर्वत्वावच्छेदेन च वर्तमानोऽयमवष्टम्भस्तावन्न गतिर्न चाध्वपरिच्छित्तिर्न वा छन्दः; गत्यादीनामवष्टम्भवद्देशविशेषे नियतत्वाभावात् ॥ १ ॥ अथ गतिस्तावन्नावष्टम्भः । अवष्टम्भप्रयोजकत्वोपलक्षितपौर्वापर्यस्य
गतिरूपतया तस्य गतिरूपसंपादकत्वेऽपि तत्त्वासंभवात् ॥ न चाध्वपरिच्छित्ति:, गतेर्हि स्वमार्गात् प्रच्यवमानायाः क्लिष्टत्वं कुरूपत्वमनुभूयते । यतश्च तस्याः सौकर्यं सौन्दर्यं वा सिध्यति, साध्वपरिच्छित्तिरिति गत्यवयवसंनिवेशविशेषरूपायास्तस्या गतित्वासंभवात् । यथा स्थूलत्वकृशत्वसाम्येनानुच्चावचशीर्षपादादिसाम्येन, दिक्साम्येन च वर्णादिलिपीनां सौन्दर्यं वचनसौकर्यं चानुभूयते, तदभावेन च बालकादिलिपीनां कुरूपत्वं वाचनक्लिष्टत्वं च । तथा च तत्र लिप्यध्वपरिच्छित्तेर्लिप्यतिरिक्तत्ववदिहापि गत्यध्वपरिच्छित्तेर्गत्यतिरिक्तत्वं सुवचमिति द्रष्टव्यम् ॥ न वा छन्दः - विलक्षणगणपौर्वापर्यनिबन्धनायां गतौ मात्रा-व्यवस्थानिबन्धनच्छन्दस्त्वासंभवात् ॥ २ ॥ अथेयमध्वपरिच्छित्तिर्नावष्टम्भो न वा गतिः ।
विशेषस्य संसाधितत्वात् । न वा छन्दः - गत्यवयवसंनिवेशविशेषरूपायामध्वपरिच्छित्तौ मात्राव्यवस्थानिबन्धनच्छन्दस्त्वस्याप्यसंप्राप्तेः ॥ ३ ॥ अत एव चेदं छन्दो गतियति-परिच्छित्तिभ्योऽतिरिच्य प्रतिपद्यते — इतीत्थमेषामर्थान्तरत्वं संसिद्धम् ॥ अत एव ‘ न वृत्तदोषात्
पृथग् यतिदोषो वृत्तस्य यत्यात्मकत्वा’दिति पूर्वपक्षीकृत्य –‘न लक्षणस्य पृथक्त्वादिति ’ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 53
पाठ पढ़ें पाठ छिपाएँ
भूमिका ४ ९ समाहितं वामनेन काव्यालङ्कारसूत्रेषु । यत्तु केचित् अन्येषामर्थान्तरत्वेऽपि छन्दोगत्यो-रैकार्थ्यमेवाभ्युपगच्छन्ति, तदसत् । गतेश्छन्दोधर्मिकत्वसंभवेऽपि छन्दस्त्वासंभवादि-त्यलम् ॥ इति छन्दसोऽर्थान्तरतावादः । 3 अथ छन्दोविभक्तिवादः अथेदं छन्दः पञ्चधा — अनादिष्टच्छन्दः, बृहच्छन्दः, अतिच्छन्दः, कृतिच्छन्दः, प्रचितिच्छन्दश्चेति भेदात् । तत्र पञ्चानादिष्टच्छन्दांसि – उक्तमत्युक्तं मध्यं प्रतिष्ठा सुप्रतिष्ठा चेति । अथ सप्त बृहच्छन्दांसि - गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्क्तिः, त्रिष्टुप्, जगती चेति । तथा सप्तातिच्छन्दांसि - अतिजगती, शक्वरी, अतिशक्वरी, अष्टिः, अत्यष्टिः, धृतिः, अतिधृतिरिति । एवं सप्तैव कृतिच्छन्दांसि - कृतिः, प्रकृतिः, आकृति:, विकृतिः, संकृतिः, अभिकृतिः, उत्कृतिश्चेति भेदात् । अथात ऊर्ध्व प्रचितिच्छन्दस्तत्र संख्यायते । नन्वेतद्बृहच्छन्दोऽभिप्रायेण सप्तैव छन्दांसि भवन्तीति भूयसा श्रूयते, तत्कथमेतावान् प्रपञ्चश्छन्दसामाख्यायते? उच्यते— षोडशीप्रक्रमे— ' छन्दसां यो रसोऽत्यक्षरत्, सोऽतिच्छन्दसमभ्यक्षरत् । तदतिच्छन्दसोऽतिच्छन्दस्त्वम् । सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत् षोडशी ' इत्याम्नायते । तत्र छन्दसां रसश्चतुरक्षरूपः । ' चतुरक्षराव छन्दांस्यासन् । ' इति छन्दोव्यूहनश्रुत्युक्तेः । तथा हि- छन्दोव्यूहने तावत् चतुरक्षरा गायत्री त्रिष्टुब् जगती च । तत्र जगत्यास्त्रीण्यक्षराणि, त्रिष्टुभ एकमक्षरं च समादाय गायत्री तावदष्टाक्षरा क्रियते । इत्थं कृते अष्टाक्षरा गायत्री, त्र्यक्षरा त्रिष्टुप् एकाक्षरा जगती सिद्धा । अथैवंरूपा गायत्री स्वयं संयुज्य त्रिष्टुभ संपादयति सा त्रिष्टुबेकादशाक्षरा संपद्यते । एवं संपन्ना च त्रिष्टुप् स्वयं संयुज्य जगती संपादयति सा जगती द्वादशाक्षरा संपद्यते । गायत्री, त्रिष्टुप्, जगती चेति त्रीण्येव छन्दांसि सर्वाणि छन्दांसि भवन्ति गायत्र्युष्णिगनुष्टुब्बृहती-पङ्क्तित्रिष्टुब्जगत्याख्यानि । तत्रानुष्टुप्पङ्क्ती, उष्णिस्त्रिष्टुभौ, गायत्रीजगत्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे बृहत्यौ संपादयत — इत्येतेषां बृहतीरूपतया बृहच्छन्दः शब्देनाख्यानम् । तथा च श्रूयते - ' बृहती वै छन्दसां स्वाराज्यमानशे ' इति । तदित्थं छन्दः सिद्धौ तस्यैव चतुरक्षररूपस्य रसस्य जगत्यामत्याधाने षोडशाक्षरं भवति । तदत्याधानादतिच्छन्दं इत्युच्यते । अथ पञ्चदशीसप्तदश्यौ, चतुर्दश्यष्टादश्यौ, त्रयोदश्यूनविंश्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे षोडश्यौ संपादयत— इत्येतेषामतिच्छन्दोरूपतया अतिच्छन्दः शब्देनाख्यानम् । एवमूनविंशत्युत्तरं पुनश्चतुरक्षराधाने त्रयोविंशत्यक्षरं भवति । तत्र कृतिशब्दः । तत्क्रियोत्तरं तज्जातीय-क्रियान्तरसंनियोगे कृतिशब्दो दृष्टो वर्गवत् । तथा चेहापि द्वाविंशीचतुविश्यौ, एकविंशी-पञ्चविंश्यौ, विंशीषड्विंश्यौ चेत्येवं द्वे द्वे संयुज्य द्वे द्वे त्रयोविंश्यौ संपादयत इति भू ० छठशा K Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 54
पाठ पढ़ें पाठ छिपाएँ
५० छन्दः शास्त्रम् कृतिच्छन्दोरूपतया कृतिच्छन्दः शब्देनाख्यायन्ते । तदित्थं सति कृतिच्छन्दसामति-धृतावतिच्छन्दसां च जगत्यामन्तर्भावः सुवचः । प्रचितिच्छन्दांसि तु छन्दः समुच्चयरूपाणीति नातिरिच्यन्ते । अथानादिष्टच्छन्दसां गायत्र्यामन्तर्भावः । भुरिग्दैव्यां चतुरक्षरवृद्ध्या याजुष्याः, तत्र स्वराजि चतुरक्षरवृद्ध्या साम्न्याः, तत्र स्वराजि चतुरक्षवृद्ध्या आर्च्याः, तत्र स्वराजि चतुरक्षवृद्ध्या आर्ष्याः स्वरूपाधानात । तदुक्तम्— ‘ उक्तादिपञ्चकं कैश्चिद्गायत्रीत्येव कथ्यते । यथा ह्यतिजगत्यादि त्वतिच्छन्दः प्रवर्ण्यते ॥ ' इति । तथा चातिजगत्यादीनां जगत्याम्, उक्तादीनां तु गायत्र्यामन्तर्भावसंभवात् सप्तैव छन्दांसीति याज्ञिकानामभिमानः । तदिदं छन्दः पुनर्द्वैधा – मात्राछन्दो वृत्तच्छन्दश्च । तत्र मात्राछन्दांस्युक्तानि गायत्र्यादीनि सप्तैव । तानि जातिभेदेन पृथग् व्यपदिश्यन्ते । अथ मात्राछन्दसां गायत्र्यादीनामेकैकाऽवान्तरविशेषा वृत्तच्छन्दांसि । तानि वृत्तिभेदेन पृथग् व्यपदिश्यन्ते । यथा मनुष्यविभाजिकाश्चतस्रो ब्राह्मणाऽऽदिजातयः, ब्राह्मणादिविभाजिकास्तु तत्तद्ब्राह्मणादिगता अवान्तरविशेषरूपा वृत्तय इत्येवमाद्यूह्यमिति याज्ञिकानां प्राचामनुसारेण व्याख्यातम् । नव्यास्तु छान्दसिकाः पुनरन्यथान्यथा विभज्य व्याचक्षते । ( १ ) तत्र पद्यजातं द्वेधा — वृत्तं जातिश्च । यत्र नियतवर्णव्यवस्थया छन्दः सिद्धिस्तदृतम् । यत्र तु नियतमात्राव्यवस्थया छन्दः सिद्धिः सा जातिः । तथा चाह नारायणः-' पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ ' हलायुधोऽप्याह— ' पद्यं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा । एकदेशस्थिता जातिर्वृतं लघुगुरुस्थितम् ॥ ' ( २ ) परे तु वृत्तिर्जातिरिति द्वेधा विभज्य तयोरुभयोरेव वृत्तशब्देन छन्दः शब्देन च सामान्यतो व्यपदेशमिच्छन्ति । वर्णवृत्तं वर्णच्छन्दः, मात्रावृत्तं मात्राच्छन्द इति । तथा चैषां मते छन्दोवृत्तशब्दयोः पर्यायवाचित्वम् । ( ३ ) छन्दःपरिमलकारस्तु तयोः पर्यायार्थत्वं प्रत्याख्याय - ‘ वाक् छन्दः, गलसमवेतस्वरूपेण नियता वाग् वृत्तम् । ' इत्येवं तन्मते-' उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका गायत्र्युष्णिगनुष्टुप् च बृहतीपङ्क्तित्रिष्टुभः जगती चातिजगती शक्वरी चातिशक्वरी मात्राक्षरसंख्यया नियता व्यवस्थापयति तथा च ॥॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 55
पाठ पढ़ें पाठ छिपाएँ
भूमिका ५१ अष्ट्यत्यष्टी धृतिः सातिः कृतिः प्रकृतिराकृतिः ॥
विकृतिः संकृतिश्चातिकृतिरुत्कृतिदण्डकाः ।
एतानि वर्णच्छन्दांसि तद्भेदानां तु वृत्तता ॥
एवमेव णढादीनां मात्राच्छन्दस्त्वमिष्यते । तदवान्तरभेदानां जातित्वमिति सिध्यति ॥ ' ( ४ ) अपरे तु पुनरन्यथा विभज्य व्याचक्षते । तथा हि - पद्यच्छन्दस्तावत्रेधा-वैदिकं च, लौकिकं च, उभयसाधारणं च । तत्र लौकिकं पुनस्त्रेधा - गणच्छन्दः, मात्रा-च्छन्दः, अक्षरछन्दश्चेति । तथा चोक्तम्—
‘ आदौ तावद्गणच्छन्दो मात्राच्छन्दस्ततः परम् ।
तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ॥
आर्याद्युद्गीतिपर्यन्तं गणच्छन्दः समीरितम् ।
मात्राच्छन्दश्चलिकान्तमौपच्छन्दसिकादिकम् ॥
समान्याद्युत्कृति यावदक्षरच्छन्द एव च ॥ ' इति । ( ५ ) परे तु पद्यच्छन्दश्चतुर्धा – अक्षरछन्दः, मात्राछन्दः, अक्षरगणच्छन्दः मात्रागणच्छन्दश्चेति भेदात् । यत्र मात्राणां न्यूनातिरेकेऽप्यक्षरसंख्यानं तन्त्रं तदक्षरच्छन्दः । यथा वेदे बहुलं प्रयुक्तं गायत्रीत्रिष्टुब्जगत्यादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासंख्यानं तन्त्रं तन्मात्राछन्दः — यथौपच्छन्दसिकवैतालीयादिकम् । यत्र पुनरक्षरगणानां क्रमसंनि-विष्टानां व्यवस्थया स्वरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थानानां च नियतत्वादक्षरगणच्छ-दस्त्वेन व्यवहारः । यथेन्द्रवज्रास्रग्धरावसन्ततिलकामन्दाक्रान्तादि, अथ यत्र मात्रागणानां क्रमसंनिविष्टानां व्यवस्थया छन्दः सिद्धिस्तत्राक्षरनियमाभावान्मात्रागणच्छन्दस्त्वेन व्यवहारः । यथा आर्यादोहाकुण्डलिकादि - इत्येवं पश्यन्ति । अर्थजातेष्वप्याकाशवाय्वादिष्वेषामेव चतुर्णां छन्दसां भेदान्नानाविध्यम् । अत एवैक एव भावो द्रव्यगुणकर्मरूपैस्तेजोऽबन्नरूपै-स्तदवान्तरानेकरूपैर्वा भेदेन समुत्पद्य नानात्वं प्रतिपद्यते । तदेतदेषां विभिन्नछन्दस्कानामर्थ-जातानां छन्दोनिबन्धन एवातिरेक इति यज्ञ स्वरूपनिरूपणप्रकरणे वेदसमीक्षायां वैशद्येन प्रदर्शितम् ॥ तदित्थं कंचिद्विशेषमाश्रित्य त्रेधा चतुर्धा वा विभक्तानामप्येषां मात्रागणव्यवस्थानि-बन्धनेषु गणवृत्तेषु वर्णव्यवस्थासामान्याद्वर्णवृत्तानतिरेकं पश्यन्ति दीर्घदर्शिनः । तथा च सिद्धम् — वृत्तशब्देन व्यपदेश्यं वर्णवृत्तमेकम्, जातिशब्देन व्यपदेश्यं तु मात्रावृत्तमपरमितीत्थं द्वेधा पद्यच्छन्दो भवतीति ॥ तत्र यद्यपि मात्रानियताक्षरव्यूह एव छन्द इत्युच्यते — यद्यपि च मात्राप्रस्तारस्वरूपाणां वर्णप्रस्तारेषु वर्णप्रस्तारस्वरूपाणां च मात्राप्रस्तारेषु यथायथमन्तर्भावो दृश्यते अत एव तु CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 56
पाठ पढ़ें पाठ छिपाएँ
५२ छन्दः शास्त्रम् द्वासप्ततिमात्राप्रस्तारस्वरूपविशेषात्मिकाया अष्टादशमात्राप्रस्तारस्वरूपविशेषात्मिकाया वेन्द्रवज्राया मात्रावृत्तत्वमनभ्युपग्य यथा वर्णवृत्ततयाभ्युपपत्तिर्दृश्यते, न तथा ' खिं खिं खिं खागः प्रमोदा ' इति लक्षिताया: प्रमोदाया:, ' डुजं डुजं डुजं डुकः प्रमदा ' इति लक्षित-प्रमदाजातिबहिर्भावेनाभ्युपगमः क्रियते । ततो वर्णवृत्तमात्रावृत्तेरितिभेदकरणमापाततो निर्मूलं प्रतिभाति; –अथापि पिण्डापेक्षोपेक्षानियमद्वैविध्याद् वर्णवृत्तत्वमात्रावृत्तत्वाभ्यां विभज्य तद्व्याख्यायते । तस्य चैतस्याक्षरव्यूहस्य यथेच्छं विवक्षितत्वेनानेकधात्वाद्बहवश्छन्दः प्रकाराः प्रचरन्ति । तथाहि — प्रस्तारप्रतिपन्नानां स्वरूपाणां मध्ये यानि यानि गतिसंपन्नानि स्युस्तानि क्वचिदेकैकान्येव प्रयुक्तानि छन्दांसि भवन्ति । क्वचित्तु सजातीयानां विजातीयानां वा तेषां द्वयेन त्रयेण चतुष्टयेन पञ्चकेन षट्कादिना वा यथेच्छं कृतेन गतिसम्पन्नेन तत्र तत्र छन्दोव्यवहारः । तदुक्तं भगवता पिङ्गलेनापि ' एकद्वित्रिचतुष्पादुक्तपादम् ' इति । शाङ्खायनोऽप्याह — ‘ पञ्च पङ्क्तेः, षट् सप्तेत्यतिच्छन्दसाम् ' इति । अत एव - ' आयाहि मनसा सह ' इति ( ऋक् १०/१७२/१ ), – द्विपदा शंसती त्यैतरेयब्राह्मणे ( ५।१७ । १० ) । आयाहि मनसा सह ' ( १०।१७२।१ ) ' इमानुकं ' ( १०।१५७ | १ ) ' बभ्रुरेकः ' ( ८।२ ९ ।१ ) —इति द्विपदासूक्तानीत्याश्वलायनसूत्रे ( ८।७।२४ ); ' आयाहि संवत उषस्य द्वैपदमिति — सर्वानुक्रमण्यां च द्विपदात्वेन व्यवस्थिताया अपि ' पितुभृतो ने ' त्यस्याः ( १०।१७२।३ ) ऋचश्चतुष्पात्संस्तारपङ्क्तयुदाहरणत्वमाख्यातं वेदार्थदीपिकायाम् । ' द्वादशाक्षरयोर्मध्ये पादावष्टाक्षरौ यदि । यस्याः संस्तारपङ्क्तिः स्यात् पितुभृतो न तन्तुमित् ॥ ' इति । ‘ द्विर्दिपदास्त्वृचः समामनन्तीति ' ( सर्वानु ) सूत्रयता भगवता कात्यायनेनापि द्विपदात्वेनाभिप्रेतानां सर्वासामेव ऋचां शंसनकाले ताभ्यां द्वाभ्यामेव पादाभ्यां छन्दः-पूर्तिः, अथाध्ययनकाले तु द्वयोर्द्विपदयोश्चतुर्भिः पादैश्छन्दःपूर्तिरभिप्रेयते । तेन यासां शंसने दशर्चत्वं, तासामेवाध्ययने पुनः पञ्चर्चत्वमिति सुप्रसिद्धं याज्ञिकानाम् । एवं षड्भिर्गायत्रै-र्जगतीकारतया एकमेव महापङ्क्तिच्छन्द इष्यते, न तु गायत्रीद्वयसमुच्चयः । आनुष्टुभे प्रगाथे तु दशभिर्गायत्रैरनुष्टुभो गायत्रीद्वयस्य च समुच्चयेन तृचः प्रगाथ इष्यते न त्वेवैकं छन्दो नवानुष्टुब्महापङ्क्तिसमुच्चय इत्यप्यवधेयम् ॥ अथापि च यत्रैवं द्वयोस्त्रयाणां चतुर्णां वाधिकानां वा समुच्चयस्तत्र द्विपात्, त्रिपात्, चतुष्पादित्येवं पादव्यवस्थामिच्छन्ति । सेयं पादव्यवस्थापि नूनं विवक्षाधीनैव । उत्तरोत्तरप्रस्तारस्वरूपे पूर्वपूर्वप्रस्तारस्वरूपाणा-मन्तर्भावाच्चतुष्पद्यामेकपात्त्वस्य, एकपद्यां चतुष्पात्त्वस्य च वक्तुं शक्यत्वात् । यथा द्वाभ्यां पङ्क्तिभ्यामेका चम्पकमाला भवति, यथा वा प्रमाणिकाध्यर्धेन पञ्चचामरम्, प्रमाणिकाद्वैगुण्येन गीतिका च जायते । इत्थमन्यदपि द्रष्टव्यम् । अत एव -CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 57
पाठ पढ़ें पाठ छिपाएँ
भूमिका ५३
सुरशुभवाके नहि गुणदोषौ जगुरिति केचिन्न च पुनरन्ये ।
शुभमशुभं यत्फलमिदमुक्तं नृपवर युक्तं प्रथमगणे तत् ॥
इत्यत्र यदि विवक्ष्यते — द्वौ श्लोकौ संभवतः । यद्वा विवक्ष्यते — एक एव श्लोकः स्यात् । अथ विवक्ष्यते - श्लोकार्धमेवेदं संभवतीति पश्यन्ति ॥ अथ यतश्चैकपादपि छन्दो भवति, तस्मान्न पादसिद्धिश्छन्दः सिद्धौ विशिष्योपयु-ज्यते, किंत्ववच्छेदसिद्ध्यैव छन्दः स्वरूपसिद्धिर्भवतीति विज्ञेयम् । यस्य कस्याप्यर्थस्य शब्दस्य वा यथाकथंचित्क्रियमाणोऽवच्छेद एव तदर्थस्य शब्दस्य वा छन्दः । सर्वोऽप्यर्थः स्वच्छन्दसावच्छिन्नो भवति । यत्तु — विच्छित्तिविशेषोऽप्यत्रान्यदान्तरं छन्दः शिल्पा-परपर्यायमाख्यायते, ‘ शिल्पं छन्द ' इति श्रुतेः । तदप्यवच्छेदरूपत्वादेव । यदि ह्ययमवच्छेदो नाम धर्मो जगति न स्यात्तर्हि जगदेवेदं न स्यात्, जगदन्तर्गतं वा यत्किंचित् । एकमेव हीदं सत्यं ब्रह्म तदवच्छेदमाहात्म्यादनेकधात्वेन प्रतिपद्यमानं जगद्भवति, तदन्तर्गतं वा यत्किंचित् । ऊरूदरोरोग्रीवाशिरोहस्तपादाद्यवच्छेदान्मनुष्यवत् । यथा ह्येकस्मिन् श्वेतपत्रे शिल्पिकृतानेकभङ्गिरेखावच्छेदमाहात्म्याद् गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रा-दुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते श्वेतपत्रादतिरिच्यन्ते । एवमेवैकस्मिन् सत्ये ब्रह्मणि विश्वकर्मकृतानेकभङ्गिरेखावच्छेदमाहात्म्यादेव गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते सत्याद्ब्रह्मणोऽतिरिच्यन्ते । तथा च भगवान् कणादः ( वै.द. १।२।७, १७ ) — ‘ सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । सदिति लिङ्गविशेषाद् ' विशेषलिङ्गाभावाच्चैको भावः ' इत्येवमाद्याख्यायैकस्मादेव भावात् सत्तापदप्रतिपन्नाद्ब्रह्मणश्छन्दोभेदेन सर्वेषां द्रव्यादीनामुत्पत्तिमभिप्रैति । तथाहि — एकः कश्चित्सत्तापरपर्यायो भावः प्रतीतिसिद्धः । स धर्माणां तारतम्येनावापोद्वापाभ्यामन्यथान्यथा स्वरूपं गमितोऽन्यथान्यथा पदार्थो भवति । धर्मस्त्वस्य द्रव्यगुणकर्मभेदात्त्रेधा - द्रव्याणि पुनर्नवधा, गुणास्तु सप्तदशधा, कर्म पञ्चधा । तेषामेषां द्रव्यगुणकर्मणां सामान्यविशेषाभ्यां जात्याकृतिव्यक्तिपदप्रतिपन्नाभ्यां ये समवायास्त एव पदार्थाः । यथा घट इति केषांचिद्रव्यगुण कर्मणां सामान्यविशेषाभ्यामेकः समवाय इत्येकः पदार्थो भवति । एकस्मिन्नेव घटभावे कतिचिद्रव्यगुणकर्माणि समवयन्ति । न च तेषां त्रयाणां सत्तात्रयी । अत एव न द्रव्यगुणकर्माणीति त्रयः पदार्थाः, अपि तु द्रव्यगुणकर्मा-ण्येकः पदार्थः । अनन्ताश्चैवं पदार्थाः । तेषां च सत्तैकत्वनिबन्धनं पदार्थकत्वम् । द्रव्यगुण-कर्मणां तु समवेतानामेकैव सत्ता । यथा हि यावत्पृथिव्यामेकस्या एव सत्तायाः प्रतीताव-प्यवान्तरा घटपटादिषु मिथः सत्ता विभिद्यन्ते, नैवं द्रव्यगुणकर्मणामेकस्यां सत्तायां पुनरवान्तरा द्रव्यादिसत्ता पार्थक्येन प्रतिपद्यन्ते । यथा तु घटपटादिषु पृथिवीत्वं न भिद्यते, पृथिव्यादिषु वा द्रव्यत्वं न भिद्यते; तथैव पुनर्द्रव्यादिषु सत्त्वं न भिद्यते । पृथिवीत्वं पृथिवीति प्रत्ययः । द्रव्यत्वं द्रव्यमिति प्रत्ययः । सत्त्वं सदिति प्रत्ययः । सत्त्वं सत्ता भाव इत्येकार्थाः । तदित्थं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 58
पाठ पढ़ें पाठ छिपाएँ
५४ छन्दः शास्त्रम् सद्भाव - द्रव्यभाव - पृथिवीभाव घटादिभावानां विभिद्य प्रतीतानामानन्त्येऽपि संक्षिप्य स भावस्त्रेधा प्रतिपद्यते — कश्चित्सामान्यमेव, कश्चिद्विशेष एव कश्चित्तु सामान्यविशेषात्मकः । यो नित्यं सामान्यमेव, स सत्तानामैको नित्यो भावः । तस्यैकत्वादेवायमेकः पदार्थः संसारो नाम । यो नित्यं विशेष एव तस्यानेकत्वादेवैतेऽनन्ता नित्यपरमाणुपदार्था इतश्चेतश्च दृश्यन्ते न संख्यातुं शक्यन्ते । यस्तु सामान्यविशेषात्मको भावस्तदनुरोधेनैवैते घटत्वपृथिवीत्वद्रव्य-त्वादिभिः सामान्यतो विशेषतश्च गृहीताः सर्व एतेऽनित्याः पदार्था व्यपदिश्यन्ते । एवं ह्येताभ्यां भातिसिद्धाभ्यां सामान्यविशेषाभ्यां यथेच्छं विनियुक्ताभ्यां सर्वेषामेषां सत्तासिद्धानां द्रव्यगुणकर्मणां समवायोऽनेकत्वेनैकत्वेन च यथेच्छं नियम्यते । यथा गृहमित्येको भाव:, अङ्गणकुड्यस्तम्भपटलद्वारकपाटादयो वा नेके भावाः । एवमेकत्वानेकत्वयोरेकत्र द्रव्यगुणकर्मणां समवाये समन्वयादनन्ता एते भावाः पुरुषाख्याः, एक एव वायं भावः पुरुषाख्य इति शक्यते द्वैविध्येनापि व्यवहर्तुम् । स हि खल्वेकः पुरुधा भवति । अत एवामनन्ति — ' इन्द्रो मायाभिः पुरुरूप ईयते । तमेकं सन्तं बहुधा वदन्ति । पुरुष एवेदं सर्वम् । सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम् ' इत्यादि । तत्र यथायं पुरुषापरपर्याय एक केवलसामान्यभावो भातिसिद्धिस्तथा सामान्यविशेषभावा नित्यविशेषभावाश्च सर्वेऽपि भाति-सिद्धा एव । जात्याकृतिव्यक्तिसमवायात्मकानां घटपटादिपदार्थानां सत्तासिद्धत्वेऽपि सत्तायाः सत्तासिद्धत्वासंभवात् । एकस्मिन् सामान्ये सामान्यविशेषभेदा नित्यविशेषभेदाश्च भाति-सिद्धा एव संभवन्ति । एतदभिप्रेत्यैव सूत्रयति - ' सामान्यं विशेष इति बुद्ध्यपेक्षम् ' ( वै. द. १।२।३ ) इति । तथा च यदि सत्ता भातिसिद्धा तर्हि सत्तासिद्धा अपि सर्वेऽन्ततो भातिसिद्धा एवेति सिद्धं सर्वस्यास्य जगतो विज्ञानरूपत्वम् । विज्ञानं हि ब्रह्मशब्देनाख्यायते । तदुपासको हि ब्राह्मणो भवति । स विजानीयात् — विज्ञानमेव सामान्यविशेषाभ्यामवच्छेदाभ्यां विवर्त्य तदवच्छेदमाहात्म्यादेव सर्वं जगदुद्भावयति ॥ तथा चैत एवावच्छेदास्तत्तदवच्छेदावच्छिन्नानां खण्डानां स्वस्वच्छन्दांसि भवन्ति । स्वस्वच्छन्दःसंपत्त्यैव च तदर्थस्वरूपसंपत्तिर्दृश्यते । यदि हि गोस्वरूपावच्छेदरूपाया रेखायाः किंचिद्विहन्यते, तावतैवावश्यं गौः स्वरूपाद् विहन्यते । तदवच्छेदाच्छादितस्य तु गोः स्वरूपादप्रच्यवो भवति । तदिदमेवास्य छन्दसः स्वरूपाच्छादकत्वं स्वरूपरक्षकत्वं च वेदे महर्षयः समामनन्ति । अथैतदवच्छेदोपाधिभूतास्तु तत्तत्खण्डस्यावान्तरखण्डा अक्षरशब्देनाख्यायन्ते । अत एवाक्षरव्यूहश्छन्द इति पर्यायेण वदन्ति । यथा संवत्सरच्छन्दस्त्वनिर्वाहकाणि द्वादशाक्षराणि मासाः, मासच्छन्दस्त्वनिर्वाहकाणि त्रिंशदक्षराणि दिनानि, संवत्सरस्य गायत्रीत्वे पक्षाश्चतुविंशतिरक्षराणीत्येवमनेकत्र शतपथादिब्राह्मणेषु प्रपञ्चितम् । तदित्थं यथैवार्थतः खल्वाकाशश्छन्दः, वायुश्छन्दः, तेजश्छन्दः, आपश्छन्दः, पृथ्वी च्छन्दः; एवमेव शब्दतोऽपि वर्णश्छन्दः, अक्षरं छन्दः, पदं छन्दः, वाक्यं छन्दः, प्रकरणं छन्दः, इत्येवमेषां सर्वेषामेव CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 59
पाठ पढ़ें पाठ छिपाएँ
भूमिका ५५ छन्दस्त्वं संप्रतिपन्नम् । एवं हि खल्ववच्छेदावच्छिन्नत्वसामान्यात् सर्वेषामविशेषेण छन्दस्त्वेऽभ्युपगम्यमानेऽपि तदवच्छेदज्ञानौपयिकतया नूनमक्षरव्यवस्थानिबन्धनमेव छन्दोव्यवहारमिच्छन्ति छान्दसिकाः । अक्षरं चेह मात्रानियतं भवति । परमाणुत्रसरेणुवदेक-मात्रिकत्वाद्विमात्रिकत्वाभ्यामक्षरमपि द्वेधैव भवति । तथा च मात्रानियताक्षरव्यूह एव, च्छन्दोऽवच्छेद एव वा छन्द इति संसिद्धम् ॥ इति च्छन्दोविभक्तिवादः । 13480 अथ वैदिकान्यत्ववादः ननु — वैदिकलौकिकभेदाच्छन्दसां द्वैविध्यमुपदिशन्ति । तत्र न ज्ञायते किंनिमि-तोऽयमतिरेकः? इति । वेदे तावत् सप्त छन्दांसि सप्तातिच्छन्दांसि, सप्त कृतिच्छन्दांसि चोपदिश्यन्ते, तान्येव पुनर्लौकिका अप्युपजीवन्ति । यद्यपि प्राकृतपिङ्गलोक्तविधया मात्रा-च्छन्दांसि वेदे नोपदिश्यन्त इति सिद्धमेषां लौकिकत्वम् अथापि वेदोपदिष्टानां लोकेऽप्यनुवर्तनाल्लोकातिरेकेण वैदिकं न पश्यामः । उच्यते — त्रिविधः खल्वपि छन्दोविभागः प्रयोगभेदात् प्रतिपाद्यते - मात्राच्छन्दः, अक्षरच्छन्दः क्रमच्छन्दश्चेति । यत्र मात्रासमष्टिसंख्या न च्यवते, अथाक्षरसंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्र मात्राणां प्रगृह्यतया मात्राच्छन्दोव्य-वहारः । यथौपच्छन्दसिकादिषु, यथा वा शिखामालादिषु । अथ यत्राक्षरसमष्टिसंख्या न च्यवते, मात्रासंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्राक्षराणां प्रगृह्यतयाऽक्षरच्छन्दोव्यवहारः यथा न्यङ्कुसारिणीविष्टारबृहतीविष्टारपङ्क्त्यादिषु । एवं यत्र क्रमस्यैव प्रगृह्यतया गुरुलघुसंनिवेशो नियतपौर्वापर्यकस्तत्र सर्वेष्वेव पर्यायेषु नाक्षरसंख्या च्यवते, नापि वा मात्रासंख्या । तस्यैतस्य क्रमच्छन्दस्त्वं भवति, यथा सिंहोद्धतामन्दा-क्रान्ताशार्दूलविक्रीडितादिषु ` । तदित्थं भूयसातिरेकेण सिद्धेऽपि त्रैविध्ये मात्राच्छन्दोभि-वैदिकव्यवहारादर्शनाल्लोके च भूयसा व्यवहारात्तेषां लौकिकत्वोपचारः । अक्षरच्छन्दोभिश्च लौकिकानामनुपचाराद्यज्ञे वेदे चानुपदं प्रतिस्विकभावेन तदुपयोगात्तेषां वैदिकत्वोपचारः । अथ क्रमच्छन्दसां नियतस्थानावस्थितगुरुलघ्वक्षरनिबन्धनतया अक्षरच्छन्दस्त्वानतिरेका-ल्लोके तथैव चिरादुपचाराच्च वैदिकसाधर्म्याद्वैदिकत्वम्, अथ मात्राच्छन्दोवल्लोकमात्रे तत्प्रयोगदर्शनाल्लौकिकसाधर्म्याल्लौकिकत्वम्, – इत्येवमेषामुभयसाधारणत्वं पश्यन्ति समीक्षादक्षाः । अत एव पिङ्गलादिप्रोक्तेषु छन्दोविचित्यादिग्रन्थेषु वैदिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धवैदिकच्छन्दोऽनुशासनानन्तरम्; अथार्वाचीनप्रोक्तेषु छन्दोभाषाप्राकृतपैङ्गलादि-ग्रन्थेषु लौकिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धलौकिकच्छन्दोऽनुशासनानन्तरमुभयत्रापि क्रमच्छन्दसामनुविधानमुपलभ्यत इति द्रष्टव्यम् । [ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 60
पाठ पढ़ें पाठ छिपाएँ
५६ छन्दः शास्त्रम् यद्यप्यत्र मात्राच्छन्दांस्यौपच्छन्दसिकादीनि मात्रागणच्छन्दांस्यार्यादीनि, अक्षरच्छन्दांसि न्यङ्कुसारिण्यादीनि, तथाक्षरगणच्छन्दांसि सिंहोद्धतादीनि इत्येवं चतुर्धा विभाजयितुमुचितम्, तथैव तत्प्रतिपत्तेः; तथापि प्रकृते वैदिकत्व लौकिकत्व - साधारणत्व - विवेकप्रसङ्गे तदवच्छेदकतया अक्षरछन्दस्त्व - मात्राच्छन्दस्त्व - क्रमच्छन्दस्त्वधर्माणां विवक्षणादित्थं विभाग इत्यवधेयम् । नन्वेतावता प्रयोगसंप्रदायस्थितिरेवानुरुध्यते? | आहोस्विद् वैदिकसमाख्याबला-द्विध्यन्तरमुपस्थाप्यते ' एषां वेद एव प्रयोगः कर्तव्यो न तु लोकेऽपीति? । यद्युच्यते वेदमात्रे प्रयोगोपलब्ध्या वैदिकत्वमेषामनूद्यते ' यदि वा वैदिकसमाख्यया लोकें प्रयोगप्राप्तिः प्रतिविधीयते । उभयथापि नोपपद्यते । वैदिकाक्षरच्छन्दः प्रतिपन्नानामनुष्टुपविशेषाणां पथ्यावक्रविपुलादीनां वेदापेक्षयापि लोके बहुलोपचारस्य दृश्यमानत्वात्, इतरेषां च त्रिष्टुप्जगतीभेदानां रामायणमहाभारत भागवतादिषु प्रायेण प्रयुज्यमानत्वात् । तस्मान्मात्राच्छन्दःक्रमच्छन्दसोरेकान्तलौकिकत्वेऽक्षरछन्दसस्तु लोकवेदोभयसाधारणत्वे संसिद्धेऽपि शुद्धवैदिकविषयता सर्वथा दूरपरास्तैव । अत्रोच्यते — पुराणेतिहासादिषु तावत् प्रबन्धवाचकानां पवित्रतासम्पत्त्युद्देशेन वैदिकच्छायावर्तिष्णुभिर्मुनिभिः शाखान्तरप्रसिद्धा मन्त्रविशेषा एवानूद्यानूद्य पठिता इति नानुवादे लौकिकत्वं प्रसज्यते । अनुष्टुब् विशेषाणां तु पथ्यावक्रविपुलादीनां वैदिकत्वेऽपि विषमत्वसमत्वार्धसमत्वात्मक भेदत्रय-विभक्तेषूभयसाधारणत्वेन प्रतिपन्नेषु च्छन्दोजातेष्वन्तर्भावाल्लौकिकोपचारो न विरुध्यते । तस्मादुभयथापीदमुपपद्यते - वेदमात्रे प्रयोगोपलब्ध्या वैदिकानां वैदिकत्वमिहानूद्यते, वैदिकसमाख्यया लोके प्रयोगप्राप्तिश्च तेषां प्रतिविधीयत इति । नन्वेवमुभयसाधारणानां त्रेधाप्रतिपत्तौ पथ्यावक्रवदितरेषामपि शुद्धवैदिकत्वेनाभिप्रेतानां गायत्र्यादीनां विषम-त्वेनोपसंग्रहाल्लौकिकत्वप्रसक्तिरिति चेत् — मैवम् । छन्दोव्याकृतिग्रन्थे “ तत्रादौ विषमं व्याख्यास्यामः । स चतुर्धा - वक्रं पदचतुरूर्ध्वमुद्गतिकोपस्थितप्रचुपितं च ' इति सूत्राभ्यां परिगणनस्य वक्ष्यमाणतया तदितरेषां विषमाणामुभयसाधारणत्वनिराकरणात् । तस्मात् परिगणितातिरिक्तानां विषमाणां वेदमात्रे प्रयोगोपलब्ध्या सिद्धमेकान्तवैदिकत्वमिति निष्कर्षः ॥ इति वैदिकान्यत्ववादः । 13480 छन्दोलक्षणवादः ननु गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यादयश्छन्दोविशेषा आम्नायन्ते । तत्र किं तावदेषां गायत्र्यादीनां गायत्रीत्वादिकम्? इत्युपतिष्ठते जिज्ञासा । न तावत् षडक्षर-पादैश्चतुष्पदीत्वमष्टाक्षरपादैस्त्रिपदीत्वं वा गायत्रीत्वं संभवति । त्रिपात्त्वेन चतुष्पात्त्वेन वान्योन्यव्यभिचारात् । अथ षडक्षरपादत्वं चतुष्पाद्गायत्रीत्वम्, अष्टाक्षरपादत्वं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA