चरक संहिता हिन्दी भाष्य — पृष्ठ 11–20

चरक संहिता हिन्दी भाष्य · Chaukhamba · पृष्ठ 11–20

पृष्ठ 11

चरक संहिता हिन्दी भाष्य, पृष्ठ 11 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( ४ )

धन्वन्तरिर्दिवोदासः काशिराजोऽश्विनीसुतौ ।

नकुलः सहदेवार्की च्यवनो जनको बुधः ॥

जाबालो जाजलिः पैलः करभोऽगस्त्य एव च ।

एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥

चिकित्सातत्त्वविज्ञानं नामतन्त्रमनौपमम् ।

धन्वन्तरिश्च भगवान् चकार प्रथमं ततः ॥

चिकित्सादर्पणं नाम दिवोदासचकार ह ।

चिकित्साकौमुदीं दिव्यां काशिराजश्चकार सः ॥

चिकित्सासारतन्त्रं च भ्रमघ्नञ्चाश्विनीसुतौ ।

तन्त्रं वैद्यकसर्वस्वं नकुलश्च चकार सः ॥

चकार सहदेवश्च व्याधिसिन्धुविमर्दनम् ।

ज्ञानार्णवम्महातन्त्रं यमराजश्वकार सः ॥

च्यवनो जीवदानं च चकार भगवानृषिः ।

चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥

सर्वसारं चन्द्रसुतो जाबालस्तन्त्रसारकम् वेदाङ्गसारं तन्त्रं च चकार पैलो निदानं करभस्तन्त्रं जाजलिर्मुनिः ॥ सर्वधरम्परम् | द्वैधनिर्णयतन्त्रं च चकार कुम्भसम्भवः ॥

चिकित्साशास्त्रबीजानि तन्त्राण्येतानि षोडश ।

व्याधिप्रणाशबीजानि बलाधानकराणि च ॥

मथित्वा

ज्ञानमन्थानैरायुर्वेद पयोनिधिम् ।

ततस्तन्त्राणि चोज्जह्रुर्नवनीतानि कोविदाः ॥

एतानि क्रमशो दृष्टा दिव्यां भास्करसंहिताम् । आयुर्वेद सर्वबीजं सर्वं जानामि सुन्दरि! । व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥ आयुर्वेदस्य विज्ञाता चिकित्सासुयथार्थवित् । धर्मिश्च दयालुश्च तेन वैद्यः प्रकीर्त्तितः ॥ ब्रह्मवैवर्त्ते १६ अध्याये तथैवात्रेयस्यापि षट्शाखा आत्रेयीयाग्निवेशादिकास्तास्वाद्यत्वात्समुत्कटवैदु-व्यशालित्वान्निखिलदर्शनायतनत्वादामयावधारणप्रौढोपक्रम पाटवदृष्टादृष्टो भयो-त्कृष्टफलत्वात्तथाद्याङ्गप्रतिपादनपरिपाट्यैतस्यैव चरकभाष्यस्य सर्वप्रधानत्वं सुतरां सिद्धमेव । यथा हि प्रावोचि जल्पकल्पतरुभाष्यकृता—

पृष्ठ 12

चरक संहिता हिन्दी भाष्य, पृष्ठ 12 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( ५ )

एकैकमेकैकमुनिर्यदीयं मतं समाश्रित्य चकार शास्त्रम् ।

जयत्यसौ सोऽखिलशास्त्रविद्या - कल्पद्रुमः सर्वफलोदयत्वात् ॥

तथा च ब्रह्मशोष्णरश्मिशतक्रतुभरद्वाजधन्वन्तरि निर्मितसंहिताततीनां जाज्वल्यमानौजोभिप्रज्वलितसृष्टिसमुदयस्यावेक्षणाद् वाढं दाढर्यमुपैत्येष सिद्धान्तः । वेदानामायुर्वेदमयत्वमेव, तद्यथा— ओषधि - वर्णनम् य ० १२ । १०० ,, ३४ । ५०-५२ अ ० २ । १३ । १-५ १२ । २८ । १-५ ” ८ । १ । १-२१ ” ८ । २ । १-२८ ” १ । ३० । १–४ ” १ । ३५ । १–४ ” ६ । ४१ । १–३ ऋ ० ३ । ५७ । ३ अथर्व ३ | १८ | १-६ य ० ५ । ४२-४३ १२० । ४५ ” २१ । २१ ” २७ । २१ ” २८ | १०, ३३. ४३ ” २६ । १०, ३५ अ ० ४ । १७ । १-८ " ४ । १८ । १-८ ” २ । ४ । १–६ ” ३ । ११ । १–८ " ४ । १६ । १-८ ” २ । ६ । १–५ ,, ७ । ६५ । १-३ ” ६ । ११० । १-३ ,, ६ । ५६ । १-३ ” ६ । ४७ । १–३ १, ६ । ६५ । १–३ ” २ । २६ । १-७ " ६ । १०६ । १-३ १, ५ । ३० । १–१७ 12 २ । २५ । १–५ ” १६ | ६४ | १–४ :: ४ । १२ । १-७ ” १६ । ६७ । १-७ ११ ५ । ५ । १-६ ,, ७ । ३२ । १ " " ७ । ३३ । १ , ५ । ४ । १-१० " ७ । ५३ । १–७ ” १६ । ३६ । १-१० " " ६ । ७६ । १–४ ” ६ । २१ । १–३ ” १६ । ६३ । १ " ६ । १३६ । १-३ ” १६ । ६१ । १ " ६ । १३७ । १–३ ,, १६ | ७० | १ ” ६ । १६ । १–४

पृष्ठ 13

चरक संहिता हिन्दी भाष्य, पृष्ठ 13 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ । ३० । १-३ ऋ ० १ । ६० । ८ ” १० | ८५ | २–४ १ । ६१ । ६ 39 अ ० १ । ३४ । १–५ रोग - चिकित्सा अ ० ६ । १४ । १-३ ६ । १०५ । १–३ १ । २२ । १-४ २।८।१-५ " " " ६ । १३८ । १-५ १, ७ । ७४ । १–४ ७ । ७६ । १-६ 39 ६ । ८३ । १-४ " " १ । २३ । १-४ 99 १ । २४ । १-४ " " १ । २५ । १०४ 39 35 ७ । ११६ । १-२ ५ । २२ । १-१४ " " ऋ ० १ । ५० । ११-१३ अ ० ४ । १३ । १-७ " " १ । १७ । १-४ ,, ६ । ४४ । १-३ ६ । ५२ । १-३ 99 २। ३ । १–६ १ । ३ । १-६ " " ऋ ० १ । ६० । ६ ” १० । ६ । १-२३ अ ० ८ । ७ । १-२८ ” ६ । ६६ । १–३ ” ४ । ६ । १-१० ” ७ । ३० । १ १, ७ । ७६ । १ ” १६ । ४५ । १-१० ( ६ ) अ ० १६ । ४४ । १-१० य ० ४ । १ ” ११ । ४७-४८ १२ । ७६ " " ,, ३५ | ४ " १८ । ३२-३४ देवौषधयः अ ० ५। २६ । १ ऋ ० ८ । १८ । ६ य ० २८ । है । अ ०६ । ८३ । १ ६ । १२४ | १ 93 १।२।१ " " ऋ ० २ । ३३ । १३ सामुद्रिकौषधम् अ ० ४।१०।१ खनिजौषधम् अ ० ४ । ६।७ १ । १६ । २ " " प्राणिजौषधम् ३ । ७ ११ अ ० यक्ष्म ( रोग ) नाशनम् ऋ ० १० | १६३ | १–६ अ ० ३ । ३१ । १-११ ६ । २० । १-३ " " ६ । ८५ । १–३ ” ६ । १२७ । १-३ १ । १२ । १-४ ” ,, ३ । ७ । १-७ ६ । ६१ । १–३ " " , १६ । ३८ । १–३ १, २० । ६६ । ६-१० ” २० । ६६ । १७-२३

पृष्ठ 14

चरक संहिता हिन्दी भाष्य, पृष्ठ 14 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १२ । २ । १-५५ " " ६। ८ । १-२२ " " २ । ३३ । १–७७ जलचिकित्सा य ० ६ । १०, १३, १०, ३१ " ६ । १७, २२, २४, २७–२८ ” ८।२६ अ ० ६ । १२४ । १-३ ( ७ ) ऋ ० ७ । ४६ । १-४ ” १० । ६ । १–६ , १० । १७ । १०-१४ " १० । १६ । १–८ ” १० । ३० । १-१५ अ ० १ । ३३ । १-४ ” ३ । १३ । १–७ ,, ७ | ३६ | १ " 9 ७ | ८६ | १-४ ” १६ । २ । १–१५ " १।४।४ ” १६ | ६६ | १–४ " १।६।४ य ० १ । १२, १३, २१, ३१ ” ६ । २२ । १-३ ” २ । २, ३४ ” ६ । २३ । १-३ : ४। १-१२ ,, ५ । ११ ” ६ । २४ । १–३ ऋ ० ५ । ८३ । १-१० ,, ७ । १०१ । १-६ ,, ७ । १०२ । १-१० ” ७ । १०३ । १-१० अ ० ४ । १५ । १-१६ ,, ७ । १८ । १–२ ऋ ० ३ । ३३ । १-१३ ” १२ । ३५ । ५५ ” १४ । ८ १२० । १८-२० अ ० १।७।१-३ ” १६ | ६६ | १ ,, १६ । ७ । १-वाजीकरण

” ७ । ५० ॥४

अ ०४ । ४ । १-८ १० । ७५ । १-६ ,, ६ । ७२ । १-३ " ७ | ६५ | ३ ,, ६ । १०१ । १-३ ” ७ । ६६ । ४–६ अ ० ७ । ४० । १-२ ऋ ० १ । ३ । १०-१२ " १ | १६४ | ४६ " २ । ३० । ८ ” २ । ४१ । १६-१८ 39 ६ । ६१ । १-१४ अ ० ६ । ५७१-३ ऋ ० १ । २३ । १६-२३ " ७ । ४७ । १-४ गर्भाधानम् अ ० ५ | २५ | १ " ६ । ८१ । १-३ " " ६ । १७ । १–४ १, ७ । १११ । १ " ८ । ६ । १–२६ ” २० । ६६ । ११-१६ ऋ ०५ | ७८ | ५-६ , ” ६ । ७४ । ५ अ ० १ । ११ । १-६

पृष्ठ 15

चरक संहिता हिन्दी भाष्य, पृष्ठ 15 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ । ४० | १-४ १ । १ । १-४ " " " ६ । १०८ । १-५ मणिधारणम् अ ० ४ । १० । १-७ ८ । ५ । १-२२ 39 ” १० । ३ । १-२५ ” १० । ६ । १-३५ ” १६ । २८ । १-१० , १६ । २६ । १-६ ” १६ । ३० । १-५ ” १६ । ३१ । १-१४ ” १६ । ३४ । १-१० ,, १६ । ३५ । १-५ " १६ । ३६ । १-६ ” १६ । ४६ । १-७ रक्षोघ्नम् य ०५ । २२ अ ० ४। २० । १-६ विषनाशनम् ऋ ० १ । १६१ । १--१६ अ ० ४ । ६ । १-८ 33 ४ । ७ । १-७ ,, ६ । १०० । १–३ ११ १० । ४ । १-२६ ५ । १३ । १-११ " " " ७ । ८ । १ ,, ६ । १२ । १-३ ६ । ५६ । १-३ 99 11 ७ । ५६ । १-८ कृमिनाशनम् अ ० २ । ३१ । १-५ ( 5 ) २ । ३२ । ६ अ ० १।८ । १-४ " " १ । २८ । १-३ " ४ । २७।१-१२ ,, ५। २३ । १–१३ ” ५ । २६ । १-१५ ,, ६ । ३२ । १-१३ " कृत्यादूषणम् अ ० ५ । १४ । १-१३ ५ । ३१ । १-१२ 95 १ १० । १ । १-२२ 33 २ । १४ । १-६ पीडाविनाशनम् अ ० ६ । २५ । १-३ दुःस्वप्ननाशनम् । १६ । ६ । १-११ अ ० ” १६ । ५ । १-१० १ १६ । ७ । १-१३ ” १६ । ८ । १-२७ ” १६ । ६ । १–४ ७! २३ । १ ” ” १५ । ५६ । १-६ ,, १६ । ५७ । १-५ अथर्व. ४ । ५ । १-७ , ” ६ । ६० । १-३ ऋ ० १ । १२० । १२ २ । २८ । १० " 33 १ । १६४ । १-५ अथर्व ६ । ४५ । १–३ " ६ । ४६ । १-३ ७ । १०० । १ " " " ७ । १०१ । १ ७ । ६६ । १ 29

पृष्ठ 16

चरक संहिता हिन्दी भाष्य, पृष्ठ 16 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ । ४३ । १-३ ५ । १६ । १-११ ५। १५ । १-११ १।२ ।१-४ ” २।७।१-५ ( ६ ) अ ० १ | १८ | १-४ ६ । १३६ । १-५ ,, ६ । १८ । १–३ ७ । ४५ । १-२ , ” ६ । १११ । १-४ अत एव ब्रवीम्यद्यापि दर्शनत्रयं नूनमेतस्मात्प्रभवितुमर्हति यतो हि सूत्र-स्थानस्याद्याध्यायादेव वैशेषिकप्रादुर्भावः, अष्टमादिन्द्रियोपक्रमणीयाच्च धर्म-शास्त्रस्य, विमानस्याष्टमाच्च गौतमीयन्यायदर्शनप्रभवः, शरीरस्थानप्रथमा-ध्यायात्साङ्ख्योत्पत्तिः, सिद्धिस्थानाच्च वैदान्तिका द्वैतादिसमुत्पत्तिः, मध्ये मध्ये च तत्तद्दर्शनानां सूत्ररूपेणोद्भणितिः । स्थूलात्सूक्ष्मीकरणम् - यथाहि प्राचीना-स्तार्किकाः प्राहुः - अथ तत्पूर्वकं त्रिविधमनुमानम् - पूर्ववच्छेषवत्सामान्यतो दृष्टञ्च । अत्र तत्पदेन प्रत्यक्षस्य ग्रहणम्, आत्मेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्य-मव्यभिचारिव्यवसायात्मकं प्रत्यक्षमित्येतावतानुमित्यास्त्रिविधो भेदः प्रति-पादितः । नव्यास्तु - स्वार्थपरार्थभेदेन भेदद्वयमेव प्रोचुः किन्तूभयोरेकंवाक्यता नास्मद्दृष्टौ कुत्रापि समुपेता, तत्र श्रीमता भगवता पतञ्जलिनैवैकवाक्यता प्रागादि-' प्रत्यक्षपूर्वं त्रिविधं त्रिकालञ्चानुमीयते ' इत्यादि । तत्रेत्थमवबोध्यम् - यत् तच्चानुमानं त्रैविध्यमापन्नं द्वैविध्यमुपपद्यते, अर्थात् पूर्ववत् शेषवत् सामान्यतो दृष्टं स्वार्थं परार्थं च भवतीति षड्भेदाः संवृत्तास्ते च भूत - भविष्यद्वर्त्तमानभेदेनाष्टादशत्वं यान्ति ते च पुनः प्रत्यक्षस्यानन्त्या-दानन्त्यमुपयान्ति तथानवस्थ्यमपि प्राप्नुवन्ति, यथा हि कैवल्येनाच्णः प्रत्यक्षवे यावन्तो भावा दरीदृश्यन्ते लोके, यथा हि कस्मिंश्चिदपि संस्थाने मन्दिरादौ च शतशचित्रपटाः पुत्तलिकाद्याश्च विनिर्मिताः वरीवृत्यन्ते, कृत्स्नाना-मपि तेषां तासां चावबोधे बह्रयस्तावत्य एवोपलब्धयः प्रादुर्भवन्ति तथा गुण-धर्मकर्मणां प्रतिभानं बोभवीति, एवं रवग्रहप्रत्यक्षे चानेका विरुदावल्यः पाप-व्यन्ते शोश्रूयन्ते च धीर्ध्यानावगमाकृतिप्रतिकृत्यर्थावबोधादयश्च प्रविलसन्ति तथा प्राणाघ्राणे च बहूनां सुमानामपूर्वापूर्वगन्धानामानन्दोऽवाप्यतेऽथ चैव-मेव रसनायामा स्वाद्यमानानां षण्णां रसानामेकैकस्यावनिर्मितिभेदेन भक्ष्य-भोज्य - लेह्य - चोष्य - पेयादीनां रस - वीर्य - विपाक - प्रभाव - गुण - धर्माणाश्चानन्त्याद् बाढमानन्त्यमा पद्यते । एवमेव सर्वेषां प्रत्यक्षाणामपि सविकल्पक - निर्विकल्पको भेद स्वीकृतौ तयोश्च प्रतीक्षा परीक्षानुभूतिभेदात् त्रिविधो भेदः प्रभिद्यमानः षाविध्यमापद्यते, एवमेवास्याप्यानन्त्यमानवस्थ्यश्च स्यात् तेनानुमित्याः खलु परमानवस्थता संवृत्ता ।

पृष्ठ 17

चरक संहिता हिन्दी भाष्य, पृष्ठ 17 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( १० ) यथाहि अंशांशकल्पनया दोषौषधनिदानादावथ च प्रविभाजने शाब्दि -कानामिव फलवैशिष्ट्य प्रतियोगित्वेऽपि - गवाक्शब्दस्य रूपाणि क्लीबेर्चा-गतिभेदतः -- इत्यादिवज्ज्वरस्त्वेक एव सन्तापलक्षणस्तदभावे विज्वरत्वमेवानु-भूयते, किन्तु तस्यैवान्तर्भेदकल्पनायां १३२५५६ मितभेदाः प्रजायन्ते, ततोऽ-यधिक अनवस्था बोभवीति । वस्तुतस्तु तार्किकाणामिव निमित्तानुमित्यादीनां प्रयोजनफलयोर्नेमा-न्यथासिद्धत्वं दरीदृश्यतेऽस्माकीनायां त्वनुमित्यां यद्यसद्धेत्वाभासयोरवसरो-ः सद्मनि परिषदि च महती हाहाकृतिरुत्पद्येत । भिषजश्च शिरसि महत्पातकं निपतेत् । तत्र दृष्टादृष्टोभयविधप्रचण्डदोषो विलसेदितिदिशैव केनचित् कविना प्रावोचि-वैद्यस्तर्कविहीन नृपतिरदाता निरक्षरो मन्त्री । प्राघुणिकश्विरवासी मस्तकशूलानि चत्वारि ॥ इति । तत्र वैद्यस्य लक्षणोपादाने वेदे यजुषः सप्तदशाध्याये -यत्रौषधीः समगमन् राजानः समिताविव विप्रः स उच्यते भिषक् रक्षोहा-मीव चातनः ॥ १ ॥

यदा वाजयन्नहमोषधीः हस्त आदघे आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ २ ॥

शेषे चाधुनिक लोलिम्बराजेनागादि-गुरोरधीताखिलवैद्यविद्यः पीयूषपाणिः कुशलः क्रियासु । गतस्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी भिषगीदृशः स्यात् ॥ पातञ्जलक्षणे तु— ततोऽनन्तरमाचायं परीक्षेत । तद्यथा पर्यावदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्ति-ज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्या-पकं ज्ञापनसमर्थम् – इत्येवंगुणो ह्याचार्यः सुक्षेत्रमार्त्तवो मेघ इव सस्यगुणैः सुशिष्य माशु वैद्यगुणैः सम्पादयति ।

तथा च भिषजां लक्षणादीनि-ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः ।

जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नमः ॥

पृष्ठ 18

चरक संहिता हिन्दी भाष्य, पृष्ठ 18 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्राणाभिसराः-( ११ ) य इमे कुलीनाः पर्यवदातश्रुताः परिदृष्टकर्माणो दक्षाः शुचयो जितस्ता जितात्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृतिज्ञाः प्रतिपत्तिज्ञास्ते प्राणानामभिसरा हन्तारो रोगाणाम् ।

शङ्ख मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम् ।

तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयम् ॥

Parti: स वै विद्वान् प्राणाभिसर उच्यते । त्रिविधा भिषजः --( च ० सू ० २६ अ ० )

भिषकछद्मचराः सन्ति सन्त्येके सिद्धसाधिताः ।

सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि ॥

पुस्तैः पल्लवैरवलोकनैः ।

लभन्ते ये भिषकशब्दमज्ञास्ते प्रतिरूपकाः ॥

श्रीर्यशोज्ञानसिद्धानां व्यपदेशादतद्विधाः ।

वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः ॥

प्रयोगज्ञानविज्ञान सिद्धिसिद्धाः सुखप्रदाः ।

जीविताभिसरा ये स्युर्वैद्यत्वं तेष्ववस्थितम् ॥

( च ० सू ० ११ अ ० ) श्रुते पर्यवदातत्वं बहुशो कर्मा | दादयं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम् ॥ तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा

स्वयं कृती ।

लघुहस्तः शुचिः शूरः सज्जोपस्कृतभेषजः ॥

प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ।

सत्यधर्मपरो यश्च स भिषक्पाद उच्यते ॥

अथ च तन्त्रस्य विषयप्रणिगदनप्रवृत्तेस्तन्त्रकर्तुः सत्यामनुक्रमणिकायां सङ्गतौ च विषयो विस्पष्ट एव, तदुच्यमाने कैवल्येन कलेवरसमेघनं सिद्ध-साधनमेव सम्भविष्यति, चिकित्सायां यद्वैशिष्टयं लालसीति तत्तु निदर्शनमेव, यथा हि ' चरकस्तु चिकित्सिते ' । वस्तुतस्तु यथोचुर्महाभाष्यनिर्मातारः पाणिनीयसूत्रकृते वृद्धिसूत्रस्थे भाष्ये-' आचार्यो दर्भपवित्रपाणिः प्राङ्मुख उपविश्य सूत्राणि प्रणयति स्म तत्र वर्णेना-२ च ० भू ०

पृष्ठ 19

चरक संहिता हिन्दी भाष्य, पृष्ठ 19 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( १२ ) प्यनर्थकेन न भवितव्यं किं पुनरियता सूत्रेण, इतिवत् तदीयोक्तावप्यास्मा-कीना निश्चितिः, समर्थ्याङ्घ्रिसरसिजरजसां नागेशदीक्षितानां मञ्जूषायां प्रणिगदितिः- आप्तो नामानुभवेन वस्तुतत्त्वस्य कात्स्न्र्त्स्न्येन निश्चयवान् रागादि-वशादपि नान्यथावादी स्यादित्याह भगवान् चर के पतञ्जलिरिति । यस्य खलु महात्मनो विद्वद्वरेण्यस्य शेखरादयो ग्रन्थाः साम्प्रतमध्यापका-नामध्यापनेऽध्येतॄणाचाध्ययने यत्परिमितं काठिन्यमावहन्ति तद्धि विदुषां गोचर व सुतरां वच्मि यद् भगवदाप्तशब्दयोः प्रयोगो यथा दीक्षितैर-कारि तेषामाचार्यचरणानामुद्गृतौ व किल वर्णमात्रस्यापि नैरर्थक्यापत्तिः । सोऽयमायुर्वेद इत्यत्र तच्छब्दस्य पूर्वपरामर्शकृत्कोऽयमिति प्रश्नः समु-जागर्ति, यतो ह्यायुर्वेदशब्दस्य कण्ठरवेण प्रतिपादितत्वात्तच्छब्दस्य चतुर्विध-तद्भेदप्रतिपादनपूर्वकगुरुपारम्पर्यद्योतकत्वम् | तद्यथा चतुर्विधायुषो लक्षणानि— तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः सम-र्थानुगत बलवीर्ययशः पौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियार्थबलसमुदये वर्त्त-मानस्य परमर्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्ट विचारिणः सुखमायुरुच्यते, असुखमतो विपर्ययेण । हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य परीक्ष्य-कारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः सुनियतरागरोषेर्ष्याम दमान वेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्म विदस्तत्परस्य लोक-मिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते, अहितमतो विपर्य-येण । इति चतुर्विधमायुः । किन्त्वायुर्लक्षणप्रतिपादनमन्तरा तद्भेदप्रणिगदनमात्माश्रयत्वमुपैतीत्या-युषो लक्षणं प्रागुदीर्यते । आयु: - पुं ० डी ० जीवितव्याप्यकालः । ' एतीत्यायुः ' अर्थात् प्रत्यहं प्रतिक्षणञ्च यद्धयुच्छ्वासनिःश्वासरूपेण शरीरेऽभ्युपैति तदेवायुः । यावच्छ्वासा हृदि स्थित इति न्यायेन शरीरे प्राणवायोः व्यवस्थितिरेवायुः ।

यथाहि भगवता पतञ्जलिना चरके प्रागादि-शरीरेन्द्रिय सत्त्वात्मसंयोगो धारि जीवितम् ।

नित्यगञ्चानुबन्धश्च पर्यायैरायुरुच्यते ॥

पृष्ठ 20

चरक संहिता हिन्दी भाष्य, पृष्ठ 20 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( १३ ) तत्र शीर्यत इति शरीरं शृ ' ' धातोरौणादिकेरन्प्रत्ययेन शरीरमिति सिद्धयति तच्चेष्टेन्द्रियार्थाश्रयः शरीरमिति गौतमीयन्यायदर्शनम् । इन्द्रियम् —– इन्दतीन्द्रः इदि परमैश्वर्ये धातो रन्प्रत्यये इन्द्रस्तस्माद्धे इयादेशे च ' इन्द्रियम् ' इति हृषीकादिपर्यायवत्पदम् । सत्त्वम्-सतो भावः सत्त्वं गुणो मनश्च । आत्मा - कर्मपुरुषो जीवो वा; - एतेषां संयोग आयुः । अत्र केवलं शरीर-मायुरिति लक्षणे शिलापुत्रस्य शरीरमश्मदारुधात्वादिविनिर्मितपुत्तलिकाद चातिव्याप्तिः तदभावे अर्थादिन्द्रियसत्त्वात्मसंयोग इति लक्षणे लिङ्गशरीरे भूतादिविग्रहे चातिव्याप्तिः इन्द्रियपदाभावे वृक्षादावतिव्याप्तिः; सत्त्वपदाभावे चित्रपटादिविनिर्मित चेष्टावति पुत्तलिकादावतिव्याप्तिः आत्मपदानुपादाने शरीरेन्द्रिय सत्त्वसंयोग इति लक्षणे मृतकशरीरेऽतिव्याप्तिः; आत्मेतिलक्षणे विभौ प्रधानपुरुषे चातिव्याप्तिरसम्भवश्चः इन्द्रियमिति लक्षणेऽसम्भवः; सत्त्व-मिति लक्षणे गुणेऽतिव्याप्तिः धारिमात्रलक्षणेऽधमर्णादावतिव्याप्तिः; धार्यभावे च प्रेतशरीरादावतिव्यातिः जीवितपदानुपादाने मृतकशरीरेऽतिव्याप्तिः; जीवितमितिलक्षणे भूतप्रेतादावतिव्याप्तिः; नित्यग इति लक्षणे क्षणादिकालेऽ-तिव्याप्तिः; अनुबन्धमात्रोपादाने वर्णसमाम्नाये प्रत्याहारयान्त्यवर्णेषु सुप्तिङा-द्यन्त्यवर्णेषु चातिव्याप्तिः । वस्तुतस्तु लक्षणमिदं ग्रन्थकर्त्रा भगवता गोबलीवर्दन्यायेन बुद्धिवैशद्य-चिकीर्षया चाभाणि तत्रेत्थं सन्दिह्यते बुद्धिः - सव्यभिचारोऽर्थादव्याप्त्य-तिव्याप्तिदोषावनुमित्यामेव भवतस्तर्ह्यत्र कीदृशमनुमानस्वरूपम्? पक्षः आयुः साध्यम् स्वेतरप्रतियोगित्वावच्छिन्नम्, हेतुः धार्यादिशब्दैः प्रतिपाद्यमानत्वात्,, दृष्टान्तोऽग्निवदिति । तेनेत्थं सिद्धान्तलक्षणं निर्दुष्टं बोभवीति - शरीरेन्द्रिय सत्त्वात्मसंयोग विशि-ष्टत्वे सति धार्यादिपर्यायशब्दः प्रतिपाद्यमानत्वमायुष्टुम् । वस्तुतस्तु गौतमीयदिशा शरीरात्मसंयोग आयुरित्येव लक्षणं सुवचम् । अथ तस्यैवायुषो यो हि वेदः स खल्वायुर्वेदः । यथाहि— तस्यायुषः पुण्यतमो वेदो वेदविदां मतः । तस्यायुषः इति कथनेन षष्ठीतत्पुरुषो लालसीति, अत्र तच्छब्देन चतु-विभेदग्रहणम्, विद् धातोः करणे घञि वेद इति षष्ठीतत्पुरुषे आयुर्वेद ति । अपरैराचार्यैर्या व्युत्पत्तिः प्रदर्शिता - वेत्ति, विन्दति, विद्यते वाऽनेने-