हठ योग प्रदीपिका — पृष्ठ 201–210

हठ योग प्रदीपिका · Khemraj Krishna Das · पृष्ठ 201–210

पृष्ठ 201

हठ योग प्रदीपिका, पृष्ठ 201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] - ( ) ४. संस्कृतटीका भाषाटीकासमेता । १ ९ १ काले अमरोली वज्रोली सहजोली च पूर्वोक्ताः प्रजायंते नाजितप्रा- णस्य न चाजितचित्तस्य सिद्धयंतीति भावः ॥ १४ ॥

भाषार्थ-पूर्वोक्त अमरोली आदि मुद्रा समाधिके सिद्ध होनेपरही सिद्ध हो जाती है इससे समाधिनिरूपणके अनंतर समाधिके सिद्ध होनेपर उनकीभी •सिद्धिका वर्णन करते हैं कि, जब अंतःकरणरूप चित्त ध्यान करने योग्य वस्तुके आकारवृत्ति प्रवाहको प्राप्त होजाता है अर्थात् ब्रह्माकार होजाता है और प्राण- चायु सुषुम्नामें प्रविष्ट होजाता है अर्थात् इसप्रकार चित्तकी समता होनेपर उसकालमें अमरोली, वज्रोढी, सहजोली ये पूर्वोक्त मुद्रा भलीप्रकार होजाती हैं और जिसने प्राण और चित्तको नहीं जीता उसको सिद्ध नहीं होती हैं ॥ १४ ॥

- ज्ञानं कुतो मनसि संभवतीह ताव- स्प्राणोऽपि जीवति मनो म्रियते न यावत् ॥ प्राणो मनो द्वयमिदं विलयं नयेद्यो मोक्षं स गच्छति नरो न कथंचिदन्यः ॥ १५ ॥

हाभ्यासं विना ज्ञानं मोक्षश्च न सिद्ध्यतीत्याह -ज्ञानमिति । यावत्प्राणो जीवाते । अपिशब्दादिद्रियाणि जीवंति न तु त्रियंते । यावन्मनो न म्रियते किंतु जीवत्येव । इडापिंगलाभ्यां वहनं प्राणस्य जीवनं स्वस्वविषयग्रहणमिंद्रियाणां जीवनं नानाविषयाकारवृत्त्युत्पा- दनं मनसो जीवनं तत्तद्भावतत्तन्मरणमत्र विवक्षितम् । ननु स्वरूप- तस्तेषां नाशस्तावन्मनस्यंतः करणे ज्ञानमात्मापरोक्षानुभवः कुतः संभवति न । कर्तापि प्राणेंद्रियमनोवृत्तीनां ज्ञानप्रतिबंधकत्वादिति भावः । प्राणो मनः इदं द्वयं यो योगी विलयं नाशं नयेत्स मोक्षमा- त्यंतिक स्वरूपावस्थानलक्षणं गच्छति प्राप्नोति । ब्रह्मरंध्रे निर्व्यापार- स्थितिः प्राणस्य लयः । ध्येयाकारावेशात् । विषयांतरेणापारेण मनसो लयोऽन्यः । अलीनप्राणोऽलीनमनाश्च कथंचिदुपायशतेनापि न मोक्षं प्राप्नोतीत्यर्थः । तदुक्तं योगबीजे-'नानाविधर्विचारस्तु न

पृष्ठ 202

हठ योग प्रदीपिका, पृष्ठ 202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( ) | [ १ ९ २ हठयोगप्रदीपिका उपदेशः साध्यं जायते मनः । तस्मात्तस्य जयः प्रायः प्राणस्य जय एव हि' इति । नानामार्गैः सुखदुःखप्रायं कैवल्यं परमं पदं 'सिद्धमार्गेण लभ्येत नान्यथा शिवभाषितम्' इति च । सिद्धमार्गों योगमार्गः । एतेन योगं विना ज्ञानं मोक्षश्च न सिद्ध्यतीति सिद्धम् । श्रुतिस्मृती-तिहासपुराणादिषु चेदं प्रसिद्धम् । तथाहि अथ 'तद्दर्शनाभ्युपायों योग' इति तद्दर्शनमात्मदर्शनम् । 'अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोक जहाति' इति । 'श्रद्धाभक्तिध्यानयोगादवेद' इति यदा पंचावतिष्ठते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ॥ तां योगमिति मन्यते स्थिरामिंद्रियधारणाम् । अप्रमत्त- स्तदा भवति' इति । 'यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दयोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ब्रह्मणे त्वा महस ओमित्यात्मानं युंजीतेति त्रिरुन्नतः स्थाप्य समशरीरः हृदींद्रियाणि मनसा सन्निवेश्य ब्रह्माद्वयेन प्रतरेत विद्वान् स्रोतास सर्वाणि भयावहानि' इति । 'ओमित्येवं ध्यायथ आत्मानम्' इत्याद्याः श्रुतयः ॥ यतिधर्मप्रकरणे मनुः-'भूतभाव्यान- बेक्षेत योगेन परमात्मनः । देहद्वयं विहायाशु मुक्तो भवति बंध- नात् ॥ ' याज्ञवल्क्यस्मृती -' इज्याचारदमाहिंसादानस्वाध्यायकर्म- णाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ ' महर्षिमातंग:- 'अग्निष्टोमादिकान् सर्वान् विहाय द्विजसत्तमः । योगाभ्यासरतः शांतः परं ब्रह्माधिगच्छति ॥ ब्राह्मणक्षत्रियवैशां स्त्री शूद्राणां च पावनम् । शांतये कर्मणामन्यद्योगान्नास्ति विमुक्तये ॥ ' दक्षस्मृतौं

व्यतिरेकमुखेनोक्तम्- 'स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्रीसुखं यथा ।

अयोगी नैव जानाति जात्यंधो हि यथा वटम्' इत्याद्याः स्मृतयः ॥

महाभारते योगमार्गे व्यास: -'अपि वर्गावकृष्टस्तु नारी वा धर्मकां क्षिणी । तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ यदि वा सर्व- धर्मज्ञो यदि वाप्यकृती पुमान् । यदि वा धार्मिकः श्रेष्ठो यदि वा पापकृत्तमः ॥ यदि वा पुरुषव्याघ्रो यदि वा लैव्यधारकः । नरः-

पृष्ठ 203

हठ योग प्रदीपिका, पृष्ठ 203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] - ( ) ४. संस्कृतटीका भाषाटीकासमेता । १ ९ ३ सेव्यं महादुःखं जरामरणसागरम् ॥ अपि जिज्ञासमानोऽपि शब्दब्रह्मा- तिवर्तते ॥ ' इति ॥ भगवद्गीतायाम्-'युंजन्नेवं सदात्मानं योगी निय- तमानसः । शांतिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ यत्सांख्यैः प्राप्यते स्थानम्' इत्यादि च ॥ आदित्यपुराणे - 'योगात्संजायते ज्ञानं योगो मय्येकचित्तता ॥ ' स्कंदपुराणे-आत्मज्ञानेन मुक्तिः स्यात्तच्च योगा नहि । स च योगश्चिरं कालमभ्यासादेव सिद्धयति ॥ कूर्मपुराणे शिववाक्यम्-'अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् । येनात्मानं प्रपश्यति भानुमंतमिवेश्वरम् | योगाग्निर्दहति क्षिप्रमशेषं पापपंजरम् ॥ प्रसन्नं जायते ज्ञानं ज्ञानान्निर्वाणमृच्छति ॥ ' गरुडपु- राणे-'तथा यतेत मतिमान्यथा स्यान्निर्वृतिः परा । योगेन लभ्यते सा तु न चान्येन तु केनचित् ॥ भवतापेन तप्तानां योगो हि परमौष- धम् । परावरप्रसक्ता धीर्यस्य निर्वेदसंभवा ॥ स च योगाग्निना दग्ध-समस्तक्लेशसंचयः । निर्वाणं परमं नित्यं प्राप्नोत्येव न संशयः ॥ संप्राप्तयोगसिद्धिस्तु पूर्णो यस्त्वात्मदर्शनात् । न किंचिद्दश्यते कार्य तेनैव सकलं कृतम् ॥ आत्मारामः सदा पूर्णः सुखमात्यंतिकं गतः । अतस्तस्यापि निर्वेदः परानंदमयस्य च ॥ तपसा भावितात्मानो

योगिनः संयतेंद्रियाः । प्रतरंति महात्मानो योगेनैव महार्णवम् ॥

विष्णुधर्मेषु -' यच्छ्रेयः सर्वभूतानां स्त्रीणामप्युपकारकम् । अपि कीट-पतंगानां तन्नः श्रेयः परं वद ॥ इत्युक्तः कपिलः पूर्व देवैर्देवर्षिभि स्तथा । योग एव परं श्रेयस्तेषामित्युक्तवान् पुरा ॥ ' वासिष्ठे-'दुःसहा राम संसारविषवेगविसूचिका । योगगारुडमंत्रेण पावनेनोपशा म्यति ॥ ' ननु तत्त्वमस्यादिवाक्यैरप्यपरोक्षप्रमाणं भवतीति किमर्थम- तिश्रमसाध्ये योगे प्रयासः कार्यः । न च वाक्यजन्यज्ञानस्यापरोक्षत्वे प्रमाणासंभव इति वाच्यम् । तत्त्वमस्यादिवाक्यजन्यं ज्ञानमपरोक्षम् । अपरोक्षविषयकत्वात् । चाक्षुषघटादिप्रत्यक्षवदित्यनुमानस्य प्रमाण-त्वात् । न च विषयगतापरोक्षत्वस्य नीरूपत्वाद्धेतुत्वसिद्धिरिति वाच्यम् ॥ अज्ञानविषयचित्ततत्तादात्म्यापन्नत्वान्यतररूपस्य तस्य सुनिरूपत्वात् । १३

पृष्ठ 204

हठ योग प्रदीपिका, पृष्ठ 204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( ) [ १९ ४ हठयोगप्रदीपिका । उपदेशः यथा हि घटादौ चक्षुःसन्निकर्षेणांतः करणवृत्तिदशायां तदधिष्ठानचैत-न्याज्ञाननिवृत्ती तचैतन्यस्याज्ञानविषयता तटस्याज्ञानविषयचैतन्य-तादात्म्यापन्नत्वं चापरोक्षत्वम् । तथा तत्त्वमस्यादिवाक्येन शुद्धचैत-न्याकारांतःकरणवृत्त्युत्थापने सति तदज्ञानस्य निवृत्तत्वे नैव तत्त्वस्या-ज्ञानविषयत्वाच्चैतन्यस्यापरोक्षत्वमिति न हेत्वसिद्धिः । न चामयोज-कत्वं ज्ञानगम्यत्वापरोक्षत्वं प्रत्यक्षपरोक्षविषयकत्वेन प्रयोजकत्वात् । नत्विन्द्रियजन्यत्वं मनस इंद्रियत्वाभावेन सुखादिपरत्वे व्यभिचारात् । अथवाभिव्यक्तचैतन्याभिन्नतया भासमानत्वं विषयस्यापरोक्षत्वम् । अभिव्यक्तत्वं च निवृत्त्यावरणकत्वं परोक्षवृत्तिस्थले वावरणनिवृत्त्यभा- बन्नातिव्याप्तिः । सर्पादिभ्रमजनकदोषवतस्तु नायं सर्पः किंतु रज्जू- रिति वाक्येन जायमाना वृत्तिस्तु नावरणं निवर्तयतीति तत्र परोक्ष एव विषयः । वेदांतवाक्यजन्यं च ज्ञानमावरणनिवर्तकत्वादपरोक्षमेव तन्मननादेः पूर्वमुत्पन्नम् । ज्ञाननिवर्तकप्रमाणासंभावनादिदोषसामा- ज्याभावविशिष्टस्यैव तस्याज्ञाननिवर्तकत्वात् । किंच 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुतिप्रतिपन्नमुपनिषन्मात्रागम्यत्वं योगगम्यत्वे- नोपपन्नं स्यात् । तस्मात्तत्त्वमस्यादिवाक्यादेवापरोक्षमिति चेन्न । अनु- मानस्याप्रयोजकत्वात् । न च प्रत्यक्षं प्रति निरुक्ताक्षसामान्यं प्रती- द्वियत्वेन कारणतया तज्जन्यत्वस्यैव प्रयोजकत्वान्नित्यानित्यसाधारण- प्रत्यक्षत्वे तु न किंचित्प्रयोजकत्वमिति । तन्मते तु प्रत्यक्षविशेषे इंद्रियं कारणं तद्विशेषे च शब्दविशेष इत्येवं कार्यकारणभावद्वयं स्यात् । न च मनसोऽनिंद्रियत्वं मनस इंद्रियत्वे बाधकाभावादिद्रि-याणां मनो नाथ इति मनुष्यमिवोद्दिश्य मनुष्याणामयं राजेत्यादिव- दिद्रियेष्वेव किंचिदुत्कर्षं ब्रवीति । न तु तस्याप्यनिंद्रियत्वं तत्त्वं च षट्स्वखंडोपाधिविशेष एव । अत एव 'कर्मेंद्रियं तु पाखादि मनो- नेत्रादि धींद्रियम्' इति प्रत्यक्षं स्यादेंद्रियकमप्रत्यक्षमतींद्रियम्' इति च शक्तिप्रमाणभूतकोशेऽपींद्रियाप्रमाणकज्ञानस्याप्रत्यक्षत्वं वदन् मनस इंद्रियत्वज्ञापकत्वं संगच्छते । 'इंद्रियाणि दशैकं च' इति गीताव-

पृष्ठ 205

हठ योग प्रदीपिका, पृष्ठ 205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] - ( ) ४. संस्कृतटीका भाषाटीकासमेता । १ ९ ५ चनं मनस इंद्रियत्वे प्रमाणम् । किंच तत्त्वमस्यादिवाक्यजन्यं ज्ञानं शाब्दम् । शब्दजन्यत्वाद् 'यजेत' इत्यादिवाक्यजन्य- ज्ञानवदित्यनेनापरोक्षविरोधिशाब्दत्वसाधकेन सत्प्रतिपक्षः । न चेदमप्रयोजकम् । शाब्दं प्रत्यव शब्दस्य जनकत्वेन लाघवमू- लकानुकूलतर्कात् । त्वन्मते तु शब्दादपि प्रत्यक्षस्वीकारेण कार्य-कारणभावद्वयकल्पने गौरवम् । अपि च मनननिदिध्यासनाभ्यां पूर्व-मयुत्पन्नम् । तव मते परोक्षमपि नाज्ञाननिवर्तकमित्यज्ञाननिवृत्ति प्रति बाधज्ञानत्वेनैव हेतुत्वमिति गौरवम् । मम तु समाध्यभ्यासपरि- पाकेनासंभावनादिसकलमलरहितेनांतः करणेनात्मनि दृष्टे सति दर्शन- मात्रादेवाज्ञाने निवृत्ते न कश्चिगौरवावकाशः । 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वय्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेदाङ्मनसी प्राज्ञ' इत्यारभ्याज्ञाननिवृत्त्यर्थकेन 'मृत्युमुखात्प्रभु- च्यते' इत्यंतेन कठवल्लीस्थमृत्यूपदेशेन संमतोऽयमर्थ इति न कश्चिदत्र विवादः इति । यदि तु मननादेः पूर्वमुत्पन्नं ज्ञानं परोक्षमेवेति न प्रति- वृद्धत्वकृतगौरवमिति मतमाद्रियते तदपि श्रवणादिभिर्मनः संस्कारे सिद्धेऽव्यवहितोत्तरमात्मदर्शनसंभवात्तदुत्तरं वाक्यस्मरणादिकल्पनं महगौरवापादकमेव । ननु न वयं केवलेन तर्केण शब्दजन्यज्ञानस्या- परोक्षत्वं वदामः किंतु श्रुत्यापि । तथाहि-'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुत्या चौपनिषदत्वं पुरुषस्य नोपनिपज्जन्यबुद्धिवि- ययत्वमात्रं प्रत्यक्षादिगम्येप्योपनिषदत्वे व्यवहारापत्तेः । यथा हि द्वादशकपालेष्टानां कपालानां सत्त्वेऽपि द्वादशकपालसंस्कृते- नाष्टाकपालादिव्यवहारः 1 यथा द्विपुत्रादावेकपुत्रादिव्यवहारस्त- यात्रापि । नान्यत्र तथा व्यवहार इति । उपनिषन्मात्रगम्यत्वमेव प्रत्ययार्थः । तच्च मनोगम्यत्वेऽनुपपन्नमिति चेन्न । नहि प्रत्य- येनोपनिषद्भिनं सर्वं कारणत्वेन व्यावर्त्यते । शब्दापरोक्षवादिना त्वयाप्यात्मपरोक्षे मनआदीनां करणत्वस्यांगीकारात् । किंतु पुराणा- दिशब्दांतरमेव 'श्रोतव्यः श्रुतिवाक्येभ्यः ' इति स्मरणात्स चार्थो

पृष्ठ 206

हठ योग प्रदीपिका, पृष्ठ 206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( ) | [: १ ९ ६ हठयोगप्रदीपिका उपदेश ममापि संमत इति न किंचिदेतत् । प्रमाणांतरव्यावृत्तौ तात्पर्यकल्पनं चात्मपरीक्षे शब्दस्य प्रमाणत्वे सिद्ध एव वक्तमुचितम् | शब्दांतर-व्यावृत्तितात्पर्य तु श्रुत्यादिसंमतत्वात्कल्पयितुमुचितमेव । एवं स्थिते 'मनसैवानुद्रष्टव्यं मनसैवेदमाप्तव्यम्' इत्यादिश्रुतयोऽप्यांजस्येन प्रति-पादिता भवेयुः । यत्तु कैश्चिदुक्तम् । दर्शनवृत्ति प्रति मनोमात्रस्यो-पादानत्वपरायत्ताः श्रुतयो न विरुध्यंत इति तदतीव विचारासहम् । यतः प्रमाणाकांक्षायां प्रवृत्तास्ताः कथमुपादानपरा भवेयुः । 'कामः संकल्पो विचिकित्सा' इत्यादिश्रुत्या सावधारणया सर्वासां वृत्तीनां मनोमात्रोपादानकत्वे वोधिते आकांक्षाभावेनोपादानतात्पर्यकत्वे वर्णयितुं कथं शक्येरम् । पूर्वं द्वितीयवल्यां प्रणवस्य ब्रह्मबोधकत्वे• नोक्तस्तस्याप्यपरोक्षहेतुत्वमिति शंकां निवारयितुं ' मनसैवानुद्रष्टव्यम्' इत्यादिसावधारणवाक्यानीत्येव वर्णयितुं शक्यानि स्युरित्यलमति- वाग्जालेन । वस्तुतस्तु योगिनां समाधी दूरविप्रकृष्टपदार्थज्ञानं सर्व- शास्त्रप्रसिद्धं न परोक्षम् । तदानीं परोक्षसामय्यभावात् । नापि स्मरणम् । तेषां पूर्वविशिष्याननुभवात् । नापि सुखादिज्ञानवत्साक्षि- रूपम् । अपसिद्धांतात् । नाप्यप्रमाणकं प्रमासामान्ये करणनियमात् । नापि चक्षुरादिजन्यम् । तेषामसन्निकर्षात् । तस्मान्मानसिक व सा वाच्येति मनस इन्द्रियत्वं प्रमाणत्वं च दूरमपह्नवमेवेति । योगश्रुत्योः समुच्चयं कल्पयंति तेषामपि पूर्वोक्तदूषणगणस्तदवस्थ एव । तस्माद्योगजन्यसंस्कारसचिवमनोमात्रगम्य आत्मेति सिद्धम् । न च कामिनीं भावयतो व्यवहितकामिनीसाक्षात्कारस्येव भावना- जन्यत्वेनात्मसाक्षात्कारस्याप्रमात्वप्रसंगः । अबाधितविषयत्वाद दोषजन्यत्वाभावाच्च । कामिनीसाक्षात्कारस्य तु बाधितविषयत्वाद्दोष- जन्यत्वाच्चाप्रामाण्यं न । भावनाजन्यत्वात् । न च भावनासमाधैर्ज्ञा- पकत्वे प्रमाणांतरापातः । तस्या मनःसहकारित्वात्प्रमाणनिरूपणा- निपुणैर्नैयायिकादिभिराप योग प्रत्यक्षस्यालीकिकप्रत्यक्षेतर्भावः कृतः । योगजालौकिकसन्निकर्षेण योगिनो व्यवहितविप्रकृष्टसूक्ष्मार्थ-

पृष्ठ 207

हठ योग प्रदीपिका, पृष्ठ 207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] - ( ) ४. संस्कृतटीका भाषाटीकासमेता । १ ९७ मात्मानमपि यथार्थ पश्यति । तथा च पातंजले सूत्रे-"ऋतंभरा तत्र प्रज्ञा श्रुतानुमानमज्ञाभ्यामन्यविषयाविशेषार्थत्वात्" तत्र समाधौ या प्रज्ञास्याः श्रुतं श्रवणं शाब्दबोधः । अनुमननमनुमानं यौक्तिकज्ञानं तद्रूपप्रज्ञाभ्यामन्यविषया । कुतः । विशेषार्थत्वात् । विशेषो निर्विक- पोsर्थो विषयो यस्याः सा तथा तस्या भावस्तथात्वं तस्माच्छब्दस्याप-दार्थतावच्छेदकपुरस्कारेणैवानुमानस्य व्यापकत्वावच्छेदकपुरस्कारेणैव वीजनकत्वनियमेन तद्ग्रहणे योग्यविशेष्यमात्रपरत्वादित्यर्थः । अत्र बादरायणकृतं भाष्यम्-श्रुतमागमविज्ञानं तत्सामान्यविषयं नह्या-गमेन शक्यो विशेषोऽभिधातुं कस्मान्नाहि विशेषेण कृतसंकेत: शब्द इत्यारभ्य समाधिप्रज्ञानिर्याय एव सविशेषो भूतसूक्ष्मगतो वा पुरुष-गतो वेति ॥ योगबीजे -'ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञोऽपि जितें-द्रियः । विना योगेन देवोऽपि न मोक्षं लभते प्रिये ॥ किंच-'तदेव सक्तः सह कर्मणेति लिंगं मनो यत्र निषिक्तमस्य' इति श्रुतेः । 'कारणं गुणसंगोsस्य सदसद्योनिजन्मसु' इति स्मृतेश्व देहावसान-समये यत्र रागाद्युदबुद्धो भवति तामेव योनिं जीवः प्राप्नोतीति योग-हीनस्य जन्मांतरं स्यादेव मरणसमये रामुद्भूतवैक्लव्यस्यायोगिना वार-यितुमशक्यत्वात् । तदुक्तं योगबीजे - 'देहावसानसमये चित्ते यद्य-द्विभावयेत् । तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥ देहांते किं भवे-जन्म तन्न जानंति मानवाः । तस्माज्ज्ञानं च वैराग्यं जपश्च केवलं श्रमः ॥ पिपीलिकायदा लग्ना देहे ज्ञानाद्विमुच्यते । असौ किं वृश्चि- कैर्दष्टो देहांते वा कथं सुखी ॥ ' इति । योगिनां तु योगबलेनांतकाले-Sप्यात्मभावनया मोक्ष एवेति न स्याज्जन्मांतरम् । तदुक्तं भगवता-'प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।' इत्या- दिना । 'शतं चैका हृदयस्य नाड्यः ' इत्यादि श्रुतेश्च । न च तत्त्वमस्यादिवाक्यस्यापरोक्षज्ञानजनकत्वे तद्विचारस्य वैयर्थ्यमेवेति शंक्यम् । वाक्यविचारजन्यज्ञानस्य योगद्वाराऽपरोक्षज्ञानसाधनत्वात् । अत्र च योगबीजे गौरीश्वरसंवादो महानस्ति ततः किचिल्लिख्यते ।

पृष्ठ 208

हठ योग प्रदीपिका, पृष्ठ 208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( ) | [ १ ९ ८ हठयोगप्रदीपिका उपदेशः देव्युवाच ॥ ज्ञानिनस्तु मृता ये वै तेषां भवति कीदृशी । गतिः कथय देवेश कारुण्यामृतवारिधे ॥ ईश्वर उवाच ॥ देहांते ज्ञानिना

पुण्यात्पापात्फलमवाप्यते । यादृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् ॥

पश्चात्पुण्येन लभते सिद्धेन सह संगतिम् । ततः सिद्धस्य कृपया योगी भवति नान्यथा ॥ ततो नश्यति संसारो नान्यथा शिवभाषि-तम् ॥ देव्युवाच ॥ ज्ञानादेव हि मोक्षं च वदंति ज्ञानिनः सदा । न कथं सिद्धयोगेन योगः किं मोक्षदो भवेत् ॥ ईश्वर उवाच ॥ ज्ञाने-नैव हि मोक्षो हि तेषां वाक्यं तु नान्यथा । सर्वे वदंति खड्गेन जयो भवति तर्हि किम् ॥ विना युद्धेन वीर्येण कथं जयमवाप्नुयात् । तथा योगेन रहितं ज्ञानं मोक्षाय नो भवेत् ॥ ' इत्यादि । ननु जनकादीनां योगमंतरेणाप्यप्रतिबद्धज्ञानमोक्षयोः श्रवणात्कथं योगादेवाप्रतिवद्ध- ज्ञानं मोक्षश्चेति चेत् । उच्यते । तेषां पूर्वजन्मानुष्ठितयोगजसंस्कारा- ज्ज्ञानप्राप्तिरिति पुराणादौ श्रूयते । तथाहि-'जैगीषव्यो यथा विमो यथा चैवासितादयः । क्षत्रिया जनकाद्यास्तु तुलाधारादयो विशः ॥ संप्राप्ताः परमां सिद्धि पूर्वाभ्यस्तस्वयोगतः । धर्मव्याधादयः सप्त शूद्राः पैलवकादयः ॥ मैत्रेयी सुलभा शार्ङ्गं शांडिली च तपस्विनी । एते चान्ये च बहवो नीचयोनिगता अपि ॥ ज्ञाननिष्ठां परां प्राप्ताः पूर्वाभ्यस्तस्वयोगतः ॥ ' इति । किंच । पूर्वजन्मानुष्ठितयोगाभ्यास- पुण्यतारतम्येन केचिद्ब्रह्मत्वं केचिद्रह्मपुत्रत्वं केचिदेवर्षित्वं केचिद्रह्म- र्षित्वं केचिन्मुनित्वं केचिद्भक्तत्वं च प्राप्ताः संति । तत्रोपदेशमंतरेणै- वात्मसाक्षात्कारवंतो भवेयुः । तथाहि-हिरण्यगर्भवसिष्ठनारदसनत्कुमा- वामदेवशुकादयो जन्मसिद्धा इत्येव पुराणादिषु श्रूयते । यत्तु ब्राह्मण एव मोक्षाधिकारीति श्रूयते पुराणादौ तदयोगिपरम् । तदुक्तं गरुड- पुराणे- "योगाभ्यासो नृणां येषां नास्ति जन्मांतरादृतः । योगस्य प्राप्तये तेषां शूद्रवैश्यादिकक्रमः ॥ स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्य-त्वमाप्नुयात् । ततश्च क्षत्रियो विप्रः कृपाहीनस्ततो भवेत् ॥ अनूचानः स्मृतो यज्वा कर्मन्यासी ततः परम् । ततो ज्ञानित्वमभ्येति योगी

पृष्ठ 209

हठ योग प्रदीपिका, पृष्ठ 209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] - ( ) ४. संस्कृतटीका भाषाटीकासमेता । १ ९९ मुक्तकमालभेत् ॥ ' इति । शूद्रवैश्यादिक्रमाद्योगी भूत्वा मुक्ति लभे-दित्यर्थः । इत्थं च योगे सर्वाधिकारश्रवणाद्योगोत्पन्नतत्त्वज्ञानेन सर्व एव मुच्यंत इति सिद्धम् । योगिनस्तु भ्रष्टस्यापि न शूद्रादिक्रमः । 'शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ अथवा योगिनामेव' इत्यादि भगवद्वचनादित्यलम् ॥ १५ ॥

भाषार्थ - अत्र हठाभ्यासके विना ज्ञान और मोक्ष सिद्ध नहीं होते इसका वर्णन करते हैं कि, जबतक प्राण और इंद्रिय जीवते हैं और मनभी नहीं मरता है अर्थात् जीवता है इडा और पिंगलामें प्राणके बहनेको प्राणका जीवन और अपने २ विषयोंका ग्रहण करना इंद्रियोंका जीवन और नाना प्रकारके विष- योंको उत्पन्न करना मनका जीवन कहाताहै-और तिप्स २ भावको प्राप्त हो जानाही यहां तिस २ का मरण विवक्षित है कुछ स्वरूपसे इनका नारा विवक्षित नहीं है-तबतक मनरूप अंतःकरणमें अपरोक्षानुभवरूप ज्ञान कैसे हो सकता है अर्थात् कदाचितुभी नहीं हो सकताहै, क्योंकि प्राण, इंद्रिय, मन इनकी जो वृत्ति हैं वे ज्ञानकी प्रतिबंधक होती हैं-और जो योगी प्राण और इन दोनोंका विशेषकर लय करदेता है वह योगी आत्यंतिक स्वरूपमें स्थितिरूप मोक्षको प्राप्त होताहै- और ब्रह्मरंध्रमें जो विना व्यापार प्राणकी स्थिति वही प्राणका लय हाता है और ब्रह्मसे भिन्न विषयोंमें व्यापाररहित होनाही मनका लय कहाता है और जो अन्य है अर्थात् जिसके प्राण और मनका लय नहीं हुआहै वह योगी सैकडों उपायोंसेभी किसीप्रकार मोक्षको प्राप्त नहीं होताहै सोई योग- बीजमें कहाहै कि, नानाप्रकारके विचारोंसे तो मन साध्य नहीं होताहै तिससे -तिस मनका जयही प्राणका जय है अनेकप्रकारके मागोंसे बहुधा जिसमें सुख- दुःख है वह जन्म होताहै और योगमार्गसे कैवल्य ( मोक्ष ) रूप परमपद मिलताहै अन्यथा नहीं मिलताहै यह शिवजीका कथन है इससे यह सिद्धभया कि, योगके बिना ज्ञान और मोक्ष सिद्ध नहीं होते हैं और श्रुति, स्मृति, इति- हास, पुराण आदिकोंमें भी यही प्रसिद्ध है कि इसके अनंतर आत्मदर्शनका उपाय योग है और अध्यात्मयोगकी प्राप्तिसे देवको मानकर धीरमनुष्य हर्ष और शोकको त्यागताहै और श्रद्धा भक्ति ध्यान योगसे आत्माको जानता

पृष्ठ 210

हठ योग प्रदीपिका, पृष्ठ 210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( ) [: २०० हठयोगप्रदीपिका । उपदेश भया-और जब मनसहित पांचों ज्ञान इंद्रिय विषयोंसे रहित टिकती हैं और बुद्धि भी चेष्टा न करती हो उसको परमगति योगीजन कहते हैं -और उस स्थिर इंद्रियोंकी धारणाकोही योग मानते हैं और उससमय योगी अप्रमत्त होजाताहै और जीव दयावान् आत्मतत्त्व ( आत्मज्ञान ) से योगी ब्रह्मतत्त्वको देखताहै तब अज और नित्य जो संपूर्णतत्त्वोंसे विशुद्ध देव है उसको जानकर संपूर्णबंधनोंसे छुटता है ब्रह्मरूप तेज तुझ आत्माकी ओंकाररूपसे उपासना करै-और तिन उन्नत ( सीधे ) और सम शरीरको स्थापन करके और मन सहित इंद्रियोंको हृदयमें प्रविष्ट करके ब्रह्मनामसे भयके दाता संपूर्ण स्त्रोतोंको विद्वान् योगी तरै-ओंकाररूपसे आत्माका ध्यान करो -और यतिधर्म- प्रकरणमें मनुने लिखा है कि, परमात्माके योगसे भूत और भावि पदार्थोंको देखे तो स्थूल सूक्ष्मरूप दोनों देहों को शीघ्र त्यागकर बंधनसे छुट जाताहै -याज्ञवल्क्य- स्मृतिमें लिखाहै कि, यज्ञ, आचार, इंद्रियोंका दमन, अहिंसा, दान स्वाध्याय, कर्म-इनका यही परमधर्म हैं कि, योगसे आत्माको देखना - मातंगमहर्षिका वाक्य है ब्राह्मण अनिष्टोम आदि संपूर्ण यज्ञोंको छोडकर योगाभ्यासमें तत्पर हुआ शांत होकर परब्रह्मको प्राप्त होताहै । ब्राह्मण, क्षत्रिय, वैश्य, स्त्री और शूद्र इनके लिये पवित्रकर्मों की शांति और मुक्तिके अर्थ योगसे अन्य कोई वस्तु नहीं है--दक्षस्मृ- ति निषेधमुखसे कहाहै कि, स्वसंवेद्य ( स्वयं जानाजाय ) जो वह ब्रह्म उसको योगीसे भिन्न इस प्रकार नहीं जानते हैं जैसे कुमारी ( कन्या ) स्त्रीके सुखो और जन्मांध घटको नहीं जानताहै-इत्यादि स्मृतियोंमें और महाभारतमें भी योग- मार्गमें व्यासने कहाहै कि, वर्गावकृष्ट ( पतित ) वा धर्मकांक्षिणी नारी हो वे दोनों भी इस मार्गसे परमगतिको प्राप्त होते हैं संपूर्णधर्मोका ज्ञाता हो वा अकृती ( पुण्य-हीन ) हो धार्मिक हो वा अत्यंत पापी हो पुरुष हो वा नपुंसक हो ऐसा मनु- भी जरामरणसमुद्र महादुःखके सेवनके जाननेका अभिलाषी शब्दब्रह्मका अवलंबन करताहै भगवद्गीतामें भी लिखा है कि, वशीभूत है मन जिसके ऐसा मनुष्य सदा इसप्रकार आत्मयोगको करता हुआ मेरेमें स्थितिरूप और मोक्ष है। परम जिसमें ऐसे शान्तिरूप स्थानको प्राप्त होताहै जो स्थान सांख्योंको प्राप्त होताहै उसीमें योगीभी जाते हैं -आदित्यपुराणनें लिखा है, कि योगसे ज्ञान होताहै