मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 131–140
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 131–140
पृष्ठ 131
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता व्यापारफलं कर्तृकरणकार्यं कृष्यादिषु प्राप्नुयात् । तथा चोक्तम्— “ कम्मैवेहानसाधूनामालभ्यानुपसेविता कर्म कृत्वा हि पुरुषो भुङ्क्ते चैव न चात्ति न । ” ९९ सत्यपि चान्नसम्भवे न ह्यभुञ्जन्तस्तृप्यन्ति । तदा तत्र चाभ्यवहारैर्यत्समनन्तरं च फलं तन्निमित्तफलोत्पाद इति न्यायः । तस्मादत्रादृष्टव्यापारः । एवं च कृत्वाऽर्थवन्तः क्रियारम्भोपदेशा भवन्ति । तथा चाहुः " प्रतिहन्ति मुनिर्येन दैवमापतितं क्वचित् । शीतोष्णे च तथा वर्षमुत्थापयति हन्ति च ॥ ” एवमास्थितेभ्य उभयं कारणम् — अन्यतराभावे फलाभावात् । क्वचित्तु केचित्प्राधा-न्येन् वर्तन्त इति तत्परिगृह्यते । कृतोऽपि पुरुषकारो बलवता दैवेनाभिभूतो विशीर्यते । आर्द्रमिव दार्वल्पाग्नौ प्रक्षिप्तं न ज्वलति । एवं यदि दुर्बलं दैवं महता यत्नेन पुरुष-कारेण पुरस्कृतं फलति यथार्द्रमपि दारु महत्यग्निस्कन्धे प्रक्षिप्तम् । नाग्निस्तदापयाति ।
" दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ।
दैवेन चेतनं कर्म विशिष्टेनोपहन्यते ” ॥
इत्येव परिकल्प्याह । तयोर्दैवपुरुषकारयोर्दैवमेवाचिन्त्यम् । तुशब्दोऽवधारणार्थः । अपरिज्ञातस्वरूपम्, कस्मिन्काले तन्निमित्तेन फलं दास्यतीत्येवमचिन्त्यम् । शास्त्रादृते चास्य परिज्ञानादेवा-विचार्यत्वात्प्रयोक्तुमशक्यत्वादशक्यमिति । तत्र दैवं निष्फलं मनुष्येषु पुरुषकारो वक्ष्यते क्रिया, प्रकृतत्वात् । वित्तं च क्रिया मानुषे । किञ्चिज्ज्ञानं कृष्यादिभिः शक्यं चिन्तयितुमीदृशं मया कृष्यादि कर्तव्यमेतैः साधनैर्दैवादिभिरेव च तस्य चेदृशं फलमिति । तदेवं प्रारब्धं यदारम्भमध्यावसानेषु विवत्सते । तेन दैवं समाधेयम्, न विपन्नानामप्येवं कर्त्तव्यमिति । यावत्फलवेदनमित्यतो दैवस्याचिन्त्यत्वान्न तत्परेणासितव्यम् । मनुष्यकर्म चिन्तयित्वा यद्यत्कार्यं तदनुष्ठेयम् । यत्किञ्चनकारी हि विनश्यतीति । शक्तित्रययोगात्पुरुषकारेण च युक्तस्य परराष्ट्रविजयचिकीर्षा यत्र दैवमानुषसम्पन्ना भवति सैव सर्वार्थसाधिका भवति । तथापि तस्यामतिशयं दैवं प्रवर्त्तते । अतिरिक्तः पुरुषकार एव भवतीत्यर्थः । न हि विजिगीषोर्दैवमन्तरेण, तदा यातव्यस्य व्यसनं दैवं मानुषं भवति । पौरुषं सम दैवेन नातिव्यूहं द्वयोर्वा समं तुल्यम् । किञ्च—
दैवेन विधिनाऽयुक्तं मानुष्यं यत्प्रवर्तते ।
परिक्लेशेन महता तदर्थस्य समाधकम् ॥
पृष्ठ 132
पाठ पढ़ें पाठ छिपाएँ
१०० मनुस्मृतिः [ सप्तमः तदयुक्तम् । दैवेन विधानेन पराङ्मुखे दैवमानुषे पुरुषकारः प्रवर्त्तते अष्टविध-कर्मणि, तन्महता क्लेशेनार्थं फलं साधयति, निष्फलं वा भवति । अतः क्लेशेनाप्यसिद्धो वा दैवापेक्षो भूत्वा न परितुष्येत् । पुरुषार्थस्तु दैवेन संयुक्तो यः प्रवर्त्तते अक्लेशेन स सर्वेषां मन्त्रार्थानामेव साधकः पुरुषार्थः पुरुषकारः । स एव यदाऽऽपंचगुणे दैवेऽनुष्ठीयते तदा क्लेशेन विनैकान्तेन समग्रफलसाधको भवति । अस्य दाढ्यार्थमुदाहरणं श्लोकद्वयेन– “ केचिद्युद्धमपि क्षेत्रं युक्तं पुरुषकर्मणा । दैवहीनाय तु फलं कस्यचित्सम्प्रयच्छति ॥ ” “ केचित्क्षेत्रस्य भृतमित्युक्तं पुरुषकर्मणा ॥ ” पुनः पुनर्दृष्टेषु शोधितं यथावच्चोक्तमित्याद्युपकारकलक्षणेन दैवेन हीनाय फलं न ददातीति ॥
संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥
संयुक्तस्यापि दैवनेति । दैवयोगस्तु तस्मात्फलादानादनुमीयते । एवं ११ च पूर्वस्य तदाभावः दैवभावः । अन्ये त्वाहुः । दैवं यथाकालं पर्याप्तं दृष्टाद्युपलम्भादेव कृतत्वान्न कृतमिति यथा तत्पुरूकाराभावं दर्शयति बीजवर्जितमित्यबीजम् ।
चन्द्रर्काद्या ग्रहा वायुरग्निरापस्तथैव च ।
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥
चन्द्रार्कास्तावद्ग्रहाः ॥२०५ ॥
हिन्दी — इस संसार में जो कुछ कार्य हैं, वे सब भाग्य तथा मनुष्य के अधीन हैं; उनमें दैव ( पूर्वजन्मकृत ) कार्य अचिन्त्य हैं ( कब क्या होनेवाला है, इसे कोई नहीं जानता ) और मानुष ( मनुष्य सम्बन्धी अर्थात् वर्तमान में किया जानेवाला ) कार्य में पर्यालोचन है ( अतएव मनुष्य को स्व - कार्य - सिद्धि के लिए यत्न करते रहना चाहिये ) ॥२०५ ॥
[ दैवेन विधिना युक्तं मानुष्यं यत्प्रवर्तते । परिक्लेशेन महता तदर्थस्य समाधकम् ॥ १४ ॥ ]
[ हिन्दी — भाग्य - विधान के सहित जो मनुष्य - कार्य किया जाता है, वह बड़े कष्ट से सिद्ध होता है ॥१४ ॥ ]
[ संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् । विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥ १५ ॥ ]
पृष्ठ 133
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १०१ [ हिन्दी – भाग्य से संयुक्त भी पुरुषार्थ से रहित कार्य, पुरुषार्थ के बिना खेत में पड़े हुए बीज के समान फल देता है || १५ || ] [ चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च । इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥ १६ ॥ ]
[ हिन्दी – चन्द्र, सूर्य आदि ग्रह तथा वायु, अग्नि और जल पुरुषार्थ से यत्न के द्वारा दैव ( ईश्वरीय ) पुरुषार्थ से इस संसार में साधे जा रहे हैं ॥ १६ ॥ ]
करग्रहण कर सन्धि करना-सह वाऽपि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥२०६ ॥
हिन्दी – ( विजिगीषु राजा पूर्वोक्त प्रकार से युद्ध करे ) अथवा उसके साथ मित्रता कर उस शत्रु राजा द्वारा दिये गये सुवर्ण ( रत्नादि सम्पत्ति ) तथा राज्य की एक भाग भूमि — इन तीन ( मित्र, सुवर्ण तथा भूमि ) को युद्ध यात्रा का फल मानकर यत्नपूर्वक उस राजा के साथ सन्धि करे ॥ २०६ ॥
पार्ष्णिग्रहादि का विचारकर युद्ध यात्रा-पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाऽऽक्रन्दं च मण्डले मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ २०७ ॥
हिन्दी— ( विजिगीषु राजा ) पार्ष्णिग्राह तथा आक्रन्द राजा का अपने मण्डल में ध्यान कर यात्रा करे और मित्र ( सन्धि किया हुआ शत्रु ) या अमित्र ( हारा हुआ शत्रु ) राजा से यात्रा का फल ( मित्रता, सुवर्ण तथा भूमि ) को अवश्य लेवे ॥२०७ ॥
विमर्श - विजयाभिलाषी राजा के शत्रु पर चढ़ाई करने के लिए यात्रा करने के बाद उसके देश पर आक्रमण करनेवाला ' पार्ष्णिग्राह ' कहलाता है तथा वैसा करनेवाले ' पार्ष्णिग्राह ' राजा का नियामक उसका अनन्तरवर्ती राजा ' आक्रन्द ' कहलाता है ।
मित्र - प्रशंसा-हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ २०८ ॥
हिन्दी - राजा मित्र तथा राज्य की प्राप्ति वैसी उन्नति नहीं करता, जैसी वर्तमान में दुर्बल होने पर भी भविष्य में उन्नति करनेवाले स्थायी मित्र की प्राप्ति से ( उन्नति ) करता है ॥ २०८ ॥
पृष्ठ 134
पाठ पढ़ें पाठ छिपाएँ
१०२ मनुस्मृतिः
श्रेष्ठ मित्र के गुण-धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ २० ९ ॥
[ सप्तमः हिन्दी – धर्मज्ञ, कृतज्ञ, सन्तुष्ट अमात्य आदि प्रकृतिवाला, अनुरक्त, स्थिर कार्यारम्भ करनेवाला छोटा भी मित्र श्रेष्ठ होता है ॥२०९ ॥
शत्रु के गुण-प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च ।
कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ॥ २१० ॥
हिन्दी – विद्वान्, कुलीन, शूरवीर, चतुर, दानी, कृतज्ञ और ( सुख - दुःख में ) धैर्ययुक्त शत्रु को विद्वान् लोग कष्टसाध्य ( कठिनता से जीतने योग्य ) कहते हैं । ( अतएव ऐसे शत्रु से सन्धि कर लेना चाहिये ) ॥२१० ॥
उदासीन के गुण-आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततमुदासीनगुणोदयः ॥ २११ ॥
भाष्य – पुरुषाणां प्रकृतधर्माधर्मसंज्ञकेन दैवेन सुखदुःखोपभोगनिमित्तं साध्यते । अनिष्टस्थानप्राप्तश्चापौरुषेण शान्त्यादिकारणप्रकारेण समतामापद्यन्ते । इह स्थानस्थिता अव्यभिचारानुगुणाः कियन्ते । पुरुषज्ञानलोकज्ञानपुरुषविशेषज्ञोऽनुरूपमुपकारी भवति । अनुवर्तते शूरः कार्यक्षमो भवति । कारुण्यगुणस्ययेन करुणावेदी दयालुमना लोभेन परिरक्षति । स्थूललक्षः प्रभूतस्याव्यर्थमेषां सर्वकालं क्षमते ॥२०६-२११ ॥ हिन्दी — सज्जनता, मनुष्यों की पहचान करना, शूरता, कृपालुता और सर्वदा बहुत दान देना— ये सब उदासीन राजा के गुण हैं । ( अतएव इस प्रकार के उदासीन राजा का आश्रय कर पूर्वोक्त ) ( २।२१० ) लक्षण वाले शत्रु से भी युद्ध करना चाहिये ॥ २११ ॥
आत्मरक्षार्थ भूमि आदि का त्याग-क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ २१२ ॥
- तादृशीमपि भूमिमविलम्बमानः परित्यजेत् । भाष्य-क्षेम्या — आटविकादिभिरनभिभवनीया । नित्यमस्य प्रधानमुभयम् । बहुसस्याऽदेव-मातृका च पशुवृद्धिकरी च जाङ्गलरूपत्वादबहुफलपत्रतृणत्वाच्च । एवंगुणा हि भूमि-र्वणिक्कृषीवलबहुला भवति, दुर्भिक्षव्याधिरहिता कान्तारमनुष्यात्मभरणा चेति । चतुर्थ्या
पृष्ठ 135
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १०३ प्रकृतिपरित्यागे चोभयम् । न ततो ज्ञापयति न सहसायुधानां प्रकृतिं परित्यजेत्तस्या-मवस्थायाम्, किन्तु तां परित्यजेद्या मन्येत साक्ष्ये शेषां प्रकृतिभिः प्रत्यादातुमिति । यथा तु न मित्रकोशदण्डपरित्यागे नाविशेषं प्रतिक्षणं यां मन्येत तदा गुणवतीमपि भूमिं त्यजेत्॥२१.२ ॥ हिन्दी— ( नीरोगता आदि गुणों से युक्त होने के कारण ) कल्याणप्रद, ( नदी, नहर, तडागादि होने से वृष्टि का अभाव होने पर भी ) धान्य उत्पादन करनेवाली ( अधिक घास आदि होने से ) पशुओं की वृद्धि में सहायक भूमि को राजा आत्मरक्षा के लिए बिना विचार किये छोड़ दे ॥२१२ ॥
आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ २१३ ॥
भाष्य — कृच्छ्रप्रकारसाध्योऽयं नियमो भवति । आपदर्थे । यथा मशकार्थे धूमो मशकानपनेतुमिति ज्ञायते । तन्निमित्तं धनं रक्षेन्नान्यत्र धनरक्षायाः कार्यमस्ति । दत्तभुक्त-फलं हि धनमिति । तथा हि तेन प्रतीक्ष्य यानमासनं दण्डं बिभर्त्ति उपजप्यानुपगृह्णातीति । धनेनापि दारा रक्ष्याः । दारग्रहणं प्रणिधिसम्बन्धिप्रत्युपलक्षणार्थम् । आत्मा तु रक्ष्यः । अन्येन प्रकारेणात्मानं रक्षितुमसमर्थः सर्वस्वं दत्वा दारानपि काले परित्यज्य वाग्यतः स्थितो दारधनादि वर्जयित्वा धर्मं करिष्यति । ये तु धनदारानु-रोधेन विनश्यन्ति न तेषां धनदारादि दृष्टं नाप्यदृष्टं धर्माधर्मानाचरणात् । न च कौमारदारत्यागित्वम् । न त्यागप्रतिषेधस्यायं च वा जयति । राजधर्मप्रकरणेऽपि नायमुक्तो दृष्टार्थत्वादन्यस्यापि द्रष्टव्य: । “ ननु च राजा राज्यं प्राप्य महाधनोऽश्वमेधादि करिष्यत्यतुलं च सुखमनुकरिष्यत्य-तस्तु लोकः संक्रुष्टं किं करिष्यति । ” नैष दोषः । अल्पस्यापि पावनानि कर्माणि सन्त्यधनस्यापि जपादयः । विशेष निमित्तानि धनान्येव । न चेदमस्यामवस्थायां लोकसंक्रुष्टमिति । न च सहसै-तत्कार्यम्॥२१३ ॥ यतः—
हिन्दी — आपत्ति के लिए धन की रक्षा करे, धनों के द्वारा स्त्रियों की रक्षा करे और धन तथा स्त्रियों के द्वारा सर्वदा अपनी रक्षा करे ( यह सर्व - सामान्य माना गया हैं ) ॥ २१३ ॥
आपत्तियों में उपयोग का प्रयोग-सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद् बुधः ॥ २१४ ॥
भाष्य- -आपदो दैवमानुषाणि व्यसनानि तानि प्रकृतिविषयाणि युगपदुपजाता-मनु II 9
पृष्ठ 136
पाठ पढ़ें पाठ छिपाएँ
१०४ मनुस्मृतिः [ सप्तमः नीत्यर्थमपि यथा स्युस्तथा संयुक्ताश्च सामपुरस्सरं दानं सामपूर्वकं भेदं सामदानभेद-सहितं दण्डमेव वा दानमेवेत्यादिकान्सर्वोपायान्विसृजेद् बुध इति । यत्र यत्प्राप्तं
तत्समीक्ष्य विचार्य प्रयुञ्जीतेत्यर्थः । न तु विषण्ण आसीत ॥२१४ ॥
कथमित्यपेक्षायामाह— हिन्दी – सब आपत्तियों ( कोषक्षय, अमात्यादि प्रकृतिकोप तथा मित्रादि-व्यसन प्रभृति ) को अधिक मात्रा में एक साथ उपस्थित जानकर विद्वान् राजा ( घबड़ाये नहीं, किन्तु ) सम्मिलित या पृथक् - पृथक् सब उपायों ( साम, दान, दण्ड और भेद ) को काम में लावे ॥२१४ ॥
उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः ।
एतयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ २१५ ॥
भाष्य- -'साधयेत्कार्यमात्मन ' इति पाठान्तरम् । तत्रोपेतारमात्मानं प्राप्य कार्यं मित्रवत्साधयेत् । सर्वोपायाः समस्ता व्यस्ता एव । अयमपि उपेयसामान्यनिर्देशमाह । समाश्रित्याङ्गीकृत्य समर्थचिन्तनेनैतत्समावृतं भवति । किमर्थमुपायाः समर्थेना-नुमताः समर्थस्तथा किं युक्तमिति विचार्येयता केनोपायनैषामिदं प्राप्नुयादिति । कृत्स्नश इति त्रयविशेषणं कृत्स्नमित्यर्थः । एवं च यो यदुपायसाध्यो यदा यथा युक्तस्तत्र तदा तथा प्रयुञ्जीत, स्वकार्यसिद्ध्यर्थम् । उपाय एतानामवस्थानां चानन्त्यात्सर्वं तन्त्रेणाशक्यं वक्तुमिति समासेनोक्तमत: परीक्षामुपाचरेत् । उपेत्य विशेषभावतोऽप्याह ।
“ स तु युक्तो हि संधत्ते युक्त आत्मपराक्रमः ।
तावुभौ नयसम्पन्नौ स्तेनोऽप्ययसमन्वितः ॥ ” इति ॥२१५ ॥
हिन्दी – ( राजा ) उपेता ( प्राप्तिकर्ता अर्थात् अपने ), उपेय ( प्राप्ति करने योग्य अर्थात् शत्रु ) तथा परिपूर्ण सामादि सब उपाय- इन तीनों को अवलम्बन कर प्रयोजन की सिद्धि के लिए प्रयत्न करे ॥२१५ ॥
राजा का भोजन - काल-एवं सर्वमिदं राजा सह संमन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तः पुरं विशेत् ॥ २१६ ॥
भाष्य — एवं यथोक्तं राजा वृत्तमिदं सर्वमापद्यनापदि वाऽऽत्मशक्त्यपेक्षया वा
पृष्ठ 137
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १०५ कस्यामवस्थायां किं कर्त्तव्यमिति मन्त्रिभिः सह विचार्य मध्यंदिनमुक्तकालं मध्यंदिनं व्यायामं कृत्वोपचार्यं स्नानं च । स्नानमक्रमोक्तमपि पुना राज्यार्थमुच्यते मङ्गलाचारे युक्तानाम् । राजा स्नानपरिग्रहार्थं भोजनादियुतं तद्गृहे पूर्वं स्नानापेक्षयाऽन्तःपुरं याया-दिति विशेषार्थमुपसंहारः । विविक्ते देशे ॥२१६ ॥
हिन्दी – राजा इस प्रकार इन सब विषयों को मन्त्रियों के साथ में विचार ( गुप्त परामर्श ) कर ( मुद्गर या अन्य शस्त्र आदि के अभ्यास से ) व्यायाम कर दोपहर को स्नान ( तथा मध्याह्नकृत्य - सन्ध्योपासनादि नित्यकर्म से निवृत्त हो ) कर भोजन करने के लिए अन्त: पुर ( रनिवास ) में प्रवेश करे ॥२१६ ॥
अन्नादि भोज्य पदार्थों की परीक्षा-तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥ २१७ ॥
भाष्य — तत्रान्तर्गतगृह आत्मरक्षाभूता आत्मसमाः कालज्ञा वयोविशेषावस्था-दिप्रतिनियतकाले भक्ष्यभोज्यदानादिविशेषज्ञाः । अहार्या अभेद्या विश्वसनीयाः । परि-चारकाः स्वरवैद्यादय: । एतैर्गृहीतं सर्वं परीक्षितमदनीयमन्नाद्यमद्यात् । परीक्षा कुशलैवैद्यैरग्निचकोरादिभिः कर्तव्या । विषादिसंसृष्टस्य शुष्कस्याशुद्धता भवति वैवर्यैः सुगन्धोपघातश्च अतिम्लानताऽग्नौ प्रक्षिप्तस्य वेति । वेति शब्दः वैवर्ण्य-ज्वालासु ईक्षिते च तस्मिन्वयसां विपत्तिः । दर्शनेन म्रियते यत्र कोकिलः, ग्लायति जीवंजीवकः चकोरस्याक्षिणी विनश्यतो विषं प्रदर्श्यापि, भवति मुष्कस्यावग्रहः स्वेद
इत्यादि ।
मन्त्रैश्च विषापहैः परिजपेद्व्यापादिकासु ॥२१७ ॥
हिन्दी — वहाँ ( अन्त: पुर में ) अपने तुल्य, भोजन - समय के ज्ञाता, किसी शत्रु आदि से फोड़कर अपने पक्ष में नहीं करने योग्य परिचारकों ( पाचक आदि ) से बनाये गये एवं परीक्षा किये गये अन्न आदि ( भोज्य, पेय, लेह्य, चोष्य आदि पदार्थ ) को विषनाशक मन्त्रों से ( गारुडादि मंत्रों को जपकर ) भोजन करे ॥ २१७ ॥
विमर्श - सविष अन्न को देखकर चकोर पक्षी की आँखे लाल हो जाती हैं, अग्नि में डालने से अन्न चिट, चिट करता है, सुवर्णपात्र में उसका रंग बदल जाता है; इत्यादि उपायों से सविष अन्न की परीक्षा करनी चाहिये । विषघ्नै रुदकैश्चास्य सर्वद्रव्याणि शोधयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ २१८ ॥ श्री
भाष्य - विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि राजौपयिकानि वस्त्रादीनि विशोधयेत् ।
पृष्ठ 138
पाठ पढ़ें पाठ छिपाएँ
१०६ मनुस्मृतिः [ सप्तमः विषघ्नानि रत्नानि गरुडोदीर्णनागदमणिप्रभृतीनि । नियतः प्रत्यये नित्यं भोजन-कालादन्यदाऽपि धारयेत् ॥२१८ ॥
हिन्दी — राजा विषनाशक औषधियों से ( खाने के लिए दिये गये ) सब अन्न को संयुक्त करे तथा सावधान रहते हुए विषनाशक ( गरुडादि ) रत्नों को सर्वदा धारण करे ॥२१८ ॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ २१ ९ ॥
भाष्य - परीक्षिता विचारिता उपधाभिः शीलशौचाचारै: स्त्रियो दास्यः परिचारिका व्यजनोदकधूपने करणभूतैः संस्पृशेयुरुपचरेयुर्वेषादिसंयुक्ताः सुवेषाः । स्नानेन कृत्वा । समाहिता अप्रविक्षिप्तमनसः । वेषाभरणः । कपटवेष: केशनखाद्येवं विचार्य । कदाचित्तत्रायुधानि कृत्वा विश्रब्धं हन्युः । आभरणानि च विषदिग्धैराभरणैः स्पृशेयुरिति ॥२१९ ॥
हिन्दी —– ( गुप्तचरों के द्वारा ) परीक्षित, ( गुप्त शस्त्र रखने तथा विष - लिप्त भूषण आदि धारण करने की आशङ्का से ) नियत वेष तथा भूषणों से अच्छी तरह शुद्ध ( दोष-रहित ) स्त्रियाँ ( परिचारिकायें अर्थात् दासियाँ ) चामर आदि से हवा करने, स्नान तथा पीने के लिए पानी देने और सुगन्धित धूप आदि करने से राजा की सेवा करे ॥२१९ ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ २२० ॥
भाष्य — एवं विषोदकाञ्चनादिनादौ प्रयत्नं कुर्यात् । स्नानं शिरःस्नानम् । गन्धो रोचनादि । आसनमत्र प्रदर्शनार्थम् । तत्र ह्युपविष्टो यथा तत्र यानादावपि कर्तव्यः ॥२२० ॥
त्रि महान्यत्नः 1 क्रियते एवं हिन्दी – राजा ( अपने ) यान ( सवारी अर्थात् रथ, अश्व, गज आदि ), शय्या ( पलँग या शयनगृह ); आसन ( बैठने के सिंहासन या अन्य चौकी आदि ), अशन ( भोजन ); स्नान, प्रसाधन ( तेल आदि का मर्दन या चन्दन आदि का ) लेपन और सब प्रकार के भूषणों के धारण करने में इसी प्रकार अच्छी तरह परीक्षा कर उन्हें अपने व्यवहार में लाने का प्रबन्ध करे ॥ २२० ॥
रानियों के साथ विहार-भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे
सह ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ २२१ ॥
भाष्य – तस्मिन्नेवान्तर्गृह आत्मविनोदाय स्त्रीभिर्नवोढभार्यादिभिर्यथासुखं क्रीडेत ।
पृष्ठ 139
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता यथाकालमिति यावद्विहरणकालमिति चोत्तरेण सम्बन्धनीयम् । १०७ विहृत्य विश्रान्तः । कालोपपन्नानि कार्याण्येकाकी मन्त्रिभिश्च सह पुन-र्विचारयेत् ॥२२१ ॥
हिन्दी – भोजनकर राजा रनिवास में रानियों के साथ विहार ( क्रीडा ) आदि करे तथा यथासमय ( दिन के सप्तम भाग में विहारकर ) फिर ( दिन के अष्टम भाग में ) राजकार्यों का चिन्तन करे ॥ २२१ ॥
सैनिकादि का निरीक्षण-अलंकृतश्च सम्पश्येदायुधीयं पुनर्जनम् ।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ २२२ ॥
भाष्य – अन्तःपुरान्निष्क्रम्यालंकृत आयुधीयं पश्येत्तस्याच्छायिकां दद्यात् । पुनरिति वचनात्पूर्वाह्णे दृष्टमपि नित्यं दर्शनीयम् । आयुधजीविनामायुधादौ यत्नो भवति । सर्वाणि च वाहनानि । तेषां दर्शनमप्युपचयविज्ञानार्थम्, नियुक्तानां च तत्र विशेषाधनार्थम् । दण्डप्रधानं जीविभृत्यावेक्षणमभीक्ष्णमुभयतस्ततः ॥२२२ ॥
हिन्दी – अलङ्कार आदि पहना हुआ राजा फिर शस्त्रधारी सैनिकों, हाथी - घोड़ा आदि वाहनों, खड्ग, तोमर, कुन्तादि सब अस्त्र - शस्त्रों और भूषणों का निरीक्षण करे ॥२२२ ॥
गुप्तचरों की बातों को सुनना आदि-संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ २२३ ॥
भाष्य- - त्रैवर्णिकस्योक्तमपि सन्ध्योपासनमुच्यते । प्रजाकार्यं पुनः कञ्चित्काल-मतिक्रामेदिति । उत्तरक्रियानन्तर्यार्थं वा । अन्तर्वेश्मनि । रहसि प्रासादादौ भवम् । तस्याख्यायिनः पौरा वा केचित्प्राप्त-प्रणिधयस्तेषां चेष्टितम् । चेष्टा व्यवहारः । किं दृष्टं श्रुतं कृतं चेति तेषां चास्मिन्काले दर्शनमिष्यते । परैरनवबोधनार्थं स्वस्थस्य चार्थकार्यकालनियमेनापतितं वर्तेत ।
“ यथा चोत्पादितं कार्यं सम्पश्येन्नोऽभितापयेत् ।
कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वाऽपि जायते ॥ ” इति ॥२२३ ॥
गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् ।
प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तः पुरं पुनः ॥ २२४ ॥
-भाष्य – तस्माद्गृहान्ते कक्षान्तरं गत्वां तं च रहस्याख्यायिनं विसृज्य स्त्रीभिः
पृष्ठ 140
पाठ पढ़ें पाठ छिपाएँ
१०८ मनुस्मृतिः परिचारिकाभिः परिवृतोऽन्तः पुरं पुनः प्रविशेत् ॥ २२४ ॥
[ सप्तमः हिन्दी— ( फिर राजा ) सायङ्काल का सन्ध्योपासन करके दूसरी कक्षा ( ड्योढ़ी ) के भीतर एकान्त स्थान में स्वयं शस्त्र को धारणकर गुप्त समाचारों को बतलानेवाले गुप्तचरों के कामों को सुने और उसके बाद उन्हें विदाकर परिचारिकाओं ( दासियों ) से परिवृत होकर भोजन के लिए फिर अन्त: पुर में प्रवेश करे ॥ २२३-२२४ ॥
वाद्यश्रवण, भोजन एवं शयन-तत्र भुक्त्वा पुनः किंचित्तूर्यघोषैः प्रहर्षितः ।
संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ २२५ ॥
भाष्य — किंचिदित्यव्ययम् । तूर्याणि वेणुवीणापणवमृदङ्गभेरीशंखादीनि । तेषां घोषैर्मृदुभिः श्रुतिसुखैः । प्रह-र्षितो यथाकालं संविशेत्, य उचितकालस्तं तन्नयेदिति । गतक्लमो विगताशेषदुःख कार्यदर्शनायोत्तिष्ठेत् ॥२२५ ॥
हिन्दी – वहाँ ( रनिवास ) में बाजाओं के शब्दों से प्रहर्षित होकर कुछ भोजनकर यथासमय सो जावे और श्रमरहित होकर शेष रात्रि में उठ ( जग ) जावे ॥२२५ ॥
मुख्य मन्त्री से राजकार्य कराना-एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
अस्वस्थः सर्वमेतत्तु, भृत्येषु विनियोजयेत् ॥ २२६ ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां राजधर्मो नाम सप्तमोऽध्यायः ॥७ ॥
भाष्य — एतदिति यदनुक्रान्तं " मध्यंदिनेऽर्धरात्रे वेति ” तस्याप्येवंवृत्तं व्यापारस्तेन स्वयमुपतिष्ठेत् अस्वस्थो भृत्येषु विनियोजयेद्वियुञ्जीतेत्यर्थः । यावच्छ्नुयात्तावदेव । एवं प्रतिविहितस्वतन्त्रकृतात्मरक्षाव्यापारः प्रजामात्मनश्च कार्यं करोति ॥ २२६ ॥
इति श्रीभट्टमेधातिथिविरचिते मनुभाष्ये सप्तमोऽध्यायः ॥ हिन्दी — निरोग राजा इन सब कार्यों को स्वयं करे तथा जब अस्वस्थ हो तब इन सब कार्यों को मुख्य मन्त्रियों ( उत्तरदायित्व ) पर सौंपे ॥२२६ ॥
मानवे धर्मशास्त्रेऽस्मिन् राजधर्मस्य वर्णनम् ।
शारदायाः प्रसादेन सप्तमे पूर्णतामगात् ॥ १ ॥