छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 81–90
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 81–90
पृष्ठ 81
पाठ पढ़ें पाठ छिपाएँ
भूमिका ७७ कुहूः । चन्द्रमा एव धाता । ” इत्यादि । तदन्तरेण च्छन्दोवेदमशक्यमासामनुमतिरा-कासिनीवालीकुहूनां सर्वच्छन्दोभिः सारूप्यमवगन्तुमित्यारम्भणीयश्छन्दोवेदः ॥ १५ ॥
" अतिच्छन्दसः शंसति । छन्दसां वै यो रसोऽत्यक्षरत् सोऽतिच्छन्दसमभ्यत्यक्षत् । तदतिच्छन्दसोऽतिच्छन्दस्त्वम् । सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यत् षोळशी । तद्यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद । " ( ऐ.ब्रा. १६।३ ) इत्यैतरेयकाणां षोडशिब्राह्मणे श्रूयते । तदिदमतिच्छन्दसः शंसेयं षोडशिना च राध्नुयामित्यारम्भणीयश्छन्दोवेदः ॥ १६ ॥
“ सोमो वै राजाऽमुष्मिंल्लोके आसीत् । तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मा-न्त्सोमो राजागच्छेदिति । तेऽब्रुवंश्छन्दांसि । यूयं न इमं सोमं राजानमाहरतेति । तथेति ते सुपर्णा भूत्वोदपतन् ।.... छन्दांसि वै तत्सोमं राजानमच्छा चरन् । तानि ह तर्हि चतुरक्षराणि चतुरक्षराण्येव छन्दांस्यासन् सा जगती चतुरक्षरा प्रथमोदपतत् । सा पतित्वार्धमध्वनो गत्वाश्राम्यत् । सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत् । तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति । जागता हि पशवः । जगती हि तानाहरत् ॥ अथ त्रिष्टुबदपतत् । सा पतित्वा भूयोऽर्द्धादध्वनो गतवाश्राम्यत् । सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवापतत् । तस्मान्मध्यन्दिने दक्षिणा नीयन्ते त्रिष्टुभो लोके । त्रिष्टुब्भिता अहरत् ॥ १ ॥ ते देवा अब्रुवन् गायत्रीम् । त्वं न इमं सोमं राजानमाहरेति
सा तथेत्यब्रवीत् ।.... सा पतित्वा सोमपालान् भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णात् । यानि चेतरे छन्दसी अक्षराण्यजिहतां तानि चोपसमगृभ्णात् ॥ २ ॥ सा
यद्दक्षिणेन पदा समगृभ्णात् । तत् प्रातः सवनमभवत् । तद्गायत्री स्वमायतनमकुरुत । तस्मात् तत् समृद्धतमं मन्यन्ते सर्वेषां सवनानाम् ।... अथ यत्सव्येन पदा समगृभ्णात् तन्माध्यन्दिनं सवनमभवत् । तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत् पूर्वं सवनम् । ते देवाः प्राजिज्ञासन्त । तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानाम् । तेन तत् समावद्वीर्यमभवत् पूर्वेण सवनेन । अथ यन्मुखेन समगृभ्णात् तत् तृतीयसवनमभवत् । तस्य पतन्ती रसमधयत् । तद्धीतरसं नान्वाप्नोत् पूर्वे सवने । ते देवाः प्राजिज्ञासन्त । तत्पशुष्वपश्यन् । तद्यदाशिरमवनयन्ति आज्येन पशुना चरन्ति तेन तत् समावद्वीर्यमभवत् पूर्वाभ्यां सवनाभ्याम् ॥ ३ ॥ ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेताम् । वित्तं नावक्षराण्यनुपर्या-गुरिति । नेत्यब्रवीद्गायत्री । यथावित्तमेव न इति । ते देवेषु प्रश्नमैताम् । ते देवा अब्रुवन्—
यथा वित्तमेव व इति । तस्माद्धाप्येतर्हि वित्त्यां व्याहुः - यथावित्तमेव न इति । ततो वा अष्टाक्षरा गायत्र्यभवत् । त्र्यक्षरा त्रिष्टुप् । एकाक्षरा जगती । साष्टाक्षरा गायत्री प्रातः सवनमुदयच्छत् नाशक्नोत्त्रिष्टुप् त्र्यक्षरा माध्यन्दिनं सवनमुद्यन्तुम् । तां गायत्र्यब्रवीद् — अन्यापि मेऽत्रास्त्विति । सा तथेत्यब्रवीत् त्रिष्टुप् । तां वै मैतैरष्टाभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधात् ... सैकादशाक्षरा भूत्वा माध्यन्दिनं सवनमुदयच्छत् । नाशक्नोज्जगत्येकाक्षरा तृतीय-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 82
पाठ पढ़ें पाठ छिपाएँ
७८ छन्दः शास्त्रम् सवनमुद्यन्तुम् । तां गायत्र्यब्रवीद् — आयान्यपि मेऽत्रास्त्विति । सा तथेत्यब्रवीज्जगती । तां वै मैतैरेकादशभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधात्... सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् । ततो वा अष्टाक्षरा गायत्र्यभवत् । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगती!.... एकं वै सत्तत्रेधाभवत् । तस्मादाहु दतव्यमेवं विदुषे इति । एकं हि सत्तत्त्रेधाभवत् । ” ( ऐ.ब्रा. १३।४ ) इति हि सौपर्णकमाख्यानमाख्यानविदामामनन्त्यैत-रेयकाः । को ह्येतदर्थं विज्ञापयितुं शक्नोति यावता याथात्म्येन च्छन्दोवेदं न जानीयादि-त्यारम्भणीयश्छन्दोवेदः ॥ १७ ॥
गायत्री |||| IIIIL - 7, m'm ' P ' ॥ ॥ ' ॥॥ ” ८ त्रिष्टुप् III - L17, III....... ॥। - ॥॥॥॥ ” ११ जगती ॥॥ 1- LI117,!......, 1 -॥। - ॥॥॥॥ ” १२ " आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्ग लोकमियाम । वयं पूर्व इति । त आदित्या एतं पञ्चहोतारमपश्यन् तं पुरा प्रातरनुवाकादाग्नीध्रेऽजुहवुः । ततो वै ते पूर्वे सुवर्ग लोकमायन् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवर्गो लोकः तेऽब्रुवन्नाङ्गिरस आदित्यान् – क्व स्थ? क्व वः सद्द्भ्यो हव्यं वक्ष्याम? इति । छन्दःसु इत्यब्रुवन् । गायत्र्यां त्रिष्टुभि जगत्यामिति । तस्माच्छन्दःसु सद्भ्य आदित्येभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति । ” इति हि तैत्तिरीयका आमनन्ति । छन्दःसु सद्भ्य आदित्येभ्यो हव्यं वहन्तीति जानीयामेत्यारम्भणीयश्छन्दोवेदः ॥ १८ ॥
मैत्रायणीयानामाम्नायते “ गायत्री च सम्पादयति जगतीं च । तद्द्द्वे छन्दसी एकं छन्दोऽभिसम्पादयति बृहतीम् । त्रिष्टुभं च ककुभं च । तद्द्द्वे च्छन्दसी एकं च्छन्दोऽभि सम्पादयति बृहतीम् । अनुष्टुभं च पङ्क्तिं च । तद्द्द्वे च्छन्दसी एकं छन्दोऽभिसम्पादयति वृहतीम् । तत् षट् च्छन्दांस्येकं च्छन्दोभिसम्पादयति बृहतीम् । ” इत्यादि । गा ० ॥ ॥ ॥ ००० क ० ||||||| ०० अ ० || || || || ० ज ० ॥॥॥ ॥॥। त्रि ० ॥॥॥॥।- ॥ प ० ॥ ॥॥॥।- 1 ६ ७ ८ १२ ११ १० बृ ० ९ + बृ ० ९ बृ ० ९ + बृ ० ९ बृ ० ९ + बृ ० ९ ऐतरेयकेऽपि “ तस्या वाचोऽवपादादबिभयुः - तमेतेषु सप्तसु छन्दःस्वश्रयन् । यदश्रयन् । तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् — यदवारयन् — तद्वारयन्तीयस्य वारयन्तीयत्वम् । तस्या वाच एतावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दांस्यपादधुः । तेषामति-त्रीण्यतिरिच्यन्ते । न त्रीण्युदत्तवत् स बृहतीमेवास्पृशत् - द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 83
पाठ पढ़ें पाठ छिपाएँ
भूमिका ७ ९ तदाहुः - कतमा सा देवाक्षरा बृहती - यस्यां तत् प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः- द्वादशाष्टकाः-द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती यस्यां तंत् प्रत्यतिष्ठदिति । यानि च च्छन्दांस्यत्यरिच्यन्त यानि च नोदभवन् - तानि निर्वीर्याणि हीनान्यमन्यन्त । साऽब्रवीद् बृहती । मामेव भूत्वा मामुपसंश्रयतेति । चतुर्भिरक्षरैरनुष्टुव् बृहतीं नोदभवत् । चतुर्भिरक्षरैः पङ्क्तिर्बृहतीमत्यरिच्यत । तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् । अष्टाभिरक्षरैरुष्णग् । बृहतीं नोदभवत् । अष्टाभिरक्षरैस्त्रिष्टुप् बृहतीमत्यरिच्यते । तस्यामेतान्यष्टावक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसममश्रयताम् ॥ द्वादशभिरक्षरैर्गायत्री बृहतीं नोदभवत्, द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्यामेतानि द्वादशाक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् || ” इत्याम्नायते । तत्रान्तरेण च्छन्दोवेदमशक्यमासां गायत्र्युष्णि-गनुष्टुभामनुद्भवनमन्यासां च पङ्क्तित्रिष्टुब्जगतीनामतिरेचनं यथायथावद्विज्ञातुमित्या-रम्भणीयछन्दोवेदः ॥ १ ९ । इतीमान्यन्यानि चैवंविधानि भूयांसि प्रयोजनानि पश्याम इत्यारम्भणीयश्छन्दोवेदः ॥ २० ॥
अथ कश्चिद् ब्रूयात् - यान्येतानि प्रयोजनान्युक्तानि ततो न खलु वैदिकानामेव च्छन्दसां विधानशास्त्रस्यावश्यकत्वं प्राप्नोति न पुनर्लौकिकानामपीति । तत्रोच्यते - त्रिविधानि हि वाचां छन्दांसि; कानिचिद्वैदिकान्येव, कानिचिद्वैदिकानि च लौकिकानि च, कानिचित् पुनर्लौकिकान्येव । तत्रावश्यमुभयेषां निदर्शनाय शास्त्रारम्भः प्रवर्तनीयस्तेन यदि— “ घटायोन्मीलितं चक्षुः किमन्यन्न प्रकाशयेत्? ” इति न्यायेन लौकिकान्यपि दश्येरन्; तत्तर्हि तावता छन्दोयाथात्म्यविजिज्ञासूनां छन्दोविज्ञान सौकर्यानुग्रहो भवति । अत एव तु वैदिकांनि च्छन्दांसि साकल्येन प्रदर्श्य लौकिकानां दिग्दर्शनेनानुगृह्णाति भगवान् पिङ्गलाचार्यः । अनेन चाविशिष्टबुद्धिरपि तानि तानि छन्दोवृत्तानि यथावदवगम्य तद्रचनाभिनयादिना कृतकृत्यः कवितानन्दमासादयेत् ॥—
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥
( काव्यप्रकाश - १.२ ) इति हि भूयांसि प्रयोजनानि काव्यस्य पठन्ति । छन्दोभिनेयं तु वाक्यं रसोद्बोधे काव्यमित्युच्यते । तदतश्छन्दोभङ्गो रसापकर्षितया काव्यत्वव्याघातको भवति । तस्माच्च छन्दोभङ्गदोषेण काव्यप्रयोजनेभ्यो माव्यतिरेचिष्महीत्यपेक्षमाणानामारम्भणीयं लौकिकानामपि च्छन्दसां विज्ञानशास्त्रम् । उक्तं च प्राकृते पैङ्गले-जेम ण सहई कणअतुला तिलतुलिअं अद्ध अद्धेण । तेम ण सहई सवणतुला अवच्छन्दं छन्दभङ्गेण ॥१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 84
पाठ पढ़ें पाठ छिपाएँ
८० छन्दः शास्त्रम् अबुह बुहाणं मज्झे कव्वं जो पढइ लक्खविहूणम् । भूअगालगाखगाहि सीसं खुडअं ण जाणेइ ॥ २ ॥ इति ।
यथा न सहते कनकतुला तिलतुलितमर्द्धार्द्धन । तथा न सहते श्रवणतुला अपच्छन्दस्कं छन्दोभङ्गेन ॥१ ॥ अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलग्नखङ्गेन
शीर्ष खण्डितं न जानाति ॥२ ॥
इति हि तदर्थः । तदिदमपच्छन्दस्कं लक्षणविहीनं मा प्रयुङ्क्ष्महीत्यारम्भणीयं छन्दोविज्ञानशास्त्रम् ॥२१ ॥
इति छन्दोवेदसार्थकतावादः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 85
पाठ पढ़ें पाठ छिपाएँ
प्रस्तावना किं तावच्छन्दसां तत्त्वम्? का विभक्तिः? किं लक्षणम्? किं प्रयोजनम्? इत्या-दयश्छन्दः शास्त्रसम्बद्धा विषयास्तावत् श्रीमधुसूदनशर्ममहानुभावैश्छन्दः समीक्षायां सम्यङ् न्यरूरुपिषतेति तेषामेवात्र सङ्ग्रहोऽकारि । अथ तदेतच्छन्दःशास्त्रं कदा प्रादुरासेति विमृश्यते । तत्र तावन्महनीयमहिम्नोऽपौरुषेयाद्वेदराशेर्गायत्र्यादिच्छन्दसां यज्ञकर्मणि विनि-युक्तत्वात्तज्ज्ञानार्थमादौ ब्राह्मणग्रन्थेषु तेषां पादसङ्ख्या तत्र प्रविभक्ताक्षरसङ्ख्या च निर्दि-श्यते । पादसङ्ख्यामात्रेणाक्षरसङ्ख्यामात्रेण च वैदिकच्छन्दसां गायत्र्यादिव्यवहारः । तत्र किञ्चिन्यूनाधिकतायामपि न च्छन्दोहानिर्भवति । तदुक्तम्- ' न वा एकेनाक्षरेण च्छ-न्दांसि वियन्ति, न द्वाभ्याम् ' ( ऐ ० ब्रा ०१.६ ) ' न ह्येकेनाक्षरेणान्यच्छन्दो भवति, न द्वाभ्याम् ' ( सां ० ब्रा ० २७.१ ) इति । ततो ब्राह्मणग्रन्थेष्वितस्ततः पर्यस्तान् विध्यर्थवादादीन् समाहृत्य सारल्येन यज्ञकर्माणि सूत्रयितुं प्रवृत्तेषु भगवदाश्वलायनसङ्ख्यायनापस्तम्बादिषु तदुपयोगिनां छन्दसां लक्षणान्यपि ब्राह्मणारण्यकादिभ्यो निष्कृष्य पृथक्कथनीयान्यभवन् । तानि चैवं सूत्रयांचकार तत्र भवान् साङ्ख्यायनः -‘ त्रिपदा गायत्री ( १ ) उष्णिक् ( २ ) पुर उष्णिक् ( ३ ) ककुप् ( ४ ) विराट् च पूर्वा ( ५ ) चतुष्पदोत्तरपदा विराट् ( ६ ) बृहती ( ७ ) सतो बृहती ( ८ ) जगती ( ९ ) अनुष्टुप् ( १० ) त्रिष्टुप् च ( ११ ) पञ्च पङ्क्तेः ( १२ ) षट्सप्तेत्यतिच्छन्दसाम् ( १३ ) ' स हि शर्धो न मारुत ' मित्यष्टौ ( १४ ) द्वौ द्विपदाया: ( १५ ) तेऽष्टाक्षराः प्रायेण ( १६ ) द्वादशाक्षरा जगत्याः ( १७ ) तृतीयौ चोष्णिग्बृहत्यो: ( १८ ) सतोबृहत्याश्च प्रथम तृतीयौ ( १ ९ ) मध्यमः ककुभः ( २० ) प्रथमः पुर उष्णिह: ( २१ ) एकादशाक्षरा त्रिष्टुब्विराजो: ( २२ ) उत्तरस्या दशाक्षरः ( २३ ) तामक्षरपङ्क्तिरित्यप्याचक्षते ( २४ ) पञ्चभिः पञ्चाक्षरैः पद-पङ्क्तिः ( २५ ) षळप्यष्टाक्षरा जगत्याः ( २६ ) एकेन द्वाभ्यामित्यूनके निचृत् ( २७ ) अतिरिक्ते भुरिक् ( २८ ) सम्पाद्य पादभागेनाहार्यस्यर्चः सम्मितास्तस्य पादभागेन सम्पन्नाः ( २ ९ ) गायत्र्युष्णिगनुष्टुप्बृहत्यो पङ्क्तिश्च त्रिष्टुप्जगत्यावित्यानुपूर्व्यं छन्दसां चतुर्विंशत्य-क्षरादीनां चतुरुत्तराणाम् ( ३० ) ( सां ० श्रौ ० सू ० ७.२७ ) इति । इदमेव मूलं छन्दःशास्त्र-महातरोरिति मन्यामहे । अत्रैकेन द्वाभ्यां वाऽक्षराभ्यां न्यूनाधिक्ये निचृद्भुरिगिति संज्ञा-विशेष उच्यते; पिङ्गलाचार्येण पुनः ' ऊनाधिकेनैकेन निचृद्भुरिजौ । द्वाभ्यां विराट्स्वराजौ । ' ( ३.५ ९ -६० ) इत्युक्तमिति शास्त्रस्योत्तरोत्तरं परिणततावसीयते । निदानसूत्राणामिदमेव स्थानम् । प्रातिशाख्यसर्वानुक्रमण्यौ वैदिकच्छन्दसां लक्ष-भू ० छ ० शा ०-६ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 86
पाठ पढ़ें पाठ छिपाएँ
८२ छन्दः शास्त्रम् णानि दर्शयन्त्यावपि पिङ्गलादूर्ध्वमेवाविर्भूते इत्यनुपदमेव दर्शयिष्यते । लौकिकच्छन्दसामुत्पत्तिः अथाधीयमानेष्वेवाम्नायेषु केषाञ्चनर्चामर्धर्चां पादानां च श्रुतिमनोहरतामनुसन्दधानाः परमर्षयस्तत्राक्षरपरिच्छेदं लघुगुरुनियमं च निदानमवदीधरन् । तानेव चाम्रेड्याम्रेड्य स्वयं वृत्तानि विरचयामासुः । क्वचिच्चाक्षरसङ्ख्यानिरपेक्षमेवोच्चारणकालसाम्यमात्रं विशिष्टवृत्त-साधकं पश्यन्तो मात्रावृत्तानि कल्पयाम्बभूवुः । दृश्यन्ते हि तानाविधवृत्तानां मातृकायमाणा मन्त्रभागा वेदे । यथा-‘ हृदिस्पृगस्तु शन्तम: ' ( ऋ ० सं ० १. १. ३१ ) इति प्रमाण्याः | ' पूषण्वते चकृमा करम्भं ' ( ऋ ० सं ० ३.३.१८ ) इतीन्द्रवज्रायाः । ' स्तुहि श्रुतं गर्तसदं युवानं ' ( ऋ ० सं ० २.७.१८ ) इत्युपेन्द्रवज्रायाः । ‘ अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः । ( ऋ ० सं ० १.२.१४ ) इत्युपजातेः । ' इन्द्रासोमा दुष्कृते मा सुगं भूत् ' ( ऋ ० सं ०५.७.६ ) इति शालिन्याः । ‘ आ देवानामभवः केतुरग्ने ' ( ऋ ० सं ० २.८.१६ ) इति वातोर्म्याः । ‘ रथं न दुर्गावसवः सुदानवः ' ( ऋ ० सं ० १. ७.२४ ) इति वंशस्थस्य । ' यूना ह सन्ता प्रथमं वि जज्ञतुः ' ( ऋ ० सं ० ७.२.१ ९ ) इतीन्द्रवंशायाः । ‘ अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर । ' ( ऋ ० सं ० १.१.१ ९ ) इति नराचस्य । : एवमेवान्येषामपि वृत्तानां मूलभूताः पादाश्चार्धर्चश्च तत्र तत्र शतश उपलभ्यन्ते । ततश्च वेद एव मूलं लौकिकानामपि छन्दसामिति युक्तमुत्पश्यामः । छन्दःशास्त्रस्य वेदाङ्गता तत्रैवं द्विविधानामपि च्छन्दसां लक्षणविधायकं शास्त्रमिदमाविरकार्षीत्तत्र पिङ्गलनागः । सर्वेष्वप्युपलभ्यमानेषु छन्दोग्रन्थेष्विदमेव पुराणतरमार्षं च । अत एवैत- भवान् द्वेदाङ्गतयोपादीयते वैदिकैः । लौकिकानामपि च्छन्दसां लक्षणसंग्रहपरस्यास्य वैदिकलौकिक-शब्दलक्षणविधायकपाणिनीयव्याकरणस्येव वेदाङ्गता न विरुद्धा । दृश्यन्ते चोपनिषदादिषु वेदभागेषु क्वचिल्लौकिकान्यपि च्छन्दांसि । तेषां लौकिकसंज्ञा तु ‘ प्राधान्येन व्यपदेशा भवन्ति ' इति न्यायेनैवेति न किञ्चिदत्याहितम् । पिङ्गलाचार्यकृतच्छन्दःशास्त्रात्पूर्वमपि शास्त्रेऽस्मिन् क्रौष्टुकि - यास्क - ताण्डि - सैतव- काश्यप - रातमाण्डव्यप्रभृतीनां शास्त्राण्यासन्निति पिङ्गलकृतात्तन्मतनिर्देशादवगम्यते । तत्र क्रौष्टुकिः - बौधायनीये भारद्वाजगोत्रकाण्डे ‘ भृष्टयो भृष्टुभिन्दयः क्रोष्टुकयः ' इति श्रुतानां क्रौष्टुकीनां कश्चित् स्यात् । अयमतीव प्राचीन:, यतो यास्केनापि स्मर्यते - ‘ द्रविणोदा इन्द्र इति क्रौष्टुकिः ' ( निरु ० ८.२ ) इति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 87
पाठ पढ़ें पाठ छिपाएँ
प्रस्तावना ८३ यास्क: - आपस्तम्बेन भृगुषु पठित: - ' यास्कबाधूकमौनमौका: ' इति । अयं निरुक्ताख्यनिघण्टुभाष्यप्रणेता ' यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् । ' ( शां ० प ० ३४३.७२ ) इत्यादिना महाभारतेऽपि स्मर्यमाणः । ताण्डी — ' ऋषिरासीत्कृते तात! तण्डिरित्येव विश्रुतः । ' ( अनु ० १६.१ ) इत्यादिना महाभारते गीयमानमाहात्म्यस्य ऋषेः पुत्रः । ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । मत्प्रसादाद्विजश्रेष्ठ! भविष्यति न संशयः ॥ ' ( अनु ० १६.७० ) इति तत्रैव भगवतो महेश्वरस्य वरदानोपवर्णनात् । सैतवविषयेऽधिकं किमपि न ज्ञायते । केवल लौकिकच्छन्दोलक्षणविधायक-शास्त्रकर्तायमासीदित्यनुमीयते । काश्यपस्तु — मन्दारमरन्दटीकायां कृष्णशर्मकृतायां माधुर्यरञ्जन्यां प्रमाणीक्रियते ' तत्र भगवता सूत्रकारेण काश्यपेन.... ' ( पृ ० ६ ) इति । कृष्णशर्मणो अध्वमतानुयायि-त्वात्, मध्वाचार्यस्य च १२३ ९ शकाब्दे पिङ्गलसंवत्सरे लोकान्तरप्रयाणस्यैतिह्यविद्भिर-वधारितत्वात्, तदूर्ध्वभाविना कृष्णशर्मणा प्रमाणत्वेनोपात्तस्य काश्यपसूत्रस्यासादनमिदा-नीमपि नासम्भवनीयम् । धर्मसूत्रमपि काश्यपप्रणीतमुपलभ्यते । तत्कर्ता छन्दः सूत्रप्रणेता च काश्यप एक एवोत भिन्न इत्यवधारयितुं न पारयामः । रातमाण्डव्यौ तु सम्भूय ग्रन्थकर्तारावित्यनुमीयते । तत्र प्रवरदर्पणे भरद्वाजाङ्गिरोमध्ये कश्चित् रातो दृश्यते । माडव्यश्च बौधायनसूत्रे भृगुगणे आश्वलायनसूत्रे तर्पणप्रकरणेऽन्यत्र च बहुषु ग्रन्थेषु श्रुतः । महाभारते च ( आदि १०७ ) कश्चिन्माण्डव्य उपवर्णितः । तत्र को वा रातसहचर इत्यनिर्णीतमेव । धर्मशास्त्रमपि रातमाण्डव्यप्रणीतमस्तीति स्मृतिसारस-मुच्चयादिपर्यालोचनां प्रतीयते । तत्र रातमाण्डव्य इत्येकत्वेन व्यपदेशो दृश्यते, स च शङ्खलिखितवत्सम्भूयग्रन्थकर्तृत्वनिमित्तक एव स्यात् । एतदतिरिक्ता अन्येऽपि छन्दः शास्त्रकाराः पिङ्गलाचार्यात्पूर्वकालिका भवितुमर्हन्ति, यन्मतमसौ ‘ एकीयम् ' ( ५.१५ ) इति निर्दिशति । परं तद्विषयेऽविदितविशेषा जोषमेवाव-तिष्ठामः । पिङ्गलाचार्यादुत्तरकालिकाच्छन्दोग्रन्थकाराः अथ पिङ्गलाचार्यादूर्ध्वकालिकत्वेनाध्यवसितान् कांश्चिदार्षान् ग्रन्थानालोचयामः । तत्र शौनकीये प्रातिशाख्येऽन्त्यैः षोडशादिभिस्त्रिभिः पटलैर्वैदिकच्छन्दसां लक्षणानि निरूपितानि । शौनकश्च नितान्तं प्राचीन इति विमर्शकाः । परं वयमिमं पिङ्गलादूर्ध्वतनं मन्यामहे । यतः प्रातिशाख्ये छन्दः शास्त्रापेक्षया बहवच्छन्दसां सूक्ष्मभेदा लक्षिता दृश्यन्ते । न च तद्विषय एव शास्त्रे तदनिरूपणं सङ्गच्छते, विना तत्पूर्वभावित्वात् । अस्ति चान्यदपि गमकं यच्छन्दःशास्त्रे न्यङ्कुसारिण्याः ' स्कन्धोग्रीवी क्रौष्टुकेः ' । उरोबृहती यास्कस्य ' ( ३. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 88
पाठ पढ़ें पाठ छिपाएँ
८४ छन्दः शास्त्रम् २ ९ -३० ) इत्याचार्यनामग्रहणपूर्वकं संज्ञाद्वयं प्रादर्शि, प्रातिशाख्ये तु ' -न्यङ्कुसारिणी । स्कन्धोग्रीव्युरोबृहती त्रेधैनां प्रतिजानते ॥ ' ( १६.४३ ) इति नामग्रहणनैरपेक्ष्येणैव । तेन छन्द: शास्त्रस्य प्राचीनतावचनेनैव सिद्ध्यति । किञ्च दृश्यते प्रातिशाख्ये ' यजुषां षट् । साम्नां द्विः । ऋचां त्रिः ' ( २. ६-८ ) इति छन्दः सूत्राणामनुवाद इव, ' यजुषां षडृचां त्रि: -षट् साम्नां द्वादश सम्पदि । ' ( १६.१२ ) इति । तस्मात्प्रातिशाख्यादपि छन्द: शास्त्रमेव प्राचीनम् । प्रातिशाख्ये दृष्टाश्छन्दोविशेषास्तु विशल्यकरण्यां सङ्गृहीता एवास्मा-भिरिति नात्र पुनरुच्यन्ते । कात्यायनप्रणीतं ऋक्सर्वानुक्रमसूत्रं तु प्रायः प्रातिशाख्यानुसारीति तस्य ततोऽर्वाचीनत्वं निर्विवादम् । छन्दः शास्त्रादर्वाक्तनत्वे त्वस्यास्ति स्फुटतरं प्रमाणं यत् छन्दःशास्त्रीययोः ‘ न्यूनाधिकेनैकेन निचृद्धरिजौ । द्वाभ्यां विराट्स्वराजौ ' छ ० ३.५ ९-६० सर्वा ० ३. ४-५ ) इति सूत्रयोरविकलयोरनुवादः । सर्वानुक्रमे च ' अथं च्छन्दांसि ’ इत्युपक्रम्य तृतीयाद्येकादशान्तैः खण्डैर्ऋग्वेदेऽपेक्षितानां छन्दसां लक्षणान्युक्तानि । अस्माभिस्तु तानि सर्वाणि टिप्पण्यां सोदाहरणानि प्रदर्शितान्येव । शुक्लयजुः सर्वानु-क्रमसूत्रं तु छन्दोविषये न ऋक्सर्वानुक्रमसूत्रान्मात्रापि भिद्यते, अतस्तद्विषये न किञ्चिद्वक्तव्यमस्ति । अग्निपुराणे ३२८ तममध्यायमारभ्य ३३५ तमपर्यन्तमष्टभिरध्यायैः क्रमेण परिभाषा, दैव्यादिसंज्ञाः, पदाधिकारः, उत्कृत्यादीनि च्छन्दांसि - आर्यादिमात्रावृत्तानि च, विषमवृत्तानि, अर्धसमवृत्तानि, समवृत्तानि, प्रस्तारादि, इति निरूपितमुपलभ्यते । एतच्च सर्वमपि पिङ्गलोक्तस्य छन्दःशास्त्रस्यानुवादरूपमेव । तथा च प्रतिज्ञातं तत्र - ' छन्दो वक्ष्ये मूलशब्दैः पिङ्गलोक्तं यथाक्रमम् । ( ३२८-१ ) इति । छन्दः शास्त्रे शुद्धाशुद्धपाठपर्यालोचने प्रक्षिप्ताद्यवधारणे च सुतरामुपयुज्यत एतत् । गरुडपुराणे पूर्वखण्डे २०७ तममारभ्य २१२ पर्यन्तं षड्भिरध्यायैः क्रमेण परिभाषा, मात्रावृत्तानि, समवृत्तानि, अर्धसमवृत्तानि, विषमवृत्तानि, प्रस्तारादि च वर्णितं दृश्यते । अत्र कतिचिच्छन्दः शास्त्रेऽनुक्तानामपि वृत्तानां लक्षणानि समुपलभ्यन्ते । तानि चास्मदीयटिप्पण्युक्तलक्षणैर्गतान्येव । वैदिकछन्दसां लक्षणानि तु नात्र वर्णितानि । इदं पैङ्गलीयाच्छास्त्रादुत्तरकालिकमेव, ' तावदर्धे तद्गुणितं द्विदुर्व्यूनं तदन्ततः । परे पूर्णं परे पूर्णं- ' इति तदनुवाददर्शनात् । नारदीयपुराणे पूर्वखण्डे ५७ तमेऽध्याये - ‘ लौकिकं वैदिकं चापि छन्दो द्विविधमुच्यते । ’ इत्युपक्रम्य गणसंज्ञाः, समार्थसमादिलक्षणानि, उक्तादि संज्ञाः, प्रस्तारं च निरूप्य ‘ इत्येतत्किञ्चिदाख्यातं छन्दसां लक्षणं मुने! । प्रस्तारोक्तप्रभेदानां नामानन्त्यं प्रजायते ॥२१ ॥
इत्युपसंहृतम् । अत्र वृत्तानां प्रातिस्विकलक्षणानि न सन्त्येव । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 89
पाठ पढ़ें पाठ छिपाएँ
प्रस्तावना ८५ विष्णुधर्मोत्तरे तृतीयखण्डे ३ अध्याये गायत्र्यादिकृत्यन्तं छन्दः सामान्यलक्षणम-भिधाय, लघुगुरुविशेषं प्रस्तारं चोक्त्वा ' दिङ्मात्रमेतत्कथितं नरेन्द्र! विस्तारजिज्ञासुरतो मनुष्यः । संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ॥ २० ॥ ' इत्युपसंहारः
कृतः ॥ एतावन्त एवास्मत्सन्दृष्टा आर्षाश्छन्दोग्रन्थाः । एषु पिङ्गलाचार्यकृतं छन्दः शास्त्रमेव प्रतनतरं प्रमाणभूतं सर्वाङ्गपूर्णं च । पिङ्गलनागः तस्य कालश्च अथ कोऽयं पिङ्गलनागः? इति पर्यनुयोगे महाभारते जैमिनीये सर्पसत्रे दग्धेषु नागेषु कश्चित्पिङ्गलो दृश्यते— ' निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा । ' ( आदि ० ३५.९ ) इति । नासौ छन्दःशास्त्रप्रणेता भवितुमर्हति, मुनित्वाभावात्, अस्यान्यथैव मरणश्रवणाच्च । किन्तु मात्स्येऽङ्गिरस्सु ' बोधिर्नगः सौगमाक्षिक्षीरयोरिकिरेव च । ' ( १ ९ ६.६ ) इति श्रुतस्य नगस्य पुत्र:; तत्रैव ‘ ज्ञात्वायनो हरिर्वाश्यः पैङ्गलश्च तथैव च । ' ( १ ९ ६.३२ ) इति श्रुतस्य पैङ्गलस्य पिता चायं पिङ्गलनागो भविष्यतीत्यस्माकं सम्भावना । एनं फणित्वेन वर्णयन्तस्तु नागशब्देन प्रतारिता एवेति मन्यामहे । एतेन महाभाष्यकारं पतञ्जलिमेव पिङ्गलापरनामधेयमाचक्षाणा अपि व्याख्याताः । किञ्च महाभाष्ये नवाह्निके ' पैङ्गलकाण्व ' ( आह्नि ० १ सू ०७३ ) शब्ददर्शनात्, भाष्या-त्प्राचीनायामृग्वेदसर्वानुक्रमण्यां छन्दः शास्त्रीयसूत्रानुवादस्योपदर्शितत्वाच्च पिङ्गलस्य महाभाष्यकारात्पतञ्जलेः प्राचीनत्वं व्यक्ततरम् । वामनपुराणे प्रात: स्मरणीयेषु — ' सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरि-पिङ्गलौ च । ( १४.२५ ) इति नामसङ्कीर्तनं प्रायोऽस्यैव भविष्यति, आसुरिसाहचर्यात् । स्कान्दे काशीखण्डे च - ' गणेन पिङ्गलाख्येन पिङ्गलेशाख्यसंज्ञितम् । लिङ्गं प्रतिष्ठितं शम्भोः कपर्दीशादुदग्दिशि ॥ ' ( ५५.२ ) इति शिवलिङ्गप्रतिष्ठापकत्वेनोपवर्णितः पिङ्गलोऽ-यमेव भवितुमर्हति अस्य ' शिवप्रसादाद्विशुद्धमति ' त्वस्योक्तत्वात् । सर्वानुक्रमटीकायां षड्गुरुशिष्यस्तु - सूत्र्यते हि भगवता पिङ्गलेन पाणिन्यनुजेन ' ( ७ ) इति लिखति, तत्र न प्रमाणान्तरमुपलभामहे । वयं त्वेनं पूर्वमुपदर्शितैः प्रमाणैः पाणिनेः पूर्वतनं जानीमहे । परं सम्प्रति ‘ यथा मकारेणापिङ्गलस्य सर्वगुरुस्स्रिकः प्रतीयेत ' ( मी ० भा ० १.१.५ ) इति वचनदर्शनाच्छबरस्वामिनः पूर्वकालिकत्वमात्रमविप्रतिपन्नमस्य । निश्चयेन कालनिर्णयस्तु सर्वेषामेवर्षीणां दुर्निरूप्य एवेति वयमप्यन्ततस्तद्विषये वाचंयमतामेवोरंरीकुर्मः । पिङ्गलस्य देशः निवासस्तु पिङ्गलाचार्यस्य प्रायः पश्चिमोदधेस्तीरप्रदेश एवेति निश्चीयते । तथा हि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 90
पाठ पढ़ें पाठ छिपाएँ
८६ छन्दः शास्त्रम् तद्देशोद्भवस्त्रीषु रूढौ ' अपरान्तिका ' ( ४.४१ ) ' वानवासिका ' ( ४.४३ ) इति शब्दौ छन्द: -शास्त्रे वृत्तनामत्वेनायं प्रायुङ्क्त । अपरान्तिका ' पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवा: ' । वानवासिका ' कोङ्कणविषयात् पूर्वेण वनवासविषयः, तत्र भवा: ' ( २.५.२६, ३२ ) इति वात्स्यायनसूत्रव्याख्याजयमङ्गला । ' प्राच्यवृत्तिः ' ' उदीच्यवृत्ति: ' ( ४.३७-३८ ) इति संज्ञे अप्युक्तार्थेऽनुकूले । महोदधितीरवासित्वादेव ' छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलं ' ( २.२६ ) इति पञ्चतन्त्रे दृश्यमानं तद्विषयकं वर्णनमपि स्वरसतः सङ्गच्छते । अतो दक्षिणकोङ्कणमेवास्य निवासस्थानमिति सम्भावयामः । छन्दःशास्त्रेवृत्तसंज्ञा छन्दःशास्त्रे समुपलभ्यमानासु वृत्तसंज्ञासु तु काश्चन विलासिनीललितसुभगान् भावानाविष्कुर्वन्ति, काश्चन मात्रासमकं पदचतुरूर्ध्वं गच्छन्त्यो माणवकाक्रीडितकमाम्रेड-यन्ति, काश्चिन्मत्तमयूरसेवितं कुसुमितलतावेल्लितमनोहरं पुष्पिताग्राभिः शाखाभिरुप-शोभितमुद्यानं विचरन्ति, काश्चित् हलमुखीं पृथ्वीं यवमती शालिनीं च वितन्वन्ति, काश्चन हरिणीयूथसनाथं शार्दूलविक्रीडितभीषणं भुजङ्गविजृम्भितं काननं सेवन्ते, काश्चिद्-द्रुतविलम्बितमृषभगजविलसितं जुषन्ते, काश्चन विद्युन्मालाप्रभाभासुरं वातोर्मिप्रेरितजलधर-मालोद्गतं वर्धमानं चण्डवृष्टिप्रपातं भजन्ते, काश्चन हंसरुतनादितां क्रौञ्चपदोपशोभितां जलोद्धतगतिं वेगवतीं वाहिनीमवगाहन्ते, काश्चिच्चाश्वललितरथोद्धतां केतुमतीमपराजितां प्रहरणकलितां सेनां स्मारयन्तीत्यहो सर्वतोमुखी सूक्ष्मनिरीक्षणशक्तिचार्यस्य । एतासां सम्यग्विमर्शे ग्रन्थकर्तृ रसिकता च जीविकारहस्यं च तत्कालीना देशस्थितिश्च सुपरिज्ञाता स्यादिति मन्यामहे । वृत्तनाम्नामुपपत्तिः यद्यप्येता आचार्यवर्येण यथारुचि कल्पिताः- प्राचीनैः कश्यपादिभिश्च विहिताः समादृता इति न तत्र कश्चन पर्यनुयोग:, तथापि कासांचित् संज्ञानामुपपत्तिरप्यनुमातुं शक्येति पश्यामः । यथा - षडक्षरपादायाः मध्याक्षरद्वयस्य लघुत्वात् तनुमध्या । पठ्यमाना द्रुतं वक्रं सर्पतः सर्पशिशोरनुकरोती भुजगशिशुसृता । द्रुतं विलम्बितं च पठ्यत इति • द्रुतविलम्बितम् । मत्तमयूरस्य नृत्तमिव भातीति मत्तमयूरम् । यतित्रये विश्रम्य विश्रम्य मन्दं क्रामन्तीति मन्दाक्रान्ता । व्याघ्रस्य प्लुतिर्द्वादशहस्तेति प्रसिद्धेर्द्वादशाक्षरेषु यतिमच्छार्दूलविक्रीडतम्, -इत्येवमादि द्रष्टव्यम् । सङ्ख्येयपरैः पदैः सङ्ख्याया उपलक्षणं चास्मिन्नेव शास्त्रे प्रथमतो दृश्यते । अत्रत्या प्रस्तारादिगणितरीतिराचार्यस्य गणितविद्यायामपि पाटवं प्रकाशयति । एतत्कर्तृकोऽन्यः कोऽपि ग्रन्थोऽस्ति न वेति न ज्ञायते । प्राकृतपिङ्गलस्य कर्ता त्वन्य एवेत्याहुः । तत्र बहु वक्तव्येऽपि विस्तरभयाद्विरम्यते । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA