छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 71–80
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 71–80
पृष्ठ 71
पाठ पढ़ें पाठ छिपाएँ
भूमिका ६७ नाभ्युपगम्यते, तस्माददोषः । अन्येऽपि वदन्ति - भिद्यते हीयं संहिता वर्णाक्षरपदपादपद्यादिषु प्रत्यर्थं प्रत्यर्थं रूपभेदेन । वर्णसंहिता हि बलतारतम्येन वर्णगुणादिकं परवर्णे संचारयति । अक्षरसंहिता तु किञ्चिद्वर्ण किञ्चिदक्षराङ्गत्वेनावकल्पयति । तथा पदसंहिता वर्णानन्योन्यं संनिधापयति । अखण्डपदसंहितानिवृत्तिस्त्ववग्रहशब्देनोच्यते । उक्ताश्चैते संहिताविशेषधर्मा वर्णसमीक्षायां संहितोपनिषत्प्रकरणे । तत्रेयं पदसंहिता वर्णानां विलम्बेनोच्चारणं तु सहते, सन्धिकार्यप्रतिपत्तौ तु वर्णसंहिता तन्त्रम् । नैषात्यन्तं वर्णसानिध्यमपेक्षते; राघवेणेत्यादौ षण्मात्राविलम्बेऽपि रेफसंहितानिबन्धनणत्वकार्यदर्शनात् । तथा चेयं सन्धिकार्यप्रयोजिका संहिता यावन्तं कालं सहते, तावत्कालानतिपातेनैव विषमपादान्ते विश्रामः कर्तव्य इत्यादिश्यते । अधिकं तु ततः समपादान्ते इत्यतो न तत्र सन्धिकार्याणि प्रवर्तन्ते । परे त्वाहुः - अतिविलम्बेनोच्चारणेऽपि विषमपादान्ते सन्धिकार्याणि भवन्ति । अनतिविलम्बेनोच्चारणेऽपि समपादान्ते न भवन्ति । राघवेणेत्यादौ षण्मात्राविलम्बेऽपि सन्धिरनुवर्तते पुनर्नतु रघुनाथादावतिसांनिध्येऽपि निवर्तते । तस्मान्नैतदुक्तं युक्तम् । वस्तुतस्तु—
' संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥
इति यथा वैयाकरणा धातूपसर्गादौ नित्यत्वं वाचनिकं फलबलादनुजानन्ति; तथैव खलु विषमपादान्ते संहिताया नित्यत्वं, समपादान्ते तु संहिताया अविवक्षितत्वं फलानुरोधादेव छान्दसिका अनुजानन्ति । तस्माच्छान्दसिकसमयसिद्ध एवायमर्थ इत्यलमतिचिन्तया ॥ इति छन्दः पदसंहितावादः 1998 यतिदोषवादः ननु विभक्तिकृतानां पदानां विभक्तेः प्राक् क्रियमाणाया यतेर्दुष्टत्वमन्वाख्यायते तन्नावकल्पते, दुष्टत्वहेत्वलाभात् । तत्तच्छन्दोवृत्ते नियतस्थानेष्वेव हि यतिमन्वाचक्षते छान्दसिकाः । स्थाननियमश्च वर्णमात्रान्यतरनिबन्धनो न तु विभक्तिपौर्वापर्यनिबन्धनः संभ-वति । विभक्त्त्यादीनां वैयाकरणपदार्थत्वेन छन्दः शरीरे तदप्रवेशेन च छन्दः स्वरूपसिद्धौ तदनपेक्षणात् । ऊनविंशत्यक्षरपादे शार्दूलविक्रीडितद्वादशाक्षरस्य यतिमत्त्वमन्वाख्यायते । तदिदं यदि त्रयोदशाक्षरे कृतं स्यासत्तर्हि युक्तो वक्तुं दोष: । द्वादशाक्षरे तु कृतया यत्या छन्दः स्वरूपसंपादने विभक्तिपूर्वत्वमप्रयोजकमप्रतिबन्धकं चेति । न च व्याकरणानुसारेणा-प्ययं दोषः संभवति । तत्र विभक्तेः प्राग् यतिकरणप्रतिषेधाननुशासनात् । नापि व्युत्पत्ति-शास्त्रानुमतोऽयं दोषः । तत्र प॑दयोः स्वप्र॑योज्यपदार्थोपस्थित्यवहितोत्तरजायमानशाब्दबोधे यद्यप्याकाङ्क्षायोग्यतेत्यादिवदासत्तेः कारणत्वमन्वाख्यायते, यतिश्चासत्तिप्रतिबन्धिनी, तथापि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 72
पाठ पढ़ें पाठ छिपाएँ
६८ छन्दःशास्त्रम् तावता शाब्दबोधप्रतिबन्धः स्यात्, न छन्दसः स्वरूपहानिः । तत्र यतेरिष्टत्वात् । अथवा नेयं यतिरासत्तिविरोधिनी, एतावद्विलम्बेऽप्यर्थावबोधप्रतिबाधादर्शनात् । इतरथा कुत्रापि यतिमता वृत्तेनार्थावगतिर्न स्यादासत्तिप्रतिबन्धात् । अत एव परमसन्निकर्षात्मकसंहितानि-बन्धनं सन्धिकार्यमपि न विरुध्यते । तस्मादस्त्येव नामविभक्त्यात्मकयोः पदयोर्यत्यवरुद्धयोर-प्यासत्तिरर्थबोधोपयोगिनीति न व्युत्पत्तिशास्त्रविरोधः । अथाप्रयुक्तिदोषदुष्टत्वं स्यादिति चेत्तदपि न । ' यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भे-ऽहङ्कारोऽभूत् खकशिखिजलोर्व्यस्ततः संहतेश्च । ब्रह्माण्डं यज्जठरगमहीपृष्ठनिष्ठाद् विरञ्चे-र्विश्वं शश्वज्जयति परमं ब्रह्म तत्तत्त्वमाद्यम् ॥ १ ॥। '
इत्यादिष्वभियुक्तकर्तृकप्रयुक्तिविषयतादर्शनात् । तस्माद्विभक्तिकृत पदे यतिप्रतिषेधो निर्मूल इति चेत्, अत्रोच्यते— इह हि छन्दोवृत्तजाते मात्रावर्णान्यतरनियतस्थाने यतिः कर्तव्या इत्येको विधिः । सा च यतिर्नामविभक्तिमध्यवर्तिनी यथा स्यात्तथा विभक्तिकृतपदं न प्रयोज्यमित्यपरोविधिः । तत्र छन्दःस्वरूपं स्वाभिव्यञ्जकवर्णपरम्परामात्रसापेक्षं यद्यपि तत्तद्वर्णसमष्टेरर्थं नापेक्षत इति पूर्वेणैव विधिना छन्द: सिद्धिः कृतार्था भवति, तथापि सार्थकपदविन्यासेन छन्दः स्वरूपं सम्पिपादयिषून् प्रत्ययमपरो विधिरुपतिष्ठेत यत्यवरुद्धं विभक्तिकृतृमदं न प्रयोज्यमिति । अयं भावः — पदं द्विविधं यतिकृतमर्थकृतं च । तदुभयविधमेवानवच्छिन्नवर्णपरम्परा-सापेक्षमित्यवश्यं यतियोग्यस्थाने विभक्तिकृतपदप्रयोगे विप्रतिषेधः प्राप्नोति । अर्थानुरोधिनी हि पदयतिर्विभक्त्यन्ते स्थानं लभत इत्यवश्यं विभक्तेः प्रागनवच्छेदम-पेक्षते । अथ छन्दोऽनुरोधिनी पदयतिस्तत्र विभक्तेः प्रागेव स्थानं लभत इत्यवश्यं विभक्तिविभक्तिमतोरनवच्छेदं प्रतिषेधति । तत्रेदं द्वैधमिव स्यात् — अर्थगतिमनपेक्षमाणो हि प्रयोजयिता छन्दःस्वरूपमात्रदिदर्शयिषया प्रवर्तमानोऽवश्यं छान्दसयति प्राधान्याद् विभक्तेः प्रागेव छन्दोनियताक्षरे यतिमासादयेदित्यर्थमपेक्षमाणस्य श्रौतुरमनोरञ्जनं स्यात् ॥ १ ॥
अथार्थबुबोधयिषयैव प्रवर्तमानस्तु नूनमर्थानुरोधेनैव छन्दोवृत्तं प्रयोजयन्नार्थिकयतिप्राधा-न्याद् विभक्त्यन्ते यतिमासादयेदिति छन्दोयाथात्म्यमपेक्षमाणस्य श्रोतुरमनोरञ्जनं सेयमनवक्लृप्तिः । अतः स्थाने कृतं विभक्तिकृतपदे यतिप्रतिषेधशास्त्रमिति स्यात् ॥ २ ॥
दिक् ॥ इति यतिदोषवादः । 848 अथ पञ्चाङ्गतावादः ननु यदि सर्वस्यैवार्थजातस्यैकान्ततश्छन्दोबद्धत्वं स्वीक्रियते, तत्तर्हि नूनमिदं छन्दोऽपि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 73
पाठ पढ़ें पाठ छिपाएँ
भूमिका ६ ९ छन्दोबद्धं स्यात्; स तर्हि पद्यच्छन्दोवेदः किमिति पञ्चाङ्ग एवोच्यते? न च्छन्दसा षडङ्गः प्रतिविधीयते? । अथ - यदि नेदं छन्दश्छन्दोबद्धमिति मन्यसे, तत्तर्हि छन्दसः सर्वानुगतत्वप्रतिज्ञाहानिरिति चेत्, – - सत्यम् । यथेदं ब्रह्मणो व्यापकत्वं मन्यन्ते तथेदं द्रष्टव्यम् । यदि नामास्य ब्रह्मणो ब्रह्मवृत्तित्वमाख्यायते तत्तर्हि द्वैतं भवति । अद्वितीयं तु ब्रह्मेत्याचक्षते ब्रह्मविदः । यदि तु ब्रह्मवृत्तित्वं नास्तीत्यभिमन्यते, तत्तर्हि तस्य ' व्यापकत्वप्रतिज्ञाहानिः प्रसज्यते । अथ यद्यनवस्थादोषात् तेजः शब्दप्रमाणादिवदस्य ब्रह्मणः स्वरूपेणावभासमानस्य नेतरापेक्षेत्युच्यते, तत्तर्हि तुल्यं छन्दोवेदेऽपि । स्वरूपेणैव छन्दसां छन्दोबद्धत्वादितरच्छन्दोऽनपेक्षणात् । परे त्वाहुः - भवति नूनं गत्यध्वपरिच्छित्तिर्नाम छन्दसां छन्दो लिप्यध्वपरिच्छित्तेश्छन्दोलिपिच्छन्दस्त्ववत् । सा चाध्वपरिच्छित्तिः प्रत्ययो भवति । यया परिच्छिन्नानामनेकेषामायतनसाम्येन प्रवर्तनं दृश्यते । आयतनमेव तज्जातीये-तरायतनसाम्यापेक्षया अध्वपरिच्छित्तिरित्युच्यते । अवश्यं हि सर्वस्याप्येतस्य वस्तुजातस्य स्वरूपसंपादनाद्यन्योद्देशेन प्रवर्तमानस्य कश्चिदध्वा भवति । तेनाध्वना प्रक्रममाणस्य सौकर्य सौन्दर्यं चानुभूयते । स्वमार्गात् प्रच्यवमानस्य च तस्य क्लिष्टत्वं कुरूपत्वं च जायते । तस्मादयमध्वयोगश्छन्दसां छन्दः । नन्वेवं तर्हि पद्यच्छन्दोवेदस्य षड्भिरङ्गैर्भवितव्यमिति चेत्, – सत्यम् । अस्ति षडङ्गो वेदत्वात् । वेदस्य षडङ्गत्वनियमात् । स्वल्पविषयत्वात्तु नायमध्वयोगः पार्थक्येनेह निरूपित इति द्रष्टव्यम् ॥ इति छन्दोवेदपञ्चाङ्गतावादः । 13480 अथ छन्दोविज्ञानसार्थकतावादः इदं तावच्छन्दोविज्ञानशास्त्रमनारम्भणीयमनर्थकत्वात् । चतुरर्थं हि शास्त्रमारभ्यते— अविज्ञातार्थज्ञापनार्थं, हेयार्थनिरसनार्थं सामर्थ्यम् - अशेषोद्रेकार्थम्, इतरवेदोपकारार्थं चेति । तत्रेदं छन्दोविज्ञानशास्त्रं नैषामन्यतमं कमप्यर्थ संसाधयितुमीष्टे-( १ ) कस्तावच्छन्दसामविज्ञातोऽर्थः शास्त्रेण विज्ञाप्यः? । स्वरूपं वा? नामधेयं वा? प्रयोगनियमो वा? छन्दोविज्ञानमात्रेणाभ्युदययोगो वा? | नाद्यः ऋङ्मन्त्रादिपाठाद् वैदिकानां, काव्यादिपाठाद् लौकिकानां यावत्प्रयुक्तच्छन्दसां स्वरूपस्य प्रतिपत्तिसौलभ्यात् । प्रयुक्तातिरिक्तच्छन्दसां तु वैदिकानामनभिधानमेव । लौकिकानां पुनः साकल्येन विज्ञानस्येहाप्यसंभवः, अनन्तत्वात्- “ शेषः प्रचितः । ” ( ७।३५।८।१ ) “ अत्रानुक्तं गाथा ” इति सूत्राभ्यां पिङ्गलेन विशेषतः सर्वच्छन्दः स्वरूपनिर्वचनाशक्यत्वप्रतिबोधनात्, " कश्छन्द॑सा॒ योग॒मावे॑द धीरः को धिष्ण्या॑ प्रति॒ वाचं॑ पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑मारु॒र्हयै॒ इन्द्र॑स्य॒ निचि॑काय॒ कःस्थि॑ित् ॥ ” ( ऋ.सं. ८1६।१७।४ ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 74
पाठ पढ़ें पाठ छिपाएँ
७० छन्दः शास्त्रम् इति मन्त्रयता भगवता वेदपुरुषेणापि सर्वात्मना छन्दोयोगविज्ञानस्याशक्यत्व-प्रतिबोधनात् ॥ १ ॥ न द्वितीयः -- नामविशेषेण छन्दः स्वरूपे विशेषानाधानादिच्छानुरो-धितया तादृशतुच्छफलार्थमेतावतो महतः शास्त्रौघस्यारम्भानावश्यकत्वात् ॥२ ॥ न तृतीयः —
अमुष्मिन्नवकाशे स्रग्धरैव प्रयोक्तव्या न शार्दूलविक्रीडितं मन्दाक्रान्ता वेत्येवं विध्यभावात्, तत्तच्छन्दःप्रयुक्तावद्यापि लोके कामचाराच्च ॥ ३ ॥ न तुरीयः - छन्दोविज्ञानमात्रेणा-दृष्टाभ्युदयकल्पनाया निर्बीजत्वात् । तस्मान्नाविज्ञातार्थज्ञापनार्थं छन्दोविज्ञानशास्त्रमारम्भ-णीयं भवति । -( २ ) अथ न हेयार्थनिरसनायापीदं शास्त्रमुपयुज्यते । गौः शब्दः प्रयोक्तव्यः साधु-त्वात् न गावी गोणी गोता गोपोतलिकेत्येवमादयः, असाधुत्वादिति हि यथा व्याकरण-शास्त्रेण साधुशब्दान्वाख्यानेनासाधुशब्दानां हेयत्वं विधीयते; न तथानेन छन्दः शास्त्रेण
छन्दसां साधुत्वासाधुत्वाभ्यामुपादेयहेयव्यवस्था क्रियते, प्रस्तारसिद्धस्वरूपातिरिक्तस्य हेयस्याप्रसिद्धेः । ट ण ठं डु ढे न यत्र च्छन्दः सिद्धिस्तत्र प्रमादतोऽप्येकडकाराधिक्ये
टणठंडु डढेनापि छन्दोऽन्तरसिद्धिः सम्भवत्येव, न च तत्र शास्त्रविरोधं पश्यामः ।
तस्माच्छन्दःसिद्धौ हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं छन्दःशास्त्रम् ॥
( ३ ) अथ न छन्दःशास्त्रमध्येतुस्तदध्ययनेन कश्चन सामर्थ्यसमुद्रेको दृष्टः । हेयनिरसनपुरःसरमुपादेयमुपाददानो हि व्यवहारकुशलः साधीयसाभ्युदयेन युज्येत, वि-युज्येत चानिष्टकरेणेति तत्रास्य सामर्थ्यमुद्भूतमिव विज्ञातं स्यात् । न चेह तथा छन्दः-शास्त्रे हेयोपादेयव्यवस्थां पश्यामः, ततो नैतदध्ययनेन कथञ्चित्कुत्रचिदर्थे सामर्थ्यातिरेक-मनुभावयामः॥— ( ४ ) अथ नेतरवेदोपकारकत्वमप्यस्य शास्त्रस्य संभवति । यथा हि - नाट्यवेदोप-कारको नृत्यवेदः, नृत्यवेदोपकारको वाद्यवेदः, वाद्यवेदोपकारकश्च गेयवेदः; यथा वा वाग्वेदाङ्कवेदाक्रियावेदाः सर्ववेदोपकारका इष्यन्ते । न च तथेह कंचिद्वेदं पश्यामो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः स्यात् ॥ ननु चास्ति यज्ञवेदो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः स्यात्; तथाहि — गवामयने पूर्वस्मिन् पक्षसि एकचत्वारिंशदधिकशतसंख्याकेषु चतुविंशाभिद्भविकस्वरसामाभिधाने-ष्वहःसु ब्रह्मसाम्नोभिवर्तस्यैकत्वेऽपि प्रगाथाः प्रत्यहं भेदेन प्रयुज्यन्ते । तत्र के ते स्तोत्रीयाः प्रगाथा? इत्याकाङ्क्षायाम् “ पञ्चसु मासु बार्हताः प्रगाथा आप्यन्ते । तेष्वाप्तेषु छन्दसी संयुज्यैतव्यम् । चतुरुत्तरैरेव छन्दोभिरेतव्यम् । तदाहुरनवक्लृप्तानि वा एतानि छन्दांसि माध्यन्दिने, बृहत्या चैव त्रिष्टुभा चैतव्यम् ” - – इत्येवं ताण्डिश्रुतौ दाशतयीसमाम्नाते-नाष्टाविंशतिशतप्रमितप्रगाथतृचसमुदायेन तावदहःसु प्रगाथलामे तदतिरिक्तेषु त्रयोदशस्व-हःसु शक्याः प्रगाथलाभार्थं त्रयः पक्षा विधीयन्ते । ते चैते प्रगाथा न चान्तरेण शास्त्रमध्यवसितुं , नापि वा तमन्तरेण प्रगाथप्रयोगं ज्योतिष्टोमः पर्याप्नोति; एवमितरत्राऽ-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 75
पाठ पढ़ें पाठ छिपाएँ
भूमिका ७१ प्येकान्ततश्छन्दोविज्ञानमपेक्ष्यते प्रतियज्ञम् । अत एव च " यो ह वा अविदि-तार्षेयछन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वा म्रियते पापीयान् भवति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात् " ( श्रूयते ।
' मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान् ऋषीन् ।
कृत्तद्धितादींश्चाज्ञात्वा यजन्तो यागकण्टकाः ॥
अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च । योध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते वर्च्छति गर्तं वा पद्यते छं.ब्रा. ३।७।५ ) इति १ ॥ ॥ २ ॥
॥। ३ ॥ इति स्मर्यते च । भगवान् कात्यायनोऽप्याह – “ छन्दांसि गायत्र्यादीनि एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजति याजयते तस्य ब्रह्म निवर्य यातयामं भवति । अथान्तरा श्वगर्तं वापद्यते स्थाणुं वर्च्छति प्रमीयते वा पापीयान् भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवत् — अथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा हुत्वेष्ट्वा तत्फलेन युज्यते ” इति ॥ तस्मात् सन्त्येव भूयांसि छन्दः शास्त्रस्य प्रयोजनानि तद्विज्ञानमन्तरेण चायं यज्ञवेदो निर्वीयों यातयामो भवति, तस्मादस्ति यज्ञवेदोपकारकत्वं छन्दः शास्त्रस्य -यद्यपि दृष्टान्तमुद्रया नाट्यनृत्यवाद्यगेयवेदानामुत्तरोत्तरस्य पूर्वपूर्ववेदोपकारकत्वमा-ख्यायते, तावतापि छन्दोवेदस्यैव सर्वोपकारकत्वमाख्यातं भवति; गेयवेदस्य छन्दो-वेदानतिरिक्तत्वात् । तस्मादस्ति वाद्यादिवेदोपकारकत्वं छन्दःशास्त्रस्य ॥– अथ किं बहुना? येयं शिल्पविद्या लोके नितान्तफलोपधायकतया प्रतिपद्यते, सैषा भवति- अर्थच्छन्दोविद्यानतिरिक्तैव वा । ' शिल्पं छन्द ' इति नूनमर्थच्छन्दोविद्योपजीव्या श्रुतेः । सर्वं चेदं सचराचरं जगन्मण्डलं दृश्यते विश्वकर्मणः शिल्पम् । तथा प्राणिजातैरपि क्रियमाणं तत्तत्कर्म दृश्यते शिल्पमेवानुलम्बितम् । सर्वे च विद्यानिबन्धा रचनावैचित्र्यात्मकेन केनापि शिल्पेनैवानुगता भवन्ति । तस्माच्छिल्पविद्यात्मनाप्यस्त्येव सर्ववेदोपकारकत्वं छन्दः शास्त्रस्य ॥ १ ॥
यदप्युक्तं — नास्य छन्दःशास्त्रस्य विज्ञातृषु सामर्थ्यविशेषोद्रेकादिफलोपधायकत्वमस्तीति, तदप्यत एव प्रत्याख्यातं भवति “ अविदित्वा घोऽधीते तस्य ब्रह्म निर्वीर्य, स पापीयान् भवति, अथ विज्ञायैतानि योऽधीते तस्य ब्रह्म वीर्यवत्, स जपित्वा हुत्वेष्ट्वां तत्फलेन युज्यते ” –इत्येवमाचक्षाणेन भगवता कात्यायनेनान्वयव्यतिरेकाभ्यां छन्दो विज्ञाने एव यज्ञवेदसाध्ययावत्फलोपधायकत्वप्रतिपादनात् । श्रूयते चाभ्युदयसमर्पकत्वं छन्दोविज्ञानस्य । तथाहि — ‘ “ तस्योष्णिग् लोमानि, त्वग् गायत्री, त्रिष्टुब्मांसम्, अनुष्टुप् स्नावानि, अस्थि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 76
पाठ पढ़ें पाठ छिपाएँ
७२ छन्दः शास्त्रम् जगती, पङ्क्तिर्मज्जा, प्राणो बृहती, स छन्दोभिश्छन्नः । यच्छन्दोभिश्छन्न-स्तस्माच्छन्दांसीत्याचक्षते । " इत्याख्याय " छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यचिद्दिशि कामयते " ( ऐ. आ. २।१।६ ) इत्यारण्यके समाम्नायते, तस्मात् पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यत इत्यस्ति प्रयोजनं छन्दः शास्त्रस्य ॥ तथा तैत्तिरीया अप्यामनन्ति - " प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वा तिष्ठन् तं देवा बिभ्यतो नोपायन् ते छन्दोभिरात्मानं छादयित्वोपायन् तच्छन्दसां छन्दस्त्वम् ” ( तै.सं. ५।६।६ ) इति । तस्माच्चीयमानाग्निसन्तानस्य छादकत्वाच्छन्दस्त्वमित्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ तथा छान्दोग्योपनिषदि श्रूयते – “ देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ते छन्दोभिरच्छादयन् यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम् ' ( १।४।२ ) इति तस्मादपमृत्युं वारयतीति छन्द इत्युच्यते । ततोऽस्ति प्रयोजनं छन्दः शास्त्रस्य ॥ अथान्यो मन्त्रवर्णः श्रूयते " गायत्रेण च्छन्दसा त्वा छादयामि त्रैष्टुभेन च्छन्दसा त्वा छादयामि जागतेन च्छन्दसा त्वा छादयामि ” इति ततश्छन्दसामेषां रक्षानुकूलसंवरणसाधनत्वादस्ति प्रयोजनं छन्दः शास्त्रस्य ॥ २ ॥
अथ ‘ पुरा असुरैः पराभूताः सुरा यदेभिर्गायत्रादिभिः स्वमात्मानं प्रच्छाद्य पुनस्तान् जिग्युस्तच्छन्दसां छन्दस्त्वमिति वृद्धपराशराद्युक्तेश्छन्दः संवृतशरीरस्य शत्रुपरिभावकत्वं विजयशालित्वं च संसिद्धं भवतीत्यस्ति प्रयोजनं छन्दः शास्त्रस्य । स्मर्यते चायमर्थो भगवता कात्यायनेनापि सर्वानुक्रमणीसूत्रे – “ अर्थेप्सव ऋषयो देवताश्छन्दोभिरभ्यधावन् ” ( स.खं.२ ) इति । “ अन्नपुत्रादिमोक्षान्तं फलमात्माधीनं कर्तुमिच्छन्तो मधुच्छन्दःप्रभृतयः संवननान्ता ऋषय: देवताः सूक्तहविर्भागिनी:, छन्दोभिर्गायत्र्यादिभिरुपायभूतैस्तद्युक्तमन्त्रैर्वा ' अर्थस्य प्राप्तावयमेवोपाय इति ' दृढसंकल्पाः श्रद्धयागच्छन्नि " ति षड्गुरुशिष्योऽपि । अन्यच्चायमाह - ( स.भा. उपसं. )
' ऋषिनामार्षगोत्रज्ञ ऋषेः संस्थानतामियात् ।
एकैकस्य ऋषेर्ज्ञानात् सहस्राब्दा स्थितिर्भवेत् ॥ १ ॥
छन्दसां चैव सालोक्यं छन्दोज्ञानादवाप्नुयात् ॥ २ ॥
तस्यास्तस्या देवतायास्तद्भावं प्रतिपद्यते ।
यां यां विजानाति नरो देवतामिति निर्णयः ॥ ३ ॥
ऋष्यादिविज्ञानफलमनुभूय सुपूजित: ।
स्वाध्यायस्य फलं पश्चाच्छ्रुत्या दत्तं प्रपद्यते ॥ ४ ॥
हि तदर्थमाह-इति । तस्मादन्नपुत्रादिमोक्षान्तफलसाधनत्वादस्ति प्रयोजनं छन्दः शास्त्रस्य । अथ यदुक्तं छन्दःसिद्धौ, हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं तदप्यत एव नावकल्पते । सर्वं हि विधिवाक्यं सावधारणं भवति छन्दःशास्त्रमिति; , न वावधारणमितरनिवृत्तिमन्तरा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 77
पाठ पढ़ें पाठ छिपाएँ
भूमिका ७३ दृष्टम् । यतश्चेदं छन्दोविधायकं शास्त्रमतो नूनमितरवारकेणानेन भवितव्यमिति सिद्धं हेयोपादेव्ययवस्थाप्रयोजकत्वं छन्दः शास्त्रस्य । सा च हेयोपादेयव्यवस्था त्रेधा । - विज्ञात-व्यान्येव छन्दांसि न तु न विज्ञातव्यान्यपीति, विज्ञायैव च जपहोमयज्ञादिषु प्रवर्तेत न त्वविज्ञायापीति, भावाभावातिरेकप्रधाना सैका ॥ १ ॥ अथ “ अनुष्टुभा यजति, बृहत्या
गायति, गायत्र्या स्तौतीति ” श्रूयते । तत्रानुष्टुभैव यजेत न बृहत्या न गायत्र्या, तथा बृहत्यैव गायेत नान्यथा, एवं गायत्र्यैव स्तुवीत नान्यथेत्येवं विजातीयभावद्वयातिरेकप्रधाना द्वितीया ॥ २ ॥ अथ – “ पादस्यानुष्टुब् वक्रम् " " न प्रथमात् स्नौ ० ” “ द्वितीयचतुर्थयोरश्चेति "
सूत्रेभ्यो वक्रेषु, तथा " स्वरा अर्द्ध चार्य्यार्द्धम् ” " अत्रायुङ् न ज् ” “ षष्ठो जिति " सूत्रेभ्य आर्यासु विधिनिषेधप्रधाना तृतीया ॥ ३ ॥ यदि चेदं शास्त्रं न स्यादवश्यं तत्तर्हि तेष्वेतेषु
कामचारः स्यादनर्थश्च प्रपद्येत । ततो नु खलु हेयान् हापयितुमुपादेयान् संचारयितुमुपदिशन्ति स्म ते कारुणिका भगवन्त आचार्याः ॥ - ॥३ ॥
( १ ) अथ यदप्युक्तं – नाविज्ञातार्थज्ञापनार्थमिदं शास्त्रमारब्धव्यमिति, एतदप्यत एव प्रत्याख्यातं वेदितव्यम् । अन्तरेण शास्त्रारम्भमसम्भवाच्छन्दः स्वरूपावगमस्यैकान्तमुपयुक्तस्य ॥ “ अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति " श्रूयते । तत्र न ज्ञायते कानुष्टुप्? का बृहती? का गायत्रीति । अज्ञात्वा प्रवर्तमानश्च पापीयान् स्यात् । यत्रापि सतोबृहती महाबृहती महासतोबृहतीत्याख्यायन्ते तत्रैतांस्तावदच्छान्दसिको बृहतीविकारान् प्रतिपद्येत । छान्दसिकस्तु पादविशेषव्यवस्थया पङ्क्तिविकारः सतो बृहती, त्रिष्टुब्विकारो महाबृहती, जगतीविकारो महासतोबृहती, इत्येवमध्यवस्यति । तथा च साधु यज्ञे प्रवर्तते । अन्यथा प्रवर्तमानस्यैतानि छन्दांसि यातयामानि स्युरित्यवश्यमेषां स्वरूपज्ञानायोपयुज्यते छन्दः शास्त्रारम्भः ॥ १ ॥
यदपि तैत्तिरीयका आमनन्ति - " तद्यथा ह वै सूतग्रामण्यः - एवं छन्दांसि । तेष्वसावादित्यो बृहतीरभ्यूढः । सतोबृहतीषु स्तुवते सतोबृहत् प्रजया पशुभिरसानीत्येव " इति तत्र प्रजया पशुभिश्चाहं सन्मार्गवर्तिनः पुरुषादधिको भवानीत्याशयेन सतोबृहत्या स्तौती-त्यर्थप्रतिपत्तेरवश्यमर्थापेक्षित्वमुपदिश्यते नामधेयस्येति नामधेयावगमार्थमुपयुज्यते छन्दः शास्त्रारम्भः ॥ २ ॥
अथामनन्ति— “ व्यतिषक्ताभिः स्तुवते " इति । न चान्तरेण छन्दोवेदमृचः शक्या व्यतिषक्ताः कर्तृमित्युपयुज्यते छन्दः शास्त्रारम्भः ॥ ३ ॥
“ भूयांसश्चार्थवादा श्रूयन्ते छन्दोवेदस्येति तत्तदभ्युदयसिद्धावुपयुज्यते शास्त्रारम्भः ॥ ४ ॥
इमानि च भूयश्छन्दोऽनुशासनस्य प्रयोजनानि यान्यत ऊर्ध्वमनुक्रमिष्यामः । बह्वृचानां श्रुतौ तावदाम्नायते— “ प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो, भागधेयानि व्यभजत् । स गायत्रीमेवाग्नये वसुभ्यः प्रातः सवनेऽभजत्, त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यन्दिने, जगतीं विश्वेभ्यो देवेभ्य CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 78
पाठ पढ़ें पाठ छिपाएँ
७४ छन्दः शास्त्रम् आदित्येभ्यस्तृतीयसवने । अथास्य यत् स्वं छन्द आसीदनुष्टुप् — त्वं न्वेव देवानां पापिष्ठोऽसि, यस्य तेऽहं स्वं छन्दोऽस्मि यां मोदन्तमभ्युदौ हीरच्छावाकीयामभीति । तदजानात् स स्व सोममाहरत् स स्वे सोमेऽग्रं मुखमभि पर्याहरदनुष्टुभम् । तस्मादनुष्टुबग्रिया मुख्या युज्यते ” ( ऐ.ब्रा. १२।२ ) इति । तदेतच्छन्दोवेदं विद्वांसमन्तरेण कोऽन्यः शक्नोत्येतदर्थं विज्ञातुम्? अतो दिव्यवेदार्थप्रतिपत्त्यर्थमारम्भणीयश्छन्दोवेदः ॥ १ ॥
अथो पञ्चवीर्यं वा एतच्छन्दो यद्विराट् यत्रिपदा तेनोष्णिहागायत्र्यौ यदस्या एकादशा-क्षराणि पदानि तेन त्रिष्टुभ् । यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुप् । न वा एकेनाक्षरेण च्छदांसि वियन्ति न द्वाभ्यां यद्विराट् तत्पञ्चमम् । सर्वेषां छन्दसां वीर्यमवरुन्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामनुते । अन्नादोन्नपतिर्भवति अश्नुते प्रजयान्नाद्यं य एवं विद्वान् विराजौ कुरुते ( ऐ.ब्रा. १।६ ) इत्येवं विराजोऽर्थवादः श्रूयते; स न पञ्चवीर्यत्वमवगन्तुं शक्नोत्यन्तरेण च्छन्दोवेदमित्यारम्भणीयश्छन्दोवेदः ॥ २ ॥
“ सर्वेश्छन्दोभिर्यजेदित्याहुः सर्वैर्वै छन्दोभिरिष्ट्वा देवा: स्वर्ग लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्गं लोकं जयति ।.... एतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यानि । एतानि हि यज्ञप्रतिमामिव क्रियन्ते । एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद " ( ऐ.ब्रा. २1३ ) इति हि श्रूयते । तत्र किं तावत्सर्वेषां छन्दसां स्वरूपं? कानि वान्यानीति न तत्त्वतः शक्नोत्यवधारयितुमच्छान्दसिको न वा यष्टुमित्यारम्भणीयश्छन्दोवेदः ॥ ३ ॥
“ स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद । यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति तत् सुविदितमि ’ ” ति ( ऐ.ब्रा. १०।८ ) श्रूयते । तदेतस्य छन्दोमयस्य देवताप्ययो यथा भवति तथा ज्ञानं हि सुज्ञानमित्यस्माकं सुज्ञानं यथा स्यादित्यारम्भणीयश्छन्दोवेदः ॥ ४ ॥
“ तद्यदाग्नेन्द्रया यजति विजित्या एव सा विराट् त्रयस्त्रिंशदक्षरा भवति ” " त्रयस्त्रिंशद्वै देवाः - अष्टौ वसवः एकादश रुद्रा: द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । तत् प्रथम उक्थमुखे देवता अक्षरभाजः करोति अक्षरमक्षरमेव तद्देवता अनुप्रपिबंति देवपात्रेणैव तद्देवतास्तृप्यन्ति इति श्रूयते ” ( ऐ.ब्रा. १२।११ ) । तदेवं देवता यद्यक्षरभाजः कल्प्यन्ते, तत्तर्हि नान्तरेणाक्षरच्छन्दोविज्ञानमेता विज्ञातुं शक्यन्ते । तदेताश्छन्दोभिर्यथा विजानीयामित्यारम्भणीयश्छन्दोवेदः ॥ ५ ॥
“ घ्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्, यदुपसदः सछन्दसः कर्तव्या न विछन्दसः । यद्विछन्दसः । यद्विछन्दसः कुर्याद् ग्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनि-तो: । तस्मात् सछन्दस एव कर्तव्या न विछन्दसः ' ( ऐ.ब्रा. ४।८ ) इत्युपसदां सछन्दस्त्वकरणमनुज्ञायतें । तदन्तरेण छन्दोवेदमशक्यं सछन्दस्त्वकरणमित्यारम्भणीय-श्छन्दोवेदः || ६ || CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 79
पाठ पढ़ें पाठ छिपाएँ
भूमिका ७५ " गायत्री ब्राह्मणस्यानुब्रूयात् । गायत्रो वै ब्राह्मणः । तेजो वै ब्रह्मवर्चसं गायत्री । तेजसैवैनं तद्ब्रह्मवर्चसेन समर्द्धयति ।.... त्रिष्टुभं राजन्यस्यानुब्रूयात् त्रैष्टुभो वै राजन्यः । ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् । ओजसैवैनं तदिन्द्रियेण वीर्येण समर्द्धयति ।...... जगतीं वैश्यस्यानुब्रूयात् । जागतो वै वैश्यः । जागताः पशवः पशुभिरेवैनं तत्समर्द्धयति ' ( ऐखा. ५।२ ) इति श्रूयते । तत्र गायत्र्या ब्रह्मवर्चसं तेजः, त्रिष्टुभा त्विन्द्रियं वीर्यमोजः, जगत्या च पश्वादयः पदार्था लक्ष्यन्ते । तदन्तरेण गायत्र्यादिविज्ञानमशक्यमेषां विज्ञानमित्यार-म्भणीयश्छन्दोवेदः ॥ ७ ॥
“ चतुरुत्तरैर्वै देवाश्छन्दोभिः सयुग्भूत्वा एतां श्रियमारोहन् यस्यामेत एतर्हि प्रतिष्ठिताः । अग्निर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रावरुणौ पङ्क्त्येन्द्रस्त्रिष्टुभा विश्वेदेवा जगत्या | ते एते अभ्यनूच्येते - अग्नेर्गायत्र्यभवत् सयुग्वेति । कल्पते ह वा अस्मै योगक्षेमः । उत्तरोत्तरिणीं ह श्रियमश्रुते अश्रुते प्रजानामैश्वर्यमाधिपत्यं य एवमेता अनुदेवता एतामासन्दीमारोहति क्षत्रियः सन्नि ” ति ( ऐ.ब्रा. ३७।२ ) हि श्रूयते । तत्र देवताछन्दसोः सयुक्त्वाख्यानादुत्तरोत्तरिणीं श्रियं प्रजामैश्वर्यमाधिपत्यं चापेक्षमाणानामवश्यमेषां छन्दसां चतुरुत्तरत्वविज्ञानमपेक्षितं भवतीत्यारम्भणीयश्छन्दोवेदः ॥ ८ ॥
“ यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ इत्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयति देवविशो य एवं वेदे’ति ( ऐ.ब्रा. १२।१ ) श्रूयते । तदतश्छन्दः प्रतिष्ठापदं विदित्वामृतत्वमनुवीये-त्यारम्भणीयश्छन्दोवेदः ॥ ९ ॥
“ तं सप्तभिश्छन्दोभिः प्रातरह्वयन् । तस्मात् सप्तचुरुत्तराणि छन्दांसि प्रात-रनुवाकेऽनृच्यन्ते । ” इति हि तैत्तिरीयका आमनन्ति । मैत्रायणीनामध्वरादिविधावप्याम्ना-यते । “ देवेभ्यः प्रातर्यावभ्योनुब्रूहीति छन्दांसि वै देवाः प्रातर्यावाणः । छन्दोभ्यो वा एतदनुवाच आह " - इति । तथाचैतरेयकेऽपि— “ देवेभ्यः प्रातर्यावभ्योहोतरनुब्रूहीत्याहाध्वर्युः । एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ । त एते सप्तभि: सप्तभिश्छन्दोभिरागच्छन्ति । आस्य देवाः प्रातर्यावाणी हवं गच्छन्ति य एवं वेद ” ( ऐ.ब्रा. ७/५ ) सप्ताग्नेयानि छन्दांस्यन्वाह, सप्तोषस्यानि छन्दांस्यन्वाह... सप्ताश्विनानि छन्दांस्यन्वाह - सप्तधा वै वागवदत् । तावद्वै वागवदत् सर्वस्यैव वाचः सर्वस्य ब्राह्मणः परिगृहीत्यै । तिस्रो देवता अन्वाह । त्रयो वा इमे त्रिवृतो लोकाः । एषामेव लोकानामभिजित्यै ( ऐ.ब्रा.८।७ ) तदाहुः - कथमनूच्यः प्रातरनुवाक इति । यथाच्छन्दसमनूच्यः प्रातरनुवाकः । प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांसि । एष उ एव प्रजापतियों यजते । ” ( ऐ.ब्रा. ७।८ ) इति श्रूयते । न चैतच्छन्दोविज्ञानमन्तरेणानुवचनं साधीयः संभवतीत्यारम्भणीयंश्छन्दोवेदः ॥ १० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 80
पाठ पढ़ें पाठ छिपाएँ
७६ छन्दः शास्त्रम् ' तदाहुः स वै होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसि प्रजनयेदिति । एषा वाव त्रिरनूक्ता सर्वाणि च्छन्दांसि भवति । एषा छन्दसां प्रजाति: । " ( ऐ.ब्रा. ७ ६ ) इति श्रूयते । तदतश्छन्दःप्रजननविद्याया होतृत्वमासादयेयमित्यारम्भणीयश्छन्दोवेदः ॥ ११ ॥
" अग्निवै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता: । आग्नावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्ति । अग्निवै सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च । तद्यदाग्नावैष्णवं पुरोडाशं निर्वपन्ति । अनन्त एव तद्देवानृध्रुवन्ति । तदाहुर्यदेकादशकपालः पुरोळाशो द्वावनाविष्णू । कैनयोस्तत्र क्लृप्तिः, का विभक्तिरिति । अष्टाकपाल आग्नेयोऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः त्रिकपालो वैष्णवस्त्रिर्हदं विष्णुर्व्यक्रमत । सैनयोस्तत्र क्लृप्ति: सा विभक्तिरि " ( ऐ.ब्रा. १1१ ) त्याम्नायते । तत्रैवमेकादशकपाले देवतयोः क्लृप्तिविभक्ती कर्तुं पारयेमेत्यारम्भणीयश्छन्दोवेदः ॥ १२ ॥
‘ तेजो वै ब्रह्मवर्चसं गायत्री । आयुर्वा उष्णिम् । वाग्वा अनुष्टुप् । श्रीर्वै यशश्छन्दसा बृहती । पाङ्क्तो वै यज्ञ: । ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् । जागता वै पशवः । ” ( ऐ.ब्रा. १।६ ) इति श्रूयते । तदतस्तत्तच्छन्दोयाज्यामनुरुन्धाना यथा तत्तत्कामेषु कृतकृत्याः स्युरित्यारम्भणीयश्छन्दोवेदः ॥ १३ ॥
" ते देवा अब्रुवन् — विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा । त्रयस्त्रिंशद्वै देवाः । अष्टौ वसव एकादश रुद्रा: द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । देवता अक्षरभाजः करोति । अक्षरमक्षरमेव तद्देवंता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेत— अनायतनवान् स्यादिति अविराजास्य यजेद् गायत्र्या वा त्रिष्टुभा वान्ये न वा छन्दसा वषट् कुर्यादनायतनवन्तमेवैनं तत्करोति I । यं कामयेत —– आयतनवान् स्यादिति । विराजास्य यजेदायतनवन्तमेवैनं तत्करोति । " ( ऐब्रा. १२।११ ) इति श्रूयते । तदन्तरेण छन्दोवेदमवाक्यं तु यथाकामं याज्या विशेषोपधानमित्यारम्भणीयश्छन्दोवेदः ॥ १४ ॥
' यो धाता स वषट्कार.... यानुमतिः सा गायत्री.... या राका सा त्रिष्टुप्.... या सिनीवाली सा जगती... या कुहूः सानुष्टुप् । एतानि वा व सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि । एतानि हि यज्ञे प्रतमामिव क्रियन्ते । एतैर्ह वा अस्य छन्दोभिर्यजतः 1 सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद । ( ऐ.ब्रा. १३1३ ) यः सूर्यः स धाता स उ एव वषट्कारः र:..... .. या द्यौः सानुमतिः सो एव गायत्री... योषाः सा राका सो एव त्रिष्टुप्.... या. गौः सा सिनीवाली सो एव जगती... या पृथिवी सा कुहूः सो एवानुष्टुप् । एतानि वाव सर्वाणि च्छन्दांसि । गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि एतानि हि यज्ञे प्रतमामिव क्रियन्ते ” ( ऐब्रा. १५।४ ) इत्याद्यैतरेयके श्रूयते ॥ मैत्रायणीयानां राजसूयब्राह्मणेऽप्याम्नायतें-‘ गायत्र्यनुमतिः । त्रिष्टुव् राका । जगती सिनीवाली । कुहूरनुष्टुप् । धाता वषट्कारः । या पूर्वा पौर्णमासी सानुमतिः योत्तरा सा राका । या पूर्वामावया सा सिनीवाली योत्तरां सा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA