छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 51–60

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 51–60

पृष्ठ 51

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 51 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ४७ इत्येवमादिभिः काव्यजातेषु एवमन्यत्रान्यत्र च वेदविषयतया छन्दः शब्दः प्रयुज्यते । ' अनन्ताश्च वेदाः श्रूयन्ते ' – इत्यनवच्छिन्नत्वेऽवच्छेदत्वानुपपत्त्या सिद्धमतिरिक्तवृत्तिकत्वं छन्दः शब्दस्य - इति चेत् । अत्रोच्यते - पद्यगद्यगेयात्मकैस्त्रिविधैर्वाचिकच्छन्दोभिरेव सर्वस्य वेदस्य छन्दनात्तद्भेदादेव च भेदेन तत्प्रतिपत्तेस्तात्स्थ्यात्ताच्छब्द्यन्यायेन तत्र तदुपचार इष्यते । किं च पृथिव्यादिलोकानामग्न्यादिदेवानां च तत्तच्छन्दश्छन्दितानामेव स्वरूपलाभात् कार्यकारित्वव्यवस्थापनाच्चेह द्यावापृथिवीधर्मनिरूपणे यज्ञवेदे भूयसा छन्दसामाम्रेडनाच्छन्दः प्राधान्याच्छन्दः शब्दोपचार इष्यते । उक्तं च सर्वेषां कार्यजातानामाधारभूतं प्राकृतं छन्दो ब्रह्माख्यम् । तदनुगतधर्मप्रति-पादनपरो ग्रन्थश्छन्द उच्यते इति युक्तम् । सांख्यन्यायवेदान्तादिधर्मप्रतिपादनपरेषु ग्रन्थेषु सांख्यादिशब्दवत् । तथा च गौणवृत्त्या क्वचिदन्यत्र प्रयोगेऽपि मुख्यवृत्त्यावच्छेद एव छन्द इति संसिद्धम् ॥ अथ छन्दोवादः . ननु किमिदं वाक्छन्द इति जिज्ञासायां गतियत्यध्वपरिच्छित्त्यतिरेकेण छन्दः स्वरूपं निरूप्यते तन्नावकल्पते । गतियत्यध्वपरिच्छितिच्छन्दसामनर्थान्तरत्वात् । न च वृत्ति-र्लयो ध्वनिरिति गतेस्त्रयो भेदाः अवसायो विच्छेदो विरतिर्यतिरणुयतिरिति यतेः पञ्च भेदाः, लिप्यध्वपरिच्छित्तिर्गत्यध्वपरिच्छित्तिरित्यध्वयोगस्य द्वौ भेदौ, वर्णच्छन्दो गण-च्छन्दो मात्राच्छन्दश्चेति छन्दसस्त्रयो भेदाः, -इतीत्थमेषां चतुर्णां नितान्तवैषम्यं प्रतिपद्यत इति वाच्यम् । आपाततस्तेषां भेदकल्पनायामपि वस्तुतः स्वरूपानतिरेकात् । तथा हि— गतित्रैविध्ये वृत्तिध्वन्योर्वर्णवेदीयपदार्थत्वाच्छन्दसश्च वर्णोपलक्षितत्वेऽपि वर्णानात्मक-त्वात्तत्र यद्यपि वृत्तिध्वन्योरप्रवेशः प्रतिपद्यते । अथाप्येष लयः खलु यतितारतम्यनिबन्धनो न यतेरतिरिच्यते । अयमेव तु लयो गत्यध्वपरिच्छित्तिशब्दान्तरेणाप्याख्यायते । तयोर्विवेकानुपलम्भात् । मसजसततगेषु हि वर्णैरभिनीयमानेषूच्चारयितुरुच्चारण-सामञ्जस्यमनुभूयते । जसयोः स्थाने तभयो संनिवेशे त्ववश्यमुच्चारणक्लिष्टता भवति । तत्र चायं द्वितीयः सगणोऽष्टम्भी विष्टम्भमजानताप्यभिनीयमानः स्वयमवष्टम्भमुपस्थाप-यति स्वान्ते । तदिदमवष्टम्भित्वं तत्र केन रूपेण-? द्वादशाक्षरत्वेन वा, शार्दूल-विक्रीडितसंबन्धित्वेन वा, तथाविधसत्त्वेन वा गणतुरीयत्वविशिष्टसत्त्वेन वा, मगणोत्तर-त्वविशिष्टसगणोत्तरत्वविशिष्टजगणोत्तरत्वविशिष्टसत्त्वेन वा? । नाद्यः - मरभनयययेषु नगणघटकस्य द्वादशाक्षरत्वेऽप्यवष्टम्भानपेक्षणात् । न द्वितीयः- तत्र मगणजगणादीनां विष्टम्भनिरपेक्षत्वात् । न तृतीयः- तत्रैव द्वितीयसगणस्यानवष्टम्भित्वात् । न तुरीयः-सजससगेषु तुरीयस्यापि तस्य तदनपेक्षणात् । तस्मान्मसजोत्तरसगणघटकत्वेनैव रूपेण CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 52

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 52 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ छन्दः शास्त्रम् तस्य द्वादशाक्षरस्यावष्टम्भित्वं वाच्यम् । तथा च मस्य सगणाव्यवहितपूर्ववृत्तित्वेनावस्थानं, सस्य मगणोत्तरवृत्तित्वजगणपूर्ववर्तित्वाभ्यां, जस्य च सगणद्वयमध्यवर्तित्वेन । सस्य पुनर्जगणोत्तरवर्तित्वतगणप्राग्वर्तित्वाभ्यां चेत्येवमवस्थानक्रम एवाध्वपरिच्छित्तिः स्यात् । ततः क्रमात्प्रच्यवमानानां तेषामुच्चारणे क्लिष्टतानुभवात् । अथेत्थं पौर्वापर्येणोच्चारण-मेवैषां लयगतिविशेषः स्यात् । निर्दिष्टरीत्या तेनैव रूपेणावष्टम्भसापेक्षत्वात् । अवष्टम्भा-पेक्षाप्रयोजकत्वाप्रयोजकत्वाभ्यामेव च लयगतिप्रत्यवमर्शात् । तदिदं पौर्वापर्यं च मसजसाना प्रत्येकस्य क्रमिकावस्थानलक्षणान्नातिरिच्यते — इति लयगतेरनतिरिक्ताध्वपरिच्छित्तिः । यतश्च मसंजोत्तरसघटकत्वेन यतिमत्त्वं दृश्यते, ततो यतिमत्त्वव्याप्यतया मसजोत्तरसघटकत्वरूपाया लयगतैरध्वपरिच्छित्तेर्वा यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति, अथाप्यवष्टम्भप्रयोजकत्वा-प्रयोजकत्वोपलक्षितपौर्वापर्यस्यैव गतिरूपत्वप्रतिपत्त्या अन्वयव्यतिरेकाभ्यामस्या वष्टम्भस्य गतिस्वरूपसंपादकतया च गतिग्रहणे तद्ग्रहणसंभवः । तस्मादासां गतियतिपरिच्छित्तीनां नैकान्ततोऽर्थान्तरत्वमुपलभामहे - इति सिद्धमासामैकार्थ्यम् ॥ एवमेवावष्टम्भप्रयोजक-त्वाप्रयोजकत्वोपलक्षितपौर्वापर्येणावस्थितानां मसजादिगणानामेव छन्दस्त्वादस्य छन्दसो यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति अथापि स राजा संवृत्तः ' ' स पाचको जातः ‘ स नेदानीं कुण्डली न दण्डी ' इत्यादिषु विधिनिषेधयोर्विशेष्यव्यपदिष्टयोरपि विशेषणमात्रविश्रान्ति-वदिहापि लाघवान्मसजादिगणसमवेतस्य तत्पौर्वापर्यस्यैव छन्दस्त्वसिध्द्या छन्दसो गतियतिपरिच्छित्त्यनतिरिक्तत्वं फलतीत्यलं छन्दसोऽर्थान्तरत्वपरिष्कारेण; इति चेद्— अत्रोच्यते — मसजोत्तरसगणचरमावयवोत्तरत्वावच्छेदेन ततगाव्यवहितपूर्वत्वावच्छेदेन च वर्तमानोऽयमवष्टम्भस्तावन्न गतिर्न चाध्वपरिच्छित्तिर्न वा छन्दः; गत्यादीनामवष्टम्भवद्देशविशेषे नियतत्वाभावात् ॥ १ ॥ अथ गतिस्तावन्नावष्टम्भः । अवष्टम्भप्रयोजकत्वोपलक्षितपौर्वापर्यस्य

गतिरूपतया तस्य गतिरूपसंपादकत्वेऽपि तत्त्वासंभवात् ॥ न चाध्वपरिच्छित्ति:, गतेर्हि स्वमार्गात् प्रच्यवमानायाः क्लिष्टत्वं कुरूपत्वमनुभूयते । यतश्च तस्याः सौकर्यं सौन्दर्यं वा सिध्यति, साध्वपरिच्छित्तिरिति गत्यवयवसंनिवेशविशेषरूपायास्तस्या गतित्वासंभवात् । यथा स्थूलत्वकृशत्वसाम्येनानुच्चावचशीर्षपादादिसाम्येन, दिक्साम्येन च वर्णादिलिपीनां सौन्दर्यं वचनसौकर्यं चानुभूयते, तदभावेन च बालकादिलिपीनां कुरूपत्वं वाचनक्लिष्टत्वं च । तथा च तत्र लिप्यध्वपरिच्छित्तेर्लिप्यतिरिक्तत्ववदिहापि गत्यध्वपरिच्छित्तेर्गत्यतिरिक्तत्वं सुवचमिति द्रष्टव्यम् ॥ न वा छन्दः - विलक्षणगणपौर्वापर्यनिबन्धनायां गतौ मात्रा-व्यवस्थानिबन्धनच्छन्दस्त्वासंभवात् ॥ २ ॥ अथेयमध्वपरिच्छित्तिर्नावष्टम्भो न वा गतिः ।

विशेषस्य संसाधितत्वात् । न वा छन्दः - गत्यवयवसंनिवेशविशेषरूपायामध्वपरिच्छित्तौ मात्राव्यवस्थानिबन्धनच्छन्दस्त्वस्याप्यसंप्राप्तेः ॥ ३ ॥ अत एव चेदं छन्दो गतियति-परिच्छित्तिभ्योऽतिरिच्य प्रतिपद्यते — इतीत्थमेषामर्थान्तरत्वं संसिद्धम् ॥ अत एव ‘ न वृत्तदोषात्

पृथग् यतिदोषो वृत्तस्य यत्यात्मकत्वा’दिति पूर्वपक्षीकृत्य –‘न लक्षणस्य पृथक्त्वादिति ’ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 53

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 53 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ४ ९ समाहितं वामनेन काव्यालङ्कारसूत्रेषु । यत्तु केचित् अन्येषामर्थान्तरत्वेऽपि छन्दोगत्यो-रैकार्थ्यमेवाभ्युपगच्छन्ति, तदसत् । गतेश्छन्दोधर्मिकत्वसंभवेऽपि छन्दस्त्वासंभवादि-त्यलम् ॥ इति छन्दसोऽर्थान्तरतावादः । 3 अथ छन्दोविभक्तिवादः अथेदं छन्दः पञ्चधा — अनादिष्टच्छन्दः, बृहच्छन्दः, अतिच्छन्दः, कृतिच्छन्दः, प्रचितिच्छन्दश्चेति भेदात् । तत्र पञ्चानादिष्टच्छन्दांसि – उक्तमत्युक्तं मध्यं प्रतिष्ठा सुप्रतिष्ठा चेति । अथ सप्त बृहच्छन्दांसि - गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्क्तिः, त्रिष्टुप्, जगती चेति । तथा सप्तातिच्छन्दांसि - अतिजगती, शक्वरी, अतिशक्वरी, अष्टिः, अत्यष्टिः, धृतिः, अतिधृतिरिति । एवं सप्तैव कृतिच्छन्दांसि - कृतिः, प्रकृतिः, आकृति:, विकृतिः, संकृतिः, अभिकृतिः, उत्कृतिश्चेति भेदात् । अथात ऊर्ध्व प्रचितिच्छन्दस्तत्र संख्यायते । नन्वेतद्बृहच्छन्दोऽभिप्रायेण सप्तैव छन्दांसि भवन्तीति भूयसा श्रूयते, तत्कथमेतावान् प्रपञ्चश्छन्दसामाख्यायते? उच्यते— षोडशीप्रक्रमे— ' छन्दसां यो रसोऽत्यक्षरत्, सोऽतिच्छन्दसमभ्यक्षरत् । तदतिच्छन्दसोऽतिच्छन्दस्त्वम् । सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत् षोडशी ' इत्याम्नायते । तत्र छन्दसां रसश्चतुरक्षरूपः । ' चतुरक्षराव छन्दांस्यासन् । ' इति छन्दोव्यूहनश्रुत्युक्तेः । तथा हि- छन्दोव्यूहने तावत् चतुरक्षरा गायत्री त्रिष्टुब् जगती च । तत्र जगत्यास्त्रीण्यक्षराणि, त्रिष्टुभ एकमक्षरं च समादाय गायत्री तावदष्टाक्षरा क्रियते । इत्थं कृते अष्टाक्षरा गायत्री, त्र्यक्षरा त्रिष्टुप् एकाक्षरा जगती सिद्धा । अथैवंरूपा गायत्री स्वयं संयुज्य त्रिष्टुभ संपादयति सा त्रिष्टुबेकादशाक्षरा संपद्यते । एवं संपन्ना च त्रिष्टुप् स्वयं संयुज्य जगती संपादयति सा जगती द्वादशाक्षरा संपद्यते । गायत्री, त्रिष्टुप्, जगती चेति त्रीण्येव छन्दांसि सर्वाणि छन्दांसि भवन्ति गायत्र्युष्णिगनुष्टुब्बृहती-पङ्क्तित्रिष्टुब्जगत्याख्यानि । तत्रानुष्टुप्पङ्क्ती, उष्णिस्त्रिष्टुभौ, गायत्रीजगत्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे बृहत्यौ संपादयत — इत्येतेषां बृहतीरूपतया बृहच्छन्दः शब्देनाख्यानम् । तथा च श्रूयते - ' बृहती वै छन्दसां स्वाराज्यमानशे ' इति । तदित्थं छन्दः सिद्धौ तस्यैव चतुरक्षररूपस्य रसस्य जगत्यामत्याधाने षोडशाक्षरं भवति । तदत्याधानादतिच्छन्दं इत्युच्यते । अथ पञ्चदशीसप्तदश्यौ, चतुर्दश्यष्टादश्यौ, त्रयोदश्यूनविंश्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे षोडश्यौ संपादयत— इत्येतेषामतिच्छन्दोरूपतया अतिच्छन्दः शब्देनाख्यानम् । एवमूनविंशत्युत्तरं पुनश्चतुरक्षराधाने त्रयोविंशत्यक्षरं भवति । तत्र कृतिशब्दः । तत्क्रियोत्तरं तज्जातीय-क्रियान्तरसंनियोगे कृतिशब्दो दृष्टो वर्गवत् । तथा चेहापि द्वाविंशीचतुविश्यौ, एकविंशी-पञ्चविंश्यौ, विंशीषड्विंश्यौ चेत्येवं द्वे द्वे संयुज्य द्वे द्वे त्रयोविंश्यौ संपादयत इति भू ० छठशा K Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 54

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 54 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० छन्दः शास्त्रम् कृतिच्छन्दोरूपतया कृतिच्छन्दः शब्देनाख्यायन्ते । तदित्थं सति कृतिच्छन्दसामति-धृतावतिच्छन्दसां च जगत्यामन्तर्भावः सुवचः । प्रचितिच्छन्दांसि तु छन्दः समुच्चयरूपाणीति नातिरिच्यन्ते । अथानादिष्टच्छन्दसां गायत्र्यामन्तर्भावः । भुरिग्दैव्यां चतुरक्षरवृद्ध्या याजुष्याः, तत्र स्वराजि चतुरक्षरवृद्ध्या साम्न्याः, तत्र स्वराजि चतुरक्षवृद्ध्या आर्च्याः, तत्र स्वराजि चतुरक्षवृद्ध्या आर्ष्याः स्वरूपाधानात । तदुक्तम्— ‘ उक्तादिपञ्चकं कैश्चिद्गायत्रीत्येव कथ्यते । यथा ह्यतिजगत्यादि त्वतिच्छन्दः प्रवर्ण्यते ॥ ' इति । तथा चातिजगत्यादीनां जगत्याम्, उक्तादीनां तु गायत्र्यामन्तर्भावसंभवात् सप्तैव छन्दांसीति याज्ञिकानामभिमानः । तदिदं छन्दः पुनर्द्वैधा – मात्राछन्दो वृत्तच्छन्दश्च । तत्र मात्राछन्दांस्युक्तानि गायत्र्यादीनि सप्तैव । तानि जातिभेदेन पृथग् व्यपदिश्यन्ते । अथ मात्राछन्दसां गायत्र्यादीनामेकैकाऽवान्तरविशेषा वृत्तच्छन्दांसि । तानि वृत्तिभेदेन पृथग् व्यपदिश्यन्ते । यथा मनुष्यविभाजिकाश्चतस्रो ब्राह्मणाऽऽदिजातयः, ब्राह्मणादिविभाजिकास्तु तत्तद्ब्राह्मणादिगता अवान्तरविशेषरूपा वृत्तय इत्येवमाद्यूह्यमिति याज्ञिकानां प्राचामनुसारेण व्याख्यातम् । नव्यास्तु छान्दसिकाः पुनरन्यथान्यथा विभज्य व्याचक्षते । ( १ ) तत्र पद्यजातं द्वेधा — वृत्तं जातिश्च । यत्र नियतवर्णव्यवस्थया छन्दः सिद्धिस्तदृतम् । यत्र तु नियतमात्राव्यवस्थया छन्दः सिद्धिः सा जातिः । तथा चाह नारायणः-' पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ ' हलायुधोऽप्याह— ' पद्यं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा । एकदेशस्थिता जातिर्वृतं लघुगुरुस्थितम् ॥ ' ( २ ) परे तु वृत्तिर्जातिरिति द्वेधा विभज्य तयोरुभयोरेव वृत्तशब्देन छन्दः शब्देन च सामान्यतो व्यपदेशमिच्छन्ति । वर्णवृत्तं वर्णच्छन्दः, मात्रावृत्तं मात्राच्छन्द इति । तथा चैषां मते छन्दोवृत्तशब्दयोः पर्यायवाचित्वम् । ( ३ ) छन्दःपरिमलकारस्तु तयोः पर्यायार्थत्वं प्रत्याख्याय - ‘ वाक् छन्दः, गलसमवेतस्वरूपेण नियता वाग् वृत्तम् । ' इत्येवं तन्मते-' उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका गायत्र्युष्णिगनुष्टुप् च बृहतीपङ्क्तित्रिष्टुभः जगती चातिजगती शक्वरी चातिशक्वरी मात्राक्षरसंख्यया नियता व्यवस्थापयति तथा च ॥॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 55

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 55 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ५१ अष्ट्यत्यष्टी धृतिः सातिः कृतिः प्रकृतिराकृतिः ॥

विकृतिः संकृतिश्चातिकृतिरुत्कृतिदण्डकाः ।

एतानि वर्णच्छन्दांसि तद्भेदानां तु वृत्तता ॥

एवमेव णढादीनां मात्राच्छन्दस्त्वमिष्यते । तदवान्तरभेदानां जातित्वमिति सिध्यति ॥ ' ( ४ ) अपरे तु पुनरन्यथा विभज्य व्याचक्षते । तथा हि - पद्यच्छन्दस्तावत्रेधा-वैदिकं च, लौकिकं च, उभयसाधारणं च । तत्र लौकिकं पुनस्त्रेधा - गणच्छन्दः, मात्रा-च्छन्दः, अक्षरछन्दश्चेति । तथा चोक्तम्—

‘ आदौ तावद्गणच्छन्दो मात्राच्छन्दस्ततः परम् ।

तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ॥

आर्याद्युद्गीतिपर्यन्तं गणच्छन्दः समीरितम् ।

मात्राच्छन्दश्चलिकान्तमौपच्छन्दसिकादिकम् ॥

समान्याद्युत्कृति यावदक्षरच्छन्द एव च ॥ ' इति । ( ५ ) परे तु पद्यच्छन्दश्चतुर्धा – अक्षरछन्दः, मात्राछन्दः, अक्षरगणच्छन्दः मात्रागणच्छन्दश्चेति भेदात् । यत्र मात्राणां न्यूनातिरेकेऽप्यक्षरसंख्यानं तन्त्रं तदक्षरच्छन्दः । यथा वेदे बहुलं प्रयुक्तं गायत्रीत्रिष्टुब्जगत्यादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासंख्यानं तन्त्रं तन्मात्राछन्दः — यथौपच्छन्दसिकवैतालीयादिकम् । यत्र पुनरक्षरगणानां क्रमसंनि-विष्टानां व्यवस्थया स्वरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थानानां च नियतत्वादक्षरगणच्छ-दस्त्वेन व्यवहारः । यथेन्द्रवज्रास्रग्धरावसन्ततिलकामन्दाक्रान्तादि, अथ यत्र मात्रागणानां क्रमसंनिविष्टानां व्यवस्थया छन्दः सिद्धिस्तत्राक्षरनियमाभावान्मात्रागणच्छन्दस्त्वेन व्यवहारः । यथा आर्यादोहाकुण्डलिकादि - इत्येवं पश्यन्ति । अर्थजातेष्वप्याकाशवाय्वादिष्वेषामेव चतुर्णां छन्दसां भेदान्नानाविध्यम् । अत एवैक एव भावो द्रव्यगुणकर्मरूपैस्तेजोऽबन्नरूपै-स्तदवान्तरानेकरूपैर्वा भेदेन समुत्पद्य नानात्वं प्रतिपद्यते । तदेतदेषां विभिन्नछन्दस्कानामर्थ-जातानां छन्दोनिबन्धन एवातिरेक इति यज्ञ स्वरूपनिरूपणप्रकरणे वेदसमीक्षायां वैशद्येन प्रदर्शितम् ॥ तदित्थं कंचिद्विशेषमाश्रित्य त्रेधा चतुर्धा वा विभक्तानामप्येषां मात्रागणव्यवस्थानि-बन्धनेषु गणवृत्तेषु वर्णव्यवस्थासामान्याद्वर्णवृत्तानतिरेकं पश्यन्ति दीर्घदर्शिनः । तथा च सिद्धम् — वृत्तशब्देन व्यपदेश्यं वर्णवृत्तमेकम्, जातिशब्देन व्यपदेश्यं तु मात्रावृत्तमपरमितीत्थं द्वेधा पद्यच्छन्दो भवतीति ॥ तत्र यद्यपि मात्रानियताक्षरव्यूह एव छन्द इत्युच्यते — यद्यपि च मात्राप्रस्तारस्वरूपाणां वर्णप्रस्तारेषु वर्णप्रस्तारस्वरूपाणां च मात्राप्रस्तारेषु यथायथमन्तर्भावो दृश्यते अत एव तु CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 56

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 56 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ छन्दः शास्त्रम् द्वासप्ततिमात्राप्रस्तारस्वरूपविशेषात्मिकाया अष्टादशमात्राप्रस्तारस्वरूपविशेषात्मिकाया वेन्द्रवज्राया मात्रावृत्तत्वमनभ्युपग्य यथा वर्णवृत्ततयाभ्युपपत्तिर्दृश्यते, न तथा ' खिं खिं खिं खागः प्रमोदा ' इति लक्षिताया: प्रमोदाया:, ' डुजं डुजं डुजं डुकः प्रमदा ' इति लक्षित-प्रमदाजातिबहिर्भावेनाभ्युपगमः क्रियते । ततो वर्णवृत्तमात्रावृत्तेरितिभेदकरणमापाततो निर्मूलं प्रतिभाति; –अथापि पिण्डापेक्षोपेक्षानियमद्वैविध्याद् वर्णवृत्तत्वमात्रावृत्तत्वाभ्यां विभज्य तद्व्याख्यायते । तस्य चैतस्याक्षरव्यूहस्य यथेच्छं विवक्षितत्वेनानेकधात्वाद्बहवश्छन्दः प्रकाराः प्रचरन्ति । तथाहि — प्रस्तारप्रतिपन्नानां स्वरूपाणां मध्ये यानि यानि गतिसंपन्नानि स्युस्तानि क्वचिदेकैकान्येव प्रयुक्तानि छन्दांसि भवन्ति । क्वचित्तु सजातीयानां विजातीयानां वा तेषां द्वयेन त्रयेण चतुष्टयेन पञ्चकेन षट्कादिना वा यथेच्छं कृतेन गतिसम्पन्नेन तत्र तत्र छन्दोव्यवहारः । तदुक्तं भगवता पिङ्गलेनापि ' एकद्वित्रिचतुष्पादुक्तपादम् ' इति । शाङ्खायनोऽप्याह — ‘ पञ्च पङ्क्तेः, षट् सप्तेत्यतिच्छन्दसाम् ' इति । अत एव - ' आयाहि मनसा सह ' इति ( ऋक् १०/१७२/१ ), – द्विपदा शंसती त्यैतरेयब्राह्मणे ( ५।१७ । १० ) । आयाहि मनसा सह ' ( १०।१७२।१ ) ' इमानुकं ' ( १०।१५७ | १ ) ' बभ्रुरेकः ' ( ८।२ ९ ।१ ) —इति द्विपदासूक्तानीत्याश्वलायनसूत्रे ( ८।७।२४ ); ' आयाहि संवत उषस्य द्वैपदमिति — सर्वानुक्रमण्यां च द्विपदात्वेन व्यवस्थिताया अपि ' पितुभृतो ने ' त्यस्याः ( १०।१७२।३ ) ऋचश्चतुष्पात्संस्तारपङ्क्तयुदाहरणत्वमाख्यातं वेदार्थदीपिकायाम् । ' द्वादशाक्षरयोर्मध्ये पादावष्टाक्षरौ यदि । यस्याः संस्तारपङ्क्तिः स्यात् पितुभृतो न तन्तुमित् ॥ ' इति । ‘ द्विर्दिपदास्त्वृचः समामनन्तीति ' ( सर्वानु ) सूत्रयता भगवता कात्यायनेनापि द्विपदात्वेनाभिप्रेतानां सर्वासामेव ऋचां शंसनकाले ताभ्यां द्वाभ्यामेव पादाभ्यां छन्दः-पूर्तिः, अथाध्ययनकाले तु द्वयोर्द्विपदयोश्चतुर्भिः पादैश्छन्दःपूर्तिरभिप्रेयते । तेन यासां शंसने दशर्चत्वं, तासामेवाध्ययने पुनः पञ्चर्चत्वमिति सुप्रसिद्धं याज्ञिकानाम् । एवं षड्भिर्गायत्रै-र्जगतीकारतया एकमेव महापङ्क्तिच्छन्द इष्यते, न तु गायत्रीद्वयसमुच्चयः । आनुष्टुभे प्रगाथे तु दशभिर्गायत्रैरनुष्टुभो गायत्रीद्वयस्य च समुच्चयेन तृचः प्रगाथ इष्यते न त्वेवैकं छन्दो नवानुष्टुब्महापङ्क्तिसमुच्चय इत्यप्यवधेयम् ॥ अथापि च यत्रैवं द्वयोस्त्रयाणां चतुर्णां वाधिकानां वा समुच्चयस्तत्र द्विपात्, त्रिपात्, चतुष्पादित्येवं पादव्यवस्थामिच्छन्ति । सेयं पादव्यवस्थापि नूनं विवक्षाधीनैव । उत्तरोत्तरप्रस्तारस्वरूपे पूर्वपूर्वप्रस्तारस्वरूपाणा-मन्तर्भावाच्चतुष्पद्यामेकपात्त्वस्य, एकपद्यां चतुष्पात्त्वस्य च वक्तुं शक्यत्वात् । यथा द्वाभ्यां पङ्क्तिभ्यामेका चम्पकमाला भवति, यथा वा प्रमाणिकाध्यर्धेन पञ्चचामरम्, प्रमाणिकाद्वैगुण्येन गीतिका च जायते । इत्थमन्यदपि द्रष्टव्यम् । अत एव -CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 57

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 57 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ५३

सुरशुभवाके नहि गुणदोषौ जगुरिति केचिन्न च पुनरन्ये ।

शुभमशुभं यत्फलमिदमुक्तं नृपवर युक्तं प्रथमगणे तत् ॥

इत्यत्र यदि विवक्ष्यते — द्वौ श्लोकौ संभवतः । यद्वा विवक्ष्यते — एक एव श्लोकः स्यात् । अथ विवक्ष्यते - श्लोकार्धमेवेदं संभवतीति पश्यन्ति ॥ अथ यतश्चैकपादपि छन्दो भवति, तस्मान्न पादसिद्धिश्छन्दः सिद्धौ विशिष्योपयु-ज्यते, किंत्ववच्छेदसिद्ध्यैव छन्दः स्वरूपसिद्धिर्भवतीति विज्ञेयम् । यस्य कस्याप्यर्थस्य शब्दस्य वा यथाकथंचित्क्रियमाणोऽवच्छेद एव तदर्थस्य शब्दस्य वा छन्दः । सर्वोऽप्यर्थः स्वच्छन्दसावच्छिन्नो भवति । यत्तु — विच्छित्तिविशेषोऽप्यत्रान्यदान्तरं छन्दः शिल्पा-परपर्यायमाख्यायते, ‘ शिल्पं छन्द ' इति श्रुतेः । तदप्यवच्छेदरूपत्वादेव । यदि ह्ययमवच्छेदो नाम धर्मो जगति न स्यात्तर्हि जगदेवेदं न स्यात्, जगदन्तर्गतं वा यत्किंचित् । एकमेव हीदं सत्यं ब्रह्म तदवच्छेदमाहात्म्यादनेकधात्वेन प्रतिपद्यमानं जगद्भवति, तदन्तर्गतं वा यत्किंचित् । ऊरूदरोरोग्रीवाशिरोहस्तपादाद्यवच्छेदान्मनुष्यवत् । यथा ह्येकस्मिन् श्वेतपत्रे शिल्पिकृतानेकभङ्गिरेखावच्छेदमाहात्म्याद् गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रा-दुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते श्वेतपत्रादतिरिच्यन्ते । एवमेवैकस्मिन् सत्ये ब्रह्मणि विश्वकर्मकृतानेकभङ्गिरेखावच्छेदमाहात्म्यादेव गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते सत्याद्ब्रह्मणोऽतिरिच्यन्ते । तथा च भगवान् कणादः ( वै.द. १।२।७, १७ ) — ‘ सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । सदिति लिङ्गविशेषाद् ' विशेषलिङ्गाभावाच्चैको भावः ' इत्येवमाद्याख्यायैकस्मादेव भावात् सत्तापदप्रतिपन्नाद्ब्रह्मणश्छन्दोभेदेन सर्वेषां द्रव्यादीनामुत्पत्तिमभिप्रैति । तथाहि — एकः कश्चित्सत्तापरपर्यायो भावः प्रतीतिसिद्धः । स धर्माणां तारतम्येनावापोद्वापाभ्यामन्यथान्यथा स्वरूपं गमितोऽन्यथान्यथा पदार्थो भवति । धर्मस्त्वस्य द्रव्यगुणकर्मभेदात्त्रेधा - द्रव्याणि पुनर्नवधा, गुणास्तु सप्तदशधा, कर्म पञ्चधा । तेषामेषां द्रव्यगुणकर्मणां सामान्यविशेषाभ्यां जात्याकृतिव्यक्तिपदप्रतिपन्नाभ्यां ये समवायास्त एव पदार्थाः । यथा घट इति केषांचिद्रव्यगुण कर्मणां सामान्यविशेषाभ्यामेकः समवाय इत्येकः पदार्थो भवति । एकस्मिन्नेव घटभावे कतिचिद्रव्यगुणकर्माणि समवयन्ति । न च तेषां त्रयाणां सत्तात्रयी । अत एव न द्रव्यगुणकर्माणीति त्रयः पदार्थाः, अपि तु द्रव्यगुणकर्मा-ण्येकः पदार्थः । अनन्ताश्चैवं पदार्थाः । तेषां च सत्तैकत्वनिबन्धनं पदार्थकत्वम् । द्रव्यगुण-कर्मणां तु समवेतानामेकैव सत्ता । यथा हि यावत्पृथिव्यामेकस्या एव सत्तायाः प्रतीताव-प्यवान्तरा घटपटादिषु मिथः सत्ता विभिद्यन्ते, नैवं द्रव्यगुणकर्मणामेकस्यां सत्तायां पुनरवान्तरा द्रव्यादिसत्ता पार्थक्येन प्रतिपद्यन्ते । यथा तु घटपटादिषु पृथिवीत्वं न भिद्यते, पृथिव्यादिषु वा द्रव्यत्वं न भिद्यते; तथैव पुनर्द्रव्यादिषु सत्त्वं न भिद्यते । पृथिवीत्वं पृथिवीति प्रत्ययः । द्रव्यत्वं द्रव्यमिति प्रत्ययः । सत्त्वं सदिति प्रत्ययः । सत्त्वं सत्ता भाव इत्येकार्थाः । तदित्थं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 58

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 58 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४ छन्दः शास्त्रम् सद्भाव - द्रव्यभाव - पृथिवीभाव घटादिभावानां विभिद्य प्रतीतानामानन्त्येऽपि संक्षिप्य स भावस्त्रेधा प्रतिपद्यते — कश्चित्सामान्यमेव, कश्चिद्विशेष एव कश्चित्तु सामान्यविशेषात्मकः । यो नित्यं सामान्यमेव, स सत्तानामैको नित्यो भावः । तस्यैकत्वादेवायमेकः पदार्थः संसारो नाम । यो नित्यं विशेष एव तस्यानेकत्वादेवैतेऽनन्ता नित्यपरमाणुपदार्था इतश्चेतश्च दृश्यन्ते न संख्यातुं शक्यन्ते । यस्तु सामान्यविशेषात्मको भावस्तदनुरोधेनैवैते घटत्वपृथिवीत्वद्रव्य-त्वादिभिः सामान्यतो विशेषतश्च गृहीताः सर्व एतेऽनित्याः पदार्था व्यपदिश्यन्ते । एवं ह्येताभ्यां भातिसिद्धाभ्यां सामान्यविशेषाभ्यां यथेच्छं विनियुक्ताभ्यां सर्वेषामेषां सत्तासिद्धानां द्रव्यगुणकर्मणां समवायोऽनेकत्वेनैकत्वेन च यथेच्छं नियम्यते । यथा गृहमित्येको भाव:, अङ्गणकुड्यस्तम्भपटलद्वारकपाटादयो वा नेके भावाः । एवमेकत्वानेकत्वयोरेकत्र द्रव्यगुणकर्मणां समवाये समन्वयादनन्ता एते भावाः पुरुषाख्याः, एक एव वायं भावः पुरुषाख्य इति शक्यते द्वैविध्येनापि व्यवहर्तुम् । स हि खल्वेकः पुरुधा भवति । अत एवामनन्ति — ' इन्द्रो मायाभिः पुरुरूप ईयते । तमेकं सन्तं बहुधा वदन्ति । पुरुष एवेदं सर्वम् । सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम् ' इत्यादि । तत्र यथायं पुरुषापरपर्याय एक केवलसामान्यभावो भातिसिद्धिस्तथा सामान्यविशेषभावा नित्यविशेषभावाश्च सर्वेऽपि भाति-सिद्धा एव । जात्याकृतिव्यक्तिसमवायात्मकानां घटपटादिपदार्थानां सत्तासिद्धत्वेऽपि सत्तायाः सत्तासिद्धत्वासंभवात् । एकस्मिन् सामान्ये सामान्यविशेषभेदा नित्यविशेषभेदाश्च भाति-सिद्धा एव संभवन्ति । एतदभिप्रेत्यैव सूत्रयति - ' सामान्यं विशेष इति बुद्ध्यपेक्षम् ' ( वै. द. १।२।३ ) इति । तथा च यदि सत्ता भातिसिद्धा तर्हि सत्तासिद्धा अपि सर्वेऽन्ततो भातिसिद्धा एवेति सिद्धं सर्वस्यास्य जगतो विज्ञानरूपत्वम् । विज्ञानं हि ब्रह्मशब्देनाख्यायते । तदुपासको हि ब्राह्मणो भवति । स विजानीयात् — विज्ञानमेव सामान्यविशेषाभ्यामवच्छेदाभ्यां विवर्त्य तदवच्छेदमाहात्म्यादेव सर्वं जगदुद्भावयति ॥ तथा चैत एवावच्छेदास्तत्तदवच्छेदावच्छिन्नानां खण्डानां स्वस्वच्छन्दांसि भवन्ति । स्वस्वच्छन्दःसंपत्त्यैव च तदर्थस्वरूपसंपत्तिर्दृश्यते । यदि हि गोस्वरूपावच्छेदरूपाया रेखायाः किंचिद्विहन्यते, तावतैवावश्यं गौः स्वरूपाद् विहन्यते । तदवच्छेदाच्छादितस्य तु गोः स्वरूपादप्रच्यवो भवति । तदिदमेवास्य छन्दसः स्वरूपाच्छादकत्वं स्वरूपरक्षकत्वं च वेदे महर्षयः समामनन्ति । अथैतदवच्छेदोपाधिभूतास्तु तत्तत्खण्डस्यावान्तरखण्डा अक्षरशब्देनाख्यायन्ते । अत एवाक्षरव्यूहश्छन्द इति पर्यायेण वदन्ति । यथा संवत्सरच्छन्दस्त्वनिर्वाहकाणि द्वादशाक्षराणि मासाः, मासच्छन्दस्त्वनिर्वाहकाणि त्रिंशदक्षराणि दिनानि, संवत्सरस्य गायत्रीत्वे पक्षाश्चतुविंशतिरक्षराणीत्येवमनेकत्र शतपथादिब्राह्मणेषु प्रपञ्चितम् । तदित्थं यथैवार्थतः खल्वाकाशश्छन्दः, वायुश्छन्दः, तेजश्छन्दः, आपश्छन्दः, पृथ्वी च्छन्दः; एवमेव शब्दतोऽपि वर्णश्छन्दः, अक्षरं छन्दः, पदं छन्दः, वाक्यं छन्दः, प्रकरणं छन्दः, इत्येवमेषां सर्वेषामेव CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 59

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 59 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ५५ छन्दस्त्वं संप्रतिपन्नम् । एवं हि खल्ववच्छेदावच्छिन्नत्वसामान्यात् सर्वेषामविशेषेण छन्दस्त्वेऽभ्युपगम्यमानेऽपि तदवच्छेदज्ञानौपयिकतया नूनमक्षरव्यवस्थानिबन्धनमेव छन्दोव्यवहारमिच्छन्ति छान्दसिकाः । अक्षरं चेह मात्रानियतं भवति । परमाणुत्रसरेणुवदेक-मात्रिकत्वाद्विमात्रिकत्वाभ्यामक्षरमपि द्वेधैव भवति । तथा च मात्रानियताक्षरव्यूह एव, च्छन्दोऽवच्छेद एव वा छन्द इति संसिद्धम् ॥ इति च्छन्दोविभक्तिवादः । 13480 अथ वैदिकान्यत्ववादः ननु — वैदिकलौकिकभेदाच्छन्दसां द्वैविध्यमुपदिशन्ति । तत्र न ज्ञायते किंनिमि-तोऽयमतिरेकः? इति । वेदे तावत् सप्त छन्दांसि सप्तातिच्छन्दांसि, सप्त कृतिच्छन्दांसि चोपदिश्यन्ते, तान्येव पुनर्लौकिका अप्युपजीवन्ति । यद्यपि प्राकृतपिङ्गलोक्तविधया मात्रा-च्छन्दांसि वेदे नोपदिश्यन्त इति सिद्धमेषां लौकिकत्वम् अथापि वेदोपदिष्टानां लोकेऽप्यनुवर्तनाल्लोकातिरेकेण वैदिकं न पश्यामः । उच्यते — त्रिविधः खल्वपि छन्दोविभागः प्रयोगभेदात् प्रतिपाद्यते - मात्राच्छन्दः, अक्षरच्छन्दः क्रमच्छन्दश्चेति । यत्र मात्रासमष्टिसंख्या न च्यवते, अथाक्षरसंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्र मात्राणां प्रगृह्यतया मात्राच्छन्दोव्य-वहारः । यथौपच्छन्दसिकादिषु, यथा वा शिखामालादिषु । अथ यत्राक्षरसमष्टिसंख्या न च्यवते, मात्रासंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्राक्षराणां प्रगृह्यतयाऽक्षरच्छन्दोव्यवहारः यथा न्यङ्कुसारिणीविष्टारबृहतीविष्टारपङ्क्त्यादिषु । एवं यत्र क्रमस्यैव प्रगृह्यतया गुरुलघुसंनिवेशो नियतपौर्वापर्यकस्तत्र सर्वेष्वेव पर्यायेषु नाक्षरसंख्या च्यवते, नापि वा मात्रासंख्या । तस्यैतस्य क्रमच्छन्दस्त्वं भवति, यथा सिंहोद्धतामन्दा-क्रान्ताशार्दूलविक्रीडितादिषु ` । तदित्थं भूयसातिरेकेण सिद्धेऽपि त्रैविध्ये मात्राच्छन्दोभि-वैदिकव्यवहारादर्शनाल्लोके च भूयसा व्यवहारात्तेषां लौकिकत्वोपचारः । अक्षरच्छन्दोभिश्च लौकिकानामनुपचाराद्यज्ञे वेदे चानुपदं प्रतिस्विकभावेन तदुपयोगात्तेषां वैदिकत्वोपचारः । अथ क्रमच्छन्दसां नियतस्थानावस्थितगुरुलघ्वक्षरनिबन्धनतया अक्षरच्छन्दस्त्वानतिरेका-ल्लोके तथैव चिरादुपचाराच्च वैदिकसाधर्म्याद्वैदिकत्वम्, अथ मात्राच्छन्दोवल्लोकमात्रे तत्प्रयोगदर्शनाल्लौकिकसाधर्म्याल्लौकिकत्वम्, – इत्येवमेषामुभयसाधारणत्वं पश्यन्ति समीक्षादक्षाः । अत एव पिङ्गलादिप्रोक्तेषु छन्दोविचित्यादिग्रन्थेषु वैदिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धवैदिकच्छन्दोऽनुशासनानन्तरम्; अथार्वाचीनप्रोक्तेषु छन्दोभाषाप्राकृतपैङ्गलादि-ग्रन्थेषु लौकिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धलौकिकच्छन्दोऽनुशासनानन्तरमुभयत्रापि क्रमच्छन्दसामनुविधानमुपलभ्यत इति द्रष्टव्यम् । [ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 60

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 60 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ छन्दः शास्त्रम् यद्यप्यत्र मात्राच्छन्दांस्यौपच्छन्दसिकादीनि मात्रागणच्छन्दांस्यार्यादीनि, अक्षरच्छन्दांसि न्यङ्कुसारिण्यादीनि, तथाक्षरगणच्छन्दांसि सिंहोद्धतादीनि इत्येवं चतुर्धा विभाजयितुमुचितम्, तथैव तत्प्रतिपत्तेः; तथापि प्रकृते वैदिकत्व लौकिकत्व - साधारणत्व - विवेकप्रसङ्गे तदवच्छेदकतया अक्षरछन्दस्त्व - मात्राच्छन्दस्त्व - क्रमच्छन्दस्त्वधर्माणां विवक्षणादित्थं विभाग इत्यवधेयम् । नन्वेतावता प्रयोगसंप्रदायस्थितिरेवानुरुध्यते? | आहोस्विद् वैदिकसमाख्याबला-द्विध्यन्तरमुपस्थाप्यते ' एषां वेद एव प्रयोगः कर्तव्यो न तु लोकेऽपीति? । यद्युच्यते वेदमात्रे प्रयोगोपलब्ध्या वैदिकत्वमेषामनूद्यते ' यदि वा वैदिकसमाख्यया लोकें प्रयोगप्राप्तिः प्रतिविधीयते । उभयथापि नोपपद्यते । वैदिकाक्षरच्छन्दः प्रतिपन्नानामनुष्टुपविशेषाणां पथ्यावक्रविपुलादीनां वेदापेक्षयापि लोके बहुलोपचारस्य दृश्यमानत्वात्, इतरेषां च त्रिष्टुप्जगतीभेदानां रामायणमहाभारत भागवतादिषु प्रायेण प्रयुज्यमानत्वात् । तस्मान्मात्राच्छन्दःक्रमच्छन्दसोरेकान्तलौकिकत्वेऽक्षरछन्दसस्तु लोकवेदोभयसाधारणत्वे संसिद्धेऽपि शुद्धवैदिकविषयता सर्वथा दूरपरास्तैव । अत्रोच्यते — पुराणेतिहासादिषु तावत् प्रबन्धवाचकानां पवित्रतासम्पत्त्युद्देशेन वैदिकच्छायावर्तिष्णुभिर्मुनिभिः शाखान्तरप्रसिद्धा मन्त्रविशेषा एवानूद्यानूद्य पठिता इति नानुवादे लौकिकत्वं प्रसज्यते । अनुष्टुब् विशेषाणां तु पथ्यावक्रविपुलादीनां वैदिकत्वेऽपि विषमत्वसमत्वार्धसमत्वात्मक भेदत्रय-विभक्तेषूभयसाधारणत्वेन प्रतिपन्नेषु च्छन्दोजातेष्वन्तर्भावाल्लौकिकोपचारो न विरुध्यते । तस्मादुभयथापीदमुपपद्यते - वेदमात्रे प्रयोगोपलब्ध्या वैदिकानां वैदिकत्वमिहानूद्यते, वैदिकसमाख्यया लोके प्रयोगप्राप्तिश्च तेषां प्रतिविधीयत इति । नन्वेवमुभयसाधारणानां त्रेधाप्रतिपत्तौ पथ्यावक्रवदितरेषामपि शुद्धवैदिकत्वेनाभिप्रेतानां गायत्र्यादीनां विषम-त्वेनोपसंग्रहाल्लौकिकत्वप्रसक्तिरिति चेत् — मैवम् । छन्दोव्याकृतिग्रन्थे “ तत्रादौ विषमं व्याख्यास्यामः । स चतुर्धा - वक्रं पदचतुरूर्ध्वमुद्गतिकोपस्थितप्रचुपितं च ' इति सूत्राभ्यां परिगणनस्य वक्ष्यमाणतया तदितरेषां विषमाणामुभयसाधारणत्वनिराकरणात् । तस्मात् परिगणितातिरिक्तानां विषमाणां वेदमात्रे प्रयोगोपलब्ध्या सिद्धमेकान्तवैदिकत्वमिति निष्कर्षः ॥ इति वैदिकान्यत्ववादः । 13480 छन्दोलक्षणवादः ननु गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यादयश्छन्दोविशेषा आम्नायन्ते । तत्र किं तावदेषां गायत्र्यादीनां गायत्रीत्वादिकम्? इत्युपतिष्ठते जिज्ञासा । न तावत् षडक्षर-पादैश्चतुष्पदीत्वमष्टाक्षरपादैस्त्रिपदीत्वं वा गायत्रीत्वं संभवति । त्रिपात्त्वेन चतुष्पात्त्वेन वान्योन्यव्यभिचारात् । अथ षडक्षरपादत्वं चतुष्पाद्गायत्रीत्वम्, अष्टाक्षरपादत्वं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA