चरक संहिता हिन्दी भाष्य — पृष्ठ 21–30
चरक संहिता हिन्दी भाष्य · Chaukhamba · पृष्ठ 21–30
पृष्ठ 21
पाठ पढ़ें पाठ छिपाएँ
( १४ ) त्यायुर्वेदः सा न सम्यक्, यतो हि ' सत्सूद्विषद्रुहदुहयुजविदद्भिदच्छिदजिनी-राजामुपसर्गेऽपि विप ' इति किपा वेदविद्धर्मविदितिवदायुर्विदिति स्यान्न-त्वायुर्वेदः । ' वा सरूपोऽस्त्रियामित्यनेन विकल्पोऽप्यसम्भव एव सर्वथा किपोऽभावात्, तत एव वम्येषैवास्माकीनाचार्याणां सरणिः सुष्ठुतरा । यथाह चक्रपाणिः - विद्वातुश्वेह ज्ञानार्थ एवाभिप्रेतः, यद्वक्ष्यति- अर्थे दशमहामूलीये तथायुर्वेदयतीत्यायुर्वेद इति लाभादयस्त्वर्थाः विदेरिह नोक्ता-स्तेषां साक्षादायुर्वेदाजन्यत्वादिति भावः । यदि हि श्रीमत्पतञ्जलि भगवदुदीरितेन पथात्रापि व्युत्पाद्येत तर्हि स तु दोषो निरस्येत । शेषाणां त्रयाणामप्यर्थानां यदि वेदपदसिद्धावेव संयोजनं विध्यात्तर्हि तदीयेन पथैव निर्दोषमापन्नः षष्ठीतत्पुरुषेणाचार्यपथे समुपैष्यति ।
यथाहि-रूपं विज्ञाने विन्ते विदविचारणे ।
विद्यते विदत्तायां लाभे विन्दति विन्दते ॥
अनेन पुरुषो यस्मादायुर्विन्दति वेत्ति च । तेनोभयोराचार्य यो रेकवाक्यता संवृत्ता । पुण्यतमः - अत्र पुण्यशब्देनादृष्टफलिकानां प्रायशः श्रुतिभगवतीनामेव ग्रहणं प्रभविष्यति, आयुर्वेदशास्त्रस्य तु दृष्टादृष्टोभयफलजनकतया पुण्य-तमत्वम्, अथ तस्य पारायणेऽपि पुण्यम् इति महाभाष्येणैहलौकिकं शब्दशास्त्रे शब्दसाधुत्वमशुद्धत्वाभावश्चेतिवदत्र स्वस्थस्य स्थास्थ्यरक्षणमातुरस्य रोगप्रशमनं चैहलौकिकम् पारायणजन्यं च पारलौकिकं स्वर्गापवर्गादीत्यु-पलब्ध्या तमप्प्रत्ययः । वेदः - इति करणे घन्प्रतिपादनेन स्वतन्त्रो वेदशब्दः प्रतिपादितः । तेन तस्यायुषो वेद: ' आयुर्वेद: ' इति समासः समीचीनः वेदविदां मतः इति कथनेनोदाहरणमपि संवृत्तम् । वेदविदामर्थाद्वैद्यानां सम्मतः सिद्धान्त इत्यर्थः, विद्यामधीते वेद वा वैद्यः, एतेन चतुर्दशाष्टदशविद्यानामध्येतृत्वं वैदुष्यञ्च वैद्यस्य द्योतितम् । यन्मनुष्याणामुभयोर्लोकयोर्हितं तद्वक्ष्यते । तस्य चायुर्वेदस्य चतुर्विधजीवानां कृते समुपयोगो वर्वर्ति, यतो हि पाल-काप्य - शालिहोत्राख्या बहवो ग्रन्थाः जाज्वल्यमानप्रभावाः राजन्ति तेषु वैशि-ष्टयेन पुंसामेव कृते उपयोगिता विचकास्ति । यथाहि भगवता प्रतिज्ञातम् —
पृष्ठ 22
पाठ पढ़ें पाठ छिपाएँ
( १५ ) स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतमित्यादि । एतेनोद्देशः प्रवृत्तिचतुष्टयं चाध्येतॄणां द्योतितम् कृत्स्नै रेवाचार्यैः ते चाचार्याः समर्चितचरणारविन्दाः श्री महेश्वरशङ्करब्रह्मेन्द्र भास्करप्रजापत्यश्विनीकुमारा-दयः वरीवृत्यन्तेऽथ च भगवतः पतञ्जलेश्वरकभाष्यं भट्टारजेज्जटादिटीका-टङ्कितमथ भेलादीनां पञ्चतन्त्राणि काश्यप धन्वन्तरिप्रभृतीनां च प्रकाण्ड-पाण्डित्यजुष्टाः प्रचण्डप्रभावाः साम्प्रतमपि समुज्जृम्भमाणाः सर्वेषां शरीरि-णामामयानपहरन्तः दरीदृश्यन्ते । पुरा हि कृते यावन्तः खलु पुरुषा आसन् ते चाखिला एव निरामया निराधयश्चासन्, यथा हि चरके भगवान् पतञ्जलिः । ' प्रागपि चाधर्माते नाशुभोत्पत्तिरन्यतोऽभूत् | आदिकाले दितिसुतस-मौसोऽतिविमलविपुल प्रभावाः व्यपगतभयरागद्वेषमोहलो भक्रोधशोकमान-रोगनिद्रातन्द्राश्रमक्कुमालस्य परिग्रहाश्च पुरुषा बभूवुरमितायुषः कृतयु-स्यादौ ' || २८ || ' भ्रश्यति तु कृतयुगे केषांचिदत्यादानात् ' परिग्रहाल्लोभः प्रादुरासीत् ' ॥ ' ततत्रेतायां लोभादभिद्रोह:, अभिद्रोहादनृतवचनम् " हीयमानगुणपादै-राहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुत परीतानि प्राग्व्याधिभिर्व्वरादि-भिराक्रान्तानि " ॥ ३० ॥
( च.वि. अ. ३ ) यदा हि त्रेतायामामयानामुत्पत्तिः प्रादुरभूत्तदा महर्षिभिरेका महती सभा हिमवतोऽधित्यकायामाहूता, तत्र परमाप्ता दिव्यदृशो महर्षयः समुपेताः । तस्यां च कृत्स्नैरेवैकमत्येनेत्थमेव निरणायि, यत् आमयानां विनाशाय सर्ववेदसारभूत आयुर्वेदो धरिष्यामानेयः प्रचारणीयश्च । तर्हि तस्यानयनाय कस्यान्ति के को नामेतो गच्छेदिति प्रवृत्ते प्रजाभिरक्षणं भूपतेरेवावश्यकं कार्य तथा देवानां च हविषा परिपोषणं यज्ञेरिति शतक्रतोरेव सर्वथाऽधिकृत-मिति सिद्धान्तिते, कः प्रयास्यतीति प्रश्ने जगदुपकारतो महर्षिः भरद्वाज एव प्राक् प्रावोचत्, यदहमेव तस्मिन् कार्ये नियुज्ये, ततो हि शब्दशास्त्रमिव-ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्राय इन्द्रो भरद्वाजाय इति परिपाठ्या तमेव प्रेषयितुं समर्थितवन्तः । यथा पातञ्जले महाभाष्ये प्रागादि भगवता - बृहस्पतिश्च प्रवक्ता इन्द्रश्चा-येता दिव्यं वर्षसहस्रं पारायणं चकार न चान्तं जगाम, एतावता कैवल्येना-
पृष्ठ 23
पाठ पढ़ें पाठ छिपाएँ
( १६ ) युर्वेदस्याश्विनोरेवान्तेवासित्वं विडौजसः सिद्धम् शेषाणां सर्वेषामेव वेदशास्त्रा-: णामध्ययनं बृहस्पतेः सकाशादेवेति सर्वतन्त्रसिद्धान्तः । ततो हि भगवान् भरद्वाजोऽमरावत्यां धर्मसभायामुपस्थायामरेश्वरं जया-G शीर्भिरभिनन्द्य आयुर्वेद जिघृक्षां विनिवेदयामास । सोऽपि परमोत्कस्वान्ते-नोपदिदेश, ततश्च कार्त्स्न्येनाधिगम्य यथोक्तमभिगृहीतं चर्षिभ्यो विन्यवेदयत् । साम्प्रतं को नामायं भरद्वाज इति जिज्ञासायां यथाप्राप्तमुद्गिरामि-सुमन्तश्चानयो वीरो दुष्यन्ताद् भरतोऽभवत् । शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः ॥
ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः ।
संक्रामितो भरद्वाजः क्रतुभिर्वितथोऽभवत् ॥
( अ. पु. अ. २७८ )
चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः ।
शकुन्तलायां भरतो यस्य नाम्ना तु भारतः ॥
बृहस्पतेरङ्गिरसः पुत्रेो विप्रो महामुनिः ।
अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्विभुः ॥
पूर्वं तु तिथे तस्य कृते वै पुत्रजन्मनि ।
ततोऽथ वितथो नाम भरद्वाजात् सुतोऽभवत् ॥
ततोऽथ वितथे जाते भरतस्तु दिवं ययौ । वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ । ( ब्र. पु. अ. १३ श्लो. ५७-६१ तथा ह. पु. पर्व १, अ. ३२, श्लो. १० तथा १४-१८ ) इत्येतेषां पुराणानां प्रामाण्याद् बृहस्पते रेवाङ्गजो भरद्वाजः, तस्य चाङ्गजो वितथ इति सिद्धयति । भरद्वाजस्याध्ययनाध्यापनकालस्तन्त्र निर्माणकालश्च क आसीदिति विचारे प्रवृत्ते चत्वारो युगाः शास्त्रप्रणिगदिताः वर्तन्ते तेषु कृतयुग एव भगवतो भरद्वाजस्याविर्भावोऽथ च पौत्रोत्पत्त्यनन्तरं नाकप्रयाणमवाप्यते । एतन्मध्य एवाध्ययनाध्यापनग्रन्थनिर्माणादिकं चातनोदिति लभ्यते । तस्यैवायुर्वेदस्य विज्ञानेन भरद्वाजादयः जाबाल्यादयश्च सर्वेपि महर्षयः चिरायुषः संवृत्ताः । कृतयुगादारभ्य द्वापरान्तं यावत्तस्य ( भरद्वाजस्य ) स्थितिरवाप्यते । तत एव वच्यब्जजेश्वरक्षणादारभ्याद्यावधि स खल्वायुर्वेद आतीदतत्य +
पृष्ठ 24
पाठ पढ़ें पाठ छिपाएँ
( १७ ) तिष्यति च । यावदर्कान्जधरित्रीधराधराब्धिमुखा त्रिलोकी स्थास्यति तावत्स्थि-तिक्षणमवलोक्यैवाचार्यैरगादि— यथाम्नायाक्षरसमाम्नाय आयुर्वेदः शाश्वत इत्यथापौरुषेयत्वं च ब्रह्मेशयोः स्मृत्योपदेशकर्तृत्वान्न च निर्माय विश्वसृडप्युपदिदेश - इत्यादिप्रमाणांत् । विश्वसृज एवाङ्गजोऽत्रिरासीत्तस्यैव च तनुजन्मा पुनर्वसुरात्रेयोऽप्यबी-भवत् न चान्तेवास्यासीत्, यथा-इहा त्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः । चूर्णप्रदेहान् विविधामयन्नानारग्वधीये जगतो हितार्थम् ॥ इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना । ( च ० सू ० अ ० ३।३० ) ( च ० सू ० अ ० ३०/५२ )
भिषग्वरिष्ट सुरसद्धजुष्टं मुनीन्द्रमत्र्यात्मजमग्निवेशः ।
महागदस्य श्वयथोर्यथावत् प्रकोपरूपप्रशमानपृच्छत् ॥
( च ० चि ० अ ० १२/३ ) ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः । ( च ० चि ० अ ० २२/३ ) भगवन्तमुदारसत्त्वधी श्रुतिविज्ञानसमृद्धनत्रिजम् । ( च ० सि ० अ ० ११।३ ) प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम् । सहस्रे द्वे निजगादात्रिनन्दनः ( च ० सि ० अ ० ११ १० ) ( वा ० शा ० ११।१० ) चन्द्रभागीत्युपनाम पातञ्जले चरकभाष्ये दरीदृश्यते । यथा हि-स्नेहास्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा | यथाप्रश्नं भगवता व्याहृतं चन्द्रभागिना ॥
गान्धारदेशे राजर्षिर्नग्नजित् स्वर्ण ( ग ) मार्गदः ।
सङ्गृह्य पादौ पप्रच्छ चन्द्रभागं पुनर्वसुम् ॥
सुश्रोता नाम मेधावी चन्द्रभागमुवाच ह । ( भेलसंहिता ) शुभ्रात्रेय एव पुनर्वसुरासीन्न तु कृष्णभिक्षूभौ । एतस्यैव महर्षेरग्निवेशादयः षट् शिष्या आसन् निश्शालीन यायावरत्वान्न कश्चिदपि स्थानविशेषोऽस्य तन्त्रे समवाप्यते ।
पृष्ठ 25
पाठ पढ़ें पाठ छिपाएँ
( १८ ) तस्य यायावरत्वे प्रमाणानीमानि-वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः । सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे । ( च ० सू ० २६/६ ) तप्यमानं तपस्तीव्रम् ( च ० चि ० १३ ३ ) कैलाशे किन्नराकीर्णे बहुप्रस्रवणौषधे । ( च ० चि ०२१।३ ) जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे धर्ममासे गङ्गातीरे वन-विचार मनुविचरन् शिष्यमग्निवेशमत्रवीत् | विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम् । ( च ० वि ० ३३३ ) ( च ० चि ० ४ | ३ ) ( च ० चि ०१६ / ३ ) ऋषिगणपरिवृतमुत्तरे हिमवतः पार्श्वे विनयादुपेत्य । पुण्ये हिमवतः पार्श्वे सुरसिद्धर्षिसेविते । बह्वीषु परिषत्सु संवृत्तजल्पस्य निर्णेतृत्वमप्यवाप्यते— भगवन्तमुदारसत्त्वधी श्रुतिविज्ञानसमृद्धमत्रिजम् 1 फलवर्त्तिवरत्वनिश्चये सविवादा मुनयोऽभ्युपागमन् ॥ भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः ॥ ( च ० सि ० ११ अ ० ) आत्रेयसंहिता षट्संहितानाम्प्रागेतेनैव भगवता सम्पादिता, सा हि लुप्त-या वरीवर्त्ति हारीत संहितायां तन्निर्मिताः पञ्चसंहिता आसन् ।
यथा-चतुर्विंशसहस्रैस्तु मयोक्ता चाद्य संहिता ।
तथा द्वादशसाहस्री द्वितीया संहिता मता ॥
तृतीया पट्सहस्रैस्तु चतुर्थी त्रिभिरेव च ।
पञ्चमी दिक पचशतैः प्रोक्ताः पञ्चात्र संहिताः ॥
तस्यैवात्रेयपुनर्वसोः षशिष्याः समभवन्—
अग्निवेशश्च भेलश्च जतूकर्णः पराशरः ।
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥
पृष्ठ 26
पाठ पढ़ें पाठ छिपाएँ
( १६ ) तेषु चाग्निवेशो ज्वलज्ज्वलनसन्निभो दर्भायोपलब्धिः स्वसतीर्थ्येषु प्राधान्य-II मुद्वहन् विशुभ्रकीर्त्तिः समभवत् । तेनैवायुर्वेदसूत्राणि प्रणीतानि यस्योपरि भगवान् पतञ्जलिश्चरकभाष्यं चकार । यदा हि त्रेतायामातङ्कुर्जनाः समतपन् तथा ततो हि ग्लायमाना म्लायमानाश्च समसीदन् तदैवेमे सुमनसः शुचा जगत्परित्राणैकव्रताः स्वस्वसंहिताः प्रणीय प्रचारयन्तः गोपाया कुस्ताश्च संहितास्तत्क्षणाद्यावधि तोतुभ्यमानानामामयान् विनाशयन्ति । तस्याग्निवेशतन्त्रस्य भाष्यं चरकाभिघं भगवता निरलेखि । शब्दशास्त्रे च पाणिनीयसूत्रकात्यायनवार्त्तिकयोरायुर्वेदस्य ये ये विषयाः समुल्लिखितास्तेषामुपर्यपि भाष्यकृता यानि यानि वाक्यानि समुदीरितानि तेभ्यस्तथा महाराजस्य समुद्रस्य कृष्णचरितामृते या चर्चावचारिता पुरस्तादुदीयते । यथा-पतञ्जलिर्मुनिवरो नमस्यो विदुषां सदा ॥
कृतं व्याकरणं येन भाष्यं वचनशोधनम् ।
धर्मावियुक्ताश्चरके योगा रोगहराः कृताः ॥
महानन्दमयं काव्यं योगदर्शनमद्भुतम् ।
योगव्याख्यानभूतं तद्रचितं चिन्तदोषहम् ॥
ततोऽपि शेषावतारपतञ्जले रेवोद्गीतिरास्ते । तच भाष्यं यावत्परिशिष्टमासी-त्तद्दृढबलेनापूरितम् । तथाहि--तच्छङ्करं भूतपतिं सम्प्रसाद्य समापयत् । अखण्डार्थं दृढबलो जातः पञ्चनदे पुरे ॥ कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषोभ्यशिलोच्चयम् । सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत् इदमन्यूनशब्दार्थ तन्त्रदोषविवर्जितम् । षड्विंशता विचित्राभिर्भूषितं तन्त्रयुक्तिभिः ॥ ' तस्य च बह्वचष्टीकाः बहुभिर्निर्मितास्तद्यथा-भट्टारजेज्जटगदाधरवाप्यचन्द्र-श्रीचक्रपाणिबकुलेश्वरसेनभोजैः । ईशानकार्त्तिकसुकीरसुधीर वैद्यै-मैत्रेय माघवमुखैर्लिखितं विचिन्त्य ॥ इत्यादि । तासु च चक्रपाणेरधुनापि प्रमिलति । नूनमनया सर्वेषां विदुषां भिषजां छात्राणां च परमोपकृतिः ।
पृष्ठ 27
पाठ पढ़ें पाठ छिपाएँ
( २० ' ) इदानीं हिन्दीटीका प्रवाहमये जगति प ० श्रीकाशीनाथ- गोरक्षनाथाभ्यां लिखितेयं वैद्यानां छात्राणां चोपकर्त्री भविष्यतीत्याशास्ते । काशीनाथपदाभिधेन भिषजा गोरक्षनाथेन च, व्याख्या मातृगिरा कृता तु चरके गूढार्थविज्ञापिका । छात्राणां जटिलस्थलार्थनिखिलस्वान्त प्रसादङ्करी, भूयाच्छ्रीगिरिजेश्वराङ्घ्रिजलजादभ्यर्थये सन्ततम् ॥ काश्यां श्रीचतुराननेशसविधे सत्स्वर्णदीप्रोल्लसत्-प्राच्यां धातृदशाश्वमेधविलसद्गोदावरीसङ्गमात् । मध्ये दक्षिणदिक्षु पुण्यफलदागस्त्याश्रमीयाश्रम आयुर्वेद चिकित्सको वितनुते श्रीसत्यनारायणः ॥ ॥ इति शम् ॥ सत्यनारायशाः शा.
पृष्ठ 28
पाठ पढ़ें पाठ छिपाएँ
सम्पादकीय ' आयुर्वेद ' अत्यन्त प्राचीन शास्त्र है । वस्तुतः प्राचीन आचार्यों ने इसे ' शाश्वत ' कहा है और उसके लिए तीन अकाट्य युक्तियाँ दी हैं - ' सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते, अनादित्वात्, स्वभावसंसिद्धलक्षणत्वात् भावस्वभावनित्यत्वात् । ' ( च. सू. अ. ३० ) अर्थात् आयु और उसका वेद ( ज्ञान ) अनादि होने से आयुर्वेद अनादि है क्योंकि आत्मा के समान सृष्टि भी अनादि है । ' आदिर्नास्त्यात्मनः क्षेत्र-पारम्पर्यमनादिकम् ' ( च. शा. अ. १ ) । सृष्टि आरम्भ से ही जड़ और चेतन अथवा निरिन्द्रिय और सेन्द्रिय, दो प्रकार की रही है । इन दोनों का ही सम्बन्ध काल या समय से रहता है किन्तु चेतन पदार्थ में जब तक चेतना का अनुबन्ध रहता है उस अवधि को आयु कहते हैं । यथा ---शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम् । नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते ॥ ( च. सू. १ ) इस आयु सम्बन्धी प्रत्येक ज्ञेयविषयक ज्ञान ( वेद ) को आयुर्वेद कहते हैं । यथा-हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् । मानञ्च तच्च यत्रोक्तमायुर्वेदः स उच्यते ॥ ( च. सू. १ ) मानव या प्राणिमात्र सृष्टि के आरम्भ से ही अपने हित या अहित का ज्ञान रखता आया है; अपनी आयु की वृद्धि और हानि करने वाली वस्तुओं का ज्ञान भी रखता आया है और उत्तरोत्तर नवीन नवीन उपायों का अवलम्बन या अनुसन्धान करता आया है । इस प्रकार आयु ( जीवन ) और वेद ( ज्ञान ) दोनों सदैव रहे हैं और रहेंगे । अतः आयुर्वेद नित्य है । आयु के ऊपर हित या अहित प्रभाव डालने वाले संसार के जितने भी पदार्थ हैं उनके स्वभाव या गुण सदैव वही रहे हैं जो आज हैं और भविष्य में भी रहेंगे । जैसे अग्नि में दाहकत्व सदैव रहा है, है और रहेगा । उसके घातक प्रभाव से बचने और हितकारक प्रभाव के उपयोग के लिए प्राणी सदैव उद्यत रहा है, है और रहेगा । इस प्रकार आयुर्वेद की नित्यता प्रमाणित होते हुए भी उसके सिद्धान्तों का सुव्यवस्थित संकलन कर ग्रन्थ रूप में निबद्ध करना बाद में ही प्रारम्भ हुआ । सभी प्राणियों को सब विषयों का अनुभव नहीं होता । समय - समय पर जिन विशिष्ट व्यक्तियों को जिन वस्तुओं का अनुभव हुआ उसके अनुसार बार - बार परीक्षा कर उन्होंने एक सिद्धान्त स्थिर कर लिया । इन्हीं सिद्धान्तों को मन्त्र और सिद्धान्तकर्ता को मन्त्र
पृष्ठ 29
पाठ पढ़ें पाठ छिपाएँ
[ २ ] द्रष्टा या ऋषि कहा गया है । इस प्रकार एक के बाद दूसरे सिद्धान्त सामने आने लगे, उनका उपदेश या प्रचार समाज में होने लगा और इन सिद्धान्तों के संकलनात्मक ग्रन्थों का निर्माण होने लगा । इसी आधार पर आयुर्वेद की भी उत्पत्ति मानना अनुचित नहीं है | भगवान् चरक ने भी कहा है ' नायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते, अन्यत्रावबोधोपदेशाभ्याम्, एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके ' ( च. सू. ३० ) । पुरातत्ववेत्ताओं के अनुसार संसार की प्राचीनतम पुस्तक ऋग्वेद है । विभिन्न विद्वानों ने इसका निर्माणकाल ईसा के ३ हजार से ५० हजार वर्ष पूर्व तक का माना है । इस संहिता में भी आयुर्वेद के अति महत्व के सिद्धान्त मत्र - तत्र विकीर्ण हैं । अनेक ऐसे विषयों का उल्लेख है जिनके सम्बन्ध में आज के वैज्ञानिक भी अभीतक सफल नहीं हुए हैं । जैसे यज्ञ के कटे हुए सिर को जोड़ना, विश्पला की कटी टांग के स्थान पर लोहे की टांग लगाना आदि । यजुर्वेद, सामवेद और अथर्ववेद में भी इसी प्रकार आयुर्वेदिक विषयों का उल्लेख मिलता है । अथर्ववेद में शारीर शास्त्र, ओषधि एवं चिकित्सा के विविध अंगों और विधियों का वर्णन प्रचुरता से मिलता है । इसी -लिए आयुर्वेद अथर्ववेद का ही उपवेद माना जाता है । वेदों के बाद ब्राह्मण और उपनिषद् ग्रन्थों में भी इनका क्रमशः विकसित और विस्तृत विवेचन मिलता है । वेदों में अन्य शास्त्रों के साथ अध्यात्म शास्त्र का विवेचन प्रचुरता से है । आयु-वैदिक विषय उन्हीं में बिखरे पड़े हैं । आयुर्वेद - सम्बन्धी सिद्धान्तों का श्रृंखलाबद्ध और सुव्यवस्थित संकलन वेदों में न होने से बाद के ऋषियों ने केवल आयुर्वेद-सम्बन्धी विषयों का क्रमबद्ध संकलन कर अनेक संहिताओं का निर्माण प्रारम्भ किया तथा सुविधा की दृष्टि से आयुर्वेद को कायचिकित्सा, शस्यतन्त्र, शालाक्यतन्त्र, कौमारभृत्य, भूतविद्या, विषतन्त्र, रसायन और वाजीकरण इन आठ भागों में विभक्त कर दिया | सम्पूर्ण आयुर्वेद एवं उसके विभिन्न अंगों पर अनेक भाचार्यों ने विभिन्न संहिताओं की रचना की । इनकी संख्या सैकड़ों में थी । किन्तु दुर्भाग्य से आज अग्निवेशकृत और चरक तथा दृढबल द्वारा प्रतिसंस्कृत चरकसंहिता और नागार्जुन-प्रतिसंस्कृत सुश्रुतसंहिता ( पूर्ण रूप में ) तथा वृद्धजीवक प्रतिसंस्कृत काश्यपसंहिता और भेलसंहिता ( खण्डित रूप में ) ही उपलब्ध हैं । हारीतसंहिता नामक एक अन्य संहिता भी उपलब्ध है किन्तु इसकी प्राचीनता के सम्बन्ध में विद्वानों को सन्देह है । सुश्रुतसंहिता शल्यतन्त्रप्रधान और चरकसंहिता कायचिकित्साप्रधान प्रन्थ हैं । इनकी आज तक की उपलब्धि ही इस बात का स्पष्ट प्रमाण है कि ये अपने - अपने विषय के सर्वोत्तम ग्रन्थ हैं और इसी कारण इनका अत्यधिक प्रचार हुआ । इन दोनों ग्रन्थों पर अनेक टीकाएँ लिखी गयीं । इन्हीं प्रन्थों के आधार पर संकलित सैकड़ों संग्रहग्रन्थों का निर्माण ईसा के बाद हुआ । इन टीकाओं और संग्रह ग्रन्थों में पूर्वोक अनेक संहिताओं और उनके रचयिता आचार्यों के नाम उल्लिखित हैं और
पृष्ठ 30
पाठ पढ़ें पाठ छिपाएँ
[ ३ ] उनके उद्धरण भी मिलते हैं । इससे यह प्रतीत होता है कि इनमें से अनेक ग्रन्थ आज से लगभग ५०० वर्ष पूर्व तक भी उपलब्ध थे । पूर्वोक्त वर्णनों से यह स्पष्ट प्रतीत होता है कि लगभग १००० वर्ष पूर्व तक आयुर्वेद का उत्तरोत्तर विकास होता रहा है किन्तु पारस्परिक कलह, विदेशियों के आक्रमण, साम्प्रदायिक उन्माद आदि अनेक कारणों से भारतीय आयुर्वेद की प्रगति रुक ही नहीं गयी, इसका बहुत दास भी हुआ । एक समय यही समस्त संसार की चिकित्सा पद्धतियों का जनक था और पूर्वोक्त निरुक्ति के अनुसार आयु ( जीवन ) सम्बन्धी सभी ज्ञान इसके विषय थे । किन्तु आज यह ' प्राचीन भारतीय चिकित्सा-पद्धति ' के संकुचित अर्थ में रूद माना जाता है । इतना ही नहीं, अपने समस्त अंगों को खोकर केवल कायचिकित्सा के सीमित क्षेत्र में कबन्धवत् रह गया है । हमें यह कहने में संकोच नहीं होता कि यदि इसकी पूर्ववत् उत्तरोत्तर प्रगति होती रहती तो आज के तथाकथित नवीन और चामत्कारिक आविष्कार आयुर्वेदज्ञों द्वारा होते और ये सभी आयुर्वेद के अपने अंग होते । वस्तुतः अनेक दिशाओं में तो प्राचीन आयुर्वेद की इतनी प्रगति हो चुकी थी कि वहाँ तक आज की अति विकसित पद्धतियाँ अभी तक नहीं पहुँच पायी हैं । किन्तु आयुर्वेद की ही सन्तानें आज विदेशों में विकसित होकर अपने पूर्वज से नाता तोड़कर अपने को पृथक मानती हैं और आयुर्वेद का उपहास करती हैं । फिर भी हमें यह कहने में संकोच नहीं चिकित्सा विज्ञान के मौलिक सिद्धान्त भाज भी वही हैं जिन्हें प्राचीन आचार्यों ने बताया था, उनकी प्रयोगविधि और साधनों में भले ही अन्तर आ गए हैं । हमारा यह कथन उन्मत्त- प्रलाप नहीं है । इस बात के समर्थन में अनेक अर्वाचीन वैज्ञानिकों एवं मनीषियों के वचन भी उद्घृत किए जा सकते हैं और निष्पक्ष भाव से गम्भीर मनन के बाद हर एक व्यक्ति मेरे इस कथन का समर्थन करेगा । किन्तु इसके लिए प्राचीन संहिताओं का अर्वाचीन शास्त्र से तुलनात्मक गम्भीर मनन आवश्यक होगा । मूल ग्रन्थ के सम्बन्ध में जैसा कि पूर्व वर्णन में कहा गया है आज उपलब्ध आयुर्वेदीय संहिताओं में ' चरकसंहिता ' सर्वश्रेष्ठ ग्रन्थ है, इसमें चिकित्सा विज्ञान के मौलिक तत्वों का जितना उत्तम विवेचन किया गया है उतना अन्यत्र नहीं है । इसी से प्राचीन विद्वानों ने भी कहा है- ' चरकस्तु चिकित्सिते ' । इसके अतिरिक्त इस ग्रंथ में सूत्र रूप में सांख्य, योग, न्याय, वैशेषिक, वेदान्त, मीमांसा इन आस्तिक दर्शनों के साथ चार्वाक आदि नास्तिक दर्शनों और परोक्ष रूप से व्याकरणादि वेदाङ्गों का भी संकलन इस सुन्दरता से किया गया है कि केवल इस एक ग्रंथ के विधिवत् अध्ययन से अनेक विषयों से परिचय ही नहीं, उनमें प्रौढि भी प्राप्त की जा सकती