छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 71–80

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 71–80

पृष्ठ 71

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 71 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ६७ नाभ्युपगम्यते, तस्माददोषः । अन्येऽपि वदन्ति - भिद्यते हीयं संहिता वर्णाक्षरपदपादपद्यादिषु प्रत्यर्थं प्रत्यर्थं रूपभेदेन । वर्णसंहिता हि बलतारतम्येन वर्णगुणादिकं परवर्णे संचारयति । अक्षरसंहिता तु किञ्चिद्वर्ण किञ्चिदक्षराङ्गत्वेनावकल्पयति । तथा पदसंहिता वर्णानन्योन्यं संनिधापयति । अखण्डपदसंहितानिवृत्तिस्त्ववग्रहशब्देनोच्यते । उक्ताश्चैते संहिताविशेषधर्मा वर्णसमीक्षायां संहितोपनिषत्प्रकरणे । तत्रेयं पदसंहिता वर्णानां विलम्बेनोच्चारणं तु सहते, सन्धिकार्यप्रतिपत्तौ तु वर्णसंहिता तन्त्रम् । नैषात्यन्तं वर्णसानिध्यमपेक्षते; राघवेणेत्यादौ षण्मात्राविलम्बेऽपि रेफसंहितानिबन्धनणत्वकार्यदर्शनात् । तथा चेयं सन्धिकार्यप्रयोजिका संहिता यावन्तं कालं सहते, तावत्कालानतिपातेनैव विषमपादान्ते विश्रामः कर्तव्य इत्यादिश्यते । अधिकं तु ततः समपादान्ते इत्यतो न तत्र सन्धिकार्याणि प्रवर्तन्ते । परे त्वाहुः - अतिविलम्बेनोच्चारणेऽपि विषमपादान्ते सन्धिकार्याणि भवन्ति । अनतिविलम्बेनोच्चारणेऽपि समपादान्ते न भवन्ति । राघवेणेत्यादौ षण्मात्राविलम्बेऽपि सन्धिरनुवर्तते पुनर्नतु रघुनाथादावतिसांनिध्येऽपि निवर्तते । तस्मान्नैतदुक्तं युक्तम् । वस्तुतस्तु—

' संहितैकपदे नित्या नित्या धातूपसर्गयोः ।

नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥

इति यथा वैयाकरणा धातूपसर्गादौ नित्यत्वं वाचनिकं फलबलादनुजानन्ति; तथैव खलु विषमपादान्ते संहिताया नित्यत्वं, समपादान्ते तु संहिताया अविवक्षितत्वं फलानुरोधादेव छान्दसिका अनुजानन्ति । तस्माच्छान्दसिकसमयसिद्ध एवायमर्थ इत्यलमतिचिन्तया ॥ इति छन्दः पदसंहितावादः 1998 यतिदोषवादः ननु विभक्तिकृतानां पदानां विभक्तेः प्राक् क्रियमाणाया यतेर्दुष्टत्वमन्वाख्यायते तन्नावकल्पते, दुष्टत्वहेत्वलाभात् । तत्तच्छन्दोवृत्ते नियतस्थानेष्वेव हि यतिमन्वाचक्षते छान्दसिकाः । स्थाननियमश्च वर्णमात्रान्यतरनिबन्धनो न तु विभक्तिपौर्वापर्यनिबन्धनः संभ-वति । विभक्त्त्यादीनां वैयाकरणपदार्थत्वेन छन्दः शरीरे तदप्रवेशेन च छन्दः स्वरूपसिद्धौ तदनपेक्षणात् । ऊनविंशत्यक्षरपादे शार्दूलविक्रीडितद्वादशाक्षरस्य यतिमत्त्वमन्वाख्यायते । तदिदं यदि त्रयोदशाक्षरे कृतं स्यासत्तर्हि युक्तो वक्तुं दोष: । द्वादशाक्षरे तु कृतया यत्या छन्दः स्वरूपसंपादने विभक्तिपूर्वत्वमप्रयोजकमप्रतिबन्धकं चेति । न च व्याकरणानुसारेणा-प्ययं दोषः संभवति । तत्र विभक्तेः प्राग् यतिकरणप्रतिषेधाननुशासनात् । नापि व्युत्पत्ति-शास्त्रानुमतोऽयं दोषः । तत्र प॑दयोः स्वप्र॑योज्यपदार्थोपस्थित्यवहितोत्तरजायमानशाब्दबोधे यद्यप्याकाङ्क्षायोग्यतेत्यादिवदासत्तेः कारणत्वमन्वाख्यायते, यतिश्चासत्तिप्रतिबन्धिनी, तथापि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 72

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 72 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८ छन्दःशास्त्रम् तावता शाब्दबोधप्रतिबन्धः स्यात्, न छन्दसः स्वरूपहानिः । तत्र यतेरिष्टत्वात् । अथवा नेयं यतिरासत्तिविरोधिनी, एतावद्विलम्बेऽप्यर्थावबोधप्रतिबाधादर्शनात् । इतरथा कुत्रापि यतिमता वृत्तेनार्थावगतिर्न स्यादासत्तिप्रतिबन्धात् । अत एव परमसन्निकर्षात्मकसंहितानि-बन्धनं सन्धिकार्यमपि न विरुध्यते । तस्मादस्त्येव नामविभक्त्यात्मकयोः पदयोर्यत्यवरुद्धयोर-प्यासत्तिरर्थबोधोपयोगिनीति न व्युत्पत्तिशास्त्रविरोधः । अथाप्रयुक्तिदोषदुष्टत्वं स्यादिति चेत्तदपि न । ' यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भे-ऽहङ्कारोऽभूत् खकशिखिजलोर्व्यस्ततः संहतेश्च । ब्रह्माण्डं यज्जठरगमहीपृष्ठनिष्ठाद् विरञ्चे-र्विश्वं शश्वज्जयति परमं ब्रह्म तत्तत्त्वमाद्यम् ॥ १ ॥। '

इत्यादिष्वभियुक्तकर्तृकप्रयुक्तिविषयतादर्शनात् । तस्माद्विभक्तिकृत पदे यतिप्रतिषेधो निर्मूल इति चेत्, अत्रोच्यते— इह हि छन्दोवृत्तजाते मात्रावर्णान्यतरनियतस्थाने यतिः कर्तव्या इत्येको विधिः । सा च यतिर्नामविभक्तिमध्यवर्तिनी यथा स्यात्तथा विभक्तिकृतपदं न प्रयोज्यमित्यपरोविधिः । तत्र छन्दःस्वरूपं स्वाभिव्यञ्जकवर्णपरम्परामात्रसापेक्षं यद्यपि तत्तद्वर्णसमष्टेरर्थं नापेक्षत इति पूर्वेणैव विधिना छन्द: सिद्धिः कृतार्था भवति, तथापि सार्थकपदविन्यासेन छन्दः स्वरूपं सम्पिपादयिषून् प्रत्ययमपरो विधिरुपतिष्ठेत यत्यवरुद्धं विभक्तिकृतृमदं न प्रयोज्यमिति । अयं भावः — पदं द्विविधं यतिकृतमर्थकृतं च । तदुभयविधमेवानवच्छिन्नवर्णपरम्परा-सापेक्षमित्यवश्यं यतियोग्यस्थाने विभक्तिकृतपदप्रयोगे विप्रतिषेधः प्राप्नोति । अर्थानुरोधिनी हि पदयतिर्विभक्त्यन्ते स्थानं लभत इत्यवश्यं विभक्तेः प्रागनवच्छेदम-पेक्षते । अथ छन्दोऽनुरोधिनी पदयतिस्तत्र विभक्तेः प्रागेव स्थानं लभत इत्यवश्यं विभक्तिविभक्तिमतोरनवच्छेदं प्रतिषेधति । तत्रेदं द्वैधमिव स्यात् — अर्थगतिमनपेक्षमाणो हि प्रयोजयिता छन्दःस्वरूपमात्रदिदर्शयिषया प्रवर्तमानोऽवश्यं छान्दसयति प्राधान्याद् विभक्तेः प्रागेव छन्दोनियताक्षरे यतिमासादयेदित्यर्थमपेक्षमाणस्य श्रौतुरमनोरञ्जनं स्यात् ॥ १ ॥

अथार्थबुबोधयिषयैव प्रवर्तमानस्तु नूनमर्थानुरोधेनैव छन्दोवृत्तं प्रयोजयन्नार्थिकयतिप्राधा-न्याद् विभक्त्यन्ते यतिमासादयेदिति छन्दोयाथात्म्यमपेक्षमाणस्य श्रोतुरमनोरञ्जनं सेयमनवक्लृप्तिः । अतः स्थाने कृतं विभक्तिकृतपदे यतिप्रतिषेधशास्त्रमिति स्यात् ॥ २ ॥

दिक् ॥ इति यतिदोषवादः । 848 अथ पञ्चाङ्गतावादः ननु यदि सर्वस्यैवार्थजातस्यैकान्ततश्छन्दोबद्धत्वं स्वीक्रियते, तत्तर्हि नूनमिदं छन्दोऽपि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 73

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 73 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ६ ९ छन्दोबद्धं स्यात्; स तर्हि पद्यच्छन्दोवेदः किमिति पञ्चाङ्ग एवोच्यते? न च्छन्दसा षडङ्गः प्रतिविधीयते? । अथ - यदि नेदं छन्दश्छन्दोबद्धमिति मन्यसे, तत्तर्हि छन्दसः सर्वानुगतत्वप्रतिज्ञाहानिरिति चेत्, – - सत्यम् । यथेदं ब्रह्मणो व्यापकत्वं मन्यन्ते तथेदं द्रष्टव्यम् । यदि नामास्य ब्रह्मणो ब्रह्मवृत्तित्वमाख्यायते तत्तर्हि द्वैतं भवति । अद्वितीयं तु ब्रह्मेत्याचक्षते ब्रह्मविदः । यदि तु ब्रह्मवृत्तित्वं नास्तीत्यभिमन्यते, तत्तर्हि तस्य ' व्यापकत्वप्रतिज्ञाहानिः प्रसज्यते । अथ यद्यनवस्थादोषात् तेजः शब्दप्रमाणादिवदस्य ब्रह्मणः स्वरूपेणावभासमानस्य नेतरापेक्षेत्युच्यते, तत्तर्हि तुल्यं छन्दोवेदेऽपि । स्वरूपेणैव छन्दसां छन्दोबद्धत्वादितरच्छन्दोऽनपेक्षणात् । परे त्वाहुः - भवति नूनं गत्यध्वपरिच्छित्तिर्नाम छन्दसां छन्दो लिप्यध्वपरिच्छित्तेश्छन्दोलिपिच्छन्दस्त्ववत् । सा चाध्वपरिच्छित्तिः प्रत्ययो भवति । यया परिच्छिन्नानामनेकेषामायतनसाम्येन प्रवर्तनं दृश्यते । आयतनमेव तज्जातीये-तरायतनसाम्यापेक्षया अध्वपरिच्छित्तिरित्युच्यते । अवश्यं हि सर्वस्याप्येतस्य वस्तुजातस्य स्वरूपसंपादनाद्यन्योद्देशेन प्रवर्तमानस्य कश्चिदध्वा भवति । तेनाध्वना प्रक्रममाणस्य सौकर्य सौन्दर्यं चानुभूयते । स्वमार्गात् प्रच्यवमानस्य च तस्य क्लिष्टत्वं कुरूपत्वं च जायते । तस्मादयमध्वयोगश्छन्दसां छन्दः । नन्वेवं तर्हि पद्यच्छन्दोवेदस्य षड्भिरङ्गैर्भवितव्यमिति चेत्, – सत्यम् । अस्ति षडङ्गो वेदत्वात् । वेदस्य षडङ्गत्वनियमात् । स्वल्पविषयत्वात्तु नायमध्वयोगः पार्थक्येनेह निरूपित इति द्रष्टव्यम् ॥ इति छन्दोवेदपञ्चाङ्गतावादः । 13480 अथ छन्दोविज्ञानसार्थकतावादः इदं तावच्छन्दोविज्ञानशास्त्रमनारम्भणीयमनर्थकत्वात् । चतुरर्थं हि शास्त्रमारभ्यते— अविज्ञातार्थज्ञापनार्थं, हेयार्थनिरसनार्थं सामर्थ्यम् - अशेषोद्रेकार्थम्, इतरवेदोपकारार्थं चेति । तत्रेदं छन्दोविज्ञानशास्त्रं नैषामन्यतमं कमप्यर्थ संसाधयितुमीष्टे-( १ ) कस्तावच्छन्दसामविज्ञातोऽर्थः शास्त्रेण विज्ञाप्यः? । स्वरूपं वा? नामधेयं वा? प्रयोगनियमो वा? छन्दोविज्ञानमात्रेणाभ्युदययोगो वा? | नाद्यः ऋङ्मन्त्रादिपाठाद् वैदिकानां, काव्यादिपाठाद् लौकिकानां यावत्प्रयुक्तच्छन्दसां स्वरूपस्य प्रतिपत्तिसौलभ्यात् । प्रयुक्तातिरिक्तच्छन्दसां तु वैदिकानामनभिधानमेव । लौकिकानां पुनः साकल्येन विज्ञानस्येहाप्यसंभवः, अनन्तत्वात्- “ शेषः प्रचितः । ” ( ७।३५।८।१ ) “ अत्रानुक्तं गाथा ” इति सूत्राभ्यां पिङ्गलेन विशेषतः सर्वच्छन्दः स्वरूपनिर्वचनाशक्यत्वप्रतिबोधनात्, " कश्छन्द॑सा॒ योग॒मावे॑द धीरः को धिष्ण्या॑ प्रति॒ वाचं॑ पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑मारु॒र्हयै॒ इन्द्र॑स्य॒ निचि॑काय॒ कःस्थि॑ित् ॥ ” ( ऋ.सं. ८1६।१७।४ ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 74

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 74 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७० छन्दः शास्त्रम् इति मन्त्रयता भगवता वेदपुरुषेणापि सर्वात्मना छन्दोयोगविज्ञानस्याशक्यत्व-प्रतिबोधनात् ॥ १ ॥ न द्वितीयः -- नामविशेषेण छन्दः स्वरूपे विशेषानाधानादिच्छानुरो-धितया तादृशतुच्छफलार्थमेतावतो महतः शास्त्रौघस्यारम्भानावश्यकत्वात् ॥२ ॥ न तृतीयः —

अमुष्मिन्नवकाशे स्रग्धरैव प्रयोक्तव्या न शार्दूलविक्रीडितं मन्दाक्रान्ता वेत्येवं विध्यभावात्, तत्तच्छन्दःप्रयुक्तावद्यापि लोके कामचाराच्च ॥ ३ ॥ न तुरीयः - छन्दोविज्ञानमात्रेणा-दृष्टाभ्युदयकल्पनाया निर्बीजत्वात् । तस्मान्नाविज्ञातार्थज्ञापनार्थं छन्दोविज्ञानशास्त्रमारम्भ-णीयं भवति । -( २ ) अथ न हेयार्थनिरसनायापीदं शास्त्रमुपयुज्यते । गौः शब्दः प्रयोक्तव्यः साधु-त्वात् न गावी गोणी गोता गोपोतलिकेत्येवमादयः, असाधुत्वादिति हि यथा व्याकरण-शास्त्रेण साधुशब्दान्वाख्यानेनासाधुशब्दानां हेयत्वं विधीयते; न तथानेन छन्दः शास्त्रेण

छन्दसां साधुत्वासाधुत्वाभ्यामुपादेयहेयव्यवस्था क्रियते, प्रस्तारसिद्धस्वरूपातिरिक्तस्य हेयस्याप्रसिद्धेः । ट ण ठं डु ढे न यत्र च्छन्दः सिद्धिस्तत्र प्रमादतोऽप्येकडकाराधिक्ये

टणठंडु डढेनापि छन्दोऽन्तरसिद्धिः सम्भवत्येव, न च तत्र शास्त्रविरोधं पश्यामः ।

तस्माच्छन्दःसिद्धौ हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं छन्दःशास्त्रम् ॥

( ३ ) अथ न छन्दःशास्त्रमध्येतुस्तदध्ययनेन कश्चन सामर्थ्यसमुद्रेको दृष्टः । हेयनिरसनपुरःसरमुपादेयमुपाददानो हि व्यवहारकुशलः साधीयसाभ्युदयेन युज्येत, वि-युज्येत चानिष्टकरेणेति तत्रास्य सामर्थ्यमुद्भूतमिव विज्ञातं स्यात् । न चेह तथा छन्दः-शास्त्रे हेयोपादेयव्यवस्थां पश्यामः, ततो नैतदध्ययनेन कथञ्चित्कुत्रचिदर्थे सामर्थ्यातिरेक-मनुभावयामः॥— ( ४ ) अथ नेतरवेदोपकारकत्वमप्यस्य शास्त्रस्य संभवति । यथा हि - नाट्यवेदोप-कारको नृत्यवेदः, नृत्यवेदोपकारको वाद्यवेदः, वाद्यवेदोपकारकश्च गेयवेदः; यथा वा वाग्वेदाङ्कवेदाक्रियावेदाः सर्ववेदोपकारका इष्यन्ते । न च तथेह कंचिद्वेदं पश्यामो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः स्यात् ॥ ननु चास्ति यज्ञवेदो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः स्यात्; तथाहि — गवामयने पूर्वस्मिन् पक्षसि एकचत्वारिंशदधिकशतसंख्याकेषु चतुविंशाभिद्भविकस्वरसामाभिधाने-ष्वहःसु ब्रह्मसाम्नोभिवर्तस्यैकत्वेऽपि प्रगाथाः प्रत्यहं भेदेन प्रयुज्यन्ते । तत्र के ते स्तोत्रीयाः प्रगाथा? इत्याकाङ्क्षायाम् “ पञ्चसु मासु बार्हताः प्रगाथा आप्यन्ते । तेष्वाप्तेषु छन्दसी संयुज्यैतव्यम् । चतुरुत्तरैरेव छन्दोभिरेतव्यम् । तदाहुरनवक्लृप्तानि वा एतानि छन्दांसि माध्यन्दिने, बृहत्या चैव त्रिष्टुभा चैतव्यम् ” - – इत्येवं ताण्डिश्रुतौ दाशतयीसमाम्नाते-नाष्टाविंशतिशतप्रमितप्रगाथतृचसमुदायेन तावदहःसु प्रगाथलामे तदतिरिक्तेषु त्रयोदशस्व-हःसु शक्याः प्रगाथलाभार्थं त्रयः पक्षा विधीयन्ते । ते चैते प्रगाथा न चान्तरेण शास्त्रमध्यवसितुं , नापि वा तमन्तरेण प्रगाथप्रयोगं ज्योतिष्टोमः पर्याप्नोति; एवमितरत्राऽ-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 75

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 75 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ७१ प्येकान्ततश्छन्दोविज्ञानमपेक्ष्यते प्रतियज्ञम् । अत एव च " यो ह वा अविदि-तार्षेयछन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वा म्रियते पापीयान् भवति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात् " ( श्रूयते ।

' मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान् ऋषीन् ।

कृत्तद्धितादींश्चाज्ञात्वा यजन्तो यागकण्टकाः ॥

अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च । योध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते वर्च्छति गर्तं वा पद्यते छं.ब्रा. ३।७।५ ) इति १ ॥ ॥ २ ॥

॥। ३ ॥ इति स्मर्यते च । भगवान् कात्यायनोऽप्याह – “ छन्दांसि गायत्र्यादीनि एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजति याजयते तस्य ब्रह्म निवर्य यातयामं भवति । अथान्तरा श्वगर्तं वापद्यते स्थाणुं वर्च्छति प्रमीयते वा पापीयान् भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवत् — अथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा हुत्वेष्ट्वा तत्फलेन युज्यते ” इति ॥ तस्मात् सन्त्येव भूयांसि छन्दः शास्त्रस्य प्रयोजनानि तद्विज्ञानमन्तरेण चायं यज्ञवेदो निर्वीयों यातयामो भवति, तस्मादस्ति यज्ञवेदोपकारकत्वं छन्दः शास्त्रस्य -यद्यपि दृष्टान्तमुद्रया नाट्यनृत्यवाद्यगेयवेदानामुत्तरोत्तरस्य पूर्वपूर्ववेदोपकारकत्वमा-ख्यायते, तावतापि छन्दोवेदस्यैव सर्वोपकारकत्वमाख्यातं भवति; गेयवेदस्य छन्दो-वेदानतिरिक्तत्वात् । तस्मादस्ति वाद्यादिवेदोपकारकत्वं छन्दःशास्त्रस्य ॥– अथ किं बहुना? येयं शिल्पविद्या लोके नितान्तफलोपधायकतया प्रतिपद्यते, सैषा भवति- अर्थच्छन्दोविद्यानतिरिक्तैव वा । ' शिल्पं छन्द ' इति नूनमर्थच्छन्दोविद्योपजीव्या श्रुतेः । सर्वं चेदं सचराचरं जगन्मण्डलं दृश्यते विश्वकर्मणः शिल्पम् । तथा प्राणिजातैरपि क्रियमाणं तत्तत्कर्म दृश्यते शिल्पमेवानुलम्बितम् । सर्वे च विद्यानिबन्धा रचनावैचित्र्यात्मकेन केनापि शिल्पेनैवानुगता भवन्ति । तस्माच्छिल्पविद्यात्मनाप्यस्त्येव सर्ववेदोपकारकत्वं छन्दः शास्त्रस्य ॥ १ ॥

यदप्युक्तं — नास्य छन्दःशास्त्रस्य विज्ञातृषु सामर्थ्यविशेषोद्रेकादिफलोपधायकत्वमस्तीति, तदप्यत एव प्रत्याख्यातं भवति “ अविदित्वा घोऽधीते तस्य ब्रह्म निर्वीर्य, स पापीयान् भवति, अथ विज्ञायैतानि योऽधीते तस्य ब्रह्म वीर्यवत्, स जपित्वा हुत्वेष्ट्वां तत्फलेन युज्यते ” –इत्येवमाचक्षाणेन भगवता कात्यायनेनान्वयव्यतिरेकाभ्यां छन्दो विज्ञाने एव यज्ञवेदसाध्ययावत्फलोपधायकत्वप्रतिपादनात् । श्रूयते चाभ्युदयसमर्पकत्वं छन्दोविज्ञानस्य । तथाहि — ‘ “ तस्योष्णिग् लोमानि, त्वग् गायत्री, त्रिष्टुब्मांसम्, अनुष्टुप् स्नावानि, अस्थि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 76

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 76 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२ छन्दः शास्त्रम् जगती, पङ्क्तिर्मज्जा, प्राणो बृहती, स छन्दोभिश्छन्नः । यच्छन्दोभिश्छन्न-स्तस्माच्छन्दांसीत्याचक्षते । " इत्याख्याय " छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यचिद्दिशि कामयते " ( ऐ. आ. २।१।६ ) इत्यारण्यके समाम्नायते, तस्मात् पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यत इत्यस्ति प्रयोजनं छन्दः शास्त्रस्य ॥ तथा तैत्तिरीया अप्यामनन्ति - " प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वा तिष्ठन् तं देवा बिभ्यतो नोपायन् ते छन्दोभिरात्मानं छादयित्वोपायन् तच्छन्दसां छन्दस्त्वम् ” ( तै.सं. ५।६।६ ) इति । तस्माच्चीयमानाग्निसन्तानस्य छादकत्वाच्छन्दस्त्वमित्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ तथा छान्दोग्योपनिषदि श्रूयते – “ देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ते छन्दोभिरच्छादयन् यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम् ' ( १।४।२ ) इति तस्मादपमृत्युं वारयतीति छन्द इत्युच्यते । ततोऽस्ति प्रयोजनं छन्दः शास्त्रस्य ॥ अथान्यो मन्त्रवर्णः श्रूयते " गायत्रेण च्छन्दसा त्वा छादयामि त्रैष्टुभेन च्छन्दसा त्वा छादयामि जागतेन च्छन्दसा त्वा छादयामि ” इति ततश्छन्दसामेषां रक्षानुकूलसंवरणसाधनत्वादस्ति प्रयोजनं छन्दः शास्त्रस्य ॥ २ ॥

अथ ‘ पुरा असुरैः पराभूताः सुरा यदेभिर्गायत्रादिभिः स्वमात्मानं प्रच्छाद्य पुनस्तान् जिग्युस्तच्छन्दसां छन्दस्त्वमिति वृद्धपराशराद्युक्तेश्छन्दः संवृतशरीरस्य शत्रुपरिभावकत्वं विजयशालित्वं च संसिद्धं भवतीत्यस्ति प्रयोजनं छन्दः शास्त्रस्य । स्मर्यते चायमर्थो भगवता कात्यायनेनापि सर्वानुक्रमणीसूत्रे – “ अर्थेप्सव ऋषयो देवताश्छन्दोभिरभ्यधावन् ” ( स.खं.२ ) इति । “ अन्नपुत्रादिमोक्षान्तं फलमात्माधीनं कर्तुमिच्छन्तो मधुच्छन्दःप्रभृतयः संवननान्ता ऋषय: देवताः सूक्तहविर्भागिनी:, छन्दोभिर्गायत्र्यादिभिरुपायभूतैस्तद्युक्तमन्त्रैर्वा ' अर्थस्य प्राप्तावयमेवोपाय इति ' दृढसंकल्पाः श्रद्धयागच्छन्नि " ति षड्गुरुशिष्योऽपि । अन्यच्चायमाह - ( स.भा. उपसं. )

' ऋषिनामार्षगोत्रज्ञ ऋषेः संस्थानतामियात् ।

एकैकस्य ऋषेर्ज्ञानात् सहस्राब्दा स्थितिर्भवेत् ॥ १ ॥

छन्दसां चैव सालोक्यं छन्दोज्ञानादवाप्नुयात् ॥ २ ॥

तस्यास्तस्या देवतायास्तद्भावं प्रतिपद्यते ।

यां यां विजानाति नरो देवतामिति निर्णयः ॥ ३ ॥

ऋष्यादिविज्ञानफलमनुभूय सुपूजित: ।

स्वाध्यायस्य फलं पश्चाच्छ्रुत्या दत्तं प्रपद्यते ॥ ४ ॥

हि तदर्थमाह-इति । तस्मादन्नपुत्रादिमोक्षान्तफलसाधनत्वादस्ति प्रयोजनं छन्दः शास्त्रस्य । अथ यदुक्तं छन्दःसिद्धौ, हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं तदप्यत एव नावकल्पते । सर्वं हि विधिवाक्यं सावधारणं भवति छन्दःशास्त्रमिति; , न वावधारणमितरनिवृत्तिमन्तरा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 77

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 77 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ७३ दृष्टम् । यतश्चेदं छन्दोविधायकं शास्त्रमतो नूनमितरवारकेणानेन भवितव्यमिति सिद्धं हेयोपादेव्ययवस्थाप्रयोजकत्वं छन्दः शास्त्रस्य । सा च हेयोपादेयव्यवस्था त्रेधा । - विज्ञात-व्यान्येव छन्दांसि न तु न विज्ञातव्यान्यपीति, विज्ञायैव च जपहोमयज्ञादिषु प्रवर्तेत न त्वविज्ञायापीति, भावाभावातिरेकप्रधाना सैका ॥ १ ॥ अथ “ अनुष्टुभा यजति, बृहत्या

गायति, गायत्र्या स्तौतीति ” श्रूयते । तत्रानुष्टुभैव यजेत न बृहत्या न गायत्र्या, तथा बृहत्यैव गायेत नान्यथा, एवं गायत्र्यैव स्तुवीत नान्यथेत्येवं विजातीयभावद्वयातिरेकप्रधाना द्वितीया ॥ २ ॥ अथ – “ पादस्यानुष्टुब् वक्रम् " " न प्रथमात् स्नौ ० ” “ द्वितीयचतुर्थयोरश्चेति "

सूत्रेभ्यो वक्रेषु, तथा " स्वरा अर्द्ध चार्य्यार्द्धम् ” " अत्रायुङ् न ज् ” “ षष्ठो जिति " सूत्रेभ्य आर्यासु विधिनिषेधप्रधाना तृतीया ॥ ३ ॥ यदि चेदं शास्त्रं न स्यादवश्यं तत्तर्हि तेष्वेतेषु

कामचारः स्यादनर्थश्च प्रपद्येत । ततो नु खलु हेयान् हापयितुमुपादेयान् संचारयितुमुपदिशन्ति स्म ते कारुणिका भगवन्त आचार्याः ॥ - ॥३ ॥

( १ ) अथ यदप्युक्तं – नाविज्ञातार्थज्ञापनार्थमिदं शास्त्रमारब्धव्यमिति, एतदप्यत एव प्रत्याख्यातं वेदितव्यम् । अन्तरेण शास्त्रारम्भमसम्भवाच्छन्दः स्वरूपावगमस्यैकान्तमुपयुक्तस्य ॥ “ अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति " श्रूयते । तत्र न ज्ञायते कानुष्टुप्? का बृहती? का गायत्रीति । अज्ञात्वा प्रवर्तमानश्च पापीयान् स्यात् । यत्रापि सतोबृहती महाबृहती महासतोबृहतीत्याख्यायन्ते तत्रैतांस्तावदच्छान्दसिको बृहतीविकारान् प्रतिपद्येत । छान्दसिकस्तु पादविशेषव्यवस्थया पङ्क्तिविकारः सतो बृहती, त्रिष्टुब्विकारो महाबृहती, जगतीविकारो महासतोबृहती, इत्येवमध्यवस्यति । तथा च साधु यज्ञे प्रवर्तते । अन्यथा प्रवर्तमानस्यैतानि छन्दांसि यातयामानि स्युरित्यवश्यमेषां स्वरूपज्ञानायोपयुज्यते छन्दः शास्त्रारम्भः ॥ १ ॥

यदपि तैत्तिरीयका आमनन्ति - " तद्यथा ह वै सूतग्रामण्यः - एवं छन्दांसि । तेष्वसावादित्यो बृहतीरभ्यूढः । सतोबृहतीषु स्तुवते सतोबृहत् प्रजया पशुभिरसानीत्येव " इति तत्र प्रजया पशुभिश्चाहं सन्मार्गवर्तिनः पुरुषादधिको भवानीत्याशयेन सतोबृहत्या स्तौती-त्यर्थप्रतिपत्तेरवश्यमर्थापेक्षित्वमुपदिश्यते नामधेयस्येति नामधेयावगमार्थमुपयुज्यते छन्दः शास्त्रारम्भः ॥ २ ॥

अथामनन्ति— “ व्यतिषक्ताभिः स्तुवते " इति । न चान्तरेण छन्दोवेदमृचः शक्या व्यतिषक्ताः कर्तृमित्युपयुज्यते छन्दः शास्त्रारम्भः ॥ ३ ॥

“ भूयांसश्चार्थवादा श्रूयन्ते छन्दोवेदस्येति तत्तदभ्युदयसिद्धावुपयुज्यते शास्त्रारम्भः ॥ ४ ॥

इमानि च भूयश्छन्दोऽनुशासनस्य प्रयोजनानि यान्यत ऊर्ध्वमनुक्रमिष्यामः । बह्वृचानां श्रुतौ तावदाम्नायते— “ प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो, भागधेयानि व्यभजत् । स गायत्रीमेवाग्नये वसुभ्यः प्रातः सवनेऽभजत्, त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यन्दिने, जगतीं विश्वेभ्यो देवेभ्य CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 78

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 78 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४ छन्दः शास्त्रम् आदित्येभ्यस्तृतीयसवने । अथास्य यत् स्वं छन्द आसीदनुष्टुप् — त्वं न्वेव देवानां पापिष्ठोऽसि, यस्य तेऽहं स्वं छन्दोऽस्मि यां मोदन्तमभ्युदौ हीरच्छावाकीयामभीति । तदजानात् स स्व सोममाहरत् स स्वे सोमेऽग्रं मुखमभि पर्याहरदनुष्टुभम् । तस्मादनुष्टुबग्रिया मुख्या युज्यते ” ( ऐ.ब्रा. १२।२ ) इति । तदेतच्छन्दोवेदं विद्वांसमन्तरेण कोऽन्यः शक्नोत्येतदर्थं विज्ञातुम्? अतो दिव्यवेदार्थप्रतिपत्त्यर्थमारम्भणीयश्छन्दोवेदः ॥ १ ॥

अथो पञ्चवीर्यं वा एतच्छन्दो यद्विराट् यत्रिपदा तेनोष्णिहागायत्र्यौ यदस्या एकादशा-क्षराणि पदानि तेन त्रिष्टुभ् । यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुप् । न वा एकेनाक्षरेण च्छदांसि वियन्ति न द्वाभ्यां यद्विराट् तत्पञ्चमम् । सर्वेषां छन्दसां वीर्यमवरुन्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामनुते । अन्नादोन्नपतिर्भवति अश्नुते प्रजयान्नाद्यं य एवं विद्वान् विराजौ कुरुते ( ऐ.ब्रा. १।६ ) इत्येवं विराजोऽर्थवादः श्रूयते; स न पञ्चवीर्यत्वमवगन्तुं शक्नोत्यन्तरेण च्छन्दोवेदमित्यारम्भणीयश्छन्दोवेदः ॥ २ ॥

“ सर्वेश्छन्दोभिर्यजेदित्याहुः सर्वैर्वै छन्दोभिरिष्ट्वा देवा: स्वर्ग लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्गं लोकं जयति ।.... एतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यानि । एतानि हि यज्ञप्रतिमामिव क्रियन्ते । एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद " ( ऐ.ब्रा. २1३ ) इति हि श्रूयते । तत्र किं तावत्सर्वेषां छन्दसां स्वरूपं? कानि वान्यानीति न तत्त्वतः शक्नोत्यवधारयितुमच्छान्दसिको न वा यष्टुमित्यारम्भणीयश्छन्दोवेदः ॥ ३ ॥

“ स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद । यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति तत् सुविदितमि ’ ” ति ( ऐ.ब्रा. १०।८ ) श्रूयते । तदेतस्य छन्दोमयस्य देवताप्ययो यथा भवति तथा ज्ञानं हि सुज्ञानमित्यस्माकं सुज्ञानं यथा स्यादित्यारम्भणीयश्छन्दोवेदः ॥ ४ ॥

“ तद्यदाग्नेन्द्रया यजति विजित्या एव सा विराट् त्रयस्त्रिंशदक्षरा भवति ” " त्रयस्त्रिंशद्वै देवाः - अष्टौ वसवः एकादश रुद्रा: द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । तत् प्रथम उक्थमुखे देवता अक्षरभाजः करोति अक्षरमक्षरमेव तद्देवता अनुप्रपिबंति देवपात्रेणैव तद्देवतास्तृप्यन्ति इति श्रूयते ” ( ऐ.ब्रा. १२।११ ) । तदेवं देवता यद्यक्षरभाजः कल्प्यन्ते, तत्तर्हि नान्तरेणाक्षरच्छन्दोविज्ञानमेता विज्ञातुं शक्यन्ते । तदेताश्छन्दोभिर्यथा विजानीयामित्यारम्भणीयश्छन्दोवेदः ॥ ५ ॥

“ घ्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्, यदुपसदः सछन्दसः कर्तव्या न विछन्दसः । यद्विछन्दसः । यद्विछन्दसः कुर्याद् ग्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनि-तो: । तस्मात् सछन्दस एव कर्तव्या न विछन्दसः ' ( ऐ.ब्रा. ४।८ ) इत्युपसदां सछन्दस्त्वकरणमनुज्ञायतें । तदन्तरेण छन्दोवेदमशक्यं सछन्दस्त्वकरणमित्यारम्भणीय-श्छन्दोवेदः || ६ || CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 79

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 79 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ७५ " गायत्री ब्राह्मणस्यानुब्रूयात् । गायत्रो वै ब्राह्मणः । तेजो वै ब्रह्मवर्चसं गायत्री । तेजसैवैनं तद्ब्रह्मवर्चसेन समर्द्धयति ।.... त्रिष्टुभं राजन्यस्यानुब्रूयात् त्रैष्टुभो वै राजन्यः । ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् । ओजसैवैनं तदिन्द्रियेण वीर्येण समर्द्धयति ।...... जगतीं वैश्यस्यानुब्रूयात् । जागतो वै वैश्यः । जागताः पशवः पशुभिरेवैनं तत्समर्द्धयति ' ( ऐखा. ५।२ ) इति श्रूयते । तत्र गायत्र्या ब्रह्मवर्चसं तेजः, त्रिष्टुभा त्विन्द्रियं वीर्यमोजः, जगत्या च पश्वादयः पदार्था लक्ष्यन्ते । तदन्तरेण गायत्र्यादिविज्ञानमशक्यमेषां विज्ञानमित्यार-म्भणीयश्छन्दोवेदः ॥ ७ ॥

“ चतुरुत्तरैर्वै देवाश्छन्दोभिः सयुग्भूत्वा एतां श्रियमारोहन् यस्यामेत एतर्हि प्रतिष्ठिताः । अग्निर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रावरुणौ पङ्क्त्येन्द्रस्त्रिष्टुभा विश्वेदेवा जगत्या | ते एते अभ्यनूच्येते - अग्नेर्गायत्र्यभवत् सयुग्वेति । कल्पते ह वा अस्मै योगक्षेमः । उत्तरोत्तरिणीं ह श्रियमश्रुते अश्रुते प्रजानामैश्वर्यमाधिपत्यं य एवमेता अनुदेवता एतामासन्दीमारोहति क्षत्रियः सन्नि ” ति ( ऐ.ब्रा. ३७।२ ) हि श्रूयते । तत्र देवताछन्दसोः सयुक्त्वाख्यानादुत्तरोत्तरिणीं श्रियं प्रजामैश्वर्यमाधिपत्यं चापेक्षमाणानामवश्यमेषां छन्दसां चतुरुत्तरत्वविज्ञानमपेक्षितं भवतीत्यारम्भणीयश्छन्दोवेदः ॥ ८ ॥

“ यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ इत्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयति देवविशो य एवं वेदे’ति ( ऐ.ब्रा. १२।१ ) श्रूयते । तदतश्छन्दः प्रतिष्ठापदं विदित्वामृतत्वमनुवीये-त्यारम्भणीयश्छन्दोवेदः ॥ ९ ॥

“ तं सप्तभिश्छन्दोभिः प्रातरह्वयन् । तस्मात् सप्तचुरुत्तराणि छन्दांसि प्रात-रनुवाकेऽनृच्यन्ते । ” इति हि तैत्तिरीयका आमनन्ति । मैत्रायणीनामध्वरादिविधावप्याम्ना-यते । “ देवेभ्यः प्रातर्यावभ्योनुब्रूहीति छन्दांसि वै देवाः प्रातर्यावाणः । छन्दोभ्यो वा एतदनुवाच आह " - इति । तथाचैतरेयकेऽपि— “ देवेभ्यः प्रातर्यावभ्योहोतरनुब्रूहीत्याहाध्वर्युः । एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ । त एते सप्तभि: सप्तभिश्छन्दोभिरागच्छन्ति । आस्य देवाः प्रातर्यावाणी हवं गच्छन्ति य एवं वेद ” ( ऐ.ब्रा. ७/५ ) सप्ताग्नेयानि छन्दांस्यन्वाह, सप्तोषस्यानि छन्दांस्यन्वाह... सप्ताश्विनानि छन्दांस्यन्वाह - सप्तधा वै वागवदत् । तावद्वै वागवदत् सर्वस्यैव वाचः सर्वस्य ब्राह्मणः परिगृहीत्यै । तिस्रो देवता अन्वाह । त्रयो वा इमे त्रिवृतो लोकाः । एषामेव लोकानामभिजित्यै ( ऐ.ब्रा.८।७ ) तदाहुः - कथमनूच्यः प्रातरनुवाक इति । यथाच्छन्दसमनूच्यः प्रातरनुवाकः । प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांसि । एष उ एव प्रजापतियों यजते । ” ( ऐ.ब्रा. ७।८ ) इति श्रूयते । न चैतच्छन्दोविज्ञानमन्तरेणानुवचनं साधीयः संभवतीत्यारम्भणीयंश्छन्दोवेदः ॥ १० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 80

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 80 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६ छन्दः शास्त्रम् ' तदाहुः स वै होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसि प्रजनयेदिति । एषा वाव त्रिरनूक्ता सर्वाणि च्छन्दांसि भवति । एषा छन्दसां प्रजाति: । " ( ऐ.ब्रा. ७ ६ ) इति श्रूयते । तदतश्छन्दःप्रजननविद्याया होतृत्वमासादयेयमित्यारम्भणीयश्छन्दोवेदः ॥ ११ ॥

" अग्निवै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता: । आग्नावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्ति । अग्निवै सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च । तद्यदाग्नावैष्णवं पुरोडाशं निर्वपन्ति । अनन्त एव तद्देवानृध्रुवन्ति । तदाहुर्यदेकादशकपालः पुरोळाशो द्वावनाविष्णू । कैनयोस्तत्र क्लृप्तिः, का विभक्तिरिति । अष्टाकपाल आग्नेयोऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः त्रिकपालो वैष्णवस्त्रिर्हदं विष्णुर्व्यक्रमत । सैनयोस्तत्र क्लृप्ति: सा विभक्तिरि " ( ऐ.ब्रा. १1१ ) त्याम्नायते । तत्रैवमेकादशकपाले देवतयोः क्लृप्तिविभक्ती कर्तुं पारयेमेत्यारम्भणीयश्छन्दोवेदः ॥ १२ ॥

‘ तेजो वै ब्रह्मवर्चसं गायत्री । आयुर्वा उष्णिम् । वाग्वा अनुष्टुप् । श्रीर्वै यशश्छन्दसा बृहती । पाङ्क्तो वै यज्ञ: । ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् । जागता वै पशवः । ” ( ऐ.ब्रा. १।६ ) इति श्रूयते । तदतस्तत्तच्छन्दोयाज्यामनुरुन्धाना यथा तत्तत्कामेषु कृतकृत्याः स्युरित्यारम्भणीयश्छन्दोवेदः ॥ १३ ॥

" ते देवा अब्रुवन् — विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा । त्रयस्त्रिंशद्वै देवाः । अष्टौ वसव एकादश रुद्रा: द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । देवता अक्षरभाजः करोति । अक्षरमक्षरमेव तद्देवंता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेत— अनायतनवान् स्यादिति अविराजास्य यजेद् गायत्र्या वा त्रिष्टुभा वान्ये न वा छन्दसा वषट् कुर्यादनायतनवन्तमेवैनं तत्करोति I । यं कामयेत —– आयतनवान् स्यादिति । विराजास्य यजेदायतनवन्तमेवैनं तत्करोति । " ( ऐब्रा. १२।११ ) इति श्रूयते । तदन्तरेण छन्दोवेदमवाक्यं तु यथाकामं याज्या विशेषोपधानमित्यारम्भणीयश्छन्दोवेदः ॥ १४ ॥

' यो धाता स वषट्कार.... यानुमतिः सा गायत्री.... या राका सा त्रिष्टुप्.... या सिनीवाली सा जगती... या कुहूः सानुष्टुप् । एतानि वा व सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि । एतानि हि यज्ञे प्रतमामिव क्रियन्ते । एतैर्ह वा अस्य छन्दोभिर्यजतः 1 सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद । ( ऐ.ब्रा. १३1३ ) यः सूर्यः स धाता स उ एव वषट्कारः र:..... .. या द्यौः सानुमतिः सो एव गायत्री... योषाः सा राका सो एव त्रिष्टुप्.... या. गौः सा सिनीवाली सो एव जगती... या पृथिवी सा कुहूः सो एवानुष्टुप् । एतानि वाव सर्वाणि च्छन्दांसि । गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि एतानि हि यज्ञे प्रतमामिव क्रियन्ते ” ( ऐब्रा. १५।४ ) इत्याद्यैतरेयके श्रूयते ॥ मैत्रायणीयानां राजसूयब्राह्मणेऽप्याम्नायतें-‘ गायत्र्यनुमतिः । त्रिष्टुव् राका । जगती सिनीवाली । कुहूरनुष्टुप् । धाता वषट्कारः । या पूर्वा पौर्णमासी सानुमतिः योत्तरा सा राका । या पूर्वामावया सा सिनीवाली योत्तरां सा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA