छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 81–90

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 81–90

पृष्ठ 81

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 81 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ७७ कुहूः । चन्द्रमा एव धाता । ” इत्यादि । तदन्तरेण च्छन्दोवेदमशक्यमासामनुमतिरा-कासिनीवालीकुहूनां सर्वच्छन्दोभिः सारूप्यमवगन्तुमित्यारम्भणीयश्छन्दोवेदः ॥ १५ ॥

" अतिच्छन्दसः शंसति । छन्दसां वै यो रसोऽत्यक्षरत् सोऽतिच्छन्दसमभ्यत्यक्षत् । तदतिच्छन्दसोऽतिच्छन्दस्त्वम् । सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यत् षोळशी । तद्यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद । " ( ऐ.ब्रा. १६।३ ) इत्यैतरेयकाणां षोडशिब्राह्मणे श्रूयते । तदिदमतिच्छन्दसः शंसेयं षोडशिना च राध्नुयामित्यारम्भणीयश्छन्दोवेदः ॥ १६ ॥

“ सोमो वै राजाऽमुष्मिंल्लोके आसीत् । तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मा-न्त्सोमो राजागच्छेदिति । तेऽब्रुवंश्छन्दांसि । यूयं न इमं सोमं राजानमाहरतेति । तथेति ते सुपर्णा भूत्वोदपतन् ।.... छन्दांसि वै तत्सोमं राजानमच्छा चरन् । तानि ह तर्हि चतुरक्षराणि चतुरक्षराण्येव छन्दांस्यासन् सा जगती चतुरक्षरा प्रथमोदपतत् । सा पतित्वार्धमध्वनो गत्वाश्राम्यत् । सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत् । तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति । जागता हि पशवः । जगती हि तानाहरत् ॥ अथ त्रिष्टुबदपतत् । सा पतित्वा भूयोऽर्द्धादध्वनो गतवाश्राम्यत् । सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवापतत् । तस्मान्मध्यन्दिने दक्षिणा नीयन्ते त्रिष्टुभो लोके । त्रिष्टुब्भिता अहरत् ॥ १ ॥ ते देवा अब्रुवन् गायत्रीम् । त्वं न इमं सोमं राजानमाहरेति

सा तथेत्यब्रवीत् ।.... सा पतित्वा सोमपालान् भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णात् । यानि चेतरे छन्दसी अक्षराण्यजिहतां तानि चोपसमगृभ्णात् ॥ २ ॥ सा

यद्दक्षिणेन पदा समगृभ्णात् । तत् प्रातः सवनमभवत् । तद्गायत्री स्वमायतनमकुरुत । तस्मात् तत् समृद्धतमं मन्यन्ते सर्वेषां सवनानाम् ।... अथ यत्सव्येन पदा समगृभ्णात् तन्माध्यन्दिनं सवनमभवत् । तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत् पूर्वं सवनम् । ते देवाः प्राजिज्ञासन्त । तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानाम् । तेन तत् समावद्वीर्यमभवत् पूर्वेण सवनेन । अथ यन्मुखेन समगृभ्णात् तत् तृतीयसवनमभवत् । तस्य पतन्ती रसमधयत् । तद्धीतरसं नान्वाप्नोत् पूर्वे सवने । ते देवाः प्राजिज्ञासन्त । तत्पशुष्वपश्यन् । तद्यदाशिरमवनयन्ति आज्येन पशुना चरन्ति तेन तत् समावद्वीर्यमभवत् पूर्वाभ्यां सवनाभ्याम् ॥ ३ ॥ ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेताम् । वित्तं नावक्षराण्यनुपर्या-गुरिति । नेत्यब्रवीद्गायत्री । यथावित्तमेव न इति । ते देवेषु प्रश्नमैताम् । ते देवा अब्रुवन्—

यथा वित्तमेव व इति । तस्माद्धाप्येतर्हि वित्त्यां व्याहुः - यथावित्तमेव न इति । ततो वा अष्टाक्षरा गायत्र्यभवत् । त्र्यक्षरा त्रिष्टुप् । एकाक्षरा जगती । साष्टाक्षरा गायत्री प्रातः सवनमुदयच्छत् नाशक्नोत्त्रिष्टुप् त्र्यक्षरा माध्यन्दिनं सवनमुद्यन्तुम् । तां गायत्र्यब्रवीद् — अन्यापि मेऽत्रास्त्विति । सा तथेत्यब्रवीत् त्रिष्टुप् । तां वै मैतैरष्टाभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधात् ... सैकादशाक्षरा भूत्वा माध्यन्दिनं सवनमुदयच्छत् । नाशक्नोज्जगत्येकाक्षरा तृतीय-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 82

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 82 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८ छन्दः शास्त्रम् सवनमुद्यन्तुम् । तां गायत्र्यब्रवीद् — आयान्यपि मेऽत्रास्त्विति । सा तथेत्यब्रवीज्जगती । तां वै मैतैरेकादशभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधात्... सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् । ततो वा अष्टाक्षरा गायत्र्यभवत् । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगती!.... एकं वै सत्तत्रेधाभवत् । तस्मादाहु दतव्यमेवं विदुषे इति । एकं हि सत्तत्त्रेधाभवत् । ” ( ऐ.ब्रा. १३।४ ) इति हि सौपर्णकमाख्यानमाख्यानविदामामनन्त्यैत-रेयकाः । को ह्येतदर्थं विज्ञापयितुं शक्नोति यावता याथात्म्येन च्छन्दोवेदं न जानीयादि-त्यारम्भणीयश्छन्दोवेदः ॥ १७ ॥

गायत्री |||| IIIIL - 7, m'm ' P ' ॥ ॥ ' ॥॥ ” ८ त्रिष्टुप् III - L17, III....... ॥। - ॥॥॥॥ ” ११ जगती ॥॥ 1- LI117,!......, 1 -॥। - ॥॥॥॥ ” १२ " आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्ग लोकमियाम । वयं पूर्व इति । त आदित्या एतं पञ्चहोतारमपश्यन् तं पुरा प्रातरनुवाकादाग्नीध्रेऽजुहवुः । ततो वै ते पूर्वे सुवर्ग लोकमायन् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवर्गो लोकः तेऽब्रुवन्नाङ्गिरस आदित्यान् – क्व स्थ? क्व वः सद्द्भ्यो हव्यं वक्ष्याम? इति । छन्दःसु इत्यब्रुवन् । गायत्र्यां त्रिष्टुभि जगत्यामिति । तस्माच्छन्दःसु सद्भ्य आदित्येभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति । ” इति हि तैत्तिरीयका आमनन्ति । छन्दःसु सद्भ्य आदित्येभ्यो हव्यं वहन्तीति जानीयामेत्यारम्भणीयश्छन्दोवेदः ॥ १८ ॥

मैत्रायणीयानामाम्नायते “ गायत्री च सम्पादयति जगतीं च । तद्द्द्वे छन्दसी एकं छन्दोऽभिसम्पादयति बृहतीम् । त्रिष्टुभं च ककुभं च । तद्द्द्वे च्छन्दसी एकं च्छन्दोऽभि सम्पादयति बृहतीम् । अनुष्टुभं च पङ्क्तिं च । तद्द्द्वे च्छन्दसी एकं छन्दोऽभिसम्पादयति वृहतीम् । तत् षट् च्छन्दांस्येकं च्छन्दोभिसम्पादयति बृहतीम् । ” इत्यादि । गा ० ॥ ॥ ॥ ००० क ० ||||||| ०० अ ० || || || || ० ज ० ॥॥॥ ॥॥। त्रि ० ॥॥॥॥।- ॥ प ० ॥ ॥॥॥।- 1 ६ ७ ८ १२ ११ १० बृ ० ९ + बृ ० ९ बृ ० ९ + बृ ० ९ बृ ० ९ + बृ ० ९ ऐतरेयकेऽपि “ तस्या वाचोऽवपादादबिभयुः - तमेतेषु सप्तसु छन्दःस्वश्रयन् । यदश्रयन् । तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् — यदवारयन् — तद्वारयन्तीयस्य वारयन्तीयत्वम् । तस्या वाच एतावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दांस्यपादधुः । तेषामति-त्रीण्यतिरिच्यन्ते । न त्रीण्युदत्तवत् स बृहतीमेवास्पृशत् - द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 83

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 83 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ७ ९ तदाहुः - कतमा सा देवाक्षरा बृहती - यस्यां तत् प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः- द्वादशाष्टकाः-द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती यस्यां तंत् प्रत्यतिष्ठदिति । यानि च च्छन्दांस्यत्यरिच्यन्त यानि च नोदभवन् - तानि निर्वीर्याणि हीनान्यमन्यन्त । साऽब्रवीद् बृहती । मामेव भूत्वा मामुपसंश्रयतेति । चतुर्भिरक्षरैरनुष्टुव् बृहतीं नोदभवत् । चतुर्भिरक्षरैः पङ्क्तिर्बृहतीमत्यरिच्यत । तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् । अष्टाभिरक्षरैरुष्णग् । बृहतीं नोदभवत् । अष्टाभिरक्षरैस्त्रिष्टुप् बृहतीमत्यरिच्यते । तस्यामेतान्यष्टावक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसममश्रयताम् ॥ द्वादशभिरक्षरैर्गायत्री बृहतीं नोदभवत्, द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्यामेतानि द्वादशाक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् || ” इत्याम्नायते । तत्रान्तरेण च्छन्दोवेदमशक्यमासां गायत्र्युष्णि-गनुष्टुभामनुद्भवनमन्यासां च पङ्क्तित्रिष्टुब्जगतीनामतिरेचनं यथायथावद्विज्ञातुमित्या-रम्भणीयछन्दोवेदः ॥ १ ९ । इतीमान्यन्यानि चैवंविधानि भूयांसि प्रयोजनानि पश्याम इत्यारम्भणीयश्छन्दोवेदः ॥ २० ॥

अथ कश्चिद् ब्रूयात् - यान्येतानि प्रयोजनान्युक्तानि ततो न खलु वैदिकानामेव च्छन्दसां विधानशास्त्रस्यावश्यकत्वं प्राप्नोति न पुनर्लौकिकानामपीति । तत्रोच्यते - त्रिविधानि हि वाचां छन्दांसि; कानिचिद्वैदिकान्येव, कानिचिद्वैदिकानि च लौकिकानि च, कानिचित् पुनर्लौकिकान्येव । तत्रावश्यमुभयेषां निदर्शनाय शास्त्रारम्भः प्रवर्तनीयस्तेन यदि— “ घटायोन्मीलितं चक्षुः किमन्यन्न प्रकाशयेत्? ” इति न्यायेन लौकिकान्यपि दश्येरन्; तत्तर्हि तावता छन्दोयाथात्म्यविजिज्ञासूनां छन्दोविज्ञान सौकर्यानुग्रहो भवति । अत एव तु वैदिकांनि च्छन्दांसि साकल्येन प्रदर्श्य लौकिकानां दिग्दर्शनेनानुगृह्णाति भगवान् पिङ्गलाचार्यः । अनेन चाविशिष्टबुद्धिरपि तानि तानि छन्दोवृत्तानि यथावदवगम्य तद्रचनाभिनयादिना कृतकृत्यः कवितानन्दमासादयेत् ॥—

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥

( काव्यप्रकाश - १.२ ) इति हि भूयांसि प्रयोजनानि काव्यस्य पठन्ति । छन्दोभिनेयं तु वाक्यं रसोद्बोधे काव्यमित्युच्यते । तदतश्छन्दोभङ्गो रसापकर्षितया काव्यत्वव्याघातको भवति । तस्माच्च छन्दोभङ्गदोषेण काव्यप्रयोजनेभ्यो माव्यतिरेचिष्महीत्यपेक्षमाणानामारम्भणीयं लौकिकानामपि च्छन्दसां विज्ञानशास्त्रम् । उक्तं च प्राकृते पैङ्गले-जेम ण सहई कणअतुला तिलतुलिअं अद्ध अद्धेण । तेम ण सहई सवणतुला अवच्छन्दं छन्दभङ्गेण ॥१ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 84

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 84 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० छन्दः शास्त्रम् अबुह बुहाणं मज्झे कव्वं जो पढइ लक्खविहूणम् । भूअगालगाखगाहि सीसं खुडअं ण जाणेइ ॥ २ ॥ इति ।

यथा न सहते कनकतुला तिलतुलितमर्द्धार्द्धन । तथा न सहते श्रवणतुला अपच्छन्दस्कं छन्दोभङ्गेन ॥१ ॥ अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलग्नखङ्गेन

शीर्ष खण्डितं न जानाति ॥२ ॥

इति हि तदर्थः । तदिदमपच्छन्दस्कं लक्षणविहीनं मा प्रयुङ्क्ष्महीत्यारम्भणीयं छन्दोविज्ञानशास्त्रम् ॥२१ ॥

इति छन्दोवेदसार्थकतावादः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 85

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 85 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रस्तावना किं तावच्छन्दसां तत्त्वम्? का विभक्तिः? किं लक्षणम्? किं प्रयोजनम्? इत्या-दयश्छन्दः शास्त्रसम्बद्धा विषयास्तावत् श्रीमधुसूदनशर्ममहानुभावैश्छन्दः समीक्षायां सम्यङ् न्यरूरुपिषतेति तेषामेवात्र सङ्ग्रहोऽकारि । अथ तदेतच्छन्दःशास्त्रं कदा प्रादुरासेति विमृश्यते । तत्र तावन्महनीयमहिम्नोऽपौरुषेयाद्वेदराशेर्गायत्र्यादिच्छन्दसां यज्ञकर्मणि विनि-युक्तत्वात्तज्ज्ञानार्थमादौ ब्राह्मणग्रन्थेषु तेषां पादसङ्ख्या तत्र प्रविभक्ताक्षरसङ्ख्या च निर्दि-श्यते । पादसङ्ख्यामात्रेणाक्षरसङ्ख्यामात्रेण च वैदिकच्छन्दसां गायत्र्यादिव्यवहारः । तत्र किञ्चिन्यूनाधिकतायामपि न च्छन्दोहानिर्भवति । तदुक्तम्- ' न वा एकेनाक्षरेण च्छ-न्दांसि वियन्ति, न द्वाभ्याम् ' ( ऐ ० ब्रा ०१.६ ) ' न ह्येकेनाक्षरेणान्यच्छन्दो भवति, न द्वाभ्याम् ' ( सां ० ब्रा ० २७.१ ) इति । ततो ब्राह्मणग्रन्थेष्वितस्ततः पर्यस्तान् विध्यर्थवादादीन् समाहृत्य सारल्येन यज्ञकर्माणि सूत्रयितुं प्रवृत्तेषु भगवदाश्वलायनसङ्ख्यायनापस्तम्बादिषु तदुपयोगिनां छन्दसां लक्षणान्यपि ब्राह्मणारण्यकादिभ्यो निष्कृष्य पृथक्कथनीयान्यभवन् । तानि चैवं सूत्रयांचकार तत्र भवान् साङ्ख्यायनः -‘ त्रिपदा गायत्री ( १ ) उष्णिक् ( २ ) पुर उष्णिक् ( ३ ) ककुप् ( ४ ) विराट् च पूर्वा ( ५ ) चतुष्पदोत्तरपदा विराट् ( ६ ) बृहती ( ७ ) सतो बृहती ( ८ ) जगती ( ९ ) अनुष्टुप् ( १० ) त्रिष्टुप् च ( ११ ) पञ्च पङ्क्तेः ( १२ ) षट्सप्तेत्यतिच्छन्दसाम् ( १३ ) ' स हि शर्धो न मारुत ' मित्यष्टौ ( १४ ) द्वौ द्विपदाया: ( १५ ) तेऽष्टाक्षराः प्रायेण ( १६ ) द्वादशाक्षरा जगत्याः ( १७ ) तृतीयौ चोष्णिग्बृहत्यो: ( १८ ) सतोबृहत्याश्च प्रथम तृतीयौ ( १ ९ ) मध्यमः ककुभः ( २० ) प्रथमः पुर उष्णिह: ( २१ ) एकादशाक्षरा त्रिष्टुब्विराजो: ( २२ ) उत्तरस्या दशाक्षरः ( २३ ) तामक्षरपङ्क्तिरित्यप्याचक्षते ( २४ ) पञ्चभिः पञ्चाक्षरैः पद-पङ्क्तिः ( २५ ) षळप्यष्टाक्षरा जगत्याः ( २६ ) एकेन द्वाभ्यामित्यूनके निचृत् ( २७ ) अतिरिक्ते भुरिक् ( २८ ) सम्पाद्य पादभागेनाहार्यस्यर्चः सम्मितास्तस्य पादभागेन सम्पन्नाः ( २ ९ ) गायत्र्युष्णिगनुष्टुप्बृहत्यो पङ्क्तिश्च त्रिष्टुप्जगत्यावित्यानुपूर्व्यं छन्दसां चतुर्विंशत्य-क्षरादीनां चतुरुत्तराणाम् ( ३० ) ( सां ० श्रौ ० सू ० ७.२७ ) इति । इदमेव मूलं छन्दःशास्त्र-महातरोरिति मन्यामहे । अत्रैकेन द्वाभ्यां वाऽक्षराभ्यां न्यूनाधिक्ये निचृद्भुरिगिति संज्ञा-विशेष उच्यते; पिङ्गलाचार्येण पुनः ' ऊनाधिकेनैकेन निचृद्भुरिजौ । द्वाभ्यां विराट्स्वराजौ । ' ( ३.५ ९ -६० ) इत्युक्तमिति शास्त्रस्योत्तरोत्तरं परिणततावसीयते । निदानसूत्राणामिदमेव स्थानम् । प्रातिशाख्यसर्वानुक्रमण्यौ वैदिकच्छन्दसां लक्ष-भू ० छ ० शा ०-६ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 86

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 86 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ छन्दः शास्त्रम् णानि दर्शयन्त्यावपि पिङ्गलादूर्ध्वमेवाविर्भूते इत्यनुपदमेव दर्शयिष्यते । लौकिकच्छन्दसामुत्पत्तिः अथाधीयमानेष्वेवाम्नायेषु केषाञ्चनर्चामर्धर्चां पादानां च श्रुतिमनोहरतामनुसन्दधानाः परमर्षयस्तत्राक्षरपरिच्छेदं लघुगुरुनियमं च निदानमवदीधरन् । तानेव चाम्रेड्याम्रेड्य स्वयं वृत्तानि विरचयामासुः । क्वचिच्चाक्षरसङ्ख्यानिरपेक्षमेवोच्चारणकालसाम्यमात्रं विशिष्टवृत्त-साधकं पश्यन्तो मात्रावृत्तानि कल्पयाम्बभूवुः । दृश्यन्ते हि तानाविधवृत्तानां मातृकायमाणा मन्त्रभागा वेदे । यथा-‘ हृदिस्पृगस्तु शन्तम: ' ( ऋ ० सं ० १. १. ३१ ) इति प्रमाण्याः | ' पूषण्वते चकृमा करम्भं ' ( ऋ ० सं ० ३.३.१८ ) इतीन्द्रवज्रायाः । ' स्तुहि श्रुतं गर्तसदं युवानं ' ( ऋ ० सं ० २.७.१८ ) इत्युपेन्द्रवज्रायाः । ‘ अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः । ( ऋ ० सं ० १.२.१४ ) इत्युपजातेः । ' इन्द्रासोमा दुष्कृते मा सुगं भूत् ' ( ऋ ० सं ०५.७.६ ) इति शालिन्याः । ‘ आ देवानामभवः केतुरग्ने ' ( ऋ ० सं ० २.८.१६ ) इति वातोर्म्याः । ‘ रथं न दुर्गावसवः सुदानवः ' ( ऋ ० सं ० १. ७.२४ ) इति वंशस्थस्य । ' यूना ह सन्ता प्रथमं वि जज्ञतुः ' ( ऋ ० सं ० ७.२.१ ९ ) इतीन्द्रवंशायाः । ‘ अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर । ' ( ऋ ० सं ० १.१.१ ९ ) इति नराचस्य । : एवमेवान्येषामपि वृत्तानां मूलभूताः पादाश्चार्धर्चश्च तत्र तत्र शतश उपलभ्यन्ते । ततश्च वेद एव मूलं लौकिकानामपि छन्दसामिति युक्तमुत्पश्यामः । छन्दःशास्त्रस्य वेदाङ्गता तत्रैवं द्विविधानामपि च्छन्दसां लक्षणविधायकं शास्त्रमिदमाविरकार्षीत्तत्र पिङ्गलनागः । सर्वेष्वप्युपलभ्यमानेषु छन्दोग्रन्थेष्विदमेव पुराणतरमार्षं च । अत एवैत- भवान् द्वेदाङ्गतयोपादीयते वैदिकैः । लौकिकानामपि च्छन्दसां लक्षणसंग्रहपरस्यास्य वैदिकलौकिक-शब्दलक्षणविधायकपाणिनीयव्याकरणस्येव वेदाङ्गता न विरुद्धा । दृश्यन्ते चोपनिषदादिषु वेदभागेषु क्वचिल्लौकिकान्यपि च्छन्दांसि । तेषां लौकिकसंज्ञा तु ‘ प्राधान्येन व्यपदेशा भवन्ति ' इति न्यायेनैवेति न किञ्चिदत्याहितम् । पिङ्गलाचार्यकृतच्छन्दःशास्त्रात्पूर्वमपि शास्त्रेऽस्मिन् क्रौष्टुकि - यास्क - ताण्डि - सैतव- काश्यप - रातमाण्डव्यप्रभृतीनां शास्त्राण्यासन्निति पिङ्गलकृतात्तन्मतनिर्देशादवगम्यते । तत्र क्रौष्टुकिः - बौधायनीये भारद्वाजगोत्रकाण्डे ‘ भृष्टयो भृष्टुभिन्दयः क्रोष्टुकयः ' इति श्रुतानां क्रौष्टुकीनां कश्चित् स्यात् । अयमतीव प्राचीन:, यतो यास्केनापि स्मर्यते - ‘ द्रविणोदा इन्द्र इति क्रौष्टुकिः ' ( निरु ० ८.२ ) इति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 87

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 87 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रस्तावना ८३ यास्क: - आपस्तम्बेन भृगुषु पठित: - ' यास्कबाधूकमौनमौका: ' इति । अयं निरुक्ताख्यनिघण्टुभाष्यप्रणेता ' यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् । ' ( शां ० प ० ३४३.७२ ) इत्यादिना महाभारतेऽपि स्मर्यमाणः । ताण्डी — ' ऋषिरासीत्कृते तात! तण्डिरित्येव विश्रुतः । ' ( अनु ० १६.१ ) इत्यादिना महाभारते गीयमानमाहात्म्यस्य ऋषेः पुत्रः । ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । मत्प्रसादाद्विजश्रेष्ठ! भविष्यति न संशयः ॥ ' ( अनु ० १६.७० ) इति तत्रैव भगवतो महेश्वरस्य वरदानोपवर्णनात् । सैतवविषयेऽधिकं किमपि न ज्ञायते । केवल लौकिकच्छन्दोलक्षणविधायक-शास्त्रकर्तायमासीदित्यनुमीयते । काश्यपस्तु — मन्दारमरन्दटीकायां कृष्णशर्मकृतायां माधुर्यरञ्जन्यां प्रमाणीक्रियते ' तत्र भगवता सूत्रकारेण काश्यपेन.... ' ( पृ ० ६ ) इति । कृष्णशर्मणो अध्वमतानुयायि-त्वात्, मध्वाचार्यस्य च १२३ ९ शकाब्दे पिङ्गलसंवत्सरे लोकान्तरप्रयाणस्यैतिह्यविद्भिर-वधारितत्वात्, तदूर्ध्वभाविना कृष्णशर्मणा प्रमाणत्वेनोपात्तस्य काश्यपसूत्रस्यासादनमिदा-नीमपि नासम्भवनीयम् । धर्मसूत्रमपि काश्यपप्रणीतमुपलभ्यते । तत्कर्ता छन्दः सूत्रप्रणेता च काश्यप एक एवोत भिन्न इत्यवधारयितुं न पारयामः । रातमाण्डव्यौ तु सम्भूय ग्रन्थकर्तारावित्यनुमीयते । तत्र प्रवरदर्पणे भरद्वाजाङ्गिरोमध्ये कश्चित् रातो दृश्यते । माडव्यश्च बौधायनसूत्रे भृगुगणे आश्वलायनसूत्रे तर्पणप्रकरणेऽन्यत्र च बहुषु ग्रन्थेषु श्रुतः । महाभारते च ( आदि १०७ ) कश्चिन्माण्डव्य उपवर्णितः । तत्र को वा रातसहचर इत्यनिर्णीतमेव । धर्मशास्त्रमपि रातमाण्डव्यप्रणीतमस्तीति स्मृतिसारस-मुच्चयादिपर्यालोचनां प्रतीयते । तत्र रातमाण्डव्य इत्येकत्वेन व्यपदेशो दृश्यते, स च शङ्खलिखितवत्सम्भूयग्रन्थकर्तृत्वनिमित्तक एव स्यात् । एतदतिरिक्ता अन्येऽपि छन्दः शास्त्रकाराः पिङ्गलाचार्यात्पूर्वकालिका भवितुमर्हन्ति, यन्मतमसौ ‘ एकीयम् ' ( ५.१५ ) इति निर्दिशति । परं तद्विषयेऽविदितविशेषा जोषमेवाव-तिष्ठामः । पिङ्गलाचार्यादुत्तरकालिकाच्छन्दोग्रन्थकाराः अथ पिङ्गलाचार्यादूर्ध्वकालिकत्वेनाध्यवसितान् कांश्चिदार्षान् ग्रन्थानालोचयामः । तत्र शौनकीये प्रातिशाख्येऽन्त्यैः षोडशादिभिस्त्रिभिः पटलैर्वैदिकच्छन्दसां लक्षणानि निरूपितानि । शौनकश्च नितान्तं प्राचीन इति विमर्शकाः । परं वयमिमं पिङ्गलादूर्ध्वतनं मन्यामहे । यतः प्रातिशाख्ये छन्दः शास्त्रापेक्षया बहवच्छन्दसां सूक्ष्मभेदा लक्षिता दृश्यन्ते । न च तद्विषय एव शास्त्रे तदनिरूपणं सङ्गच्छते, विना तत्पूर्वभावित्वात् । अस्ति चान्यदपि गमकं यच्छन्दःशास्त्रे न्यङ्कुसारिण्याः ' स्कन्धोग्रीवी क्रौष्टुकेः ' । उरोबृहती यास्कस्य ' ( ३. CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 88

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 88 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ छन्दः शास्त्रम् २ ९ -३० ) इत्याचार्यनामग्रहणपूर्वकं संज्ञाद्वयं प्रादर्शि, प्रातिशाख्ये तु ' -न्यङ्कुसारिणी । स्कन्धोग्रीव्युरोबृहती त्रेधैनां प्रतिजानते ॥ ' ( १६.४३ ) इति नामग्रहणनैरपेक्ष्येणैव । तेन छन्द: शास्त्रस्य प्राचीनतावचनेनैव सिद्ध्यति । किञ्च दृश्यते प्रातिशाख्ये ' यजुषां षट् । साम्नां द्विः । ऋचां त्रिः ' ( २. ६-८ ) इति छन्दः सूत्राणामनुवाद इव, ' यजुषां षडृचां त्रि: -षट् साम्नां द्वादश सम्पदि । ' ( १६.१२ ) इति । तस्मात्प्रातिशाख्यादपि छन्द: शास्त्रमेव प्राचीनम् । प्रातिशाख्ये दृष्टाश्छन्दोविशेषास्तु विशल्यकरण्यां सङ्गृहीता एवास्मा-भिरिति नात्र पुनरुच्यन्ते । कात्यायनप्रणीतं ऋक्सर्वानुक्रमसूत्रं तु प्रायः प्रातिशाख्यानुसारीति तस्य ततोऽर्वाचीनत्वं निर्विवादम् । छन्दः शास्त्रादर्वाक्तनत्वे त्वस्यास्ति स्फुटतरं प्रमाणं यत् छन्दःशास्त्रीययोः ‘ न्यूनाधिकेनैकेन निचृद्धरिजौ । द्वाभ्यां विराट्स्वराजौ ' छ ० ३.५ ९-६० सर्वा ० ३. ४-५ ) इति सूत्रयोरविकलयोरनुवादः । सर्वानुक्रमे च ' अथं च्छन्दांसि ’ इत्युपक्रम्य तृतीयाद्येकादशान्तैः खण्डैर्ऋग्वेदेऽपेक्षितानां छन्दसां लक्षणान्युक्तानि । अस्माभिस्तु तानि सर्वाणि टिप्पण्यां सोदाहरणानि प्रदर्शितान्येव । शुक्लयजुः सर्वानु-क्रमसूत्रं तु छन्दोविषये न ऋक्सर्वानुक्रमसूत्रान्मात्रापि भिद्यते, अतस्तद्विषये न किञ्चिद्वक्तव्यमस्ति । अग्निपुराणे ३२८ तममध्यायमारभ्य ३३५ तमपर्यन्तमष्टभिरध्यायैः क्रमेण परिभाषा, दैव्यादिसंज्ञाः, पदाधिकारः, उत्कृत्यादीनि च्छन्दांसि - आर्यादिमात्रावृत्तानि च, विषमवृत्तानि, अर्धसमवृत्तानि, समवृत्तानि, प्रस्तारादि, इति निरूपितमुपलभ्यते । एतच्च सर्वमपि पिङ्गलोक्तस्य छन्दःशास्त्रस्यानुवादरूपमेव । तथा च प्रतिज्ञातं तत्र - ' छन्दो वक्ष्ये मूलशब्दैः पिङ्गलोक्तं यथाक्रमम् । ( ३२८-१ ) इति । छन्दः शास्त्रे शुद्धाशुद्धपाठपर्यालोचने प्रक्षिप्ताद्यवधारणे च सुतरामुपयुज्यत एतत् । गरुडपुराणे पूर्वखण्डे २०७ तममारभ्य २१२ पर्यन्तं षड्भिरध्यायैः क्रमेण परिभाषा, मात्रावृत्तानि, समवृत्तानि, अर्धसमवृत्तानि, विषमवृत्तानि, प्रस्तारादि च वर्णितं दृश्यते । अत्र कतिचिच्छन्दः शास्त्रेऽनुक्तानामपि वृत्तानां लक्षणानि समुपलभ्यन्ते । तानि चास्मदीयटिप्पण्युक्तलक्षणैर्गतान्येव । वैदिकछन्दसां लक्षणानि तु नात्र वर्णितानि । इदं पैङ्गलीयाच्छास्त्रादुत्तरकालिकमेव, ' तावदर्धे तद्गुणितं द्विदुर्व्यूनं तदन्ततः । परे पूर्णं परे पूर्णं- ' इति तदनुवाददर्शनात् । नारदीयपुराणे पूर्वखण्डे ५७ तमेऽध्याये - ‘ लौकिकं वैदिकं चापि छन्दो द्विविधमुच्यते । ’ इत्युपक्रम्य गणसंज्ञाः, समार्थसमादिलक्षणानि, उक्तादि संज्ञाः, प्रस्तारं च निरूप्य ‘ इत्येतत्किञ्चिदाख्यातं छन्दसां लक्षणं मुने! । प्रस्तारोक्तप्रभेदानां नामानन्त्यं प्रजायते ॥२१ ॥

इत्युपसंहृतम् । अत्र वृत्तानां प्रातिस्विकलक्षणानि न सन्त्येव । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 89

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 89 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रस्तावना ८५ विष्णुधर्मोत्तरे तृतीयखण्डे ३ अध्याये गायत्र्यादिकृत्यन्तं छन्दः सामान्यलक्षणम-भिधाय, लघुगुरुविशेषं प्रस्तारं चोक्त्वा ' दिङ्मात्रमेतत्कथितं नरेन्द्र! विस्तारजिज्ञासुरतो मनुष्यः । संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ॥ २० ॥ ' इत्युपसंहारः

कृतः ॥ एतावन्त एवास्मत्सन्दृष्टा आर्षाश्छन्दोग्रन्थाः । एषु पिङ्गलाचार्यकृतं छन्दः शास्त्रमेव प्रतनतरं प्रमाणभूतं सर्वाङ्गपूर्णं च । पिङ्गलनागः तस्य कालश्च अथ कोऽयं पिङ्गलनागः? इति पर्यनुयोगे महाभारते जैमिनीये सर्पसत्रे दग्धेषु नागेषु कश्चित्पिङ्गलो दृश्यते— ' निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा । ' ( आदि ० ३५.९ ) इति । नासौ छन्दःशास्त्रप्रणेता भवितुमर्हति, मुनित्वाभावात्, अस्यान्यथैव मरणश्रवणाच्च । किन्तु मात्स्येऽङ्गिरस्सु ' बोधिर्नगः सौगमाक्षिक्षीरयोरिकिरेव च । ' ( १ ९ ६.६ ) इति श्रुतस्य नगस्य पुत्र:; तत्रैव ‘ ज्ञात्वायनो हरिर्वाश्यः पैङ्गलश्च तथैव च । ' ( १ ९ ६.३२ ) इति श्रुतस्य पैङ्गलस्य पिता चायं पिङ्गलनागो भविष्यतीत्यस्माकं सम्भावना । एनं फणित्वेन वर्णयन्तस्तु नागशब्देन प्रतारिता एवेति मन्यामहे । एतेन महाभाष्यकारं पतञ्जलिमेव पिङ्गलापरनामधेयमाचक्षाणा अपि व्याख्याताः । किञ्च महाभाष्ये नवाह्निके ' पैङ्गलकाण्व ' ( आह्नि ० १ सू ०७३ ) शब्ददर्शनात्, भाष्या-त्प्राचीनायामृग्वेदसर्वानुक्रमण्यां छन्दः शास्त्रीयसूत्रानुवादस्योपदर्शितत्वाच्च पिङ्गलस्य महाभाष्यकारात्पतञ्जलेः प्राचीनत्वं व्यक्ततरम् । वामनपुराणे प्रात: स्मरणीयेषु — ' सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरि-पिङ्गलौ च । ( १४.२५ ) इति नामसङ्कीर्तनं प्रायोऽस्यैव भविष्यति, आसुरिसाहचर्यात् । स्कान्दे काशीखण्डे च - ' गणेन पिङ्गलाख्येन पिङ्गलेशाख्यसंज्ञितम् । लिङ्गं प्रतिष्ठितं शम्भोः कपर्दीशादुदग्दिशि ॥ ' ( ५५.२ ) इति शिवलिङ्गप्रतिष्ठापकत्वेनोपवर्णितः पिङ्गलोऽ-यमेव भवितुमर्हति अस्य ' शिवप्रसादाद्विशुद्धमति ' त्वस्योक्तत्वात् । सर्वानुक्रमटीकायां षड्गुरुशिष्यस्तु - सूत्र्यते हि भगवता पिङ्गलेन पाणिन्यनुजेन ' ( ७ ) इति लिखति, तत्र न प्रमाणान्तरमुपलभामहे । वयं त्वेनं पूर्वमुपदर्शितैः प्रमाणैः पाणिनेः पूर्वतनं जानीमहे । परं सम्प्रति ‘ यथा मकारेणापिङ्गलस्य सर्वगुरुस्स्रिकः प्रतीयेत ' ( मी ० भा ० १.१.५ ) इति वचनदर्शनाच्छबरस्वामिनः पूर्वकालिकत्वमात्रमविप्रतिपन्नमस्य । निश्चयेन कालनिर्णयस्तु सर्वेषामेवर्षीणां दुर्निरूप्य एवेति वयमप्यन्ततस्तद्विषये वाचंयमतामेवोरंरीकुर्मः । पिङ्गलस्य देशः निवासस्तु पिङ्गलाचार्यस्य प्रायः पश्चिमोदधेस्तीरप्रदेश एवेति निश्चीयते । तथा हि CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 90

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 90 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ छन्दः शास्त्रम् तद्देशोद्भवस्त्रीषु रूढौ ' अपरान्तिका ' ( ४.४१ ) ' वानवासिका ' ( ४.४३ ) इति शब्दौ छन्द: -शास्त्रे वृत्तनामत्वेनायं प्रायुङ्क्त । अपरान्तिका ' पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवा: ' । वानवासिका ' कोङ्कणविषयात् पूर्वेण वनवासविषयः, तत्र भवा: ' ( २.५.२६, ३२ ) इति वात्स्यायनसूत्रव्याख्याजयमङ्गला । ' प्राच्यवृत्तिः ' ' उदीच्यवृत्ति: ' ( ४.३७-३८ ) इति संज्ञे अप्युक्तार्थेऽनुकूले । महोदधितीरवासित्वादेव ' छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलं ' ( २.२६ ) इति पञ्चतन्त्रे दृश्यमानं तद्विषयकं वर्णनमपि स्वरसतः सङ्गच्छते । अतो दक्षिणकोङ्कणमेवास्य निवासस्थानमिति सम्भावयामः । छन्दःशास्त्रेवृत्तसंज्ञा छन्दःशास्त्रे समुपलभ्यमानासु वृत्तसंज्ञासु तु काश्चन विलासिनीललितसुभगान् भावानाविष्कुर्वन्ति, काश्चन मात्रासमकं पदचतुरूर्ध्वं गच्छन्त्यो माणवकाक्रीडितकमाम्रेड-यन्ति, काश्चिन्मत्तमयूरसेवितं कुसुमितलतावेल्लितमनोहरं पुष्पिताग्राभिः शाखाभिरुप-शोभितमुद्यानं विचरन्ति, काश्चित् हलमुखीं पृथ्वीं यवमती शालिनीं च वितन्वन्ति, काश्चन हरिणीयूथसनाथं शार्दूलविक्रीडितभीषणं भुजङ्गविजृम्भितं काननं सेवन्ते, काश्चिद्-द्रुतविलम्बितमृषभगजविलसितं जुषन्ते, काश्चन विद्युन्मालाप्रभाभासुरं वातोर्मिप्रेरितजलधर-मालोद्गतं वर्धमानं चण्डवृष्टिप्रपातं भजन्ते, काश्चन हंसरुतनादितां क्रौञ्चपदोपशोभितां जलोद्धतगतिं वेगवतीं वाहिनीमवगाहन्ते, काश्चिच्चाश्वललितरथोद्धतां केतुमतीमपराजितां प्रहरणकलितां सेनां स्मारयन्तीत्यहो सर्वतोमुखी सूक्ष्मनिरीक्षणशक्तिचार्यस्य । एतासां सम्यग्विमर्शे ग्रन्थकर्तृ रसिकता च जीविकारहस्यं च तत्कालीना देशस्थितिश्च सुपरिज्ञाता स्यादिति मन्यामहे । वृत्तनाम्नामुपपत्तिः यद्यप्येता आचार्यवर्येण यथारुचि कल्पिताः- प्राचीनैः कश्यपादिभिश्च विहिताः समादृता इति न तत्र कश्चन पर्यनुयोग:, तथापि कासांचित् संज्ञानामुपपत्तिरप्यनुमातुं शक्येति पश्यामः । यथा - षडक्षरपादायाः मध्याक्षरद्वयस्य लघुत्वात् तनुमध्या । पठ्यमाना द्रुतं वक्रं सर्पतः सर्पशिशोरनुकरोती भुजगशिशुसृता । द्रुतं विलम्बितं च पठ्यत इति • द्रुतविलम्बितम् । मत्तमयूरस्य नृत्तमिव भातीति मत्तमयूरम् । यतित्रये विश्रम्य विश्रम्य मन्दं क्रामन्तीति मन्दाक्रान्ता । व्याघ्रस्य प्लुतिर्द्वादशहस्तेति प्रसिद्धेर्द्वादशाक्षरेषु यतिमच्छार्दूलविक्रीडतम्, -इत्येवमादि द्रष्टव्यम् । सङ्ख्येयपरैः पदैः सङ्ख्याया उपलक्षणं चास्मिन्नेव शास्त्रे प्रथमतो दृश्यते । अत्रत्या प्रस्तारादिगणितरीतिराचार्यस्य गणितविद्यायामपि पाटवं प्रकाशयति । एतत्कर्तृकोऽन्यः कोऽपि ग्रन्थोऽस्ति न वेति न ज्ञायते । प्राकृतपिङ्गलस्य कर्ता त्वन्य एवेत्याहुः । तत्र बहु वक्तव्येऽपि विस्तरभयाद्विरम्यते । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA