छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 61–70
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 61–70
पृष्ठ 61
पाठ पढ़ें पाठ छिपाएँ
भूमिका ५७ त्रिपाद्गायत्रीत्वमित्येवं भेदेन लक्षणं करिष्यते । दृश्यते हि त्रिपादगायत्र्या वेदमात्र-गोचरत्वमथान्यस्याश्चतुष्पद्या लोकवेदोभयसाधारणत्वमित्यनयोर्भेदप्रतिपत्तेरिति चेत् —न । गायत्रीसामान्यलक्षणस्य जिज्ञास्यत्वात् । नाप्येतदन्यतरत्वं गायत्रीत्वमित्यनेनापि निर्वाहः । पादनिवृत्तः सप्ताक्षरपादैत्रिपाद्गायत्रीत्वेन, पदपङ्क्तेः पञ्चाक्षरपादैः पञ्चपाद्गायत्रीत्वेनापि सुप्रसिद्धेः । किञ्च – षडक्षरकेतरपादाभावसमानाधिकरणं षडक्षरपादत्वं लक्षणमपेक्ष्यते? आहोस्वित् षडक्षरपादसम्बन्धमात्रम् । नाद्यः अतिनिवृत् - प्रतिष्ठा - हसीयसी-वर्धमानोष्णिग्गर्भादीनां गायत्रीत्वानापत्तेः । नान्त्यः; ' एकादशिनोः परः षट्कस्तनुशिरा:, ’ ' मध्ये चेत् पिपीलिकमध्येति ' कात्यायनसूत्राभ्यामुष्णिक्त्वेन प्रतिपन्नयोरपि तनुशिरः-पिपीलिकमध्ययोर्गायत्रीत्वापत्तेः । तस्मात् पादव्यवस्थायामव्यवस्थितत्वान्न पादव्यवस्था-घटितं लक्षणं व्यवतिष्ठत इति स्थितम् । अस्तु तर्हि चतुर्विशत्यक्षरावच्छिन्नत्वं गायत्रीछन्दस्त्वमिति चेत्तदपि नः; “ नाक्षराच्छन्दो व्येत्येकस्मान्न द्वाभ्याम् " इति शतपथश्रुतौ ( ७।१।२।२२ ) “ नह्येकेनाऽक्षरेणान्यच्छन्दो भवति, नो द्वाभ्याम् " इति कौषीतकिश्रुतौ ( २६ अध्या ० १ ) “ न वा एकेनाऽक्षरेण छन्दांसि वियन्ति न द्वाभ्याम् " इति ऐतरेयश्रुतौ ( १।१।६ ) तथान्यत्रापि चैकद्विवर्णेनाऽतिरेकेऽपि गायत्र्यादिच्छन्दोव्याघातप्रत्याख्यानस्य भूयसाम्रेडनात् तथाविधानां श्रुतिप्रामाण्यसिद्धानां निचृद्भुरिगादीनां गायत्रीविशेषाणां चतुर्विंशत्यक्षरानवच्छिन्नतया गायत्रीत्वानापत्तेः । ननु — ' न्यूनाधिकेनैकेन निचृद्भुरिजौ ' ' द्वाभ्यां विराटस्वराजौ ’, ‘ पादपूरणार्थं तु क्षैप्रसंयोगैकाक्षरीभावान् व्यूहेदि ' ति ( सर्वा. परि. ) सूत्रोप-दिष्टया व्यूहमर्यादया चतुर्विंशत्यक्षरकत्वं सेत्स्यतीति चेत् — सत्यम्; एवमपि प्राजापत्या-सुरीदैव्यादीनां गायत्रीविशेषाणां गायत्रीत्वासिद्धिस्तदवस्था स्यात् । तत्र व्यूहमर्यादयापि चतुर्विंशत्यक्षरावच्छिन्नत्वासिद्धेः । न च - चतुर्विंशत्यक्षरावच्छिन्नत्वमार्षीगायत्री-छन्दस्त्वमष्टाक्षरावच्छिन्नत्वं प्राजापत्यागायत्रीत्वं पञ्चदशाक्षरावच्छिन्नत्वमासुरीगायत्री-त्वमित्येवमष्टानामपि गायत्रीविधानां प्रातिस्विकलक्षणानि भविष्यन्तीति वाच्यम्; चतुर्विंशत्य-क्षरावच्छिन्नत्वादीनां विभाजकतावच्छेदकत्वसिद्धावपि विभाज्यतावच्छेदकस्य गायत्रीत्वस्याद्य यावदसिद्ध्या तासामष्टानामपि विधानां गायत्रीविभाजकत्वासिद्धेः । छन्दस्त्वात्मकविभाज्यता-वच्छेदकप्रसिद्धावपि विभाजकतावच्छेदकधर्माप्रसिध्या सप्तच्छन्दांसि — इति सर्ववेदे प्रसिद्धविभागानुपपत्तेश्च । तस्मादवश्यं गायत्रीसामान्यलक्षणं किञ्चिदपेक्षणीयमिति चेत्— अस्त्वेवम् । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वं गायत्रीत्वमित्येवं तावदभिसंधास्यामः । गायत्रीपुरोगमानि हि चतुरुत्तराणि सर्वाणि च्छन्दांसि भवन्ति । तत्र गायत्र्याः सर्वच्छन्दोऽ-पेक्षया सप्ताक्षरघटितत्वात्कनिष्ठत्वं शक्यं वक्तुम् । नन्वेवं सत्यनादिष्टछन्दसामुक्ताऽ-त्युक्तामध्याप्रतिष्ठासुप्रतिष्ठानां सर्वच्छन्दोऽपेक्षया स्वल्पाक्षरत्वाद्, गायत्रीत्वमतिप्रसज्येत! वेदे गायत्र्यादीनामेव छन्दसां सुप्रसिद्धेस्तेषां छन्दस्त्वमेव । नास्तीति तु नापाद्यम् । ताण्ड्यश्रुतौ— “ चतुरुत्तैरेव छन्दोभिरेतव्य " मित्युक्त्वा – “ एकां गायत्रीमेकाहमुपेयुरेकामुष्णिहमेका-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 62
पाठ पढ़ें पाठ छिपाएँ
५८ छन्दः शास्त्रम् हमेकामनुष्टुभमेकाहं - बृहत्या पञ्चमास ईयुः पङ्क्तिमेकाहमुपेयुः त्रिष्टुभा षष्ठं मासमीयुः-श्वो विषुवान् भवितेति जगतीमुपेयुः " इति सूत्रेण गायत्र्यादिभिरहः साधनोक्त्या गायत्र्या अपि चतुरुत्तरच्छन्दप्रतिपादनाद्विंशत्यक्षरायाः सुप्रतिष्ठायाश्छन्दस्त्वानभ्युपगमे गायत्र्या-श्चतुरुत्तरत्वानुपपत्तेः । तथा च तेष्वतिप्रसक्तेर्भेदं गायत्रीलक्षणं साधीय इति चेत् —न । तत्र गायत्रीत्वस्येष्टापत्तेः । तदुक्तं वेदार्थदीपिकायाम्— ‘ “ उक्तादिपञ्चकं कैश्चिद् गायत्रीत्येव कथ्यते " । इति । तथा चेदं लक्षणं निर्दोषमिति चेत् न । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वमित्यत्र हि कान्येतानि सर्वाणि छन्दांसि? किं तावद् गायत्र्युष्णिगनुष्टुबादीनि सप्तच्छन्दांसि, सप्तातिच्छन्दांसि, सप्तकृतिच्छन्दांसीत्येतावन्ति सर्वाणि च्छन्दांसि विवक्षितानि? आहोस्विद् गायत्रीत्वजगतीत्वादिकमनपेक्ष्यैव मात्राक्षरसंख्यया नियता वाचो विवक्ष्यन्ते? तत्र न तावदाद्यः, आर्षीगायत्र्यपेक्षया प्राजापत्योष्णिहः स्वल्पाक्षरतया गायत्रीत्वापत्तेः । तदपेक्षयाधिकाक्षराया आर्षीगायत्र्या गायत्रीत्वानापत्तेश्च । न चार्षीभ्य उष्णिगादिभ्यः स्वल्पाक्षराया आर्षीगायत्रीत्वं प्राजापत्योष्णिगाद्यपेक्षया चाल्पाक्षरायाः प्राजापत्यागायत्रीत्वमित्येवं वक्ष्याम इति वाच्यम् । आसुरीभ्य उष्णिगादिभ्योऽनल्पाक्षराया एवासुरीगायत्रीत्वप्रसिध्द्या तावताऽप्यनिर्वाहात् । गायत्रीत्वोष्णिक्त्वजगतीत्वादीनामिदानीं यावदसिद्ध्या तत्त्वेन विभागासंभवादुष्णिगाद्यपेक्षया अल्पाक्षरत्वस्य गायत्रीपदार्थतावच्छेदकत्वानुपपत्तेश्च । नाप्यन्त्यः, उक्ताया दैवीगायत्र्या वा गायत्रीत्वसिद्धावप्यन्यासां गायत्रीत्वानापत्तेः । तस्मान्नेदं गायत्रीसामान्यलक्षणमिति चेत्; अस्तु तर्हि गायत्रीपदेन याज्ञिकानां प्रसिद्धिरेव गायत्रीत्वम्, नैवम्! ज्ञानस्यैव प्रसिद्धिपदार्थत्वाद् | गायत्रीपदप्रकारकज्ञानविशेष्यत्वमेव गायत्रीत्वमेतेनोक्तं भवति, तच्चायुक्तम् — गायंत्रीपदनिष्ठसंकेतसम्बन्धावच्छिन्नप्रकारतानिरूपितायाज्ञिक-ज्ञानीयविशेष्यतावच्छेदकत्वाप्रसिद्धौ तादृशविशेष्यताया उष्णिगादिष्वव्यावर्तमानतया तेषामपि सर्वेषां गायत्रीत्वातिप्रसक्तेः । तस्माद् यदवच्छेदेन गायत्रीपदप्रसिद्धिः, सोऽतिरिक्तः कश्चन धर्मो वक्तव्य इति चेत्?, अस्तु तर्हि गायत्रीत्वमखण्डोपाधिः; तदवच्छेदेनैव गायत्रीपद-प्रसिद्धिरप्यास्तामिति चेत्?, तुच्छमेतत् । लोकप्रतीतपदार्थके हि विषये पदार्थतावच्छेद-कस्याखण्डोपाधित्वेन कथंचिदभ्युपगमेऽपि साम्यधर्माणामखण्डोपाधित्वस्वीकारस्या-प्रामाणिकत्वात् । तस्मादसिद्धं खलु गायत्रीत्वमिति चेदुच्यते — चतुविंशत्यक्षरावच्छिन्नत्वं गायत्रीत्वमित्येव सिद्धान्तः पक्षः ॥ यस्तु निचृद्भुरिगादिषु दर्शितो व्यभिचारः स तावदयुक्तः । एकेनाक्षरेण द्वाभ्यां वा न्यूनाधिकताया गायत्रीविकृतिप्रयोजकतया सत्यामपि तस्यां विकृतौ प्रकृतिलक्षण-व्याघातासंभवात् । नहि कस्यचिदन्धत्वदोषेण सता प्राणिनश्चक्षुष्मत्त्वलक्षणं व्याहन्यते; न -वा लाङ्गूलच्छेदाद्विषाणभ्रंशाद्वा सास्नालाङ्गूलककुदखुरविषाणित्वरूपं गोलक्षणमलक्षणं भवति । तस्मात्सिद्धं चतुर्विंशत्यक्षरावच्छिन्नत्वमेव गायत्रीत्वम् । अथ यदपि प्राजाप-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 63
