छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 61–70

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 61–70

पृष्ठ 61

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 61 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ५७ त्रिपाद्गायत्रीत्वमित्येवं भेदेन लक्षणं करिष्यते । दृश्यते हि त्रिपादगायत्र्या वेदमात्र-गोचरत्वमथान्यस्याश्चतुष्पद्या लोकवेदोभयसाधारणत्वमित्यनयोर्भेदप्रतिपत्तेरिति चेत् —न । गायत्रीसामान्यलक्षणस्य जिज्ञास्यत्वात् । नाप्येतदन्यतरत्वं गायत्रीत्वमित्यनेनापि निर्वाहः । पादनिवृत्तः सप्ताक्षरपादैत्रिपाद्गायत्रीत्वेन, पदपङ्क्तेः पञ्चाक्षरपादैः पञ्चपाद्गायत्रीत्वेनापि सुप्रसिद्धेः । किञ्च – षडक्षरकेतरपादाभावसमानाधिकरणं षडक्षरपादत्वं लक्षणमपेक्ष्यते? आहोस्वित् षडक्षरपादसम्बन्धमात्रम् । नाद्यः अतिनिवृत् - प्रतिष्ठा - हसीयसी-वर्धमानोष्णिग्गर्भादीनां गायत्रीत्वानापत्तेः । नान्त्यः; ' एकादशिनोः परः षट्कस्तनुशिरा:, ’ ' मध्ये चेत् पिपीलिकमध्येति ' कात्यायनसूत्राभ्यामुष्णिक्त्वेन प्रतिपन्नयोरपि तनुशिरः-पिपीलिकमध्ययोर्गायत्रीत्वापत्तेः । तस्मात् पादव्यवस्थायामव्यवस्थितत्वान्न पादव्यवस्था-घटितं लक्षणं व्यवतिष्ठत इति स्थितम् । अस्तु तर्हि चतुर्विशत्यक्षरावच्छिन्नत्वं गायत्रीछन्दस्त्वमिति चेत्तदपि नः; “ नाक्षराच्छन्दो व्येत्येकस्मान्न द्वाभ्याम् " इति शतपथश्रुतौ ( ७।१।२।२२ ) “ नह्येकेनाऽक्षरेणान्यच्छन्दो भवति, नो द्वाभ्याम् " इति कौषीतकिश्रुतौ ( २६ अध्या ० १ ) “ न वा एकेनाऽक्षरेण छन्दांसि वियन्ति न द्वाभ्याम् " इति ऐतरेयश्रुतौ ( १।१।६ ) तथान्यत्रापि चैकद्विवर्णेनाऽतिरेकेऽपि गायत्र्यादिच्छन्दोव्याघातप्रत्याख्यानस्य भूयसाम्रेडनात् तथाविधानां श्रुतिप्रामाण्यसिद्धानां निचृद्भुरिगादीनां गायत्रीविशेषाणां चतुर्विंशत्यक्षरानवच्छिन्नतया गायत्रीत्वानापत्तेः । ननु — ' न्यूनाधिकेनैकेन निचृद्भुरिजौ ' ' द्वाभ्यां विराटस्वराजौ ’, ‘ पादपूरणार्थं तु क्षैप्रसंयोगैकाक्षरीभावान् व्यूहेदि ' ति ( सर्वा. परि. ) सूत्रोप-दिष्टया व्यूहमर्यादया चतुर्विंशत्यक्षरकत्वं सेत्स्यतीति चेत् — सत्यम्; एवमपि प्राजापत्या-सुरीदैव्यादीनां गायत्रीविशेषाणां गायत्रीत्वासिद्धिस्तदवस्था स्यात् । तत्र व्यूहमर्यादयापि चतुर्विंशत्यक्षरावच्छिन्नत्वासिद्धेः । न च - चतुर्विंशत्यक्षरावच्छिन्नत्वमार्षीगायत्री-छन्दस्त्वमष्टाक्षरावच्छिन्नत्वं प्राजापत्यागायत्रीत्वं पञ्चदशाक्षरावच्छिन्नत्वमासुरीगायत्री-त्वमित्येवमष्टानामपि गायत्रीविधानां प्रातिस्विकलक्षणानि भविष्यन्तीति वाच्यम्; चतुर्विंशत्य-क्षरावच्छिन्नत्वादीनां विभाजकतावच्छेदकत्वसिद्धावपि विभाज्यतावच्छेदकस्य गायत्रीत्वस्याद्य यावदसिद्ध्या तासामष्टानामपि विधानां गायत्रीविभाजकत्वासिद्धेः । छन्दस्त्वात्मकविभाज्यता-वच्छेदकप्रसिद्धावपि विभाजकतावच्छेदकधर्माप्रसिध्या सप्तच्छन्दांसि — इति सर्ववेदे प्रसिद्धविभागानुपपत्तेश्च । तस्मादवश्यं गायत्रीसामान्यलक्षणं किञ्चिदपेक्षणीयमिति चेत्— अस्त्वेवम् । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वं गायत्रीत्वमित्येवं तावदभिसंधास्यामः । गायत्रीपुरोगमानि हि चतुरुत्तराणि सर्वाणि च्छन्दांसि भवन्ति । तत्र गायत्र्याः सर्वच्छन्दोऽ-पेक्षया सप्ताक्षरघटितत्वात्कनिष्ठत्वं शक्यं वक्तुम् । नन्वेवं सत्यनादिष्टछन्दसामुक्ताऽ-त्युक्तामध्याप्रतिष्ठासुप्रतिष्ठानां सर्वच्छन्दोऽपेक्षया स्वल्पाक्षरत्वाद्, गायत्रीत्वमतिप्रसज्येत! वेदे गायत्र्यादीनामेव छन्दसां सुप्रसिद्धेस्तेषां छन्दस्त्वमेव । नास्तीति तु नापाद्यम् । ताण्ड्यश्रुतौ— “ चतुरुत्तैरेव छन्दोभिरेतव्य " मित्युक्त्वा – “ एकां गायत्रीमेकाहमुपेयुरेकामुष्णिहमेका-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 62

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 62 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८ छन्दः शास्त्रम् हमेकामनुष्टुभमेकाहं - बृहत्या पञ्चमास ईयुः पङ्क्तिमेकाहमुपेयुः त्रिष्टुभा षष्ठं मासमीयुः-श्वो विषुवान् भवितेति जगतीमुपेयुः " इति सूत्रेण गायत्र्यादिभिरहः साधनोक्त्या गायत्र्या अपि चतुरुत्तरच्छन्दप्रतिपादनाद्विंशत्यक्षरायाः सुप्रतिष्ठायाश्छन्दस्त्वानभ्युपगमे गायत्र्या-श्चतुरुत्तरत्वानुपपत्तेः । तथा च तेष्वतिप्रसक्तेर्भेदं गायत्रीलक्षणं साधीय इति चेत् —न । तत्र गायत्रीत्वस्येष्टापत्तेः । तदुक्तं वेदार्थदीपिकायाम्— ‘ “ उक्तादिपञ्चकं कैश्चिद् गायत्रीत्येव कथ्यते " । इति । तथा चेदं लक्षणं निर्दोषमिति चेत् न । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वमित्यत्र हि कान्येतानि सर्वाणि छन्दांसि? किं तावद् गायत्र्युष्णिगनुष्टुबादीनि सप्तच्छन्दांसि, सप्तातिच्छन्दांसि, सप्तकृतिच्छन्दांसीत्येतावन्ति सर्वाणि च्छन्दांसि विवक्षितानि? आहोस्विद् गायत्रीत्वजगतीत्वादिकमनपेक्ष्यैव मात्राक्षरसंख्यया नियता वाचो विवक्ष्यन्ते? तत्र न तावदाद्यः, आर्षीगायत्र्यपेक्षया प्राजापत्योष्णिहः स्वल्पाक्षरतया गायत्रीत्वापत्तेः । तदपेक्षयाधिकाक्षराया आर्षीगायत्र्या गायत्रीत्वानापत्तेश्च । न चार्षीभ्य उष्णिगादिभ्यः स्वल्पाक्षराया आर्षीगायत्रीत्वं प्राजापत्योष्णिगाद्यपेक्षया चाल्पाक्षरायाः प्राजापत्यागायत्रीत्वमित्येवं वक्ष्याम इति वाच्यम् । आसुरीभ्य उष्णिगादिभ्योऽनल्पाक्षराया एवासुरीगायत्रीत्वप्रसिध्द्या तावताऽप्यनिर्वाहात् । गायत्रीत्वोष्णिक्त्वजगतीत्वादीनामिदानीं यावदसिद्ध्या तत्त्वेन विभागासंभवादुष्णिगाद्यपेक्षया अल्पाक्षरत्वस्य गायत्रीपदार्थतावच्छेदकत्वानुपपत्तेश्च । नाप्यन्त्यः, उक्ताया दैवीगायत्र्या वा गायत्रीत्वसिद्धावप्यन्यासां गायत्रीत्वानापत्तेः । तस्मान्नेदं गायत्रीसामान्यलक्षणमिति चेत्; अस्तु तर्हि गायत्रीपदेन याज्ञिकानां प्रसिद्धिरेव गायत्रीत्वम्, नैवम्! ज्ञानस्यैव प्रसिद्धिपदार्थत्वाद् | गायत्रीपदप्रकारकज्ञानविशेष्यत्वमेव गायत्रीत्वमेतेनोक्तं भवति, तच्चायुक्तम् — गायंत्रीपदनिष्ठसंकेतसम्बन्धावच्छिन्नप्रकारतानिरूपितायाज्ञिक-ज्ञानीयविशेष्यतावच्छेदकत्वाप्रसिद्धौ तादृशविशेष्यताया उष्णिगादिष्वव्यावर्तमानतया तेषामपि सर्वेषां गायत्रीत्वातिप्रसक्तेः । तस्माद् यदवच्छेदेन गायत्रीपदप्रसिद्धिः, सोऽतिरिक्तः कश्चन धर्मो वक्तव्य इति चेत्?, अस्तु तर्हि गायत्रीत्वमखण्डोपाधिः; तदवच्छेदेनैव गायत्रीपद-प्रसिद्धिरप्यास्तामिति चेत्?, तुच्छमेतत् । लोकप्रतीतपदार्थके हि विषये पदार्थतावच्छेद-कस्याखण्डोपाधित्वेन कथंचिदभ्युपगमेऽपि साम्यधर्माणामखण्डोपाधित्वस्वीकारस्या-प्रामाणिकत्वात् । तस्मादसिद्धं खलु गायत्रीत्वमिति चेदुच्यते — चतुविंशत्यक्षरावच्छिन्नत्वं गायत्रीत्वमित्येव सिद्धान्तः पक्षः ॥ यस्तु निचृद्भुरिगादिषु दर्शितो व्यभिचारः स तावदयुक्तः । एकेनाक्षरेण द्वाभ्यां वा न्यूनाधिकताया गायत्रीविकृतिप्रयोजकतया सत्यामपि तस्यां विकृतौ प्रकृतिलक्षण-व्याघातासंभवात् । नहि कस्यचिदन्धत्वदोषेण सता प्राणिनश्चक्षुष्मत्त्वलक्षणं व्याहन्यते; न -वा लाङ्गूलच्छेदाद्विषाणभ्रंशाद्वा सास्नालाङ्गूलककुदखुरविषाणित्वरूपं गोलक्षणमलक्षणं भवति । तस्मात्सिद्धं चतुर्विंशत्यक्षरावच्छिन्नत्वमेव गायत्रीत्वम् । अथ यदपि प्राजाप-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 63

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 63 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ५ ९ त्यासुरीदैव्यादिषु व्यभिचारदर्शनान्नेदं लक्षणमित्याख्यातं, तदप्यत एव प्रत्याख्यातं भवति । तासामप्यार्षीविकृतिरूपत्वानतिरेकात् । तथा हि--यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्ष यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥१ ॥ ( ऋ.सं. २।३ । )

इति मन्त्राम्नानादेकस्मिन् छन्दोन्तराधानप्रतिपत्त्या तस्यामेवार्षीगायत्र्यां चतुर्विंशत्य-क्षरावच्छिन्नायामेकाक्षरावच्छेदेन दैवीत्वं, पञ्चदशाक्षरावच्छेदेनासुरीत्वम्, अथाष्टाक्षराव-च्छेदेन प्राजापत्यात्वमित्येवं विभागभेदात्त्रैविध्योपचारः । गायत्रीविभागजत्वाच्चैतासु गायत्री-शब्दो भाक्तः । यद्यपि कौषीतकश्रुतौ मन्त्रोऽयमन्यथा व्याख्यायते यथा-“ यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत् तद्विदुस्ते अमृतत्वमानशुः ॥ ” इति अथो यदिमा देवता एषु लोकेष्वध्यूढाः, -गायत्रेऽस्मिंल्लोके गायत्रोऽयमग्निर-ध्यूढः । त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । जागतेऽमुष्मिंल्लोके जागतोऽसावादि-त्योऽध्यूढ: ” – इति । न चैतावता छन्दसि छन्दोऽन्तरसत्ता मन्त्रार्थ उपलभ्यः, तथापि स्वल्पेन यत्नेनाधिकमर्थमुपदेष्टुमिवाभिवर्तमानानां महर्षीणां बहुविषया हि मन्त्रार्थवादाः भवन्ति । तदतो नाभिगम्यमानं प्रमाणान्तरसिद्धमर्थं सर्वथा प्रत्याख्यातुमवकल्पते । अथ पादश्छन्दसा द्विविधो भवति । विरतिसिद्धो विभागसिद्धश्च । आद्यो न्यूनाधिकाक्षरत्वेऽपि दृश्यते । परस्तु चतुर्थांऽशात्मकः । तत्र चतुर्विंशत्यक्षरनियताया गायत्र्या विभागजैकपा-दहानावार्च्याः, तादृशपादद्वयहानौ साम्याः, पादत्रयहानौ याजुष्याः, पादद्वयाधिक्ये तु ब्राह्म्याः, व्यवस्थापनात्तासामप्यार्षीविकृतिरूपत्वावसायात् । तस्मान्यूनाधिकाक्षरत्वसम्भवेऽपि सिद्धं चतुर्विंशत्यवयवघटितत्वं गायत्रीसामान्यलक्षणम् । एतेनोष्णिगादयोऽपि व्याख्याता इति दिक् ॥ इति छन्दोलक्षणवादः । 8 अथ समासवादः अथ विप्रतिपत्तिः - एके तावत् प्रस्तारसिद्धे स्वरूपे चत्वारो भागा भवन्ति, प्रति भागे वा यत्र तत्र यतिव्यवस्थाप्यनुवर्तते गतिसापेक्षेतीच्छन्ति । १ । अन्ये तु – प्रस्तारशुद्धेषु स्वरूपेषु गतिसम्पन्नानां केषांचित्सजातीयचतुर्व्यूहः समवृत्तं भवति । सजातीयद्विसमुच्चयोऽर्धसमं भवति । अथैकमेव प्रस्तारसिद्धं स्वरूपं चतुर्भागावकल्पनया चतुष्पाद् भवतीति तद्विषमं वृत्तमितीत्थं समासासमासाभ्यां छन्दोभेदाः प्रकल्पन्त इतीच्छन्ति । २ । परे पुनः – सजातीयचतुर्व्यूहः समवृत्तं विजातीयचतुर्व्यूहो विषमवृत्तमथ विजा-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 64

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 64 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६० छन्दः शास्त्रम् तीयद्विसमुच्चयो द्विः प्रयुक्तोऽर्धसमवृत्तं स्यादितिं सर्वत्र समासेनैव छन्दः सिद्धिमिच्छन्ति ।३ । अपरे तु — न खलु पादव्यवस्था छन्दः सिद्धौ तन्त्रं, किं तर्हि?, सिद्धे छन्दसि यथेच्छं पादाः प्रकल्प्यन्ते । तत्र चतुर्थांऽशस्य पादत्वमिति लोकप्रसिद्धिमनुरुन्धानाः केवलं सर्वेष्वेव श्लोकेषु चतुरश्चतुर एव पादान् प्रकल्प्य तत्तल्लक्षणानुरोधेन समार्धसमविषमवृत्तत्वं व्यवस्थापयन्ति । ४ । अत एव श्लोकनिष्ठांश्चतुरोऽवष्टम्भानेवोपसमाधाय तदित-रांस्तथैवानुभूयमानानपि पादव्यवस्थाप्रयोजकत्वेन नापेक्षन्ते । सोऽयमेषां केषांचिच्छान्द-सिकानां सामयिकोऽर्थः स्यात् । वस्तुतस्तु संस्कृते पैङ्गले द्विदलतया सिद्धेष्वप्यार्यादिमात्रावृत्तेषु यथैव द्वादशमात्रासु ततोऽष्टादशमात्रासु ततः पुनरेव द्वादशमात्रासु ततः खलु पञ्चदशमात्रासु यथेच्छं चतुरः पदान् प्रकल्प्य चतुःपदीत्वमार्याया व्यवस्थापितं प्राकृते पैङ्गले । यथा वा द्विदलायामपि दोधायामवष्टम्भानुरोधेन त्रयोदशैकादशमात्रयोः पादत्वं प्रकल्प्य चतुष्पदीत्वमिच्छन्ति, तथैव शार्दूलविक्रीडितादीनामष्टपदीत्वं स्रग्धरादीनां द्वादशपदीत्वं त्रिभङ्गयादीनां षोडश-पदीत्वमित्येवमवष्टम्भानुरोधेन यथायथं पादव्यवस्था द्रष्टव्या । न खलु चतुर्थांऽशः पाद इति युज्यते वक्तुं छन्दोवेदे । वर्णमात्रयोर्न्यूनातिरेकेऽपि तद्व्यवहारदर्शनात् । किं तर्हि पदमिति? विश्रामः पदं भवति, पदात्तु प्रतिपन्नः श्लोकखण्डः पाद इति वक्तव्यम् । अत एवैतेषु विश्रामपदेषु कस्यचिदेकस्य गतिस्वाभाव्यादितरविश्रामपदापेक्षयाऽ-धिकमात्रत्वेनानुभवात्, तत्र सन्ध्यादिविध्यवरोधाच्च सर्वेषामेव श्लोकानां द्विदलत्वं प्रति-पत्तुं युज्यत इत्यन्यदेतत् ॥ एवं स्थिते यान्येतानि श्लोकखण्डान्याख्यातानि तेषामेकैक-प्रस्तारस्वरूपत्वं पार्थक्येन प्रतिपत्तव्यम् । तथा च सप्ताक्षरकप्रस्तारसंबन्धिनां सप्तदशचतु: -षष्टितमोनविंशानां समासेन स्रग्धराच्छन्दः । द्वादशाक्षरप्रस्तारसंबन्धिनोऽष्टादशशतोत्तरैका-शीतितमस्वरूपस्य तथा सप्ताक्षरप्रस्तारसंबन्धिनः सप्तत्रिंशस्वरूपस्य च समासेन शार्दूलविक्रीडितसिद्धिः । इत्येवमेकैकप्रस्तारस्वरूपाणां पदत्वात्तत्समासेन तानि तानि च्छन्दांसि संपद्यन्त इति द्रष्टव्यम् । अथ ब्रूयात् – मसयोर्जसयोरपि षडक्षरप्रस्तारस्वरूपविशेषतया पदत्वसंभवात्तयोरपि समासेन शार्दूलविक्रीडितभागसिद्धिः कस्मान्नाख्यायत? इति । तत्रेदं वक्तव्यम् —यथा हि सङ्घटकशब्दे - संघ - टकशब्दयोर्यथाकथंचित्पदत्वसंभवेऽपि कुतश्चित् कारणान्न तयोः समासेन सङ्घटकशब्दसिद्धिं मन्यन्ते वैयाकरणाः - एवमिहापि स नेष्यताम् । यथा वा शकारद्विवचनेन-‘ “ उदकंपश्श्यति ’ - इति यत्र प्रयुज्यते, तत्रोदकमिति पश्यतीत्येवमेकः पदच्छेदः । जलं निरीक्षते इत्यर्थात् १, अथ - उदकम्प इति श्यतीत्येवमन्यः पदच्छेदः । जलकम्पनं तनूकरोतीत्यर्थात् २, एवमुदिति अकमिति पश्यतीति चान्यः पदच्छेदः । उपरिष्टाद्दुःखमालोचयतीत्यर्थात् ३, तथा उ इति, दकमिति, पशीति, अतीति चापरः पदच्छेदः । पश्शब्दप्रतिपाद्येह्रदाद्यर्थेऽतिशयेनं जलं वितर्क्यत इत्यर्थात् ४, इत्थमनेकधा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 65

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 65 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ६१ संभवेऽपि स्वरविशेषात् पदविभागमध्यवस्यन्ति प्रेक्षावन्त:, तथेहापि गतिविशेषात्पद-विभागाध्यवसायः क्रियते । यत्रैव काचिद्गतिः समाप्नोति तत्रावश्यमवष्टम्भो भवति । अनवष्टम्भे गतिरनुवर्तत इति तन्मध्ये प्रस्तारविशेषानुगतस्वरूपसंभवमात्रेण नानेकपदत्वगतिप्रति-पत्तिर्युज्यते । यथाहि - उद इति उदकमिति कमिति एतेषां समानार्थकपदत्वसम्भवेऽपि नोदकशब्दे उदशब्दस्य दकशब्दस्य कशब्दस्य वा पदत्वं प्रतिपद्यन्त इत्यवधारणीयम् । स चायं समासः पञ्चधा - नित्यसमासः १, विकल्पसमासः २, संकीर्णसमासः ३, प्रकीर्णसमासः ४, उपपदसमासश्च ५ । तत्र समानप्रस्तारानुगतनियतस्वरूपाणामाम्रेडिते नित्यः । यथा - वसन्ततिलकाचरणयोर्नित्यसमस्वरूपयोर्द्विरुक्तिः १ । यत्र तु समान-प्रस्तारानुगतानियतस्वरूपाणां समुच्चयः, तत्र विकल्पः । यथा - पथ्यावक्रचरणयोरपि भिन्नसंस्थानयोरभिनिवेशः २ । यदि तु विभिन्नप्रस्तारानुगतनियतस्वरूपाणां समुच्चयस्तदा सङ्कीर्णः । यथा - पुष्पिताग्राचरणयोर्द्वादशाक्षर - त्रयोदशाक्षरप्रस्तारानुगतखण्डपदवत्प्रतिपत्तिः । यथा उदकशब्दे उदिति निपातस्याञ्चतिवृत्तेन समुच्चयेऽप्यखण्डवदुपचारः । यथा वा — समुद्रशब्दे न निर्णीयते सशब्दमुद्राशब्दसमुच्चयो वा ( १ ) संमुन्निपातयोर्द्रवतिवृत्तेन समुच्चयो वा ( २ ) समिति निपातस्य जलार्थकोदशब्दस्य रातिवृत्तेन समुच्चयो वा ( ३ ) समितिनि-पातस्य उनत्तिवृत्तेन समुच्चयो वेति ( ४ ) । संज्ञाशब्दोऽयमखण्डवत् प्रतिपन्नः । अभिप्राय-विशेषात्तु तं तं पदविभागमन्वाचक्षते नैरुक्ताः । एवमिहापि यथार्य्याजातौ षष्टडकारादि-भूतलकारादुत्तरस्य कलात्रयस्य नखान्यतररूपतयाऽभिनेतव्यस्य निपातरूपत्वाद्विभिन्न-पदत्वमेवाधिगम्यतेऽथाप्यखण्डवदुपचारः ( ५ ) । एवमेवान्यत्रान्यत्रापि द्रष्टव्यम् । अथ प्रकारान्तरेणायं समासो द्वेधा - पादखण्डः, पदखण्डश्च । यत्र समासारम्भकपदयोः पूर्वोत्तरपादत्वं तत्र पादखण्डः, अन्यत्र पदखण्डः । स चायं विवक्षाधीनः । तेन भक्षभक्षसमासस्य पादखण्डत्वेऽक्षरपङ्क्तिः सम्पद्यते, पदखण्डत्वे तु चम्पकमाला स्यात् । तत्र पादखण्डः समासान्तरेण गर्भितश्चागर्भितश्च भवति, पदखण्डस्त्वगर्भित एव । अथ नित्यवि-कल्पाद्यन्यतमसमासे समस्तयोर्द्वयोः प्रयोगादेकः श्लोको भवति । तदिदं मन्दं मन्दमित्यादि-वत् द्विरुक्तिर्न समासः । अथ वैदिकानां तु समस्तैकदेशद्विरुक्त्यापि छन्दः सिद्धिर्द्विर्वचना-भावेन समासाभावेन च । यथा त्रिपदा द्विपदा एकदा ऋक् ॥ इति समासवादः । 83480 अथ छन्दः पदवादः अथातः पदप्रतिपत्तौ जिज्ञासा समुपतिष्ठते - किं तावत् प्रस्तारसिद्धस्वरूपेषु पद-त्वेनाभ्युपगतेषु द्वयोश्चतुर्णां वा सजातीयानां विजातीयानां वा समवायेन छन्दः सिद्धिरस्ति? किंवा प्रस्तारसिद्धस्वरूपे छन्दस्त्वेनाभ्युपगते विच्छेदविरतियत्यपेक्षं पदविशेषव्यवस्थानम-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 66

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 66 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२ छन्दः शास्त्रम् स्तीति । कुत एतत्? उभयथा ह्यत्र प्राचां व्यवहारा उपलभ्यन्ते । लौकिकास्तावत्-विषमार्धसमसमत्वेनाभ्युपगतेषु वृत्तेषु विजातीयानां सजातीयानां वा विरतिमत्पदानां द्विर्वा-केन चतुर्वाकेन वा छन्दः साध्यते, तत्तर्हि यतिमत्पदस्य षड्वाकेनाष्टवाकेन वा कस्मा-च्छन्द: सिद्धिरपोह्यते? यदि तूपदेशलाघवायाधिगमसौकर्याय वा विरतिमत्पदे यतिव्यव-स्थापेक्ष्यते, तत्तर्हि वरमस्मिन् छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतयः प्रकल्प्य-न्तामलमर्धजरतीयाभ्युपगमेन । अथ वैदिकाः पुनश्चतुरुत्तराणि छन्दांस्यभ्युपगच्छन्तश्चतुर्विंशत्यक्षरादिकाया वाचो गायत्रीत्वादिकमभिख्यापयन्तश्छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतिव्यवस्थया पद-सिद्धिं मन्यन्ते । अन्तरेणापि तु यतिं पदव्यवस्थामास्थाय छन्दः स्वरूपसिद्धिं प्रति जानते । तत्रेयं विप्रतिपत्ति: -' सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ॥ ' ' तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि ॥ ' इत्यनयोर्माध्यंदिनाभ्युपगतयोर्जगत्यनुष्टुभोर्विच्छेदो दृश्यते, विरतिर्नास्ति । ‘ सुमित्रियान आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । इत्यस्यां माध्यन्दिनीयानामाष्यानिचृदनुष्टुिभि न विच्छेदो न विरतिः ।

‘ अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्यायां रताः ' ॥ १ ॥

‘ या व्याघ्रं विषूचिकोभौ वृकं च रक्षतः । श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः ॥ ' इत्यनयोराष्योंर्निचृदनुष्टुबुष्णिहोरव्यवस्थिते विच्छेदविरती विज्ञायते सर्वत्रैव छन्दः सिद्धौ विच्छेदविरत्यपेक्षा नास्तीति । अथ पुनः-( बाज.खं. ४०।९ ) दृश्येते । ततो नु खलु “ क्षत्रस्य योनिरसि, क्षत्रस्य नाभिरसि, मा त्वा हिंसीन्मा मा हिंसी: ” इत्यत्र विराड् गायत्रीत्वमस्वीकृत्य द्विपदां विराजमभ्युपगच्छन्ति, ततः खलु सर्वत्रैव छन्दः सिद्धौ विच्छेदापेक्षा लभ्यते । अथानुष्टुभः सर्वछन्दस्त्वं प्रतिपादयितुं मैत्रायणीयानामाम्नायते— “ अनुष्टुभो वा एतस्याः सत्यास्त्रीण्यष्टाक्षराणि पदानि एकं सप्ताक्षरम् । यत्सप्ताक्षरम् तस्य चत्वार्यक्षराणि एकस्मिन् पदे उपयन्ति त्रीण्येकस्मिन् । यत्र चत्वार्य्युपयन्ति सा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 67

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 67 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

जगती । यत्र त्रीणि छन्दोभिर्हुतं भवति भूमिका सत्रिष्टुप् । यदष्टाक्षरं तेन गायत्री ॥ छन्दः प्रतिष्ठानो वै यज्ञः छन्दस् ८।८।८।७ ८1८1८ .।३।४ ८ | ११ | १२ | ६३ यदनुष्टुप् - तेनानुष्टुप् । सर्वैरवास्य वा वास्यै तद्यज्ञं प्रतिष्ठापयामः ” । इत्येवमाचक्षाणेन गायत्र्यादीनां पादव्यवस्थानिर्भरत्वसमाख्यानात् सर्वत्र छन्दः सिद्धौ विरतेरप्यपेक्षास्तीत्युपगम्यते । तदित्थमसमञ्जसमेतत् । यत्तु ब्रूयात् - नास्त्य - सामञ्जस्यम्; • उभयथाप्युपपत्तेः । इदं तावद् ब्रूमः - अस्त्येव सर्वत्र नियमेन छान्दसिकविच्छेदविरतिप्रक्लृप्ति-रिति । ‘ सवितुस्त्वे ’ त्यादौ ‘ सुमित्रिये ' त्यादौ चार्थिकपदानुपलम्भेऽपि छान्दसिकपदस्याक्षर-गणनासिद्धस्यापलापायोग्यत्वात् । यत्र त्वक्षरगणना न समाप्नोति तत्रापि ' क्षैप्रसंयोगका-क्षरीभवन् व्यूहेद् ” ( ऋ.सर्वा.३ ) इति कात्यायनोक्तदिशा उच्चारणसौकर्यानुकूल्येन व्यूहनाद्

गणना द्रष्टव्या । यथा-रुचं नो धेहि ब्राह्मणेषु रुचं राजसु धारय ।

रुचं वैश्येषु शूद्रेषु मयि धेहि रुचारुचम् ॥

इत्यादौ हिकारेकारस्य ह्मकाराकारस्य वा अविद्यमानवद्भावादष्टाक्षरत्वम् । तथा—

पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदत्रेनातिरोहति ॥१ ॥

समानी व आकूतिः समाना हृदयानि वः ।

समानमस्तु वो मनो यथा वः सुसहासति ॥२ ॥

( ऋ.सं. ८।८।४ ९ ) इत्यादौ भावियमित्येवं ( वह ) इत्येवं च वर्णाभ्युच्चयेनोच्चारणादष्टाक्षरत्वम् । तदित्थं वैदिकानां व्यवहारे पादपूरणानुरोधेन व्यूहः यवहस्वराणामितरवर्णसमभिव्याहारानुकूल्य-प्रातिकूल्यतारतम्यसापेक्ष्यमभ्युच्चयेनाविद्यमानवद्भावेन वेति छान्दसी परिभाषा द्रष्टव्या । इत्थं व्यूहोऽपि सिद्धो वेदपुरुषाणामुच्चारणे, सिद्धान्वाख्यानं च शास्त्रं न शक्नोति चिरन्तनव्यवहारसिद्धमर्थमपलपितुम् । अतं एव पृथ्वीशब्दस्य पृथिवीपृथवी रूपाभ्यामुच्चारितस्यापि दृश्यते विधायकं वैयाकरणवचनम् । यत्र तु न दृश्यते विधिवचनं, सोऽयमन्वाख्यापकदोषो भवति; न तु व्यवहर्तृणामाद्यानां स्वतन्त्राचार्याणां नापि वा चिराद् व्यवह्रियमाणस्यार्थस्येति दिक् ॥ अथान्यथा ब्रूमः-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 68

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 68 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४ छन्दः शास्त्रम् नास्त्येव सर्वत्र नियमेनार्थिकविच्छेदविरतिप्रक्लृप्तिरिति । अनुष्टुभः सर्वच्छन्दस्त्वोपपादक-मैत्रायणीयश्रुतौ यजुर्मन्त्राणामनुक्रमणिकोक्तच्छन्दोव्यवहारे चानपेक्ष्यैवार्थिकं पदं छन्दःस्वरूपोपपादनात् ॥ तस्मादुपपन्नो वैदिकव्यवहार इति चेत् - तन्न; छन्दः छन्दः साङ्कर्यप्रसक्तेः ।— ' एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे ऋक्सामाभ्यां सन्तरन्तो यजुर्भी रायस्पोषेण समिषा मदेम इमा आपः शमु मे सन्तु देवी: स्वरूपसिद्धौ सर्वथैवार्थानपेक्षायां । | ओषधे त्रायस्व स्वधिते मैनं हिंसीः ॥ ' इत्यस्यां सप्तत्यक्षरायां विरारूपायां ब्राह्मीजगत्यामेकादशाक्षरैश्चतुर्भिरार्घ्यास्त्रिष्टुभ-स्त्रयोदशाक्षराभ्यां चासुर्योरनुष्टुभोरपि संभवात् । उपलक्षणमेतत् । द्वादशाक्षराभ्यामेकाद-शाक्षराभ्यां च षट्चत्वारिंशदक्षराया विराडार्षीजगतीत्वेऽभ्युपगते चतुर्विंशत्यक्षरा-वशेषादार्षीगायत्रीत्वसंसिद्धेः । न च ' देवतादितश्च ' ( छ. शा. ३।६२ ) इत्याद्यनुशासनादिष्ट-सिद्धिः । ब्राह्मीजगत्यामार्षीजगतीत्वादिना साङ्कर्यस्येदानीमप्यनिरोधात् । तस्माद् गतिसिद्ध-मार्थिकं विरतिमत्पदमनुरुद्ध्यैव तत्तछन्दोऽवयवभूतानां पदानां पदाख्यानां व्यवस्था शक्या प्रतिपत्तुम्, -अतस्तदवस्थमसामञ्जस्यम् ॥ अत्रोच्यते- लौकिकच्छन्दसि तावद् गतिस्तन्त्रम् । गतिबलापतिता हि यतिर्गत्य-नुगमानुरोधादेव पञ्चधा स्वरूपं धत्ते । अयति:, यतिः, विरतिः, विच्छेदः, अवसायश्चेति । तत्र यावता पुनरावृत्तिः प्रायेण तत्रैव विरतेर्दृश्यमानतया तदनुरोधाद् द्विदलत्वं चतुष्पदत्वं षट्पदत्वं वा व्यवस्थाप्यते । अत एव तत्र नियता पादानुरोधिनी छन्दः सिद्धिः । पादत्वं च पुनरावर्तमानत्वे सति विरतिपत्पदत्वम् । यतिमत्पदस्यावृत्तेविरत्यन्तरितया विरतिमत्पदेतरतया च नैतस्य पादत्वमभ्युपगच्छन्तिं अर्धसमविषमादौ तु पादव्यवहारो ' रजकाय वस्त्रं ददाती’-त्यादौ दानव्यवहारवद् भाक्तः । पुनरावर्तमानत्वाभावेऽपि विरतिमत्पदत्वानुवर्तनात्तत्वोपपत्तेः । अतो नास्ति लौकिकानामनुपपत्तिः । अथ वैदिकच्छन्दसि— ‘ अश्विभ्यां प्रातः सवनमिन्द्रेणैन्द्रं माध्यन्दिनम् । वैश्वदेव्यं सरस्वत्या तृतीयमाप्तं सवनम् ॥१ ॥ ’

इत्येवमनुष्टुवादौ गत्यभावेऽपि छन्दः सिद्धिदर्शनादक्षरगणनैव तन्त्रं, न गतिः । अत एव गतिबलापतितायाः पञ्चविधाया यतेरपि नैवापेक्षा । दैविकार्यविज्ञानसापेक्षं हि वैदि-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 69

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 69 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ६५ कानां प्रवृत्तेस्तत्र देवस्वरूपसिद्ध्युपयुक्ताक्षरगणनापेक्षौचित्येऽपि श्रुतिरञ्जनोपयुक्ताया गतेरनुपयोगात् । तस्मादप्रसक्ते गतियती नार्य्ये प्रसक्ते तु तेन निवायेंते । पादव्यवस्था तु यत्यनपेक्षायामपि नूनमपेक्ष्यते । " पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि । ” ( ऋ.सं. ८।४।१७ ) इत्यादिभिर्देवेष्वपि पादव्यवस्थाया दृश्यमानत्वात् । तत्र च पादश्छन्दसो भक्ति विशेषः, स च स्थूलभेदेन संपूर्ण छन्द एव वा द्वितीयस्तृतीयश्चतुर्थः पञ्चमादिको वा यथाविवक्षमपेक्ष्यते । तदनुरोधेनैव गायत्र्यादीनां एकपदी द्विपदी त्रिपदीत्यादिभिः शङ्कुमतीककुद्मतीयवमध्याभुरिगादि - भेदैश्चानेकधात्वसंसाधनात् । तथा च नास्त्येव वैदिकानामप्यनुपपत्तिरिति भाव्यम् ॥ इति छन्द: पदवादः । 13480 अथ छन्दःपदसंहितावादः ननु चतुष्पद्या विषमपादान्ते सन्धिकार्याणि दृश्यन्ते, न तथा समपादान्ते, तत्र को हेतुः? । अत्र वदन्ति - पद्यं हि चतुष्पात्त्वसाधर्म्यात् पशुवद् द्रष्टव्यम् । पशूनां हि पादेषु द्वन्द्वं द्वन्द्वं, संनिकृष्यते चाग्रिमाद् द्वन्द्वात्पश्चिमं द्वन्द्वम् । एवमेव पद्यानां पादेषु प्रथमं द्वयमुत्तमं च द्वयं पृथक् पृथक् संनिधत्ते; तस्मात्तत्र तत्र संहिताकार्याणि भवन्ति । समपादान्ते तु संनिकर्षाभावात् संहिताकार्याणि निवर्तन्ते, ' परः सन्निकर्षः संहिता ' ( पा.व्या.सु. १।४ । १० ९ ) इति सिद्धान्तात् । अथ पुनः कश्चित् प्रत्यवतिष्ठते । कश्चायं परः संनिकर्षः? | यदि हि स्वार-सिकार्धमात्राकालाधिककालव्यवायाभावः संहितेतीष्यते, तर्हि नूनमिहापि विषमपादान्ते संहिताकार्याणि निवर्तेरन्; यजुः प्रातिशाख्यपञ्चमाध्यायस्य प्रथमसूत्रे – “ समासोऽवग्रहो ह्रस्वसमकालः ’ ’ — इत्यनुशासनात् । तदनुरोधेनैवासमस्तपदयोरध्यर्धमात्राकालस्य, यतौ द्विमात्राकालस्य, विरतौ तु सार्धद्विमात्राकालस्य, व्यवच्छेदकत्वस्वीकारापत्त्या संहिताया दूरापास्तत्वात् । अत्रोच्यते — नेदमवग्रहे तावदेकमात्राकालव्यवधानं नियम्यते । “ अवग्रहे तु यः कालस्त्वर्धमात्रा विधीयते " - इति याज्ञ्यवल्क्येन तत्रैवार्धमात्राकालव्यवस्थापनात् । तस्मादवग्रहे क्वचिदेकमात्रयापि व्यवच्छेद इत्यत्रैव कात्यायनतात्पर्यं लभ्यते । युक्तश्चायमर्थः, विच्छेदकालस्य न्यूनाधिकताया विवक्षाधीनतया नियमानुपपत्तेः । अत एव ऋक्प्रातिशाख्ये “ संहिता पदप्रकृतिः ” ( २।१ ) - इत्याख्यायते । संहितायाः पदं प्रकृतिः, पदस्य वा संहिता प्रकृतिरित्युभयथा सूत्रं व्याचक्षते । अर्थे क्वचित्कृतसमयाः संहितावर्णाः पदमिति पदे वर्णस्थित्या संहितास्वरूपं प्रतिपत्तुं युक्तम् । तत्र हि व्यञ्जनयोः स्वरान्तरितयोः स्वरानन्तरितयोर्वा विच्छेदकालो नैकधा भवति । अत एव चावग्रहे समस्तपदे यत्यादौ च भू ० छर्वशी KIanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 70

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 70 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६ छन्दः शास्त्रम् नैकरूपौ विच्छेदकालः क्रमागतः शक्यो नियन्तुम् । विवक्षावशाद्वर्णमैत्रीवशाच्च तारतम्यसंभवात् । यत्तु —

' स्वरान्तरितयोर्मध्यवर्ती व्यञ्जनयोः स्वरः ।

विच्छेदकालो मात्रा वा द्वे मात्रे तिस्र एव वा ॥ १

विच्छिद्येते व्यञ्जनेन व्यञ्जनान्तरितौ स्वरौ ।

व्यञ्जनस्वरयोः कालो विच्छेदस्य न विद्यते ॥ २

संयुक्तयोर्व्यञ्जनयोर्मात्रापादोऽन्तरं भवेत् ।

मात्रापादार्धविच्छेदे गुणसाङ्कर्यसंभवः ॥ ३

समस्तपदयोर्मध्ये विच्छेदस्त्वर्धमात्रकः ।

पादोनमात्राविच्छेदः पदयोरसमस्तयोः ॥। ४

एकक्रियान्वये वाक्यखण्डानां मात्रयान्तरम् ।

सैकद्वित्रिचतुः पादा मात्रा सापेक्षवाक्ययोः ॥ ५

त्रिमात्रा वा चतुर्मात्रा सूक्तपूर्ती विधीयते ।

अधिकारे प्रकरणे ततोऽप्यधिकमिष्यते ॥ ६

श्लोकेऽर्धमात्रा तु यतौ विरतौ मात्रयान्तरम् ।

विच्छेदे त्वत्र मात्रे द्वे अवसाये ततोऽधिकम् ॥ ७

इत्येवं केचन व्यवच्छेदनियमाः प्रदर्श्यन्ते; तदपि औचित्यमात्रसापेक्षं वर्णमैत्रीवशाद्विवक्षावशाच्च क्वचित्तदतिरेकदर्शनात् । यथा ---जायन्ते नव सौ तथापि च नव भ्यांभिसभ्यसां सङ्गमे

षट् संख्यानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि ।

॥ ' व्यवस्थानमात्रम् । चत्वार्यन्यवचः सु कस्य विबुधाः शब्दस्य रूपाणि त-ज्जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ॥ १ ॥

इत्यत्राद्यपादयतौ अर्धमात्रया द्वितीयपादयतौ पादोनमात्रया तृतीयपादयतावेकमात्रया वा व्यवच्छेदोऽवभासते । तृतीयपादान्ते त्वर्द्धमात्रयैव, नैकमात्रयेति नाविदितं नन्वेवं तर्हि विषमपादान्ते समपादान्तेऽपि वा यथाविवक्षं क्वचित् सन्धिकार्याणि भावुकानाम् । क्वचिद्वा निवर्तेरन्नित्यव्यवस्थया वैषम्यं स्यादिति चेत्, -न । द्विविधा संहिता प्रवर्तेरन्, प्राकृता संस्कृता च । या स्वाछ्न्द्येन प्रकृतिमनुवर्तमाना स्वारसिकी, सा प्राकृता स्वतन्त्रा भवति-चाख्यायते । यथा दध्यानयेत्यत्रेकाराकारयोः । या तु स्थलविशेषे वाचनिकी, सा संस्कृता प्रगृह्या चाख्यायते । सा हि नियमेन प्रगृहीतत्वादेव न कस्यचिद्विवक्षयाऽन्यथा यथा विषमपादान्ते संहिता । सा हि यद्यपि कश्चिद्विलम्बेन वर्णानुच्चारयेत् भवति । निवर्तते प्रगृह्यत्वात् । यथा रामेष्वित्यत्र षुभागं तदितरभागात्, अथापि न पृथक्कृत्य यदि विलम्बेनापि कश्चिदुच्चारयेद्, अथापि सा पदप्रकृतिः संहिता न निवर्तते प्रगृह्यत्वात् । इयं समपादान्ते CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA