मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 111–120

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 111–120

पृष्ठ 111

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 111 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७ ९ मास आदि ) के अलावे असमय में भी अथवा समय ( अगहन मास आदि ) में स्वयं किया गया विग्रह प्रथम भेद है तथा ( २ ) दूसरे किसी राजा के द्वारा अपने मित्र पर आक्रमण या उसकी किसी प्रकार हानि पहुँचाने पर मित्र की रक्षा के लिए किया गया विग्रह द्वितीय भेद है ॥ १६४ ॥

विमर्श - इस श्लोक के तृतीय पाद के स्थान में ' मित्रेण चैवापकृते ' पाठ मानकर गोविन्दराज का तथा मेधातिथि आदि का सम्मत अर्थ म ० मु ० में देखना चाहिये । यान के २ भेद-एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ १६५ ॥

भाष्य – एकाकिनो मित्रेण वा संहतस्य यानद्वैविध्यं यानस्यासत्यां शक्तावेका-किनः । अन्यथा संहतस्य । ‘ आत्ययिकं कार्यं, परस्य व्यसनोत्पत्तिः । तदा ह्यभिगमनीयतमो भवति । परतः कदाचिल्लब्धोच्छ्रयो दुरुच्छेद्यः ॥१६५ ॥

हिन्दी —यान के दो भेद होते हैं- शत्रु के आपत्ति में फँस जाने पर अकस्मात् ( एका - एक ) समर्थ राजा का आक्रमण करना प्रथम ' यान ' है तथा स्वयं समर्थ न होने पर मित्र के साथ आक्रमण करना द्वितीय ' यान ' है ॥ १६५ ॥

आसन के २ भेद-क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा ।

मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ १६६ ॥

भाष्य — आत्मसंवरणमासनम् । तदपि द्विविधम् । क्षीणस्य बलकोशोपनयेन वृद्धस्यापि शत्रुं प्रत्यपेक्षा । आसनं च मित्रानुरोधेन । यदि मित्रस्य क्षीणस्य शत्रुणा सह सम्बन्धो नेदृशो भवति, तदीयेन मित्रेण नायमुत्त-म्भनीय इत्यतस्तदनुवृत्त्यासीत । स च क्षयो दैवात्पूर्वंकृतेन वेत्यनुवादः । वृद्धिक्षयौ सर्वस्यैतेन कारणेन भवतः । तत्र ‘ दैवं ’ स्वकृतप्रमादः अतिव्ययशीलता, अप्रतिजागरणं स्वे बले, पूर्वकृतमशुभं. कर्मापि ।

विपर्ययेण वैतद्व्याख्येयम् ।

मोहादिति पाठान्तरम् । अर्थस्तु दैवशब्देन व्याख्यातः ॥१६६ ॥

हिन्दी – आसन के दो भेद हैं- भाग्यवश या पूर्वजन्म के कार्यवश सेना, कोष

पृष्ठ 112

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 112 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० मनुस्मृतिः [ सप्तमः आदि के क्षीण हो जाने पर या समृद्ध रहने पर भी राजा का घेरे पड़े रहना प्रथम ‘ आसन ’ है तथा मित्र के अनुरोध से उसकी रक्षा के लिए शत्रु का घेरे पड़े रहना द्वितीय है ‘ आसन ' है ॥१६६ ॥

द्वैध के २ भेद-बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ।

द्विविधं कीर्त्यते द्वैधं षाङ्गुण्यगुणवेदिभिः ॥ १६७ ॥

भाष्य – बलस्य स्थितिः स्वामिनश्च भेदेन दुर्गस्वामिनः स्वल्पेन बलेन सेना-पतेरन्यत्र महता बलेन युक्तस्य । अथवा बलशपथानुग्रहार्थः कश्चित्कर्त्तव्यो हिरण्यादि-लाभापेक्षया परस्त्वधिकेनाशु । “ द्वैधीभावो नामायमुपायः । तस्यैतदेव रूपं - यद्विधा स्थितिर्बलस्वामिनोर-त्रैवंरूपस्य तस्यापरं द्वैधं वक्तव्यम् । न च तदनेन किंचिदुच्यते । केवलं बलस्य स्वामिनश्च स्थितिरेतद्द्द्विविधं तत्र वक्तव्यं मायायां द्वैधीभावस्तस्येदं द्वैविध्यम् ” । उच्यते । सामर्थ्यलभ्यमेतत्परानुग्रहार्थमेतत्कर्तव्यं, स्वकार्यार्थं चेत्येष द्विधा-भावस्य द्वैधीभावः ॥१६७ ॥

हिन्दी – षाड्गुण्य ( ७।१६० में कथित — सन्धि आदि के उपयोग अर्थात् लाभ ) को जाननेवाले द्वैध के दो भेद कहते हैं- अपने कार्य की सिद्धि के लिए हाथी - घोड़ा आदि चतुरंगिणी सेना का एक भाग शत्रु से बचने के लिए सेनापति के अधीन करना प्रथम ' द्वैध ' तथा उक्त सेना का शेष भाग किला के अधीन रखना द्वितीय कला आदि में राजा ‘ द्वैध ’ है ॥१६७ ॥

संश्रय के २ भेद-अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः ।

साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः ॥ १६८ ॥

भाष्य - शत्रुभिः पीड्यमानस्य अर्थसम्पादनार्थमन्यत्र संश्रयः । ' अर्थ'पीडा-निवृत्तिस्तत्सम्पादनार्थं शक्तमन्यमाश्रयेत् । स्वदेशं हित्वा तत्र गच्छेत् । व्यपदेशश्चापीडितेऽपि आगामिपीडापरिहाराय व्यपदेशार्थमन्यं संश्रयेत् । एषोऽस्य सहायको वर्तते, न शक्योऽयमुपपीडयितुमिति व्यपदेशसिद्धिर्न केनचिदुपपाद्यते । व्यप-देशप्रयोजनसंश्रयो व्यपदेशशब्देनोक्तः, सामानाधिकरण्येन । पाठान्तरं ' व्यपदेशार्थमिति ' । क्व पुनः संश्रयः कर्त्तव्यस्तदाह साधुषु । ये साधवो राजानस्तेषामन्यतममाश्रयेत् ।

पृष्ठ 113

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 113 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ८१ येभ्यः सकाशात्कुसृतिर्नाशयते । साधुशब्देन परिभवत्राणसामर्थ्यादयो गुणाः प्रति-पाद्यन्ते ॥ १६८ ॥

हिन्दी – संश्रय दो प्रकार का होता है— शत्रु से पीड़ित होते -आत्मरक्षार्थ किसी बलवान् राजा का आश्रय लेना प्रथम ' संश्रय ' तथा भविष्य में शत्रु से पीड़ित होने की आशंका से आत्मरक्षार्थ किसी बलवान् राजा का आश्रय लेना द्वितीय II II I I III III II I I ‘ संश्रय ' है ॥१६८ ॥

सन्धि विग्रह आदि के योग्य समय-यदावगच्छेदायत्यामाधिक्यं

ध्रुवमात्मनः ।

तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥ १६ ९ ॥

भाष्य— श्रायतिरागामीकालः । यद्येवं मन्येत समबलो ममायमप्येष न्यूनबला वा, कालांत्तु लब्धकृत्योपजापेन मित्रग्रहेण वा शक्नोम्येनमभिभवितुं तदा सन्धिं कुर्यात् । आधिक्यमधिकबलता ।

ध्रुवं निश्चितम् ।

तदात्वे वर्तमानकालवचनोऽयम् ॥१६ ९ ॥

हिन्दी - जब राजा भविष्य में अपनी ( सेना आदि की ) निश्चित रूप से अधिकता तथा वर्तमान सामान्य हानि देखे तो शत्रु से सन्धि ( मेल, सुलह कर ले ॥ १६ ९ ॥

यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् ।

अत्युच्छ्रितं तथाऽऽत्मानं तदा कुर्वीत विग्रहम् ॥ १७० ॥

भाष्य – प्रहृष्टा उत्साहानुरागयुक्ता दानमानाभ्यामुपसंगृहीता आत्मीया: प्रकृतीर-मात्यादिका मन्येत । अत्युच्छ्रितमात्मानं कोशहस्त्यश्वादिसम्पदा । तदा केनचिदपदेशेन सन्धिदूषणं कृत्वा विग्रहमाश्रयेत् ॥१७० ॥

हिन्दी – जब राजा सब प्रकृतियों ( ७।१५६ - १५७ ) को ( दान - मान आदि से ) अत्यन्त सन्तुष्ट तथा अपनी सेना को बलशालिनी समझे तो शत्रु को लक्ष्य कर अभियान ( युद्ध के लिए यात्रा ) कर दे ॥१७० ॥

यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।

परस्य विपरीतं च तदा यायाद्रिषु प्रति ॥ १७१ ॥

फीकार भाष्य- भावो हर्षपोषकारणम् । बहुना धनेन संविभक्तता कृष्यादिकर्माणि, फलितान्येषामित्यादि हर्षपोषयोः कारणम् । बलं ‘ हस्त्यश्वरथपादातम् । vegi fa

पृष्ठ 114

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 114 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ मनुस्मृतिः [ सप्तमः एरस्य यदा विपरीतं तदा शत्रुं प्रतियायादभिषेणयेच्छत्रुमित्यर्थः । न विग्रह-कारणान्येव यानकारणानि, किं तर्हि तान्यपि अपचयश्च हर्षपोषयोः परस्य प्रकृती-नाम् ॥१७१ ॥

हिन्दी — जब राजा अपनी सेना आदि को हृष्ट - पुष्ट ( बलवती ) तथा शत्रु की सेना आदि को इसके विपरीत ( दुर्बल ) समझे तब उस पर चढ़ाई कर दे ॥ १७१ ॥

यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ।

तदाऽऽसीत प्रयत्नेन शनकैः सांत्वयन्नरीन् ॥१७२ ॥

भाष्य — वाहनं हस्त्यश्वरथम् । बलं पादातम् । गोबलोवर्दवद्भेदः । परिक्षीणे

बले सति सान्त्वयन्नरिमासीत । सामोपप्रदानाभ्यामनुकूलनं ' सान्त्वनम् ' ॥ १७२ ॥

हिन्दी - जब राजा हाथी आदि वाहनों ( सवारियों ) से तथा अमात्य आदि शक्तियों से अपने को अत्यन्त क्षीण ( दुर्बल ) समझे तब यत्नपूर्वक शत्रु को शान्त करता हुआ चुप होकर बैठ जावे ॥ १७२ ॥

मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।

तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥१७३ ॥

भाष्य — अशक्यं संधानं बलवता रुद्धस्य, दुर्गसंश्रयणं च हितम्, दुर्गं च बला-वस्थापनमेव द्वैधीभावात् । स च प्रागुक्तार्थः । बलीयानेव हि व्यसने बलं द्विधाकरोति इति दृश्यते ॥१७३ ॥

हिन्दी – जब राजा शत्रु को सब प्रकार ( अपने से ) बलवान् समझे तब अपनी सेना को दो भागों में विभक्त कर ( एक भाग को शत्रु को रोकने के लिए सेनापति के अधीन कर ) तथा दूसरे भाग को आत्मरक्षार्थ अपने अधीन ( किला आदि सुरक्षित स्थान में रखकर ) अपना कार्य ( मित्र आदि सहायक साधनों का संग्रह ) करे ॥ १७३ ॥

यदा परबलानां तु गमनीयतमो भवेत् ।

तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥ १७४ ॥

भाष्य – गमनीयतमोऽभिभवनीयतमो दुर्गस्थोऽहमिति मन्यते । तदा क्षिप्रं दुर्गमुज्झित्वाऽन्यं संश्रयेद्धामिकम् । यतः कुसृतिर्नाशङ्क्यते, यस्य यशोमयी स्थिर-प्रकृति: । बलिनमित्येतेनैतत्सुदर्शितम् ॥१७४ ॥

हिन्दी — जब राजा ( अमात्यादि के दोष से पूर्व श्लोकानुसार सेना को दो भागों में विभक्त कर आत्मरक्षा का उपाय करने पर भी ) शत्रु द्वारा अपने को पराजित होने योग्य समझे, तब शीघ्र ही बलवान् ( अग्रिम श्लोकोक्त गुणयुक्त ) राजा का आश्रय करे || १७४ ॥

पृष्ठ 115

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 115 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता बलवान् का संश्रय—

निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।

उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ १७५ ॥

८३ भाष्य- —बलिनमित्युक्तम् । कियता बलेन बलवान्भवतीत्येतदर्थमिदमुच्यते । या दुष्टास्तदीयाः प्रकृतयो यश्च शत्रुरुभयस्यापि निग्रहे समर्थः स आश्रयितव्यः । स गुरुवत्परिसेवितव्यो मानमुज्झित्वा । नैवं मन्तव्यं ' महाराज एषोऽपि सम-त्वेन वर्त्तावह ' इति । प्रभुवदसौ सेवितव्यः | सर्वयत्नैरुपायैः प्रियवचनैरवसरे समीपे सन्निधानेन ॥ १७५ ॥

हिन्दी — जो राजा ( बिगड़ी हुई अमात्य आदि ७।१५६-१५७ ) प्रकृतियों तथा शत्रु की सेना का निग्रह करे ( दण्डित करे ) उस राजा की सेवा ( दुर्बल राजा ) करे ॥ १७५ ॥

यदि तत्रापि सम्पश्येद्दोषं संश्रयकारितम् ।

सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ १७६ ॥

भाष्य – यदि तस्मिन्नपि संश्रये सम्पश्येज्जानीयात्कथञ्चिद्दोषं संश्रयकारितम् । दोषदर्शनलिङ्गानि च । “ दत्वाऽऽनुतापः कृतपूर्वहोमं विमानना दुश्चरितानुकीर्तनम् । “ दृष्टेरदानं प्रतिकूलभाषणमेताश्च दुष्टस्य भवन्ति वृत्तयः ॥ ” ततस्तत्रापि संश्रये दोषकारिणि विज्ञातेऽपिशब्दादाश्रये निर्दोषेऽसति सुयुद्धमेव तस्मिन्नपि काले निर्विकारः कुर्यात् । न हि संश्रये विनाशो, दृश्यते ह्यल्पबलेनापि महा-बलो जीयमानः । अपि चान्त्यावस्थायामुभयथा गुणः - विजये राज्यं पराजये ध्रुवः स्वर्ग इति ।

युद्धस्य तु शोभनत्वं दर्शयिष्यामः ।

एकैकगुणाश्रयेण मण्डलविजयाय यायाच्छक्तः ॥१७६ ॥

हिन्दी- - जब राजा उक्त प्रकार से ( ७।१७४ - १७५ ) संश्रय करने पर भी दोष, अपनी कार्य सिद्धि का अभाव ) देखे; तब निर्भय होकर उस ( दुर्बल ) अवस्था में भी पूरी शक्ति के साथ युद्ध करे ॥१७६ ॥

मित्र, उदासीन आदि बढ़ाने का निषेध-सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।

यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ १७७ ॥

पृष्ठ 116

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 116 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ मनुस्मृतिः भाष्य- -उपायवचनात्सामादिभिर्व्यस्तैः समस्तैर्वा । सर्वग्रहणात्तु येन शक्यन्ते संघादिनाऽपि । तथा कुर्यात् तेन प्रकारेण यतेत । के फक्रिएक [ [ सप्तमः नीतिज्ञः अर्थशास्त्रज्ञः, स्वाभाविकप्रज्ञः नयाद्यभिज्ञो वा राजा यथा स्यात् । शक्तित्रयेणाभ्यधिका मित्रादयो न भवेयुस्तथा प्रकृत्यादिसमादिष्टे कर्मप्रवर्तने च भ्योऽधिकमात्मानं कुर्यात् ।

श्लोकानुरोधान्मध्यमग्रहणं न कृतम् । सोऽपि तु द्रष्टव्यो, न मित्रमित्युपेक्ष्यम् ।

स्वप्रयोजनव्यतिरेकेण मित्रं नामाव्यवस्थितं हि मित्रत्वाधिक्यमुपगतं स्वार्थगतिवशाच्च मित्रमप्यरिर्भवति । तथा च व्यास आह । “ न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।

सामर्थ्ययोगाद्विज्ञेया मित्राणि रिपवस्तथा " इति ।

एतैरुपायैर्मण्डलैर्विचारयेत् ॥१७७ ॥

हिन्दी - राजा सब उपायों ( साम, दाम, दण्ड और भेद ) से ऐसा करे कि जिससे इसके शत्रु, मित्र तथा उदासीन अधिक न होवें ॥ १७७ ॥

विमर्श — उनकी अधिकता होने पर धन - लोभ से मित्र के भी शत्रु होने से उसे पराधीन होने की सम्भावना रहती है ।

भावी आदि के गुण - दोष का चिन्तन-आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।

अतीतानां च सर्वेषां गुणदोषौ च तत्वतः ॥ १७८ ॥

" भाष्य — कार्याणि कर्माणि प्रयोजनानि । तेषां सर्वेषामारिप्समानानामायतिः परि-णाम्यागामिकालः । तदात्वं प्रारम्भावस्थावर्त्तमानकालस्तं च विचारयेत् । तत्वतस्तत्वेन । अनेकमुखानि हि कार्याणि क्षणाच्चान्यथा भवन्तीति । तत्र येषामुभौ कालौ न शुध्यतस्तानि कार्याणि कथमारभेतेति तद्विचारार्थापदेशः । अतीतानामतिक्रान्तानां च सर्वेषां गुणदोषौ - ततो विचारयेत् । अत्राप्यतीतानां गुणदोषौ विचार्य यानि कर्माणि गुणवन्त्यतीतानि तान्येव कथं नाम पुनरारभेतेत्यतीतकार्यगुणदोषतत्वविचारणोपदेश एवमर्थः ॥ १७८ ॥

हिन्दी- --राजा उत्तरकाल ( आगे वाले समय ) वर्तमान काल और अतीत काल के गुणदोषों का चिन्तन करे ॥१७८ ॥

पृष्ठ 117

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 117 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ८५ विमर्श - भविष्य में मुझे जो कार्य करना है, उसमें गुण - दोष का क्या विचार करे, वर्तमान काल में जो कार्य चल रहा है गुण - दोष का विचार कर उसे पूरा करने की चेष्टा करे; तथा जो कार्य समाप्त हो चुका है, उसके गुण - दोष ( उसमें क्या ठीक हुआ और क्या बिगड़ गया क्या हानि अथवा लाभ है, यह ) विचार करे ।

आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।

अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ १७ ९ ॥

भाष्य — एवं हि यो ह्यायत्यामागामिनि काले कार्याणां गुणदोषौ विजानाति नियमेनासौ विमृश्यकारीति स्वयं चारभते न सदोषं एवमर्थं हि ज्ञानम् । ‘ तदात्वे ' वर्त्तमाने यः क्षिप्रभवधारयति, कार्ये न विलम्बते, तदात्वे क्षिप्रनिश्चयः क्षिप्रकारी भवति, गुणवत्करोति, न दोषवत् । अतीते कृते सति कार्ये शेषतो यः कार्यमेव बुध्यते न तत्परिसमाप्तो लभत इति गुणवत्सर्वकार्यफलसम्बन्धादभ्यधिकः । शत्रु भिर्नाभिभूयते । न हि धर्मशास्त्रे षाङ्गुण्योपदेशः शक्यते कर्तुं दृष्ट इति दिङ्मात्रमुक्तम् ॥१७९ ॥

हिन्दी – भविष्य काल के कार्यों के गुण - दोषों को जाननेवाला, वर्तमान काल के कार्यों के विषय में शीघ्र निश्चय करनेवाला और बीते हुए कार्यशेष को जाननेवाला राजा शत्रुओं से पराजित नहीं होता है ॥१७९ ॥

यथैनं

राजनीति का सामान्य लक्षण-नाभिसंदध्युर्मित्रोदासीनशत्रवः ।

तथा सर्वं संविदध्यादेष सामासिको नयः ॥ १८० ॥

भाष्य- - यथा न तैस्तैः प्रयोगैरभिसंदध्युस्तथा कुर्यादर्जितैरितरैरिवोपायैरित्येष सङ्क्षेपिको न्याय इत्युपसंहारः । षाङ्गुण्यस्यातिसंधानविरोधश्चैवं न भवति । कृत्यानामुपजापरक्षणाद्व्यसनेषु प्रति-कारात्स्वमण्डलसंग्रहाद्गुणोपायानां सम्यक्प्रयोगात्कर्मस्वभ्युत्थानमित्येवं द्रष्टव्यम् ॥१८० ॥।

हिन्दी— शत्रु, मित्र या उदासीन राजा जिस कार्य को करने से उस राजा को पीड़ित ( पराजित ) न करें, संक्षेप में यही राजनीति है ॥ १८० ॥

शत्रु पर अभियान की विधि-तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ।

तदाऽनेन विधानेन यायादरिपुरं शनैः ॥ १८१ ॥

भाष्य - इदानीमभियास्यतः कर्माह ।

पृष्ठ 118

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 118 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ मनुस्मृतिः [ सप्तमः

यदोपचिकीर्षत्यरिराष्ट्रं प्रत्यभिमुखेन तदाऽनेन विधानेन गच्छेदत्वरमाण: ।

वक्ष्यमाणोपन्यासः सुखावबोधनार्थः ॥१८१ ॥

हिन्दी — जब राजा शत्रु पर अभियान ( चढ़ाई ) करे, तब इस ( आगे कहे हुए ) विधि से धीरे - धीरे शत्रु के नगर की ओर बढ़े ॥ १८१ ॥

मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः ।

फाल्गुनं वाऽथ चैत्रं वा मासौ प्रति यथाबलम् ॥ १८२ ॥

भाष्य- -यातव्यापेक्षया बलापेक्षया दीर्घं योद्धुमिच्छन्बलप्रायः शारदवासन्तिक-सस्यप्रायं परराष्ट्रं मार्गशीर्षे यायात् । अत्र हि गच्छन् शारदं फलं गृहादिगतं सुखं गृह्णाति, वासन्तं सस्यमुपहरति । कालश्च महान्दुर्गोपरोधादिकार्यक्षमो मार्गश्च प्रसिद्धवक्र-पथोपभृतकाशोदकवीरुधो न भवन्ति, कालश्च नात्युष्णशीतः । उपचितमपि न सस्यं नाना-प्रयुक्तं प्रियं सस्यत्रयोपघातकालविप्रकर्षापेक्षया च पर आश्रयं संधत्ते । उभयसस्योप-घातावकर्षणं सभ्यक्कृतं भवत्यात्मनश्च बलापचय इति । उपघातमात्रचिकीर्षया परदेशा-देरल्पकालसाध्ये वा यातरि, बलप्रायः फाल्गुनचैत्रयोर्यायात् वासन्तिकसस्यप्रायदेशम् । तदाप्यात्मनो यवसादि भवति, परोपघातक्षेत्रगतसस्योपघातात् । यथाबलमिति येन प्रकारेण बलानुरूपं यायादित्यर्थः अस्यापवादः— ॥१८२ ॥

हिन्दी – राजा शुभ मार्गशीर्ष ( अगहन ) मास में या फाल्गुन अथवा चैत्र मास में अपनी सेना के अनुसार शत्रु के नगर की ओर बढ़े ॥ १८२ ॥

विमर्श — चतुरङ्गिणी ( हयदल, गजदल, रथदल तथा पैदल ) सेना से युक्त जो राजा मन्द चलनेवाले हाथियों तथा रथों से गमनकर विलम्ब से पहुँचनेवाला हो तथा हेमन्त - सम्बन्धी धान्य से परिपूर्ण शत्रु राजा पर चढ़ाई करना चाहे; वह मार्गशीर्ष में तथा शीघ्रगामी घोड़ों की सेना से गमनकर शीघ्र पहुँचनेवाला हो सर्वविध धान्यपूर्ण शत्रुदेश पर चढ़ाई करना चाहे; वह अपने बल ( सैन्यशक्ति ) के अनुसार फाल्गुन या चैत्र मास में चढ़ाई करे । उक्त समय से भिन्न काल में भी अभियान-अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥ १८३ ॥

( BOP ) भाष्य- - एतद्व्यतिरेकेणान्येष्वपि प्रावृडादिकालेषु । यदा मन्येतात्मनोऽवश्यं-भावि विजयं तदा यायात् । यदा हस्त्यश्वबलप्रायं वर्षास्वश्वबलं हस्तिबलं तदा हि

पृष्ठ 119

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 119 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता अध्याय: ] स्वबलकालप्रभावादेकान्तिको जयः । ८७ व्यसनं परस्य स्वबलकोशादिगतम् । तस्मिन्नुत्पन्ने स्वबलकालनिरपेक्षो यायात् । व्यसनपीडितो हि शत्रुः साध्यो भवति । काष्ठमिव गुणोपयुक्तसन्नियोगमात्रादेव विनश्यति ।

विगृह्येति यातव्यमेवावष्टभ्याहूय यायात् । महानस्मिन्नेवावगम्यते ॥१८३ ॥

हिन्दी - दूसरे समय भी जब राजा अपनी विजय निश्चित समझे अपने सैन्यबल से युक्त हो; तब विग्रहकर शत्रु पर चढ़ाई करे और जब शत्रु को अमात्य आदि के विरोध ( फूट - बैर ) या कठोर दण्ड आदि से व्यसन में पड़ा हुआ समझे तब भी ( ग्रीष्म आदि ) अन्य समय में शत्रु पर चढ़ाई करे ॥ १८३ ॥

कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।

उपगृह्यास्पदं चैव चारान्सभ्यग्विधाय च ॥ १८४ ॥

संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् । सांपरायिककल्पेन यायादरिपुरं प्रति ॥ १८५ ॥

भाष्य- - ' मूले ' स्वदुर्गराष्टे कुर्यादथपार्ष्णिग्राहश्च । तत्र ' विधानं ' प्रतिविधानं कृत्वा दुर्गं तावत्प्रभूतधान्यादिकं सुसज्जयन्त्रप्राकारपरिखादि कार्यम् । राष्ट्रस्यापि — स्वबलं श्रेणीबलेभ्यो रक्षां विधाय कुर्याद्दानमानेभ्य उपसंयम्य प्रत्यन्तेषु प्रक्षेप्तव्यं पार्ष्णिग्राहं प्रति प्राह । तत्समर्थश्च बलैकदेश: स्वराष्ट्रे स्थापयितव्यः । यात्राप्रयोजनं यात्रिकं हस्त्यश्वादिबलयोग्यं च प्रहरणधारणादिसज्जम् । यथा-विधि परोपदेशं कृत्वा । आस्पदं प्रतिष्ठानम् । किंतर्ह्यतोऽपरकीयाः क्रुद्धादयो द्रष्ट-व्यास्तानुपगृह्य स्वीकृत्याकारस्य परविषये निवृत्तेस्तज्ज्ञानाय सम्यग्यथावद्विधाय प्रयुज्य । किमयं दृष्टोपसंग्रहं कर्तुमारब्धमुत शत्रुपरिमण्डलं कोपयितुमथ मध्यममुदासीनं वा संश्रयितुम्, तथा मूलयात्रां वा हर्तुकामो विधिवच्छेदं वा कर्तुकाम, इत्यादि यथा चैत-देवं तथा । त्रिविधः पन्था जाङ्गल आतप आटविक इति । केचिदाटविकस्थाने वन-प्रक्षेपात् त्रिविध इति । अपर उन्नतो निम्नः सम इत्येवं त्रिविधम् । संशोध्य मार्गरोधिवृक्षगुल्मलताविच्छेदेन स्थलनिम्नयोः समीकरणं नदीगर्त्तयो-स्तीर्थकरणं पथिरोधकव्यालसमुच्छेदः प्रवर्तकानामात्मीकरणं यवससेनादिमत्ता चेति । षड्विधं बलमिति केचित् । हस्त्यश्वरथपदातिसेनाकोशकर्मकरात्मकं षड्विधं बलमित्यन्ये । कोशस्थाने प्रक्षेपणमित्यपरे । मौलभृत्यश्रेणिमित्रामित्राटविकबलभेदात् । सांपरायिकविधानेन । ‘ सांपरायिकं ' युद्धे कृच्छ्रम्, तत्प्रयोजनं यस्य तत्सांपरा-मनु II 8

पृष्ठ 120

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 120 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८ मनुस्मृतिः [ सप्तमः यिकं दुर्गकल्पेन वा रिपुं प्रति यायात् । स च सैन्यनिवेशस्तेषु तेषु च स्थानेषु स्थावर-जङ्गमदण्डो बहुमुखपरिघफलकशाखाभिः प्राकार इत्यादिस्तादृशस्थापितः । विशेषत-स्तु यात्रागतः ॥१८४-१८५ ॥ हिन्दी — अपने किला तथा देश की रक्षा के लिए प्रधान पुरुष से युक्त सेना का एक भाग रखकर; यात्रा के योग्य शास्त्रोक्त सवारी, शस्त्र, कवच आदि से युक्त होकर; दूसरे राजा के राज्य में जाने पर मार्ग तथा स्थिति पाने के लिए उनके भृत्य आदि को अपने पक्ष में करके; कपटवेशधारी गुप्तचरों को शत्रु- देश की प्रत्येक बात मालूम करने के लिए भेजकर; जाङ्गल, आनूप तथा आट्विक भेद के तीन प्रकार के मार्गों को पेड़, लता, झाड़ी, कंटक आदि कटवाने तथा नीची ऊँची भूमि को बराबर कराने से गमन के योग्य बनाकर और हाथी, घोड़ा, रथ, पैदल, सेना एवं कार्यकर्तारूप छः प्रकार से बल ( सेना ) को उचित भोजन - वस्त्र, मान - सत्कार एवं औषध आदि से शुद्धकर यात्रा के योग्य विधान से धीरे - धीरे शत्रु के देश को प्रस्थान करे ॥ १८४-१८५ ॥

शत्रु- सेवी मित्रादि से सावधानी रखना-शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।

गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ १८६ ॥

भाष्य – शत्रु सेविनि । गूढे प्रच्छन्ने मित्रे गतप्रत्यागते च युक्ततरः स्यात् । अभियुक्ततर आदृततरो भवेन्न विश्वसेदित्यर्थः । यस्मात्स कष्टतरो रिपुरन्येभ्यः क्रुद्धा-दिभ्यः । एवं च युक्ततरवचनात्कष्टतरवचनाच्च गतप्रत्यागतमग्राह्यमन्यस्येति गम्यते । स चतुर्विधः । कारणाद्गतस्ततो विपरीतकारणादागतो यथा दोषेण गतः पुनरा-गतो गुणमुभयोः परित्यज्य । कारणेनागत इति यः स त्याज्यो लघुबुद्धित्वाद्यत्किंचित्का-रीति । पुनरस्य प्रत्ययस्तु न कार्यः । कारणाद्गतः कारणागतः यथा स्वामिदोषेण गत: परस्मात्स्वदोषेणगत इति सत्कर्त्तव्यो यदि सङ्गित्वादागतस्ततो ग्राह्यः । अथ परप्रयुक्त-स्तेन वा दोषेणापकर्त्तुकाम इति ततो नेति ॥ १८६ ॥।

परराष्ट्रं प्रत्यभिप्रस्थितः हिन्दी - गुप्तरूप से शत्रु की ओर मिले हुए मित्र में और पहले विरक्त होकर फिर आये रखे, क्योंकि वे हुए व्यक्ति ( सैनिक या गुप्तचर आदि ) में अत्यन्त सावधानी अत्यन्त कष्टकर ( अतएव दुर्निग्रह ) शत्रु हैं ॥१८६ ॥

व्यूह - रचना-दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।

वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ १८७ ॥