पाठ पढ़ें पाठ छिपाएँ
भूमिका ५ ९ त्यासुरीदैव्यादिषु व्यभिचारदर्शनान्नेदं लक्षणमित्याख्यातं, तदप्यत एव प्रत्याख्यातं भवति । तासामप्यार्षीविकृतिरूपत्वानतिरेकात् । तथा हि--यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्ष यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥१ ॥ ( ऋ.सं. २।३ । )
इति मन्त्राम्नानादेकस्मिन् छन्दोन्तराधानप्रतिपत्त्या तस्यामेवार्षीगायत्र्यां चतुर्विंशत्य-क्षरावच्छिन्नायामेकाक्षरावच्छेदेन दैवीत्वं, पञ्चदशाक्षरावच्छेदेनासुरीत्वम्, अथाष्टाक्षराव-च्छेदेन प्राजापत्यात्वमित्येवं विभागभेदात्त्रैविध्योपचारः । गायत्रीविभागजत्वाच्चैतासु गायत्री-शब्दो भाक्तः । यद्यपि कौषीतकश्रुतौ मन्त्रोऽयमन्यथा व्याख्यायते यथा-“ यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत् तद्विदुस्ते अमृतत्वमानशुः ॥ ” इति अथो यदिमा देवता एषु लोकेष्वध्यूढाः, -गायत्रेऽस्मिंल्लोके गायत्रोऽयमग्निर-ध्यूढः । त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । जागतेऽमुष्मिंल्लोके जागतोऽसावादि-त्योऽध्यूढ: ” – इति । न चैतावता छन्दसि छन्दोऽन्तरसत्ता मन्त्रार्थ उपलभ्यः, तथापि स्वल्पेन यत्नेनाधिकमर्थमुपदेष्टुमिवाभिवर्तमानानां महर्षीणां बहुविषया हि मन्त्रार्थवादाः भवन्ति । तदतो नाभिगम्यमानं प्रमाणान्तरसिद्धमर्थं सर्वथा प्रत्याख्यातुमवकल्पते । अथ पादश्छन्दसा द्विविधो भवति । विरतिसिद्धो विभागसिद्धश्च । आद्यो न्यूनाधिकाक्षरत्वेऽपि दृश्यते । परस्तु चतुर्थांऽशात्मकः । तत्र चतुर्विंशत्यक्षरनियताया गायत्र्या विभागजैकपा-दहानावार्च्याः, तादृशपादद्वयहानौ साम्याः, पादत्रयहानौ याजुष्याः, पादद्वयाधिक्ये तु ब्राह्म्याः, व्यवस्थापनात्तासामप्यार्षीविकृतिरूपत्वावसायात् । तस्मान्यूनाधिकाक्षरत्वसम्भवेऽपि सिद्धं चतुर्विंशत्यवयवघटितत्वं गायत्रीसामान्यलक्षणम् । एतेनोष्णिगादयोऽपि व्याख्याता इति दिक् ॥ इति छन्दोलक्षणवादः । 8 अथ समासवादः अथ विप्रतिपत्तिः - एके तावत् प्रस्तारसिद्धे स्वरूपे चत्वारो भागा भवन्ति, प्रति भागे वा यत्र तत्र यतिव्यवस्थाप्यनुवर्तते गतिसापेक्षेतीच्छन्ति । १ । अन्ये तु – प्रस्तारशुद्धेषु स्वरूपेषु गतिसम्पन्नानां केषांचित्सजातीयचतुर्व्यूहः समवृत्तं भवति । सजातीयद्विसमुच्चयोऽर्धसमं भवति । अथैकमेव प्रस्तारसिद्धं स्वरूपं चतुर्भागावकल्पनया चतुष्पाद् भवतीति तद्विषमं वृत्तमितीत्थं समासासमासाभ्यां छन्दोभेदाः प्रकल्पन्त इतीच्छन्ति । २ । परे पुनः – सजातीयचतुर्व्यूहः समवृत्तं विजातीयचतुर्व्यूहो विषमवृत्तमथ विजा-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 64
पाठ पढ़ें पाठ छिपाएँ
६० छन्दः शास्त्रम् तीयद्विसमुच्चयो द्विः प्रयुक्तोऽर्धसमवृत्तं स्यादितिं सर्वत्र समासेनैव छन्दः सिद्धिमिच्छन्ति ।३ । अपरे तु — न खलु पादव्यवस्था छन्दः सिद्धौ तन्त्रं, किं तर्हि?, सिद्धे छन्दसि यथेच्छं पादाः प्रकल्प्यन्ते । तत्र चतुर्थांऽशस्य पादत्वमिति लोकप्रसिद्धिमनुरुन्धानाः केवलं सर्वेष्वेव श्लोकेषु चतुरश्चतुर एव पादान् प्रकल्प्य तत्तल्लक्षणानुरोधेन समार्धसमविषमवृत्तत्वं व्यवस्थापयन्ति । ४ । अत एव श्लोकनिष्ठांश्चतुरोऽवष्टम्भानेवोपसमाधाय तदित-रांस्तथैवानुभूयमानानपि पादव्यवस्थाप्रयोजकत्वेन नापेक्षन्ते । सोऽयमेषां केषांचिच्छान्द-सिकानां सामयिकोऽर्थः स्यात् । वस्तुतस्तु संस्कृते पैङ्गले द्विदलतया सिद्धेष्वप्यार्यादिमात्रावृत्तेषु यथैव द्वादशमात्रासु ततोऽष्टादशमात्रासु ततः पुनरेव द्वादशमात्रासु ततः खलु पञ्चदशमात्रासु यथेच्छं चतुरः पदान् प्रकल्प्य चतुःपदीत्वमार्याया व्यवस्थापितं प्राकृते पैङ्गले । यथा वा द्विदलायामपि दोधायामवष्टम्भानुरोधेन त्रयोदशैकादशमात्रयोः पादत्वं प्रकल्प्य चतुष्पदीत्वमिच्छन्ति, तथैव शार्दूलविक्रीडितादीनामष्टपदीत्वं स्रग्धरादीनां द्वादशपदीत्वं त्रिभङ्गयादीनां षोडश-पदीत्वमित्येवमवष्टम्भानुरोधेन यथायथं पादव्यवस्था द्रष्टव्या । न खलु चतुर्थांऽशः पाद इति युज्यते वक्तुं छन्दोवेदे । वर्णमात्रयोर्न्यूनातिरेकेऽपि तद्व्यवहारदर्शनात् । किं तर्हि पदमिति? विश्रामः पदं भवति, पदात्तु प्रतिपन्नः श्लोकखण्डः पाद इति वक्तव्यम् । अत एवैतेषु विश्रामपदेषु कस्यचिदेकस्य गतिस्वाभाव्यादितरविश्रामपदापेक्षयाऽ-धिकमात्रत्वेनानुभवात्, तत्र सन्ध्यादिविध्यवरोधाच्च सर्वेषामेव श्लोकानां द्विदलत्वं प्रति-पत्तुं युज्यत इत्यन्यदेतत् ॥ एवं स्थिते यान्येतानि श्लोकखण्डान्याख्यातानि तेषामेकैक-प्रस्तारस्वरूपत्वं पार्थक्येन प्रतिपत्तव्यम् । तथा च सप्ताक्षरकप्रस्तारसंबन्धिनां सप्तदशचतु: -षष्टितमोनविंशानां समासेन स्रग्धराच्छन्दः । द्वादशाक्षरप्रस्तारसंबन्धिनोऽष्टादशशतोत्तरैका-शीतितमस्वरूपस्य तथा सप्ताक्षरप्रस्तारसंबन्धिनः सप्तत्रिंशस्वरूपस्य च समासेन शार्दूलविक्रीडितसिद्धिः । इत्येवमेकैकप्रस्तारस्वरूपाणां पदत्वात्तत्समासेन तानि तानि च्छन्दांसि संपद्यन्त इति द्रष्टव्यम् । अथ ब्रूयात् – मसयोर्जसयोरपि षडक्षरप्रस्तारस्वरूपविशेषतया पदत्वसंभवात्तयोरपि समासेन शार्दूलविक्रीडितभागसिद्धिः कस्मान्नाख्यायत? इति । तत्रेदं वक्तव्यम् —यथा हि सङ्घटकशब्दे - संघ - टकशब्दयोर्यथाकथंचित्पदत्वसंभवेऽपि कुतश्चित् कारणान्न तयोः समासेन सङ्घटकशब्दसिद्धिं मन्यन्ते वैयाकरणाः - एवमिहापि स नेष्यताम् । यथा वा शकारद्विवचनेन-‘ “ उदकंपश्श्यति ’ - इति यत्र प्रयुज्यते, तत्रोदकमिति पश्यतीत्येवमेकः पदच्छेदः । जलं निरीक्षते इत्यर्थात् १, अथ - उदकम्प इति श्यतीत्येवमन्यः पदच्छेदः । जलकम्पनं तनूकरोतीत्यर्थात् २, एवमुदिति अकमिति पश्यतीति चान्यः पदच्छेदः । उपरिष्टाद्दुःखमालोचयतीत्यर्थात् ३, तथा उ इति, दकमिति, पशीति, अतीति चापरः पदच्छेदः । पश्शब्दप्रतिपाद्येह्रदाद्यर्थेऽतिशयेनं जलं वितर्क्यत इत्यर्थात् ४, इत्थमनेकधा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 65
पाठ पढ़ें पाठ छिपाएँ
भूमिका ६१ संभवेऽपि स्वरविशेषात् पदविभागमध्यवस्यन्ति प्रेक्षावन्त:, तथेहापि गतिविशेषात्पद-विभागाध्यवसायः क्रियते । यत्रैव काचिद्गतिः समाप्नोति तत्रावश्यमवष्टम्भो भवति । अनवष्टम्भे गतिरनुवर्तत इति तन्मध्ये प्रस्तारविशेषानुगतस्वरूपसंभवमात्रेण नानेकपदत्वगतिप्रति-पत्तिर्युज्यते । यथाहि - उद इति उदकमिति कमिति एतेषां समानार्थकपदत्वसम्भवेऽपि नोदकशब्दे उदशब्दस्य दकशब्दस्य कशब्दस्य वा पदत्वं प्रतिपद्यन्त इत्यवधारणीयम् । स चायं समासः पञ्चधा - नित्यसमासः १, विकल्पसमासः २, संकीर्णसमासः ३, प्रकीर्णसमासः ४, उपपदसमासश्च ५ । तत्र समानप्रस्तारानुगतनियतस्वरूपाणामाम्रेडिते नित्यः । यथा - वसन्ततिलकाचरणयोर्नित्यसमस्वरूपयोर्द्विरुक्तिः १ । यत्र तु समान-प्रस्तारानुगतानियतस्वरूपाणां समुच्चयः, तत्र विकल्पः । यथा - पथ्यावक्रचरणयोरपि भिन्नसंस्थानयोरभिनिवेशः २ । यदि तु विभिन्नप्रस्तारानुगतनियतस्वरूपाणां समुच्चयस्तदा सङ्कीर्णः । यथा - पुष्पिताग्राचरणयोर्द्वादशाक्षर - त्रयोदशाक्षरप्रस्तारानुगतखण्डपदवत्प्रतिपत्तिः । यथा उदकशब्दे उदिति निपातस्याञ्चतिवृत्तेन समुच्चयेऽप्यखण्डवदुपचारः । यथा वा — समुद्रशब्दे न निर्णीयते सशब्दमुद्राशब्दसमुच्चयो वा ( १ ) संमुन्निपातयोर्द्रवतिवृत्तेन समुच्चयो वा ( २ ) समिति निपातस्य जलार्थकोदशब्दस्य रातिवृत्तेन समुच्चयो वा ( ३ ) समितिनि-पातस्य उनत्तिवृत्तेन समुच्चयो वेति ( ४ ) । संज्ञाशब्दोऽयमखण्डवत् प्रतिपन्नः । अभिप्राय-विशेषात्तु तं तं पदविभागमन्वाचक्षते नैरुक्ताः । एवमिहापि यथार्य्याजातौ षष्टडकारादि-भूतलकारादुत्तरस्य कलात्रयस्य नखान्यतररूपतयाऽभिनेतव्यस्य निपातरूपत्वाद्विभिन्न-पदत्वमेवाधिगम्यतेऽथाप्यखण्डवदुपचारः ( ५ ) । एवमेवान्यत्रान्यत्रापि द्रष्टव्यम् । अथ प्रकारान्तरेणायं समासो द्वेधा - पादखण्डः, पदखण्डश्च । यत्र समासारम्भकपदयोः पूर्वोत्तरपादत्वं तत्र पादखण्डः, अन्यत्र पदखण्डः । स चायं विवक्षाधीनः । तेन भक्षभक्षसमासस्य पादखण्डत्वेऽक्षरपङ्क्तिः सम्पद्यते, पदखण्डत्वे तु चम्पकमाला स्यात् । तत्र पादखण्डः समासान्तरेण गर्भितश्चागर्भितश्च भवति, पदखण्डस्त्वगर्भित एव । अथ नित्यवि-कल्पाद्यन्यतमसमासे समस्तयोर्द्वयोः प्रयोगादेकः श्लोको भवति । तदिदं मन्दं मन्दमित्यादि-वत् द्विरुक्तिर्न समासः । अथ वैदिकानां तु समस्तैकदेशद्विरुक्त्यापि छन्दः सिद्धिर्द्विर्वचना-भावेन समासाभावेन च । यथा त्रिपदा द्विपदा एकदा ऋक् ॥ इति समासवादः । 83480 अथ छन्दः पदवादः अथातः पदप्रतिपत्तौ जिज्ञासा समुपतिष्ठते - किं तावत् प्रस्तारसिद्धस्वरूपेषु पद-त्वेनाभ्युपगतेषु द्वयोश्चतुर्णां वा सजातीयानां विजातीयानां वा समवायेन छन्दः सिद्धिरस्ति? किंवा प्रस्तारसिद्धस्वरूपे छन्दस्त्वेनाभ्युपगते विच्छेदविरतियत्यपेक्षं पदविशेषव्यवस्थानम-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 66
पाठ पढ़ें पाठ छिपाएँ
६२ छन्दः शास्त्रम् स्तीति । कुत एतत्? उभयथा ह्यत्र प्राचां व्यवहारा उपलभ्यन्ते । लौकिकास्तावत्-विषमार्धसमसमत्वेनाभ्युपगतेषु वृत्तेषु विजातीयानां सजातीयानां वा विरतिमत्पदानां द्विर्वा-केन चतुर्वाकेन वा छन्दः साध्यते, तत्तर्हि यतिमत्पदस्य षड्वाकेनाष्टवाकेन वा कस्मा-च्छन्द: सिद्धिरपोह्यते? यदि तूपदेशलाघवायाधिगमसौकर्याय वा विरतिमत्पदे यतिव्यव-स्थापेक्ष्यते, तत्तर्हि वरमस्मिन् छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतयः प्रकल्प्य-न्तामलमर्धजरतीयाभ्युपगमेन । अथ वैदिकाः पुनश्चतुरुत्तराणि छन्दांस्यभ्युपगच्छन्तश्चतुर्विंशत्यक्षरादिकाया वाचो गायत्रीत्वादिकमभिख्यापयन्तश्छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतिव्यवस्थया पद-सिद्धिं मन्यन्ते । अन्तरेणापि तु यतिं पदव्यवस्थामास्थाय छन्दः स्वरूपसिद्धिं प्रति जानते । तत्रेयं विप्रतिपत्ति: -' सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ॥ ' ' तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि ॥ ' इत्यनयोर्माध्यंदिनाभ्युपगतयोर्जगत्यनुष्टुभोर्विच्छेदो दृश्यते, विरतिर्नास्ति । ‘ सुमित्रियान आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । इत्यस्यां माध्यन्दिनीयानामाष्यानिचृदनुष्टुिभि न विच्छेदो न विरतिः ।
‘ अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ' ॥ १ ॥
‘ या व्याघ्रं विषूचिकोभौ वृकं च रक्षतः । श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः ॥ ' इत्यनयोराष्योंर्निचृदनुष्टुबुष्णिहोरव्यवस्थिते विच्छेदविरती विज्ञायते सर्वत्रैव छन्दः सिद्धौ विच्छेदविरत्यपेक्षा नास्तीति । अथ पुनः-( बाज.खं. ४०।९ ) दृश्येते । ततो नु खलु “ क्षत्रस्य योनिरसि, क्षत्रस्य नाभिरसि, मा त्वा हिंसीन्मा मा हिंसी: ” इत्यत्र विराड् गायत्रीत्वमस्वीकृत्य द्विपदां विराजमभ्युपगच्छन्ति, ततः खलु सर्वत्रैव छन्दः सिद्धौ विच्छेदापेक्षा लभ्यते । अथानुष्टुभः सर्वछन्दस्त्वं प्रतिपादयितुं मैत्रायणीयानामाम्नायते— “ अनुष्टुभो वा एतस्याः सत्यास्त्रीण्यष्टाक्षराणि पदानि एकं सप्ताक्षरम् । यत्सप्ताक्षरम् तस्य चत्वार्यक्षराणि एकस्मिन् पदे उपयन्ति त्रीण्येकस्मिन् । यत्र चत्वार्य्युपयन्ति सा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 67
पाठ पढ़ें पाठ छिपाएँ
जगती । यत्र त्रीणि छन्दोभिर्हुतं भवति भूमिका सत्रिष्टुप् । यदष्टाक्षरं तेन गायत्री ॥ छन्दः प्रतिष्ठानो वै यज्ञः छन्दस् ८।८।८।७ ८1८1८ .।३।४ ८ | ११ | १२ | ६३ यदनुष्टुप् - तेनानुष्टुप् । सर्वैरवास्य वा वास्यै तद्यज्ञं प्रतिष्ठापयामः ” । इत्येवमाचक्षाणेन गायत्र्यादीनां पादव्यवस्थानिर्भरत्वसमाख्यानात् सर्वत्र छन्दः सिद्धौ विरतेरप्यपेक्षास्तीत्युपगम्यते । तदित्थमसमञ्जसमेतत् । यत्तु ब्रूयात् - नास्त्य - सामञ्जस्यम्; • उभयथाप्युपपत्तेः । इदं तावद् ब्रूमः - अस्त्येव सर्वत्र नियमेन छान्दसिकविच्छेदविरतिप्रक्लृप्ति-रिति । ‘ सवितुस्त्वे ’ त्यादौ ‘ सुमित्रिये ' त्यादौ चार्थिकपदानुपलम्भेऽपि छान्दसिकपदस्याक्षर-गणनासिद्धस्यापलापायोग्यत्वात् । यत्र त्वक्षरगणना न समाप्नोति तत्रापि ' क्षैप्रसंयोगका-क्षरीभवन् व्यूहेद् ” ( ऋ.सर्वा.३ ) इति कात्यायनोक्तदिशा उच्चारणसौकर्यानुकूल्येन व्यूहनाद्
गणना द्रष्टव्या । यथा-रुचं नो धेहि ब्राह्मणेषु रुचं राजसु धारय ।
रुचं वैश्येषु शूद्रेषु मयि धेहि रुचारुचम् ॥
इत्यादौ हिकारेकारस्य ह्मकाराकारस्य वा अविद्यमानवद्भावादष्टाक्षरत्वम् । तथा—
पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदत्रेनातिरोहति ॥१ ॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥२ ॥
( ऋ.सं. ८।८।४ ९ ) इत्यादौ भावियमित्येवं ( वह ) इत्येवं च वर्णाभ्युच्चयेनोच्चारणादष्टाक्षरत्वम् । तदित्थं वैदिकानां व्यवहारे पादपूरणानुरोधेन व्यूहः यवहस्वराणामितरवर्णसमभिव्याहारानुकूल्य-प्रातिकूल्यतारतम्यसापेक्ष्यमभ्युच्चयेनाविद्यमानवद्भावेन वेति छान्दसी परिभाषा द्रष्टव्या । इत्थं व्यूहोऽपि सिद्धो वेदपुरुषाणामुच्चारणे, सिद्धान्वाख्यानं च शास्त्रं न शक्नोति चिरन्तनव्यवहारसिद्धमर्थमपलपितुम् । अतं एव पृथ्वीशब्दस्य पृथिवीपृथवी रूपाभ्यामुच्चारितस्यापि दृश्यते विधायकं वैयाकरणवचनम् । यत्र तु न दृश्यते विधिवचनं, सोऽयमन्वाख्यापकदोषो भवति; न तु व्यवहर्तृणामाद्यानां स्वतन्त्राचार्याणां नापि वा चिराद् व्यवह्रियमाणस्यार्थस्येति दिक् ॥ अथान्यथा ब्रूमः-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 68
पाठ पढ़ें पाठ छिपाएँ
६४ छन्दः शास्त्रम् नास्त्येव सर्वत्र नियमेनार्थिकविच्छेदविरतिप्रक्लृप्तिरिति । अनुष्टुभः सर्वच्छन्दस्त्वोपपादक-मैत्रायणीयश्रुतौ यजुर्मन्त्राणामनुक्रमणिकोक्तच्छन्दोव्यवहारे चानपेक्ष्यैवार्थिकं पदं छन्दःस्वरूपोपपादनात् ॥ तस्मादुपपन्नो वैदिकव्यवहार इति चेत् - तन्न; छन्दः छन्दः साङ्कर्यप्रसक्तेः ।— ' एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे ऋक्सामाभ्यां सन्तरन्तो यजुर्भी रायस्पोषेण समिषा मदेम इमा आपः शमु मे सन्तु देवी: स्वरूपसिद्धौ सर्वथैवार्थानपेक्षायां । | ओषधे त्रायस्व स्वधिते मैनं हिंसीः ॥ ' इत्यस्यां सप्तत्यक्षरायां विरारूपायां ब्राह्मीजगत्यामेकादशाक्षरैश्चतुर्भिरार्घ्यास्त्रिष्टुभ-स्त्रयोदशाक्षराभ्यां चासुर्योरनुष्टुभोरपि संभवात् । उपलक्षणमेतत् । द्वादशाक्षराभ्यामेकाद-शाक्षराभ्यां च षट्चत्वारिंशदक्षराया विराडार्षीजगतीत्वेऽभ्युपगते चतुर्विंशत्यक्षरा-वशेषादार्षीगायत्रीत्वसंसिद्धेः । न च ' देवतादितश्च ' ( छ. शा. ३।६२ ) इत्याद्यनुशासनादिष्ट-सिद्धिः । ब्राह्मीजगत्यामार्षीजगतीत्वादिना साङ्कर्यस्येदानीमप्यनिरोधात् । तस्माद् गतिसिद्ध-मार्थिकं विरतिमत्पदमनुरुद्ध्यैव तत्तछन्दोऽवयवभूतानां पदानां पदाख्यानां व्यवस्था शक्या प्रतिपत्तुम्, -अतस्तदवस्थमसामञ्जस्यम् ॥ अत्रोच्यते- लौकिकच्छन्दसि तावद् गतिस्तन्त्रम् । गतिबलापतिता हि यतिर्गत्य-नुगमानुरोधादेव पञ्चधा स्वरूपं धत्ते । अयति:, यतिः, विरतिः, विच्छेदः, अवसायश्चेति । तत्र यावता पुनरावृत्तिः प्रायेण तत्रैव विरतेर्दृश्यमानतया तदनुरोधाद् द्विदलत्वं चतुष्पदत्वं षट्पदत्वं वा व्यवस्थाप्यते । अत एव तत्र नियता पादानुरोधिनी छन्दः सिद्धिः । पादत्वं च पुनरावर्तमानत्वे सति विरतिपत्पदत्वम् । यतिमत्पदस्यावृत्तेविरत्यन्तरितया विरतिमत्पदेतरतया च नैतस्य पादत्वमभ्युपगच्छन्तिं अर्धसमविषमादौ तु पादव्यवहारो ' रजकाय वस्त्रं ददाती’-त्यादौ दानव्यवहारवद् भाक्तः । पुनरावर्तमानत्वाभावेऽपि विरतिमत्पदत्वानुवर्तनात्तत्वोपपत्तेः । अतो नास्ति लौकिकानामनुपपत्तिः । अथ वैदिकच्छन्दसि— ‘ अश्विभ्यां प्रातः सवनमिन्द्रेणैन्द्रं माध्यन्दिनम् । वैश्वदेव्यं सरस्वत्या तृतीयमाप्तं सवनम् ॥१ ॥ ’
इत्येवमनुष्टुवादौ गत्यभावेऽपि छन्दः सिद्धिदर्शनादक्षरगणनैव तन्त्रं, न गतिः । अत एव गतिबलापतितायाः पञ्चविधाया यतेरपि नैवापेक्षा । दैविकार्यविज्ञानसापेक्षं हि वैदि-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 69
पाठ पढ़ें पाठ छिपाएँ
भूमिका ६५ कानां प्रवृत्तेस्तत्र देवस्वरूपसिद्ध्युपयुक्ताक्षरगणनापेक्षौचित्येऽपि श्रुतिरञ्जनोपयुक्ताया गतेरनुपयोगात् । तस्मादप्रसक्ते गतियती नार्य्ये प्रसक्ते तु तेन निवायेंते । पादव्यवस्था तु यत्यनपेक्षायामपि नूनमपेक्ष्यते । " पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि । ” ( ऋ.सं. ८।४।१७ ) इत्यादिभिर्देवेष्वपि पादव्यवस्थाया दृश्यमानत्वात् । तत्र च पादश्छन्दसो भक्ति विशेषः, स च स्थूलभेदेन संपूर्ण छन्द एव वा द्वितीयस्तृतीयश्चतुर्थः पञ्चमादिको वा यथाविवक्षमपेक्ष्यते । तदनुरोधेनैव गायत्र्यादीनां एकपदी द्विपदी त्रिपदीत्यादिभिः शङ्कुमतीककुद्मतीयवमध्याभुरिगादि - भेदैश्चानेकधात्वसंसाधनात् । तथा च नास्त्येव वैदिकानामप्यनुपपत्तिरिति भाव्यम् ॥ इति छन्द: पदवादः । 13480 अथ छन्दःपदसंहितावादः ननु चतुष्पद्या विषमपादान्ते सन्धिकार्याणि दृश्यन्ते, न तथा समपादान्ते, तत्र को हेतुः? । अत्र वदन्ति - पद्यं हि चतुष्पात्त्वसाधर्म्यात् पशुवद् द्रष्टव्यम् । पशूनां हि पादेषु द्वन्द्वं द्वन्द्वं, संनिकृष्यते चाग्रिमाद् द्वन्द्वात्पश्चिमं द्वन्द्वम् । एवमेव पद्यानां पादेषु प्रथमं द्वयमुत्तमं च द्वयं पृथक् पृथक् संनिधत्ते; तस्मात्तत्र तत्र संहिताकार्याणि भवन्ति । समपादान्ते तु संनिकर्षाभावात् संहिताकार्याणि निवर्तन्ते, ' परः सन्निकर्षः संहिता ' ( पा.व्या.सु. १।४ । १० ९ ) इति सिद्धान्तात् । अथ पुनः कश्चित् प्रत्यवतिष्ठते । कश्चायं परः संनिकर्षः? | यदि हि स्वार-सिकार्धमात्राकालाधिककालव्यवायाभावः संहितेतीष्यते, तर्हि नूनमिहापि विषमपादान्ते संहिताकार्याणि निवर्तेरन्; यजुः प्रातिशाख्यपञ्चमाध्यायस्य प्रथमसूत्रे – “ समासोऽवग्रहो ह्रस्वसमकालः ’ ’ — इत्यनुशासनात् । तदनुरोधेनैवासमस्तपदयोरध्यर्धमात्राकालस्य, यतौ द्विमात्राकालस्य, विरतौ तु सार्धद्विमात्राकालस्य, व्यवच्छेदकत्वस्वीकारापत्त्या संहिताया दूरापास्तत्वात् । अत्रोच्यते — नेदमवग्रहे तावदेकमात्राकालव्यवधानं नियम्यते । “ अवग्रहे तु यः कालस्त्वर्धमात्रा विधीयते " - इति याज्ञ्यवल्क्येन तत्रैवार्धमात्राकालव्यवस्थापनात् । तस्मादवग्रहे क्वचिदेकमात्रयापि व्यवच्छेद इत्यत्रैव कात्यायनतात्पर्यं लभ्यते । युक्तश्चायमर्थः, विच्छेदकालस्य न्यूनाधिकताया विवक्षाधीनतया नियमानुपपत्तेः । अत एव ऋक्प्रातिशाख्ये “ संहिता पदप्रकृतिः ” ( २।१ ) - इत्याख्यायते । संहितायाः पदं प्रकृतिः, पदस्य वा संहिता प्रकृतिरित्युभयथा सूत्रं व्याचक्षते । अर्थे क्वचित्कृतसमयाः संहितावर्णाः पदमिति पदे वर्णस्थित्या संहितास्वरूपं प्रतिपत्तुं युक्तम् । तत्र हि व्यञ्जनयोः स्वरान्तरितयोः स्वरानन्तरितयोर्वा विच्छेदकालो नैकधा भवति । अत एव चावग्रहे समस्तपदे यत्यादौ च भू ० छर्वशी KIanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 70
पाठ पढ़ें पाठ छिपाएँ
६६ छन्दः शास्त्रम् नैकरूपौ विच्छेदकालः क्रमागतः शक्यो नियन्तुम् । विवक्षावशाद्वर्णमैत्रीवशाच्च तारतम्यसंभवात् । यत्तु —
' स्वरान्तरितयोर्मध्यवर्ती व्यञ्जनयोः स्वरः ।
विच्छेदकालो मात्रा वा द्वे मात्रे तिस्र एव वा ॥ १
विच्छिद्येते व्यञ्जनेन व्यञ्जनान्तरितौ स्वरौ ।
व्यञ्जनस्वरयोः कालो विच्छेदस्य न विद्यते ॥ २
संयुक्तयोर्व्यञ्जनयोर्मात्रापादोऽन्तरं भवेत् ।
मात्रापादार्धविच्छेदे गुणसाङ्कर्यसंभवः ॥ ३
समस्तपदयोर्मध्ये विच्छेदस्त्वर्धमात्रकः ।
पादोनमात्राविच्छेदः पदयोरसमस्तयोः ॥। ४
एकक्रियान्वये वाक्यखण्डानां मात्रयान्तरम् ।
सैकद्वित्रिचतुः पादा मात्रा सापेक्षवाक्ययोः ॥ ५
त्रिमात्रा वा चतुर्मात्रा सूक्तपूर्ती विधीयते ।
अधिकारे प्रकरणे ततोऽप्यधिकमिष्यते ॥ ६
श्लोकेऽर्धमात्रा तु यतौ विरतौ मात्रयान्तरम् ।
विच्छेदे त्वत्र मात्रे द्वे अवसाये ततोऽधिकम् ॥ ७
इत्येवं केचन व्यवच्छेदनियमाः प्रदर्श्यन्ते; तदपि औचित्यमात्रसापेक्षं वर्णमैत्रीवशाद्विवक्षावशाच्च क्वचित्तदतिरेकदर्शनात् । यथा ---जायन्ते नव सौ तथापि च नव भ्यांभिसभ्यसां सङ्गमे
षट् संख्यानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि ।
॥
॥
॥
॥
॥
॥
॥ ' व्यवस्थानमात्रम् । चत्वार्यन्यवचः सु कस्य विबुधाः शब्दस्य रूपाणि त-ज्जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ॥ १ ॥
इत्यत्राद्यपादयतौ अर्धमात्रया द्वितीयपादयतौ पादोनमात्रया तृतीयपादयतावेकमात्रया वा व्यवच्छेदोऽवभासते । तृतीयपादान्ते त्वर्द्धमात्रयैव, नैकमात्रयेति नाविदितं नन्वेवं तर्हि विषमपादान्ते समपादान्तेऽपि वा यथाविवक्षं क्वचित् सन्धिकार्याणि भावुकानाम् । क्वचिद्वा निवर्तेरन्नित्यव्यवस्थया वैषम्यं स्यादिति चेत्, -न । द्विविधा संहिता प्रवर्तेरन्, प्राकृता संस्कृता च । या स्वाछ्न्द्येन प्रकृतिमनुवर्तमाना स्वारसिकी, सा प्राकृता स्वतन्त्रा भवति-चाख्यायते । यथा दध्यानयेत्यत्रेकाराकारयोः । या तु स्थलविशेषे वाचनिकी, सा संस्कृता प्रगृह्या चाख्यायते । सा हि नियमेन प्रगृहीतत्वादेव न कस्यचिद्विवक्षयाऽन्यथा यथा विषमपादान्ते संहिता । सा हि यद्यपि कश्चिद्विलम्बेन वर्णानुच्चारयेत् भवति । निवर्तते प्रगृह्यत्वात् । यथा रामेष्वित्यत्र षुभागं तदितरभागात्, अथापि न पृथक्कृत्य यदि विलम्बेनापि कश्चिदुच्चारयेद्, अथापि सा पदप्रकृतिः संहिता न निवर्तते प्रगृह्यत्वात् । इयं समपादान्ते CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA