छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 91–100

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 91–100

पृष्ठ 91

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 91 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रस्तावना ८७ छन्दः शास्त्रस्य व्याख्यानम् अदश्छन्दःशास्त्रं दुरूहसूत्रमयत्वाद्व्याख्यानसापेक्षमित्यत्र न कोऽपि संशयः । बहूनि हि सूत्राणि व्याख्यागम्यान्येवात्रत्यानि । अस्य चेदम्प्रथमं व्याख्यानमेषा हलायुधप्रणीता वृत्तिरेवेति केचित् । तस्याः प्रथमत्वे मानं तु ' मृतसञ्जीवनी ' ति समाख्यैव । यद्यपि हलायुध वृत्तौ ' केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते ' ( १.१० ) इत्यादि दृश्यते; तथापि तत्सम्प्रदायमनुलक्ष्यैवोक्तं, न लिखितटीकापुस्तकम् । यतो व्याख्या नाम ग्रन्थस्यार्थबोधिकेव रक्षिकापि भवति । न च हलायुधेन छन्दःशास्त्रस्य मूलं सम्यगुपलब्धम् । दृश्यन्ते हि बहून्यावापोद्वापस्थलान्येतदीयवृत्तौ । यथा – “ उक्तम्, अत्युक्तम्, मध्यम्, प्रतिष्ठा, सुप्रतिष्ठेति चतुरुत्तरवृद्ध्या चतुरक्षरादिविंशत्यक्षरान्तं पुरस्ताच्छन्दः पञ्चकं.... एतान्यपि भगवता पिङ्गलनागेन सूत्र्यन्ते उक्तम् । साति । मध्यम् । प्रतिष्ठा । सुच । ” इति षड्गुरुशिष्य उदाजहार । न चैतत्सूत्रपञ्चकं हलायुधवृत्तौ दृश्यते ॥ ' एकोनेऽध्वा ' ( ८.३३ ) इति सूत्रं वैदिकैरधीयमानमपि न व्याख्यातम्, अध्वपरिच्छित्तिश्च षट्प्रत्ययपूरिण्यपि न स्वीकृता ॥ अत्रानुक्तं गाथा ' ( ८.१ ) इति सूत्रात्परमष्टादशसूत्राणि ' हंसरुतं नौ गौ ' ( ६.७ ) ' ततं नौ मरौ ( ६.६४ ) इत्यादीनि च सूत्राणि वैदिकपाठविरुद्धानि मात्स्ये चाननूदितान्यपि व्याख्यातानि । न ह्येवं सति प्राचीने व्याख्याने सम्भवति । क्वचित् यथावत्सूत्रार्थानवबोधोऽप्युपरितनमनुमानं द्रढयतीति । वयं तु हलायुधेनादृष्टमपि प्राचीनं व्याख्यानं भवितुमर्हति छन्दः शास्त्रस्येति ब्रूमः । न ह्येतावन्तं कालमव्याख्यातं स्थास्यति वेदाङ्गं दुर्बोधतरं चेदं शास्त्रम् । किञ्च ‘ मयरसतजभनलगसम्मितं ’ इत्यादिकं यच्छ्लोकषट्कं छन्दः शास्त्रादौ दृश्यते, तत्प्राचीनस्यैव व्याख्यानस्य प्रस्तावनारूपं स्यादित्यनुमिमीमहे । न हीदं हलायुधप्रणीतं, न च तेन व्याख्यातम् । ब्रह्मयज्ञे त्वेतत्प्रतीकमेवाधीयते वैदिकैः । विधीयते च देवीभागवते— ' अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौग्र्म्मा इत्येव कीर्तयत् ॥ ' ( ११.१०.९ ) इति । अतश्छन्दोभाष्यस्य परमप्राचीनस्येदं मङ्गलमिति प्रतीमः । सम्प्रति तु अनतिहृदयङ्गमापीयं हलायुधवृत्तिरेवाद्गियते सर्वत्र । हलायुधश्च शालिवाहनस्य पञ्चदश्यां शताब्दयामुत्पन्न इति केचिद्वर्णयन्ति । तथा ह्यस्ति हलायुधेनैव प्रणीतं कविरहस्याभिधं किमपि काव्यम् । तत्र च स्वोपजीव्यः कृष्णराज उपवर्णितोऽनेन । स च विजयनगराधीश्वर एव । यतः १४३० शकाब्दे तद्दत्तग्रामप्रशस्तौ ' नमस्तुङ्गशिरः - ' इति श्लोक उपलभ्यते । स च छन्दः शास्त्र - वृत्तिगत इति । तदेतन्न युक्तम्, ‘ नमस्तुङ्गशिर ' इतिश्लोकस्य प्राचीनत्वेन तदुल्लेखस्याकिञ्चित्कर-त्वात् । तथा च १३१३ शकाब्दे प्रजापतिवत्सरे हरिहररायेण गोवापुरे मन्त्रिपदे नियुक्त-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 92

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 92 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८ छन्दः शास्त्रम् नृहरिप्रदत्तदानपत्रेऽपि दृश्यतेऽसौ श्लोकः । उपलभ्यते च ततः प्राचीनतरेण बाणभट्टेन प्रणीते हर्षचरितेऽपि । किञ्च कविरहस्ये समुपवर्णितः कृष्णराजो राष्ट्रकूटकुलोद्भवः । ‘ तोलयत्यतुलं शक्त्या यो भारं भुवनेश्वरः । कस्तं तुलयति स्थाम्ना राष्ट्रकूटकुलोद्भवम् ॥ ' इति हि तत्रोपवर्ण्यते । न च विजयनगराधीश्वरः कृष्णराजो राष्ट्रकूटकुलोद्भवः इति प्रसिद्धमेवैतिह्यविदाम् । कृष्णराजः खुडिगदेवश्च राष्ट्रकूटेषु तु त्रयः कृष्णाः प्रसिद्धा: - प्रथमः शुभतुङ्गापरनामकः, द्वितीयः अकाल-वर्षाख्यः, तृतीयोऽप्यकालवर्षसंज्ञकश्चेति । तत्र तृतीय एव हलायुधस्योपजीव्य इति निश्चिनुमः । यतस्तदनन्तरमधिष्ठितराज्यः खुडिगदेवोऽपि क्वचित् स्मरणविषयतां नी-तोऽनेन - ‘ त्वया कृतपरिग्रहे खुडिगवीर! सिंहासने ' ( लि ० पा ० ७.१७ ) इति, ‘ यश: शेषीभूते खुडिगनरनाथे गुणनिधौ ' ( लि ० पा ० ७.२० ) इति च । खुडिगदेवश्च तृतीयस्य कृष्णुदेवस्य वैमात्रेयो भ्रातेति दानपत्रलेखादवगम्यते । तथाहि — ' ऐन्द्रपदजिगीषयेव स्वर्गमँधिरूढे च ज्येष्ठे भ्रातरि श्रीमत्कृष्णराजदेवे युवराजदेवदुहितरि कन्दकदेव्याम-मोघवर्षनृपाज्जातः खोट्टिगदेवो नृपतिरभूद्भुवनविख्यातः ' इति । अयं हि कृष्णराजानन्तरं ८ ९ ३ शकाब्दं यावत् महीपतिपदमलंचकार । कृष्णराजश्च शालिवाहनस्य ८६७-८८८ वत्सरपर्यन्तं भुवं शशासेत्युत्कीर्णलेखादिभिर्ज्ञायते । असावेव कृष्णराजः कवि-रहस्ये नायकतां नीतो हलायुधेन । तत्पश्चाच्च मालवेशो वाक्पतिराजापराख्यो मुञ्जराज आश्रितोऽनेन । प्रकृता छन्दःशास्त्रटीका च तदाश्रयेणैव प्रणीता । अत एवास्यां ( ४.१ ९ । ५.३४ । ५.३ ९ । ७.५ । ८.१२ ) इत्यत्र मुञ्जः सबहु मानमुपश्लोक्यते । तस्य वाक्पतिराज इत्यपरं नामधेयमपि दृश्यते ( ४:२० ) । उपलभ्यते च नूनं राष्ट्रकूटेभ्य आच्छिन्नं ' वल्लभेश्वर ' विरुदमपि । मुञ्जश्च ८ ९ ३ - ९ १ ९ शकाब्दं यावन्मालवानलमकार्षीदिति स एव समयो मृतसञ्जीवन्या: प्रणयनस्येति निर्धारयामः । न च यदाधारेणैवं निर्णीयते, तान्युदाहरणपद्यान्यन्यदीयानीति शङ्क्यम्, ' सर्वलघुच्छ-न्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तन्नाम नोक्तम् ' ( ४.४८ ) ‘ उपस्थितप्रचु-पितादीनामस्मिन्नावेशयितुं न शक्यन्ते संज्ञा इति नोक्तिः ' ( ५.३० ) इति वृत्तिदर्शनेन वृत्तनामगर्भितानां श्लोकानां हलायुधेनैव निर्मितत्वस्य स्फुटमवगम्यमानत्वात् । न हि परकीयश्लोकानामेवमुपपादनं सम्भवतीति । हलायुधस्य देशादिकम् — हलायुधस्य देशविषये तु न विशेषतः किमपि गमकमुपलभामहे । केवलं ' इह हि भवति दण्डकारण्यदेशे स्थितिः ' पद्माम्बिका-तीर्थयात्रागतानेकसिद्धाकुले ' ( ७.३३ ) इति श्लोकं पश्यन्तो दाक्षिणात्यमेवैनं सम्भाव-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 93

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 93 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रस्तावना ८ ९ यामः । अत्रोपश्लोकितां पद्माम्बिकां चास्य कुलदेवतामुत्प्रेक्षामहे । देशादिकम् । पिता चास्य मीमांसापारावारपारदृश्वा नाम्ना च नूनं विश्वरूपः । तथा ह्येनमुपवर्णयति स्मायम् - श्रुतिपरिपूतवक्त्रमतिसुन्दरवाग्विभवं तमखिल-जैमिनीयमतसागरपारगतम् । अवितथवृत्तविप्रजनपूजितपादयुगं पितरमहं नमामि बहुरूप-मुदारमतिम् ॥ ' ( ८.१४ ) इति । अत एव हलायुधस्यापि मीमांसायां बहुमान: । तथा चोक्तम् — ‘ मीमांसारसममृतं पीत्वा शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि विदुषां मध्ये जल्पामो जयपणवं हत्वा ॥ ' ( ६.१० ) इति । अस्य तु मुख्यं शास्त्रं व्याकरणमिति कविरहस्याज्ज्ञायते । अत्रापि ( १.१० । ४.१४ ) इत्यादिवृत्तिविलोकनेनास्य वैयाकरणत्वं स्फुटीभवति । अत्र वृत्तौ माण्डव्यः ( पृ ० ५० ) श्वेतपट: ( पृ ० ७३ ) कालिदासः ( पृ ० ७८ ) भारविः ( पृ ० ८० ) धरणीधरः ( पृ ० ८५ ) कात्यायन: ( पृ ० १०४ ) इति ग्रन्थकृतां नामान्युपलभ्यन्ते । तत्र धरणीधरोऽस्य समकालिकः कश्चिदनुबन्धी सुहृद्वा स्यादित्य-नुमीयते । अभिधानरत्नमालाख्यः कोशोऽप्यनेनैव निर्मित इत्याहुः । लक्ष्मणसेनस्य मन्त्री ब्राह्मणसर्वस्व - शिवसर्वस्वादिग्रन्थकर्ता, वृत्तरत्नाकरटीकाकर्त रामचन्द्रकवेर्भ्राता चेत्यादयो हलायुधा अस्माद्भिन्ना एव । अन्यानि व्याख्यानानि अस्य शास्त्रस्य महामहिमशालिभिः शालिवाहनस्य सप्तदश्याः शताब्दयाः पूर्वा-र्धसमुद्भूतैर्भास्करराजैः प्रणीतं भाष्यम्, वार्तिकराजश्चेति प्रकामं गुणगरिमाभिरामं विद्योतते व्याख्यानद्वयम् । तद्भ्रात्रा सखारामभट्टेन विरचिता छोटीवृत्तिरपि वरीवर्ति । परं कृतप्रयत्ना अपि तन्नालभिष्महि । अन्यच्च व्याख्यानं न नः कर्णपदवीमवतीर्णम् । अतः स्वीयया ‘ विशल्यकरणी ' नाम्नया टिप्पण्या योजितमेतत् । वैदिकच्छन्दसामुदाहरणानि तु वृत्तिकृता न प्रदर्शितानि । तान्यस्माभिरन्विष्यान्विष्य यथास्थानं निवेशितानि । अत्र वैदिकोदाहरण - विषये पूर्वतनसंशोधकैः प्रायो गजनिमीलिकैव स्वीकृता । तथा च षट्पदाजगत्युदाहरणम् ( ३.४ ९ ) — ' आपो॒ न दे॒वीरुप॑ यन्ति ( १ ) हो॒हो॒त्रिय॑म॒वः पश्यन्ति॒ ( २ ) वित॑तं॒ यथा॒रज॑ः ( ३ ) । प्रा॒चैर्दे॒वास॒ प्र ण॑यन्ति ( ४ ) देव॒युं ब्र॑ह्म॒प्रियं॑ ( ५ ) जोषयन्ते व॒रा ईव ( ६ ) ॥ ' ( ऋ ० १.६.४ ) इति दत्तं दृश्यते । वस्तुत इयं चतुष्पदाजगत्येवास्थाने पादकल्पनां विधाय षट्पदत्वं CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 94

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 94 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ० छन्दः शास्त्रम् प्रापिता । तत्रापि द्वितीयं षष्ठं चापहाय नाष्टाक्षरत्वं कस्यापि पादस्य सम्भवतीति भक्षितेऽपि शुने न शान्तो व्याधिः । पुरस्ताज्ज्योतिरुदाहरणम् ( ३.५२ ) -' अथो॑ध्य॒ग्निर्ज्य उदे॑ति॒ सूर्यो॒ व्य॑१षा ( १ ) श्च॒न्द्रा म॒ह्य॑ वो अ॒र्चिषा॑ ( २ ) । आयु॑क्षाताम॒श्विना॒ या ( ३ ) त॑वे॒ रथं प्रासा॑वीद्दे॒वः ( ४ ) स॑वि॒ता जग॒त्पृथ॑क् ॥ ' ( ऋ ० २.२.२७ ) इयमपि चतुष्पदैव सती पञ्चपदतां नीता । इदं चात्रात्यन्तमाश्चर्यकरं यत् ' यातवे ' इति पदमध्येऽपि पादः कल्पितः । ककुद्मत्युदाहरणम् ( ३.५६ ) — ‘ उतासो दैववदिति ( १ ) रुरुष्यतां नाम उग्रः ( २ ) । उरुस्यन्तभवतो ( ३ ) वृद्धश्रवसः ( ४ ) ॥ अत्र प्रदर्शितः पादः पञ्चाक्षरो भवति, न पुनः षडक्षर इति शङ्कुमत्या इदमुदाहरणं भवितुमर्हति, न ककुद्मत्याः । अशुद्धविषये चात्र शुद्धपाठप्रदर्शनमेव पर्याप्तं मन्यामहे तत्त्वविदां चेतश्चमत्काराय-‘ उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या । उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृद्धशवसः ॥ ' ( ऋ. ६.२.२२ ) इदमपरमालोक्यतां भूरिग्जगत्या उदाहरणम् ( ३.५ ९ ) — ' इयो न विद्वाँ अयुजिरियं धुरि ( १ ) तं वहामि प्रतरणिमवश्रुवम् ( २ ) । नास्य वेश्मि विसुचनावृतं पुनः ( २ ) विद्वान्पयः पूर एत अजुनेषति ( ४ ) ॥ ' कियतीनां वाशुद्धीनां काष्ठमारोपितेयमृगिति शुद्धपाठावलोकनेन स्वयमेव विभावयन्तु दोषज्ञाः । शुद्धपाठश्चेत्थम्—

यो न वि॒द्वाँ अयु॑ज स्व॒यं धुरि तां व॑हामि प्र॒तर॑णीमव॒स्यु॒वम् ।

नास्या॑ व॒श्मि वि॒मुचं नावृतं॒ पुन॑वि॒द्वान् प॒थः पु॒र एत ऋजुनैषति ॥

( ऋ ० ४.२.२८ ) अस्मदीयः प्रयलः – स्थालीपुलाकन्यायेनाशुद्धीनां स्वरूपं जानीयुस्तज्ज्ञा इति दिङ्मात्रमेवेदं प्रादर्शि । प्रायः सर्वाण्यप्युदाहरणान्येवमेवाशुद्धतराणि लक्षणविसंवादीनि चासन् । अस्माभिस्तु तान्यपसार्य लक्षणानुगतानि निवेशितानि । मूलं च सूक्ष्मेक्षिकया निरीक्ष्य संशोधितम् । क्वचिद्व्याख्यया दुर्बोधतापि दूरीकृता । मतान्तराणि च युक्तायुक्त-विवेचनपूर्वकं निरूपितानि । शौनककात्यायनाभ्यामुक्तानि सूक्ष्मभेदानां लक्षणानि संगृही-तानि, तेषामुदाहरणानि च महता यत्नेन दर्शितानि । वृत्तरत्नाकर - छन्दोमञ्जरी - छन्दः-कौस्तुभमन्दारमरन्द - वृत्त - चन्द्रिकावृत्तमणिकोशादिछन्दोग्रन्थेषु दृष्टानां लक्षणानामपि सङ्ग्रहः कृतः । अयमपरश्च महान् विशेषो यत्सर्वेषामपि वृत्तानां प्रस्तारे सङ्ख्याबोधकं क्रमाङ्कमादौ दत्त्वा वृत्तानि क्रमेणैव संस्थापितानि । तथा सूत्रे स्मृतानामाचार्याणाम्, छन्दःशास्त्रे टिप्पण्यां CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 95

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 95 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्रस्तावना ९ १ च लक्षितानां वैदिकच्छन्दसाम्, वृत्तानाम्, छन्दः सूत्राणाम्, उदाहरणश्रुतीनाम्, श्लोकानां च पृथक् सूचयः समायोजिताः । यावदबुद्धिबलं सर्वात्मना तथा यतितं यथास्मिनेकस्मिन्नपि ग्रन्थेऽवलोकिते प्रायः सर्वे छन्दोग्रन्था विलोकिता भवेयुः । एवं महान्तं यत्नमास्थाय कृतेऽपि संशोधनेऽस्माकमल्पमतित्वात्सञ्जातानि स्खलितानि क्षन्तुमर्हन्ति विचक्षणा इति तान् साञ्जलिबन्धमभ्यर्थयामहे । अत्र संशोधनकर्मण्यपेक्षितलिखित पुस्तकप्रदानेन साहाय्यं कृतवतां वे. शा. ‘ घनश्यामविठ्ठलशास्त्री जावडेकर ' महोदयानां वे:, ' कृष्ण लक्ष्मणभट्ट धूपकर ' इत्येतेषां च सदैवोपकारभारं बिभृमः । तथास्मानस्मिन् कर्मण्युद्योजितवतां, मुद्रणकालेऽनवधानादिना सञ्जाताशुद्धिबोधनेन मुहुरनुगृह्णानानां सुहृन्मणीनां मुद्रणालयस्थपण्डितानां श्रीनारायणआचार्यमहोदयानां, श्रीसोमण इत्युपाभिध - कृष्णशर्मणां, श्री साधले इत्युपाहृबालकृष्णशास्त्रिणां च नितान्तम-धमर्णाः स्मः । अन्ततश्च सुदुः सहतममपि कालातिपातं क्षान्तवतामेवंविधानेकग्रन्थरत्नप्रकाशनचणानां गुणगृह्यानां ' निर्णयसागर ' मुद्रणालयाध्यक्षाणां श्रेयसे सर्वेश्वरं सम्प्रार्थ्य, इमामत्यल्पां कृतिं भगवतो वेदपुरुषस्य पादयोः पुष्पाञ्जलित्वे कल्पयामः । दोषाः स्युरेव मम, तन्त्र कृताधिकारं दोषज्ञवृन्दमपनेष्यति तान् समूलम् । स्युचेगुणा अभिमता भवतां न ते तत् व्यर्था खला इह खलूभयथा स्थितिर्वः ॥ सुधीजनविधेयः धूपकरोपाह्वोऽनन्तयज्ञेश्वरशर्मा माशैलम्, गोवा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 96

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 96 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका 13480 पिङ्गलछन्दः शास्त्र के प्रतिपाद्य विषय पर सामान्यदृष्टि से विचार इस संसार में प्राणियों के अभ्युदय ( स्वर्गाऽऽदिस्वरूप इष्ट सुख की प्राप्ति ) एवं नित्यभूत सत्य - ज्ञान - अनन्तस्वरूप ( देश - काल - वस्तुस्वरूप त्रिविध परिच्छेद की निवृत्या-त्मक मोक्ष ) की प्राप्ति ही मुख्य पुरुषाऽर्थ है; क्योंकि स्वर्गाऽऽदि सुख की लब्धि हो जा के उपरान्त पुनः प्राणियों के अभिलषित वस्तु की प्राप्ति के निमित्त प्राणिकर्तृकसाक्षात् परम्परया होने वाली समस्त क्रियाएँ शान्त हो जाती हैं । एवं जब तक सर्वदुःख की आत्यन्तिकनिवृत्ति पूर्वक स्वस्वरूप की उपलब्धि स्वरूप मोक्ष का लाभ नही हो जाता है, तभी तक प्राणियों में प्राप्तीच्छामूलिका क्रिया सञ्चालित हुआ करती है । दार्शनिक धरातल पर आकर विचार करने से यह भी निश्चित होता है कि केवल क्रिया ही सद्यः स्वर्ग ( या जीवन्मुक्ति ) का, अथवा अपवर्गस्वरूप मोक्ष की जनिका नहीं होती है, अपितु उन - उन क्रियाओं से एक प्रकार का धर्म अवश्य प्रादुर्भूत हुआ करता है, जो स्वर्ग तथा मोक्षाऽऽख्यस्वरूप परमपुरुषार्थ का हेतु होता है । इसी आशय से महर्षि कणाद ने अपने सूत्र को उस तथ्य के प्रकाशनाऽर्थ प्रणयन करते हुए इस प्रकार कहा है- ' यतोऽ-भ्युदयनिःश्रेयससिद्धिः स धर्मः ' । इसी प्रकार अन्य स्मृतियों में भी ' धारणाद्धर्म: ' यह वचन इसी तात्पर्य से अभिव्यक्त हुआ है । धर्म में पुनः मन्त्र ब्राह्मणाऽऽत्मक वेद ही निरपेक्ष होने के कारण स्वतन्त्र प्रमाण हैं । अतः वेदाऽऽदिशास्त्र प्रमाणक ही उपनयनाऽऽ-दिस्वरूप धर्म, या धर्मजनक कर्म से लेकर, स्वर्ग - मोक्ष तक के प्रापक धर्मजनक याग होमाऽऽदि क्रियाओं को धर्मनाम से ही कहा जाता है और आत्मगुणाऽऽत्मक धर्मोत्पादक कर्म के स्वरूप का निर्धारक वेद वाक्यमात्र शास्त्र द्वारा ज्ञात होता है । ' वेदोऽखिलो धर्ममूलम् ' इस प्रकार के स्मृतिग्रन्थ का उपदेश उपर्युक्त अर्थ में ही स्वीयतात्पर्य को निष्कम्प भाव से स्थापित करता है । धर्म के स्वरूप का ज्ञान वेद के यथाऽर्थ स्वरूप के साथ ही साथ वेदार्थ के निर्णयाधीन पर्यवसित हो सकता है । अतः अर्थ विज्ञानाऽर्थ जिस प्रकार धर्मशास्त्र, मीमांसा, कल्प, निरुक्त, व्याकरण, इतिहास, पुराण आदि आर्ष ग्रन्थों का ज्ञान आवश्यक माना जाता है, उसी प्रकार से वेदार्थ ज्ञान के सम्पादन में कारणीभूत वेद स्वरूप के परिज्ञान में शिक्षा, निरुक्त, छन्दः शास्त्र आदि का ज्ञान होना अनिवार्य है । अतः वेदाऽर्थ ज्ञान के लिए उसके पूर्व मन्त्र ब्राह्मणाऽऽत्मक वेदस्वरूप के ज्ञान की अधिगति में छन्दः और उदात्ताऽऽदि स्वरों का ज्ञान तत् - तत् शास्त्रों के अध्ययन द्वारा CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 97

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 97 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ९ ३ अवश्य सम्पादनीय सिद्ध होता है । पाणिनीय शिक्षा में गायत्री आदि छन्दः स्वरूपबोधक छन्दः शास्त्र को वेद का पाद स्थानीय आधार कहा गया है । छन्दः स्वरूप के ज्ञानाऽभाव की दशा में पुन; " अनुष्टुभा ऋचा यजति, बृहत्त्या ऋचा गायति, गायत्त्या..... " ऋचा इत्यादि वैदिक वाक्यों का न परिज्ञान हो सकता है और न ही ज्ञान के अभाव में तत्तच्छन्दः प्रयुक्त धर्माऽनुष्ठान का हो पाना सम्भव है । इसी अभिप्राय को व्यक्त करने वाला वेदवाक्य छान्दोग्य ब्राह्मण में इस प्रकार कहा गया है - ' यो ह वा अविदि-ताऽर्षेयच्छन्दो दैवताविनियोगेन ब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स स्थाणुं वर्च्छति गर्त्तं वा पद्यते, प्रमीयते वा पापीयान् भवति यातयामान्यस्य च्छन्दांसि भवन्ति । ' ( छ ० ब्रा०-३।७।५ ) इसका भाव यह है कि " निश्चित रूप से जो याजक वैदिक छन्द को बिना जाने ही केवल देवता सम्बन्धी विनियोगपूर्वक ब्राह्मण ग्रन्थीय मन्त्र से यजमान को यजन कराता है, अथवा अध्यापन करता है, वह मन्त्र प्रयोक्ता याजक अथवा अध्यापक वृक्ष, लता आदि जड़ योनि को प्राप्त किया करता है अथवा, दुःखालयाऽऽत्मक नरक को प्राप्त करता है । अथवा स्थाणु स्वरूपता का या पुन: नरक का अनुभव किया करता है । वह निश्चित ही महान् पापी होता है । इनके द्वारा अधीत छन्द पुनः इस याजक का परित्याग कर देते हैं या अज्ञात रूप से अध्ययन द्वारा सम्पादित छन्द अध्येता के दुःख के कारण होते हैं । ” इसी प्रकार ' सर्वाऽनुक्रम ' सूत्र में महर्षि कात्यायन जी कहते हैं कि ' छन्दांसि गायत्र्यादीनि एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति, जुहोति, यजते याजयते तस्य ब्रह्म निर्वीर्यं यातयामं भवति । अथाऽन्तरा श्वगर्तं वा पद्यते स्थाणुं वर्च्छति प्रमीयते वा पापीयान् भवति । ' ( सर्वाऽनुक्रम सूत्र ) = गायत्री आदि स्वरूप इन छन्दों को विना जाने जो व्यक्ति वेदों का अध्ययन करता है, या गुरुमुख से अध्ययन के अनन्तर अधीत वेद का अभ्यास किया करता है, अथवा यागाऽऽदि कर्मसम्पादन वेला में कर्म उच्चारण किया करता है, अथवा छन्दज्ञानविरहितमन्त्र से होम करता है या याग किया करता है, अथवा याजक से याग कराता है । उस छन्द, देवता, स्वराऽऽदि विषयों अज्ञानी वैदिक पुरुषों का ब्रह्म को प्राप्त कराने वाला सामर्थ्य नष्ट हो जाता है, अथवा ब्रह्म, यज्ञ का भी नाम है, जिसके अनुसार अर्थ होगा- छन्द आदि ज्ञानविहीन वैदिक पुरुष के द्वारा सम्पादित यागाऽऽदिकर्म निर्वीर्यम् = स्वर्गाऽऽदिस्वरूप फलजनन के योग्य सामर्थ्य से सर्वथा विहीन हो जाता है । इसके अतिरिक्त छन्दः आदि के ज्ञान से रहित वेद के अध्येता वह पुरुष कुत्ते की योनि को प्राप्त करता है, अथवा स्थाणु = शाखाओं-प्रशाखाओं से रहित वृक्ष आदि के स्वरूपों को प्राप्त होता है, अथवा अपने स्वरूप को जड़रूप में ( अनात्म स्वरूप शरीरेन्दियादिकों के रूप में ) अनुभव किया करता है । या पुनः ऐसा व्यक्ति महान पापों से युक्त हो जाता है । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 98

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 98 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४ छन्द: शास्त्रम् बृहद्देवता में भी कहा गया है—

अविदित्वा ऋषिं छन्दो दैवतं योगमेव च ।

योऽध्यापयेज्जपेवाऽपि पापीयाञ्जायते तु सः ॥

( बृ ० दे०-८ | १३२ ) वेद के ऋषि, छन्द, देवता, तथा विनियोग से सम्बन्धित ज्ञान के बिना ही जो कोई वेदाध्यापक वेद का अध्यापन करता है, वेद का जप भी करता है तो वैसी अवस्था में वह वैदिक महान् पाप से विद्ध हो जाता है । स्मृत्यन्तर में इस विषय का प्रतिपादन कुछ इस प्रकार से उपलब्ध होता है—

मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान् ऋषीन् ।

कृत्तद्धिताऽऽदीश्चाऽज्ञात्वा यजन्तो यागकण्टकाः ॥

ऋषिच्छन्दो दैवतानि ब्राह्मणाऽर्थं स्वराऽऽद्यपि ।

अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥

मन्त्रों के देवता छन्द को, निरुक्त को, ब्राह्मणाऽऽत्मकऋषियों को, कृत्, तद्धित स्वर आदि स्वरूपों को न जानते हुए जो याजक याग कर्म का सम्पादन करता है, वे याग के कण्टक कहे जाते हैं । अर्थात् ऐसे वैदिक स्वसम्पादित याग कर्म के फल प्रसव में प्रतिबन्धक हुआ करते हैं । भाव यह है कि इस प्रकार के याजक द्वारा सम्पन्न किये जाने वाले याग से यागफल निष्पन्न नहीं होता है । मन्त्र के ऋषि, छन्द, देवता, ब्राह्मणाऽऽदिकों के लिए हितकारी उदात्ताऽऽदिस्वरों को बिना संयोजित किये मन्त्र का उच्चारण करने वाला मन्त्र का कण्टक कहा जाता है । उपर्युक्त प्रमाणों के प्रदर्शन से यह प्रमाणित होता है कि वैदिक पण्डितों को स्वर, वर्ण - मात्रा, कृत, तद्धित, समास आदिविषय ज्ञान के साथ - साथ, छन्द विषयक ज्ञान का होना भी अनिवार्य है । अतः छन्दविषयक निश्चय- जनकविचार से सम्बन्धितशास्त्र का अध्ययन सम्पादनाऽर्थ उसका आरम्भ सर्वथा उचित सिद्ध होता है । शास्त्र विचार के माध्यम से जिन सूक्ष्म रहस्यों का ज्ञान होता है उसको एकाएक जिज्ञासु धारण कर पाने में पूर्ण रूप से समर्थ नहीं हुआ करता है, तथा शास्त्र से होने वाला विस्तृत ज्ञान विशेष विषयक हुआ करता है और जब तक किसी भी वस्तु का सामान्य ( साधारण ) ज्ञान उत्पन्न नहीं हो जाता है, तब तक उस विषय में विशेष - विषयिणी जिज्ञासा उत्पन्न भी नहीं हो सकती । जिसके अभाव में ग्रन्थ का अवतरण ही असम्भव हो जाएगा । अतः ग्रन्थ प्रतिपाद्यभूत छन्दविषयक विशेष जिज्ञासा के सम्पादनाऽर्थ छन्दविषयक सामान्य ज्ञान के लिए आरम्भिक विचार प्रस्तुत किया जा रहा है—-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 99

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 99 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ९ ५ छन्द पदार्थ से सम्बन्धित विचार " चदि आह्लादे ' धातु से “ चन्देरादेश्च छः " इस उणादि सूत्र से असुन् ( अस् ) प्रत्यय धातु के आदि चकार को छकार आदेश तथा धातु को नुम् ( न् ) आगम कर देने पर प्रकृति - प्रत्यय सम्मेलन पूर्वक " छन्दस् " शब्द निष्पन्न होता है । तदनुसार छन्दः शब्दार्थ होगा । आनन्द का साधन, मन का अनुरञ्जन करने वाला, शब्द के महत्त्व को ख्यापित करने वाला । इसका तात्पर्याऽर्थ इस रूप में ज्ञातव्य है- यद्यपि सच्चिदानन्दस्वरूप ब्रह्म का निखिल ब्रह्माण्ड में प्रकाश है, परन्तु माया शक्ति की शुद्धता एवं अशुद्धता के तारतम्य से तत्तद् सांसारिक वस्तुओं में परमेश्वरीय प्रकाश का तारतम्य देखा जाता है । जिस प्रकार घट - पटाऽऽदिस्वरूप सांसारिक जड़वस्तुओं में माया तारतम्य प्रयुक्त केवल सत् अंश का ही प्रकाश अनुभव विषय बनता है । किन्तु वृक्षलताऽऽदिकों में तथा कीटपतङ्गपशुपक्षी आदि वस्तुओं में " सत् " अंश के साथ - साथ “ चित् " अंश भी अभिव्यक्त हुआ करता है, किन्तु इन जीवों में रहने वाला ज्ञानाऽऽत्मक वह चिद् अंश मनुष्याऽऽदिकों की अपेक्षा स्वल्प और अनुत्कृष्ट स्वरूप वाला हुआ करता है । चित् तत्त्व का जहाँ पर उत्कर्ष हुआ करता है वहीं पर आनन्द की अभिव्यक्ति होती है, क्योंकि आनन्द के प्रादुर्भाव में चिदुत्कर्ष की ही हेतुता जानी जाती है । चिदंश की न्यूनता दशा में आनन्द अंश की न्यूनता एवं मध्यम अवस्था में मध्यम और बाहुल्य दशा में आनन्दांऽश की प्रचुरता से उपलब्धि चिद् अंश में ही उत्पन्न आनन्द की हेतुता प्रमाणित होती है । मनुष्यों, ऋषि - मुनियों एवं देवताओं में परमेश्वर के इन तीनों अंशों का उत्तरोत्तर उत्कर्ष देखा जाता है । इतना ही नहीं एक जातीयक मनुष्यों में भी मायिक सत्त्वों की उत्कृष्टता अनुत्कृष्टता प्रयुक्त किसी में उत्तमता, किसी में मध्यमता एवं कही अधमता का अनुभव हुआ करता है । इसी से कोई मनुष्य लोक में महान की कोटी में कोई मध्यम श्रेणि का, तो कोई क्षुद्र या निकृष्ट की कोटी में उपस्थित होते हैं । मानवों में, वाग्देवता ही ज्ञानाऽधिष्ठातृ शब्द से कही जाती है । ज्ञानाऽधिष्ठात्री देवता वर्णमाला के रूप से मानव के श्रवण द्वार में प्रकट हुआ करती है, जिसके कारण वे मानव उन - उन अक्षरों के माध्यम से सूक्ष्म से भी सूक्ष्म विचारों को सम्पादित करने में समर्थ सिद्ध होते हैं । इतना ही नहीं वर्णों के द्वारा अपने गहन विचारों को प्रकट करके, उसी वर्णाऽऽत्मकशब्द के माध्यम से उस विचार को अन्य जिज्ञासुओं में भी व्यक्त करने में समर्थ हुआ करते हैं । इसके अतिरिक्त वर्णमाला द्वारा ही मनुष्य परस्पर में विचारों का आदान - प्रदान करके समुन्नति के शिखर को प्राप्त करने में योग्य सिद्ध होता है । अर्थाऽभिप्राय को ध्यान में रखकर तदनुसार सुन्दर रीति से वर्णराशि को सजा कर जब वक्ता पराऽभिप्रेताऽर्थ को व्यक्त करता है, तब श्रोता अपने इष्ट और इष्टफल के साधना विषय की जानकारी प्राप्त कर परममोद का लाभ किया करता है । द्व्यर्थकश्लिष्टशब्द के उच्चारण द्वारा वक्ता CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 100

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६ छन्द: शास्त्रम् श्रोतृवर्ग को अपनी ओर आकर्षित करने में सर्वथासफल होते हैं । इस प्रकार श्रोतृजनों तुष्टि एवम् आकर्षण का हेतु पुनः गुणों, कर्मों, स्वभावों, शक्तियों, स्वाध्यायों और विद्याओं के वर्णन करने वाले शब्द ही तो पर्यवसित होते हैं । श्रोताओं के सन्तुष्ट और आकृष्ट होने की स्थिति में ही वक्ता को अभिलषित अर्थ की प्राप्ति भूपतियों, अर्थपतियों आदि के द्वारा हुआ करती है । शब्द की ही महिमा है कि अमित्र भी मित्र के समान सहायक बन जाते हैं, नहीं करने लायक भी करने लायक की स्थिति में आ जाते हैं । सांसारिक जीवों पर ही शब्द का प्रभाव नहीं हुआ करता, अपि तु देव - दानव- गन्धर्व आदि भी गुण - गण वर्णनाऽऽत्मकस्तुति से प्रसन्न होकर शुभमति - शुभगति स्वरूप अभीष्ट लाभ से स्तावक को कृत - कृत्य कर देते हैं । वे स्तुत्य देवाऽऽदि न केवल अभीष्टप्रदान करने मे ही समर्थ होते हैं, अपि तु विनाशकारिकी विपरीतबुद्धि की निवृत्ति द्वारा समस्त हृदयद्रावक सङ्कटों से भी रक्षा किया करते हैं । शङ्का - इस प्रकार सकल मानवाऽऽदिप्राणियों का आकर्षण एवं संतोष का सम्पादन जिन सुनियोजितवर्णों से बने पद्याऽऽदिकों से सिद्ध होता है उन वर्णों में सुयोजना क्या है? उन वर्णों के कथन में परमता = उत्तमता क्या है? वर्णों के उच्चारण में द्व्यर्थकत्वस्वरूप श्लिष्टत्व क्या है? समाधान - गुरु रूप से तथा लघुरूप उच्चरित होने वाले अक्षरों का, तथा मात्राओं का जो नियमितरूप से पद्य आदि में उपस्थित होना है, वही मात्रा एवं छन्द के नाम से कहा जाता है । इसके अतिरिक्त वर्णों के पौर्वाऽपर्य में नैयत्य का होना, इस पद्य में वर्ण ऐसा हो, इतनी संख्या का हो, तथा उन वर्णों का पूर्व और अपर भावनियमित रूप से होना चाहिए । पर में जो मात्राएँ अपेक्षित हैं वे नियमित रूप से इतनी ही होनी चाहिए, अनियत नहीं । इत्यादि जो नियम हैं वे ही मात्राच्छन्द नाम से व्यवहार विषय बनते हैं । मात्राएँ अधिक से अधिक कितनी ही क्यों न हो, अथवा अल्प ही हों, किन्तु जो वर्ण जहाँ जैसा अपेक्षित हो, वे वर्ण इतने ही और इसी प्रकार होने चाहिए । इस प्रकार पद्यवृत्तिछन्द वर्णनिष्ठ होता हुआ पद्य के स्वरूप को महत्त्वशाली बनाता है । वह छन्द पुनः मात्राछन्द और वर्ण छन्द के भेद से दो प्रकार के होते हैं । वृत्तरत्नाकर ग्रन्थ जो कि पिङ्गलछन्द के आधार पर लिखे गये वहाँ भी कहा गया है— ‘ मात्रावर्णविभेदेनछन्दस्तदिहकथ्यते ' । ( आरम्भे ) पुनश्च ग्रन्थान्ते तत्रैवोक्तम्— ' लक्षणं सर्ववृत्तानांमात्रावर्णाऽनुपूर्वकम् । ' इति । प्रकृत ग्रन्थ में वृत्त एवं छन्द शब्द का व्यवहार पर्याय के रूप में हुआ समझना चाहिए, जिससे वर्ण वृत्त वर्णछन्द एवं मात्रावृत्त - मात्राछन्द के पर्याय रूप में प्रयुक्त हुआ जानना चाहिए । छन्दः शब्द का अनेक अर्थ लोक एवं शास्त्र में प्रसिद्ध है । यथा – छन्दः = वेद को कहा जाता है । अत एव ‘ श्रोत्रियंश्छन्दोऽधीते ' इस पाणिनि सूत्र से ‘ छन्दोऽधीते = CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA