मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 141–150
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 141–150
पृष्ठ 141
पाठ पढ़ें पाठ छिपाएँ
॥ अथ अष्टमोध्यायः ॥ व्यवहारदर्शनेच्छु राजा का न्यायालय में जाना-व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रैज्ञर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ १ ॥
भाष्य — प्रजानां पालनं राज्ञो वृत्तिर्विहिता । सा चात्र ( अ ० १० श्लो ० ७ ९ ) “ शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषीर्विशः । आजीवनार्थं शूद्रस्य द्विजातीनां निषेवणम् ॥ ’ ” “ एवं नृपो वर्तमानो लोकानाप्नोत्यनुत्तमान् ॥ ” इति । तथा धर्मो वर्धते लोके । अन्येषामपि वर्णानां क्षत्रियवृत्त्या जीविनामस्त्येव राज्याधिकारः । “ यः कश्चित्सर्वलोकानां पालकश्च पुनः स्मृतः । कर्मनिष्ठा च विहिता लोकसाधारणे हिते ” । परिपालनं च पीडापहारः । द्वयी च पीडा दृष्टाऽऽदृष्टा च । तत्र दुर्बलस्य बलीयसा धनहरणादिना बाध्यमाना दृष्टा पीडा । इतरस्य तु विध्यतिक्रमजनितेन प्रत्यवायेनामुत्रि-कदुःखोत्पादनमदृष्टपीडा । प्रजा हि द्वेषमत्सरादिभिरितरेतरमयथावदाचरन्ति कुपथेन यान्त्यदृष्टदोषेण बाध्येरन् । अतश्च राज्यनाशः । प्रजैश्वर्यं हि राज्यमुच्यते । तासु विन-श्यन्तीषु कस्य राज्यं स्यात् । व्यवहारादयोऽतः शास्त्रदण्डेन व्यवस्थाप्यमाना न भयात्-पृथक् प्रचलन्ति तथा चोभयथाऽपिरक्षिता भवन्ति । धनदण्डश्च राज्ञः करशुल्कादि वा । एतदन्या धर्मिष्ठजीविका न भवतीति वृत्तिपरिक्षयादपि राज्यावसादः । अतो राज्यस्थि-त्यर्थं व्यवहारदर्शनं कर्तव्यम् । तदिदानीमुच्यते । व्यवहारश्चात्र वादिप्रतिवादिनोरितरेतराशनोधाराय वृत्तिरुच्यते । अथवा ऋणादानादयः पदार्था एव विप्रतिपत्तिविषयाः सन्तो विचारगोचरसमर्थतया कर्त्तव्या इति । दिदृक्षुरित्युक्त्वा ' पश्येत्कार्याणीति ' ( श्लो ० २ ) सामानाधिकरण्यम् । पुनश्च प्रत्यवमर्शः ‘ तेषामाद्यमृणादानमिति ' ( श्लो ० ४ ) । तान् पदार्थान्विचारयेदिति सम्बन्धः । वक्ष्यमाणाधिकृतपुरुषाधिष्ठितः प्रदेशः सभा । प्रवेशस्तदभ्यन्तरभावः । किमेक एव प्रविशेच्चेत्याह ब्राह्मणैः सहेति ।
पृष्ठ 142
पाठ पढ़ें पाठ छिपाएँ
११० मनुस्मृतिः [ अष्टमः अथ मन्त्रज्ञैरिति कस्य विशेषणम्? न तावन्मन्त्रिणो मन्त्रित्वादेव सिद्धेः । न हि मन्त्रमजानानो मन्त्रीति शक्यते वक्तुम् । नापि ब्राह्मणानां व्यवहारदर्शनेऽधिकृतानां तत्परिज्ञानमदृष्टं न स्यात् । अत्रोच्यते । ब्राह्मणविशेषणमेवैतत् । ते ह्यमन्त्रज्ञा भूत्वा निरपेक्षमवधारयन्तः स्युन्यथा राज्ञोऽनर्थमावहेयुः । तथा हि महामात्याश्रितः कश्चिञ्जनपदेन व्यवहरन्सहसा जितो यदि न दण्ड्यते धनं वाऽवष्टभ्य न दाप्यते तदा समत्वेन व्यवहारदर्शनं न कृतं स्यात्, पक्षपातमशक्तिं वाऽस्य जनपदा मन्येरन् । अथ दण्ड्यते महामात्यक्षोभादपि प्रकृतिविकृतं स्यात् । मन्त्रज्ञास्तु सन्तः संशयितारो यदि निर्णेतव्यस्य केनचिदपदेशेन प्रसङ्गरोधं कृत्वा रहसि राजानं परिबोधयन्ति ' अनयोर्विवादिनोरयं जीयतेऽयं जयतीति व्यवहारस्त्वस्माभिर्न तदानीमेव निर्णीत इति स्वामी प्रमाणं ' तत्र राजैवं विदित्वा महा-मात्यमादेशयति “ त्वदीयो मनुष्यो जीयते मम हानिर्मा भूदिति संप्रति निर्णयोऽवधीरितः । त्वमेव तथा कुरु यथैषा मनुष्यः संधीयते बाधाऽस्य व्यपनीयते ” । ते मन्त्रिणो वाऽऽदेय-वाक्या मनुष्याणां सर्वेषामनर्थ्यां च प्रवृत्तिं प्रतिबध्नन्ति । अन्ये तु काकाक्षिवदुभयविशेषणमर्थभेदेन मन्त्रज्ञपदं मन्यन्ते । यदा मन्त्रिणो विशेष्यन्ते तत्तद्धातुतत्परिज्ञानमन्त्रज्ञानम् । ब्राह्मणपक्षे तु कार्यार्थसमभावश्च । मन्त्रि-ब्राह्मणानां न प्रवेशमात्रमेव किन्तर्हि ' निर्णयं पश्येत् ' इत्युत्तरत्र वाक्यानि यथायोग्य इतरथाऽदृष्टाय प्रवेशः स्यात् । अतो नैकाकी निर्णयं कुर्यात्किन्तर्हि तैः सह निरूप्येति । विनीतो वाक्पाणिपादचापलरहितः । वेपतो ह्यनर्थः स्यात् । पार्थिवग्रहणान्न क्षत्रियस्यैवायमुपदेशः किन्तर्ह्यन्यस्यापि पृथिव्यामधिपतेर्देशेश्वरस्य न ह्यनथा राज्य-मविचलितं भवतीति ॥१ ॥
हिन्दी— ( प्रजाओं के वक्ष्यमाण - ८।४-७ ) व्यवहार अर्थात् मुकदमों को देखने का इच्छुक राजा ( आगे कहे जानेवाले लक्षणों से युक्त ) ब्राह्मणों तथा पूर्वोक्त पञ्चाङ्गों से युक्त मन्त्रों को जाननेवाले मन्त्रियों के साथ नम्रभाव से ( वचन, हाथ, पैर तथा नेत्रादि की चञ्चलता से रहित होकर ) राजसभा ( न्यायालय ) में प्रवेश करे ॥१ ॥
तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ २ ॥
भाष्य – आसीनो धर्मासनोपविष्टः । स्थितो निषिद्धगतिरनुपविष्ट एव । स्थाना-सनयोश्च व्यवस्थितो विकल्पः कार्यविशेषापेक्षः । गरीयस कार्ये बहुवक्तव्य उपविष्ट आसीनः लघीयसि स्वल्पवक्तव्ये स्थितः । क्रममाणस्य सर्वथा प्रतिषेधः । स हि मार्गा-वलोकनपरो नार्थिप्रत्यर्थिनोर्निपुणतो वचनमवधारयेत् । अन्ये त्वदृष्टार्थं तथा मन्यन्ते । तपस्विब्राह्मणादिषु विवादिषु स्थितेषु स्थित आसीनेष्वासीनः ।
पृष्ठ 143
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १११ पाणिमुद्यम्येति उत्तरपाणिमुद्धृत्योत्थानं कृत्वेत्यर्थः । सूत्रकृतोऽयं व्यतिक्रमः सर्वदा विहितत्वाद्वसनोपव्यानमेतत् । तेनायमर्थो हस्त उत्क्षेप्तव्यो न पुनः समीपवर्तिनि संलग्नः कर्तव्यः । प्रश्ननिषेधावसरे च तेनाभिनेतव्यं न तु प्रव्याणादिना । अनेन व्यवहारदर्शनेन तात्पर्यं ख्यापितं भवति । प्रायेण हि पुरुषकार्येषु प्रयत्नवन्तो हस्तमुद्यच्छन्ति । यथा-सुखोपविष्टं व्रजति कर्तारं ततश्च परिजने तदेतद्राजा वित्तं न ददाति सभ्यैर्निर्भयैर्वयं जिता इति । पाणिग्रहणं बाहूपलक्षणार्थम् । केवलस्य हि हस्तस्य यावद्व्यवहारदर्शनं व्यापारणं पीडाकरम् । न चायमदृष्टार्थ उपदेशः । विनीतवेषाभरण इति । पूर्वश्लोकेबाह्याभ्यन्तरेन्द्रियविषयावधानार्थोऽभिहितः । अयं तावल्लोकानां शालीनतया सुखोपसर्पणार्थः । उद्धतवेषे हि राजनि तथाविधानाम-प्रतिपत्तिः स्यात् । अत उद्धतवेषाभरणं न कथंचित् स्यात् । वेषः केशवसनविन्यासादि-विशेषः । आभरणं कर्णिकादि । तत्रोद्धतवेष ऊर्ध्ववस्त्रो जवनरक्ताम्बरधारितेत्यादि । उद्धताभरणो दीप्तिमद्वहुरत्नालङ्कारो बहुहारश्च । सुह्यादित्य एव दुर्निरीक्ष्यः सामान्य-जनानां विशेषतोऽभियुक्तानाम् । पश्येदिति । सभाप्रवेशस्य प्रयोजनमाह— पश्येद्विचक्षणः । अयं च राज्ञो दर्शनोपदेशो दण्डप्रणयने यथास्थानार्थप्रतिपादनपर्यन्तो भविष्यति । तात्पर्यं तस्यैव रक्षाधिकारः प्रयुक्तः स्यात् । ईदृशस्य च दर्शनस्यान्येषामसम्भावनादन-धिकारः । सर्वेषां संशयच्छेदमात्रफलं तु व्यवहारदर्शनं प्रायश्चित्तोपदेशवद्विदुषो ब्राह्मण-स्यास्त्येव । उक्तं हि ‘ धर्मसंकटेषु ब्रूयादिति ' । तथैकवर्ग्याणां वाणिज्यकर्षकपशुपाल-प्रभृतीनां स्ववर्गसामयिककार्थविप्रतिपत्तावन्यस्यां वोत्सुकनिर्णयाद्भूतिरिति तथाविध-व्यवहारदर्शने नियोगः । तथा हि पठितम् ( ना ० स्मृ ० ७ )
“ कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ’ ” ॥ इति ॥
तत्र ‘ कुलानि ’ बन्धुजनसमूहः । तैर्या व्यवस्था कृता ततो न विचलितव्यम् । अथ तत्र नाश्वस्युस्तवैतेऽधिकतरं सम्बन्धिन इति वदन्तस्ततः श्रेणिषु निवेदितव्यम् । ‘ श्रेणयः ’ समानव्यवहारजीविनो वणिक्प्रभृतयः । तेषां बन्धुभ्योऽधिकगुरुत्वम् । बान्धवा हि ज्ञातिधर्मभयाद्विचलितं न नियच्छन्ति । श्रेणयस्तु राजगमनेन श्रेणिधर्मो राजपुरुष-प्रवेशात्परिभवनीयत्वेन नश्यतीति अविचलनार्थं प्रतिभूग्रहणपूर्वकं विचारयन्ति य एतस्माद्विचलति । परिषदि दण्डो दातव्यश्चलितुं वाऽपि त्वया न देयमिति । ' गणा ’ गणशश्चारिणो गृहप्रासादादिकरा मठब्राह्मणादयश्च । ते स्वगणिनां व्यवहारं पश्येयुः । तत्राविचलार्थं उपसदः कर्तव्याः । पूर्वे समानकर्मजीविन एकाकिनोऽपि, इमे तु सम्भूय-कारिण इति विशेषः । श्रेणिभ्यः सम्भूयकारितया विवादिनो भूमिज्ञत्वात् । अन्ये तु
पृष्ठ 144
पाठ पढ़ें पाठ छिपाएँ
११० मनुस्मृतिः [ अष्टमः अथ मन्त्रज्ञैरिति कस्य विशेषणम्? न तावन्मन्त्रिणो मन्त्रित्वादेव सिद्धेः । न हि मन्त्रमजानानो मन्त्रीति शक्यते वक्तुम् । नापि ब्राह्मणानां व्यवहारदर्शनेऽधिकृतानां तत्परिज्ञानमदृष्टं न स्यात् । अत्रोच्यते । ब्राह्मणविशेषणमेवैतत् । ते ह्यमन्त्रज्ञा भूत्वा निरपेक्षमवधारयन्तः स्युन्यथा राज्ञोऽनर्थमावहेयुः । तथा हि महामात्याश्रित: कश्चिञ्जनपदेन व्यवहरन्सहसा जितो यदि न दण्ड्यते धनं वाऽवष्टभ्य न दाप्यते तदा समत्वेन व्यवहारदर्शनं न कृतं स्यात्, पक्षपातमशक्तिं वाऽस्य जनपदा मन्येरन् । अथ दण्ड्यते महामात्यक्षोभादपि प्रकृतिविकृतं स्यात् । मन्त्रज्ञास्तु सन्तः संशयितारो यदि निर्णेतव्यस्य केनचिदपदेशेन प्रसङ्गरोधं कृत्वा रहसि राजानं परिबोधयन्ति ' अनयोर्विवादिनोरयं जीयतेऽयं जयतीति व्यवहारस्त्वस्माभिर्न तदानीमेव निर्णीत इति स्वामी प्रमाणं ' तत्र राजैवं विदित्वा महा-मात्यमादेशयति “ त्वदीयो मनुष्यो जीयते मम हानिर्मा भूदिति संप्रति निर्णयोऽवधीरितः । त्वमेव तथा कुरु यथैषा मनुष्यः संधीयते बाधाऽस्य व्यपनीयते ” । ते मन्त्रिणो वाऽऽदेय-क्या मनुष्याणां सर्वेषामनर्थ्यां च प्रवृत्तिं प्रतिबध्नन्ति । अन्ये तु काकाक्षिवदुभयविशेषणमर्थभेदेन मन्त्रज्ञपदं मन्यन्ते । यदा मन्त्रिणो शेष्यन्ते तत्तद्धातुतत्परिज्ञानमन्त्रज्ञानम् । ब्राह्मणपक्षे तु कार्यार्थसमभावश्च । मन्त्रि-ब्राह्मणानां न प्रवेशमात्रमेव किन्तर्हि ' निर्णयं पश्येत् ' इत्युत्तरत्र वाक्यानि यथायोग्य इतरथाऽदृष्टाय प्रवेशः स्यात् । अतो नैकाकी निर्णयं कुर्यात्किन्तर्हि तैः सह निरूप्येति । विनीतो वाक्पाणिपादचापलरहित: । वेपतो ह्यनर्थ: स्यात् । पार्थिवग्रहणान्न क्षत्रियस्यैवायमुपदेशः किन्तर्ह्यन्यस्यापि पृथिव्यामधिपतेर्देशेश्वरस्य न ह्यनथा राज्य-मविचलितं भवतीति ॥१ ॥
हिन्दी— ( प्रजाओं के वक्ष्यमाण - ८।४-७ ) व्यवहार अर्थात् मुकदमों को देखने का इच्छुक राजा ( आगे कहे जानेवाले लक्षणों से युक्त ) ब्राह्मणों तथा पूर्वोक्त पञ्चाङ्गों से युक्त मन्त्रों को जाननेवाले मन्त्रियों के साथ नम्रभाव से ( वचन, हाथ, पैर तथा नेत्रादि की चञ्चलता से रहित होकर ) राजसभा ( न्यायालय ) में प्रवेश करे ॥ १ ॥
तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ २ ॥
भाष्य — आसीनो धर्मासनोपविष्टः । स्थितो निषिद्धगतिरनुपविष्ट एव । स्थाना-सनयोश्च व्यवस्थितो विकल्पः कार्यविशेषापेक्षः । गरीयसि कार्ये बहुवक्तव्य उपविष्ट आसीनः लघीयसि स्वल्पवक्तव्ये स्थितः । क्रममाणस्य सर्वथा प्रतिषेधः । स हि मार्गा-वलोकनपरो नार्थिप्रत्यर्थिनोर्निपुणतो वचनमवधारयेत् । अन्ये त्वदृष्टार्थं तथा मन्यन्ते । तपस्विब्राह्मणादिषु विवादिषु स्थितेषु स्थित आसीनेष्वासीनः ।
पृष्ठ 145
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १११ पाणिमुद्यम्येति उत्तरपाणिमुद्धृत्योत्थानं कृत्वेत्यर्थः । सूत्रकृतोऽयं व्यतिक्रमः सर्वदा विहितत्वाद्वसनोपव्यानमेतत् । तेनायमर्थो हस्त उत्क्षेप्तव्यो न पुनः समीपवर्तिनि संलग्नः कर्तव्यः । प्रश्ननिषेधावसरे च तेनाभिनेतव्यं न तु प्रव्याणादिना । अनेन व्यवहारदर्शनेन तात्पर्यं ख्यापितं भवति । प्रायेण हि पुरुषकार्येषु प्रयत्नवन्तो हस्तमुद्यच्छन्ति । यथा-सुखोपविष्टं व्रजति कर्तारं ततश्च परिजने तदेतद्राजा वित्तं न ददाति सभ्यैर्निर्भयैर्वयं जिता इति । पाणिग्रहणं बाहूपलक्षणार्थम् I । केवलस्य हि हस्तस्य यावद्व्यवहारदर्शनं व्यापारणं पीडाकरम् । न चायमदृष्टार्थ उपदेशः । विनीतवेषाभरण इति । पूर्वश्लोकेबाह्याभ्यन्तरेन्द्रियविषयावधानार्थोऽभिहितः । अयं तावल्लोकानां शालीनतया सुखोपसर्पणार्थः । उद्धतवेषे हि राजनि तथाविधानाम-प्रतिपत्तिः स्यात् । अत उद्धतवेषाभरणं न कथंचित् स्यात् । वेषः केशवसनविन्यासादि-विशेष: । आभरणं कर्णिकादि । तत्रोद्धतवेष ऊर्ध्ववस्त्रो जवनरक्ताम्बरधारितेत्यादि । उद्धताभरणो दीप्तिमद्बहुरत्नालङ्कारो बहुहारश्च । सु ह्यादित्य एव दुर्निरीक्ष्यः सामान्य-जनानां विशेषतोऽभियुक्तानाम् । पश्येदिति । सभाप्रवेशस्य प्रयोजनमाह — पश्येद्विचक्षणः । अयं च राज्ञो दर्शनोपदेशो दण्डप्रणयने यथास्थानार्थप्रतिपादनपर्यन्तो भविष्यति । तात्पर्यं तस्यैव रक्षाधिकारः प्रयुक्तः स्यात् । ईदृशस्य च दर्शनस्यान्येषामसम्भावनादन-धिकारः । सर्वेषां संशयच्छेदमात्रफलं तु व्यवहारदर्शनं प्रायश्चित्तोपदेशवद्विदुषो ब्राह्मण-स्यास्त्येव । उक्तं हि ‘ धर्मसंकटेषु ब्रूयादिति ' । तथैकवर्ग्याणां वाणिज्यकर्षकपशुपाल-प्रभृतीनां स्ववर्गसामयिककार्थविप्रतिपत्तावन्यस्यां वोत्सुकनिर्णयाद्भूतिरिति तथाविध-व्यवहारदर्शने नियोगः । तथा हि पठितम् ( ना ० स्मृ ० ७ )
“ कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ” ॥ इति ॥
तत्र ' कुलानि ' बन्धुजनसमूहः । तैर्या व्यवस्था कृता ततो न विचलितव्यम् । अथ तत्र नाश्वस्युस्तवैतेऽधिकतरं सम्बन्धिन इति वदन्तस्तत: श्रेणिषु निवेदितव्यम् । ‘ श्रेणयः ’ समानव्यवहारजीविनो वणिक्प्रभृतयः । तेषां बन्धुभ्योऽधिकगुरुत्वम् । बान्धवा हि ज्ञातिधर्मभयाद्विचलितं न नियच्छन्ति । श्रेणयस्तु राजगमनेन श्रेणिधर्मो राजपुरुष-प्रवेशात्परिभवनीयत्वेन नश्यतीति अविचलनार्थं प्रतिभूग्रहणपूर्वकं विचारयन्ति य एतस्माद्विचलति । परिषदि दण्डो दातव्यश्चलितुं वाऽपि त्वया न देयमिति । ‘ गणा ’ गणशश्चारिणो गृहप्रासादादिकरा मठब्राह्मणादयश्च । ते स्वगणिनां व्यवहारं पश्येयुः । तत्राविचलार्थं उपसदः कर्तव्याः । पूर्वे समानकर्मजीविन एकाकिनोऽपि, इमे तु सम्भूय-कारिण इति विशेषः । श्रेणिभ्यः सम्भूयकारितया विवादिनो भूमिज्ञत्वात् । अन्ये तु
पृष्ठ 146
पाठ पढ़ें पाठ छिपाएँ
११२ मनुस्मृतिः [ अष्टमः कुलानीति मध्यस्थपुरुषानाहुः । ते हि कार्याभ्यन्तरा अश्रेणिकृता एव निर्णेतारः । ‘ अधिकृत: ’ त्रैविद्यो विद्वान् ब्राह्मणः । तस्य हि धर्मसंकटेषु प्रवक्तृत्वं विहितम् । तस्य पूर्वेभ्यो गुरुत्वं वैदुष्यात् । नृपस्यापि गुरुत्वमतिशयशक्तित्वादतः स्वयं विदुषां नृपेण निर्णीते नास्त्येतत्—
“ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।
द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥ ” इति ॥
अन्येषु करणेष्वेतद्भवति । तत्र ह्यस्ति वचनावसरो नाधिकृतैः सम्यक् निर्णीतं राज्ञा तु विवेचिते किं वक्ष्यतीति । अर्थान्तरम्— नृपैरधिकृतो राजस्थानीयब्राह्मणः । तथाऽन्यस्य गृहिणः स्वतन्त्रस्तु गृहे गृहीति स्वातन्त्र्यस्मरणाद्दण्डपर्यन्तोऽस्त्येव व्यवहारः । सुपरीक्षितो भवति । वासनाविनयार्थं श्रुतिग्राह्यप्रसक्तशिष्यसुताद्याः “ अन्यत्र दण्डाच्छारीरात्पतनीयाच्च कर्मण ” इति । स्वल्पेऽपराधे गृहस्थ एव राजायते । महति व्यतिक्रमे राजनिवेदन-मेवोचितमित्यस्यार्थः । अतश्च यत्कैश्चित्पश्येदिति परिसंख्यार्थत्वमारोप्य ब्राह्मणादीनामधिकार आशङ्कितः पुनश्च क्लेशेन समर्थितस्तदयुक्तम् । विषयभेदादधिकारभेदात् । स्वविषयो हि राज्ञो दण्डावधिको ब्राह्मणादीनां निर्णयावधिः । अधिकारोऽपि भिन्नः । राज्ञो राज्यस्थिति-प्रयोजनम्, इतरेषां संशयच्छेदादेरपरोपकारकत्वम् । अतो नो वृत्तिसङ्कराशङ्कव नास्ति । कार्यो विप्रतिपत्तिनिरासः । अर्थिनां विप्रतिपन्नयोर्हि साम्यं व्यवहारदर्शने राज्ञा कर्तव्यम् । नो चेत्संविदाने को राज्ञः स्वाधिगमे निरोधः ॥ २ ॥
हिन्दी – ( राजा ) वहाँ पर अर्थात् न्यायालय में बैठकर या खड़ा होकर दाहिने हाथ को उठाकर विनम्र वेष - भूषा से युक्त होकर कार्यार्थियों के कार्यों को देखे || २ ||
कुल - देशानुसार कार्यदर्शन-प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ ३ ॥
भाष्य- - पूर्वेणार्धेन निर्णयहेतवः कथ्यन्ते । उत्तरेण विवादपदसङ्ख्यानिर्देशः । ‘ पश्येदिति ' पूर्वश्लोकादनुषज्यते कार्याणीति च । प्रत्यहं पश्येत्कार्याणि प्रतिदिवस-गमने व्यवहारनिर्णयः कर्तव्य: । हेतुभिरिति हेतुर्निर्णयसाधनम् । स च द्विविधः । प्रमाणरूपो व्यवस्थारूपश्च । तत्र प्रमाणरूपोऽर्थनिर्णयहेतुः साक्ष्यादिः । व्यवस्थारूपो यतोऽसत्ये वाऽर्थनिश्चये व्यवहारः संतिष्ठते । यथा सत्यशपथ उभयानुमत एक: साक्षी यद्यर्थिप्रत्यर्थिभ्यामभ्युपगतप्रमाणभावः सभ्यैरपरिक्षितोऽपि निर्णयहेतुतां प्रतिपद्यते । न
पृष्ठ 147
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ११३ च परीक्षितस्य पुंसो वचनादसत्यात्पूर्ववदर्थनिश्चयः प्राश्निकानामभ्युपगमेऽपि व्यवस्था-हेतुर्भवति । सा च व्यवस्था द्विविधा । साधारण्यसाधारणी च । देशभेदादाश्रयभेदात्साऽपि द्विविधा । अविरुद्धा विरुद्धा च । अविरुद्धा यथा केषांचिद्दाक्षिणात्यानामपुत्रा स्त्रीभर्तर्युपरते सभास्थाणुमुपारोहति तमुपारूढाऽधिकृतैः परीक्षिता कृतलक्षणा तत्क्षणानन्तरं सपिण्डेषु ऋक्थं लभते । तथोदीचां लभ्यमानां कन्यां याचमानाय भोजनं यदि दीयते तत इयं तुभ्यं दत्तेत्यनुक्तेऽपि प्रतिश्रुता भवति । विरुद्धा च । क्वचिद्देशे वसन्ते धान्यं प्रयुज्यते शरदि द्विगुणं प्रत्यादीयते । तथाऽनुज्ञातभोग आधिर्द्विगुणेऽपि तदुत्थधने प्रविष्ट आ मूल-हिरण्यदानाद्भुज्यत एव । एषा हि “ अशीतिभागं गृह्णीयात् ” “ कुसीदवृद्धिर्द्वैगुण्यं नात्ये-तीति ' ( १५१ ) विरुद्धा । तत्र भेदाश्रया देशदृष्टहेतुशब्देनाभिहिताः । शास्त्रदृष्टास्तु हेतवः शास्त्रे पठिताः । ते च केचन शास्त्रकारैः कल्पितव्यवस्थाः केचिद्यथावस्त्ववस्थिता अनुदिताः । तत्र कल्पितव्यवस्था यथालेख्यं यथोपभोगः साक्षिणश्चानुमानं वस्तुनियतं “ यथा नयत्य-सृक्पातैर्मृगस्य मृगयुः पदम् ” ( ४४ ) इति । यद्यपि सर्वं लौकिकं न शास्त्रकारवचनवत्-प्रामाण्यं लभते तथाऽपि लौकिकमेव क्वचिच्छास्त्रमाश्रयितव्यम् । यच्चेदृशे चापराध इदं दिव्यं इयता च कालेन भोगः प्रमाणमिति लौकिकमपि तच्छास्त्रदृष्टमित्युक्तम् । तस्यां च व्यवस्थायां शास्त्रकाराणां मूले सम्भवति सा प्रमाणम् । या त्वसम्भवतन्मूला सा नादरणीया । यथा लेख्यक्रमपाठः । ( यज्ञाव ० व्य ० ८८ ) " उभयाभ्यर्थितेनैवं मया ह्यमुकसूनुना । लिखितं ह्यमुकेनैव लेखकस्तत्त्वतो लिखेत् ॥ ” इति । यस्यादावेव लेखक: स्वनाम निवेशयेदिदंनामाहममुष्य पुत्रो लिखामीदमिति न कश्चिद्दोषः स्यात् । स ह्येवमर्थं नाम निवेशयत्यनेनेदं लिखितमिति लेखक उपलक्षितो यथा स्यात् । यदि ह्यसौ लेखक: प्रमाणान्तरेण प्रत्ययितो भवति ततस्तल्लिखितं प्रमाणम् । यदि चासावात्मानं स्वगोत्रनाम्ना नोपलक्षयेत्ततः कस्य प्रत्ययितता प्रमाणान्तरादन्विष्यताम् । अथ तु लेख्या-न्तरदर्शनेनान्येन वा हेतुना विशिष्टलेखक इति प्रत्यभिज्ञानं स्यादनुपलक्षितोऽपि न कश्चिद्दोषः । तत्र यदि लेखको न लिखेन्मयेदं लिखितमिति भवेदेव तादृशं लेख्यं परि-पूर्णलक्षणम् । एषा च लेखकपरीक्षा तत्रोपयुज्यते । पत्रलेखकस्य साक्षित्वान्तर्भावोऽन्येषां साक्षिणामल्पत्वात् । यत्र त्वन्ये बहवः प्रत्ययिताः साक्षिणः स्वहस्तारूढाः सन्ति तत्र लेखकसम्बन्धिनी प्रत्ययितता नोपयुज्यते । तथेयमपरा व्यवस्था ( नारद १।१४५ ) “ लिखितं लिखितेनैव साक्षिमच्चैव साक्षिभिः । साक्षिभ्यो लिखितं श्रेयो लिखिते न तु साक्षिणः ” नास्यामपि व्यवस्थायां किञ्चिन्निबन्धनमस्ति । तथा हि द्विविधं लेख्यम्— स्वहस्तकृतं परहस्तकृतं च । परहस्तकृतमपि द्विविधम् — स्वहस्तलेखकलिखितमधि-
पृष्ठ 148
पाठ पढ़ें पाठ छिपाएँ
११४ मनुस्मृतिः [ अष्टमः कृतलेखकलिखितम् । तदेतत्परहस्तकृतं सर्वप्रकारं साक्ष्यात्मकमेव । तत्र साक्षिभ्यो लिखितमिति भेदानुपपत्तेः । इदं हि तस्य लक्षणम् ( याज्ञ ० व्यव ० ८७ ) । “ साक्षिणः स्वस्वहस्तेन पितृनामादिपूर्वकम् । तत्राहममुकः साक्षी लिखेयुरिति ते समम् ” इति । नाप्येकहस्तलिखितस्य प्रामाण्यमिष्यते । यथैकस्य साक्षित्वे । “ अथायं भेदहेतुसाक्षिणो हस्तारूढास्त एव लेख्यमिति " नानेन विशेषेण श्रेयस्त्वं भवति । ” प्रत्ययितता हि श्रेयस्त्वे हेतुः । सा चोभयत्रापि परीक्ष्या । तस्मादीदृशे लेख्ये साक्षिद्वैधा-न्त्यायो बहुत्वं परिगृह्णीयादिति । अधिकृतत्वमपि न विशेषः । परीक्षितोऽधिक्रियत इत्येतत्तत्राधिक्यम् । न च सर्वे राजाधिकृताः सुपरीक्षिता भवन्ति । यदि तु निरुपाधि-स्तादृशश्चेदत्यन्तगुणयोगात्स्यादुपेयादेवासौ एक एव संवादकत्वम् । तथा हि राजा-प्रहारशासनान्येककायस्थहस्तलिखितान्येव प्रमाणीभवन्ति । अदातुः स्वाहस्तक्यं स्वय-मभ्युपगमः ‘ इयदस्मान्मया गृहीतमिदं चास्मै दातव्यमिति ' । तत्र यदि पश्चात् ब्रूते न गृहीतमिति तदा पूर्वनिबद्धं ब्रुवाणैर्जीयते । तत्र साक्षिणामवसर एव नास्ति । “ ननु च यदीयाल्लेख्यादभ्युपगतमेतदनेनेत्यवगम्यते, उत्तरकालं च स एवाह न गृहीतमिति, तत्रोभयोरभ्युपगमयोः केन हेतुना पूर्वेणोत्तरा बाध्येत न पुनरुत्तरेण पूर्वा । तुल्यत्वाद्विरुद्धत्वसंशयः । ततश्च प्रमाणान्तरव्यापारणमेव युक्तम् । ” भवेदेवं यदि तुल्यता स्यात् । न गृहीतमिति ह्यभ्युपगमो लोभादिनाऽपि सम्भवति, न त्वगृहीत्वाऽनुन्मत्तो गृहीतमिति ब्रूयात् । तत्रापि यदि ब्रूयात्प्रतिदत्तमिति लेख्यं तु न सम्पादितं असन्निधानात्प्रतिलेख्यं च न गृहीतं लेखकासंनिधानात्कार्यान्तरेऽतिपातिनि त्वरावत्वान्नास्त्येव प्रमाणान्तरस्य साक्ष्यादेरवसरः । यदपि “ लिखितं लिखितेनेति ' नैषा परिभाषा वस्तुसामर्थ्यायातामगतिं बाधितुं शक्नोति । दृश्यन्ते हि धनिकहस्तगतलेख्यं क्रमेण संशोधयन्तः, न च पृष्ठे संशोधितं धनमभिलिखन्ति । अद्य तावदिदं दत्तं प्रातरन्यदानीयैकीकृत्योपर्यारोपयिष्यामि सर्वं वा कतिपयैरहोभिः संशोध्य लेख्यं पाटयिष्यामीति । धनिकेन चोपरुद्धस्यासम्भवत्यंशमूल-लाभधने संशुद्धिभागमात्रे दीयमाने कुत इयं तत्प्रभवति न ददाति यावत्प्रतिलेख्यं न दत्तमिति । यदि चैषा परिभाषा “ लिखितं लिखितेनैवेति ” तदा बलोपधिकृतत्वं कथं विचार्यताम् । न हि तत्र लेख्यान्तरसम्भवः । तेन यथाऽत्र सत्येव लेख्ये तन्निश्चयार्थं प्रामाणान्तरं व्यापार्यते तद्वदन्यत्रापि व्यापारणीयम् । यथा कश्चिदावेदयेत् — ' अस्य प्रत्ययं गत्वा लेख्यं मया कृतमनेनोक्तमद्य मुण्याहकारणमिमां च धनमात्रां गृहाण, श्वस्ते सर्वं दाताऽस्मीत्युक्त्वा सैव धनमात्रा दत्ता परिशिष्टं न दत्तमिति ' – तदाऽस्त्येव साध-कान्तरव्यापारणावसरः । तत्र यद्यधमर्णस्यास्मिन्प्रकारे साक्षिणः सन्ति तदाऽभिहिते लेख्य आभासोकृते श्वो दानमुत्तमर्णेन साधनीयम् । अथ तयोरपि रहसि परिभाषेयम-
पृष्ठ 149
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ११५ भूत्तदा दैव्याः क्रियाया अवसरः । अथ तु तस्यामपि व्यभिचरित्वादनाश्वासः सत्य-शपथेन व्यवस्था कार्या । “ नान्वेवं सति स्वहस्तलेख्यं प्रमाणान्तरसंवेदसापेक्षत्वादप्रमाणमेव । तत्र ‘ विना-ऽपि साक्षिभिः सिध्येत् ’ ' न स्वहस्तपरिचिह्निमिति ' विरोधः । अनेनैव न्यायेन प्रत्यक्षं दीयमानं द्रव्यं न पश्यति । केवलं तत्समक्षं गृहीत्वा परिभाष्यत इयदिदमस्मान्मया गृहीतमिति । तेऽपि साक्षिणः स्युः । तत्रापि शक्यते वक्तुमस्य प्रत्ययं गत्वा प्रपन्नो-ऽहमिति । " उक्तमत्र न स्मृतिविरोधाद्वस्तुस्थितिराहन्तुं शक्यते । अपि च यत्रास्य वचनस्या-वसरो नास्ति तत्र प्रमाणं भविष्यति । क्वचिन्नास्ति — यत्र चिरकालं तिष्ठति धनिकहस्ते लेख्यं यदि हि तेन धनं दत्तं तदा कथमनेन वा नाम न मार्गितं लेख्यं न त्याजितमिति । न हि चिरकालमुपेक्षा वस्तुनीदृशे सम्भवति । मिथ्यावादिता त्वस्यानुमीयते । तथा चोक्तम् “ सद्यस्त्र्यहाद्वा कार्येषु बलं राज्ञो निवेदयेदिति ” । यत्र वा भोग्यबन्धो न च भोग आम्नातोऽपहारकालस्तत्र विप्रतिपत्तौ विनाऽपि साक्षिभिः स्वहस्तलेख्यं न ह्यधमर्णा वक्तुं लभन्ते प्रीत्या त्वयैतदुक्तं संप्रति त्यजेति । न च पूर्वोक्तस्य वचनस्यावसरः । कृतं लेख्यं ततो दास्यामीत्युक्त्वा न दत्तमिति । यदि न दत्तं कथं बन्धभोगो मर्षितः । ननु चैवं सति लेख्यसहायो भोगः प्रमाणं स्यात् । केवलस्य तु भोगस्य प्रामाण्यमामनन्ति । “ लिखितं साक्षिणो भुक्तिरिति ” । किमिदं प्रत्युक्तं पर्यनुयुज्यामहे । विशिष्टकालो भोगः प्रमाणं न भोगमात्रम् । एवं हि पठ्यते ( १४७ ) “ यत्किंचिद्दशवर्षाणि ” – तथा “ पश्यतोऽब्रुवतो भूमेर्हानिर्विंशति-वार्षिकीति ' ( या ० व्य ० २४ ) । कस्तर्ह्यस्यार्थो “ लिखितं लिखितेनैवेति ” । व्याख्यातमन्यैः । कर्तृविशेषसंशयेऽनेनैतल्लिखितं न वेति लिखितेन निश्चित-तत्कर्तृकेण निश्चीयते । यत्तु साक्षिसमक्षं तत्र कृताकृतसंदेहं साक्षिभिर्हरति । त एव तत्र प्रमाणम् । न तत्र तत्कृतलेख्यान्तरदर्शनमुपयुज्यते । बुद्धिपूर्वेषु च ऋणादानादिषु केवलेभ्यः साक्षिभ्यो लिखितं श्रेयः । साक्षिणो हि विस्मरेयुरन्यतरेण वा सम्बन्धं गच्छेयुरन्यद्वा पातकस्यासाक्षित्वे हेतुमासादयेयुः । लेख्यं त्वभियोगवत आत्माधीनतया सुरक्षमिति साक्षिभ्यः श्रेयस्त्वं तस्य । एतदेवाह “ लिखिते न तु साक्षिणः ” इति स्वहस्तप्रतिष्ठेन विस्मृतमप्यर्थं वृत्तमिति मन्यते । मृता वा साक्षिणस्तद्वस्तुप्रत्यभिज्ञानेन प्रमाणीभवन्ति । व्याख्यानान्तराणि भर्तृयज्ञेनैव सम्यक्कृतानीति तत एवावगन्तव्यानि 1 । सर्वथा प्रमाणमूलानि स्मृतिकारणम् । व्यवस्था तु कर्तव्येति । न च स्मृतेरेव प्रमाणकल्पना
पृष्ठ 150
पाठ पढ़ें पाठ छिपाएँ
1 ११६ मनुस्मृतिः [ अष्टमः युक्ता । न हि व्यवहारस्मृतिर्वेदमूला शक्यते वक्तुम् सिद्धार्थरूपत्वात्प्रत्यक्षाद्यवगम्य-त्वाज्जयपराजयप्रकाराणाम् । सिद्धो ह्यमर्थ: - एवं व्यवहारे जीयत इतर इतरो जयतीति । यदाऽप्यत्र लिङ्गश्रुतिः ‘ सोऽपि हरीतकी भक्षयेदारोग्यकाम ' इतिवदवसेया । ईदृशेषु विधिस्वरूपेषु प्रत्ययेषु द्रव्यशुद्धेः प्रसङ्गेनार्थो विवेचित इति न पुनः प्रयतामहे । अष्टादशसु मार्गेषु विषयो विवादस्य । एतानर्थानुद्दिश्य पुरुषाः प्रायेण विवदन्ते । न विरुद्धानि कार्याणि प्रयोजनान्यर्थसिद्ध्य इति यावत्तान्युत्तरत्र दर्शयिष्यामः । पृथक् पृथक् प्राधान्यमेतेषामाह । एतानि प्रत्येकं प्रयोजकानि न पुनः परस्पर-मन्तर्भवन्ति । यथान्यान्यनुषङ्गादिष्वन्तर्भवन्ति 1 । नैवमेते । तु सहस्रशः सन्ति || ३ ॥ हिन्दी — अट्ठारह ( ८।४-७ ) व्यवहार - मार्गों के कार्यों को देश, जाति तथा कुल के व्यवहारों से और साक्षी, द्रव्य आदि कारणों से प्रतिदिन पृथक् - पृथक् विचार करे । [ हिंसां यः कुरुते कश्चिद्देयं वा न प्रयच्छति । स्थाने ते द्वे विवादस्य भिन्नोऽष्टादशधा पुनः ॥ १ ॥ ]
[ हिन्दी – जो कोई हिंसा करता है अर्थात् किसी को मारता या किसी प्रकार पीड़ित करता है तथा देय ( देने योग्य धन, भूमि आदि ) नहीं देता है, ये दो विवाद ( झगड़े ) के स्थान हैं और फिर वे १८ प्रकार के हैं11211
तेषामाद्यमृणादानं विक्षेपोऽस्वामिविक्रयः ।
सम्भूय च समुत्थानं दत्तस्यानपकर्म च ॥४ ॥
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥५ ॥
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥६ ॥
स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥७ ॥
भाष्य — पाठक्रमापेक्षमृणादानस्याद्यत्वं प्राथम्यम् । अथवा मुख्यमाद्यम् । अनेन हि वनवासिनोऽपि स्पृश्यन्ते । ऋणादानानुषक्तमनृणादानमेव च । यथा ऋणं ते मया दत्तं शुद्धिलेख्यं प्रयच्छेत्यादि । नैतदृणादानम्, अनुक्तं तु तत्रेति तद्व्यपदेश्यम् । तथा “ ऋणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माश्चेति । " ( नारद १।१ ) तत्र देयमृणं स्वकृतं पितृकृतं च यस्य च ऋक्थं हरेत् । अदेयं स्वकृतं द्विगुणादधिकं पितृकृतं च द्यूतादिभागेनेति पुत्रेण भर्त्रा पित्रा चेति । तथा ( नारद १।१६ ) —