मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 161–170

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 161–170

पृष्ठ 161

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता 1 १२५ शरीरः । प्रणम्य लोकपालेभ्य इन्द्राद्यष्टौ लोकपालास्तान्नमस्कृत्य कार्यदर्शनमारभेतेत्य-दृष्टार्थमेतद्द्वयं अङ्गसम्वरणं लोकपालप्रणामश्च । समाहित: अनन्यचित्तः कार्यदर्शने । एवं हि दृष्टार्थं भवति । प्रणामविशेषणं वा समाहितग्रहणम् । यद्यप्यत्र किंचिदुक्तमेव प्रति-भाति तथापि पद्यग्रन्थत्वान्नातीव पौनरुक्त्यम् । लोकपालेभ्य इति चतुर्थी सम्प्रदाने । कथम्? क्रियाग्रहणं सम्प्रदानसूत्रे चोदितं ' श्राद्धाय निगृह्णते ' ' पत्ये शेत ' इत्याद्यर्थम् । न च क्रियाग्रहणं गृह्णात्यादिविषयमेव, भाष्येऽनुक्तत्वात् ॥ २३ ॥

हिन्दी – ( धर्मकार्य देखने के लिए ) धर्मासनपर बैठकर, शरीर को ढँककर, एकाग्रचित्त होकर तथा लोकपालों को प्रणाम कर सभासद कार्य अर्थात् मुकदमे को आरम्भ करें ॥२३ ॥

विमर्श – यहाँ ' धर्मासन ' शब्द से राजा के द्वारा नियत न्यायाधीश की कुर्सी तथा ' देह को अच्छादित करने का विधान करने से ' राजा के द्वारा प्रदत्त वस्त्र विशेष ( जिसे चोंगा या गाउन ' कहते हैं ) विवक्षित है

ब्राह्मणादि - क्रम से व्यवहार - दर्शन-अर्थानर्थावुभौ बुध्वा धर्माधर्मौ च केवलौ ।

वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ २४ ॥

भाष्य — धर्माधर्मावेव केवलावर्थानर्थी— न गोहिरण्यादिलाभोऽर्थस्तद्विप-र्ययोवाऽनर्थः । किं तर्हि । धर्म एवार्थोऽनर्थश्चाधर्म इति बुद्ध्वा हृदि निश्चित्य कार्याणि पश्येत् । अथवाऽर्थानर्थावचि बोद्धव्यौ धर्माधर्मावपि । धर्मस्य सारता बोद्धव्याऽर्थस्य फल्गुता । अथवा यत्र महाननर्थः स्वल्पश्चाधर्मस्तत्रानर्थं परिहरेत् । शक्यो हि महता-ऽर्थेनेषदधर्मोदानप्रायश्चित्तादिना निराकर्तुम् । सन्निपाते च व्यवहारिणां बहूनां वर्णक्रम आश्रयितव्यः । एष च दर्शने क्रमो वर्णानां यदा सर्वेषां तुल्यपीडा भवति । यदा त्ववर-वर्णस्याप्यात्ययिकं कार्यं महद्वा तदा ‘ यस्य चात्ययिका पीडा ' इत्यनेन न्यायेन तदेव प्रथमं पश्येत् न क्रममाद्रियेत । राज्यस्थित्यर्थो हि व्यवहारनिर्णय इत्युक्तमतो न यथा-श्रुतमाश्रयणीयम् ॥२४ ॥

हिन्दी - ( सभासद क्रमशः प्रजापालन तथा प्रजोच्छेदनरूप ) अर्थ तथा अनर्थ और धर्म तथा अधर्म को जानकर सब कार्यार्थियों ( मुद्दई - मुद्दालह ) के कार्यों ( मुकदमों ) को वर्ण, ( ब्राह्मण क्षत्रिय आदि ) के क्रम से देखे ॥ २४ ॥

स्वर, वर्ण आदि से अन्तश्चेष्टाज्ञान-बाह्येर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ २५ ॥

पृष्ठ 162

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६ मनुस्मृतिः [ अष्टमः भाष्य — तथा चेदमाह । अनुमानेनापि सत्यानृतवादिता व्यवहारतः साक्षिणां च निश्चेतव्या इति श्लोकार्थः । अतश्च स्वरादिग्रहणं प्रदर्शनार्थम् । तेन यन्निश्चितलिङ्गं तेनैव परिछिन्द्यादित्युक्तं भवति, न पुनः स्वरादिभिरेव सव्यभिचारित्वात्तेषाम् । अनुचितसभा-प्रवेशा हि महाप्रकृतिदर्शनेन सत्यकारिणोऽपि स्वभावतो विक्रियन्ते । प्रगल्भास्तु संवृता-कारा भवन्ति । स्वरश्च वर्णश्चेङ्गितं च स्वरवर्णेङ्गितानि तेषामाकारा: स्वरवर्णङ्गिताकाराः । आकारो विकारः । स्वाभाविकानां हि स्वरादीनामन्यथात्वम् । तैर्विभावयेन्निश्चिनुयात् । भावमभिप्रायमन्तर्गतं मनुष्याणां विवादिसाक्ष्यादीनाम् । तत्र स्वरस्य विकारो वाचि गद्-गदरुदितादि । वर्णस्य गात्ररूपविपर्ययादि । इङ्गितं स्वेदवेपथुरोमाञ्चादि । चक्षुषा सम्भ्रम-क्रोधदृष्टिपातेन । चेष्टितेन हस्तनिक्षेपभ्रूविक्षेपादि । स्वसंवेद्यं चैतत् यद्ब्रह्यमानमप्यभि-प्रायं स्वरादयः प्रकाशयन्ति निपुणतो लक्ष्यमाणाः । यतः प्रसिद्धमेतेषां गूढाभिप्रायप्रक-टनसामर्थ्यम् ॥२५ ॥ तथा हि लोके—

हिन्दी – ( न्यायाधीश ) बाहरी चिह्नों से, स्वर ( बोलने के समय रुकना घबड़ाना, गद्दगद होना आदि ) वर्ण ( मुख का उदास या प्रसन्न होना आदि ), इङ्गित ( सामने नहीं देख सकना अर्थात् नीचे की ओर से इधर, उधर देखना ), आकार ( कम्पन, स्वेद, रोमाञ्च आदि का होना ) और चेष्टित ( हाथों को मलना, अङ्गुलियों को चटकाना, अङ्गों को मरोड़ना आदि ) से मनुष्यों ( अर्थी, प्रत्यर्थी, साक्षी आदि ) के भीतरी भावों को मालूम करे || २५ ||

उक्त विषय में कारण कथन-आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।

नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ २६ ॥

भाष्य – दृष्टशक्तिताऽनेन श्लोकेन स्वरादीनां पूर्वोक्ताऽर्थाधिगमेन दर्शयतीत्यपौन-रुक्त्यम् । तत्राक्रियन्ते विक्रयन्त इत्याकारा इङ्गितादयः । इङ्गितं व्याख्यातम् । व्यक्ति भेदाद्बहुवचनम् । गतिः पूर्वश्लोकादत्राधिका । सा प्रस्खलन्ती स्वभावतोऽन्यथाभूता । भाषितं पौर्वापर्यविरुद्धं वचनम् । वक्त्रविकार आस्यशोषादिः । शेषं पूर्वश्लोक एव व्याख्यातम् । एतैर्विकृतैरन्तर्गतं चित्तं लौकिकैरन्यत्रापि गृह्यत इति समासार्थः ॥२६ ॥

हिन्दी – आकार, इङ्गित, गमन, चेष्टा, भाषण तथा नेत्र एवं मुख के विकारों से ( मनुष्यों का ) भीतरी भाव मालूम होता है ॥२६ ॥

नाबालिग तथा वन्ध्या स्त्री आदि के धन की राजा द्वारा रक्षा-बालदायादिकं रिक्थं तावद्राजानुपालयेत् । याव्रत्स स्यात्समावृत्तो यावद्वाऽतीतशैशवः ॥ २७ ॥

पृष्ठ 163

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १२७ भाष्य — ननु च व्यवहारदर्शनं वक्तव्यतया प्रस्तुतम् । तत्र कः प्रसङ्गो बाल-धनरक्षायाः । उच्यते । विवादपदतामेवैतद्विषयान्निवर्तयितुमिदमारभ्यते । बालधनं राज्ञा स्वधन-वत्परिपालनीयम् । अन्यथा पितृव्यादिबान्धवा मयेदं रक्षणीयं मयेदमिति विवदेरन् । न चान्यः प्रसङ्गोऽस्ति । आशङ्कामानव्यवहारवच्च । न केवलेषु राजधर्मेषूपदिश्यते अतोऽ-स्मिन्नेवावसरे वक्तव्यम् । बालो दायादोऽस्य तदिदं बालदायादिकम् । दायादः स्वाम्यत्रो-च्यते । बालस्वामिकं धनं तावद्राजा रक्षेद्यावदसौ समावृत्तो गुरुकुलात्प्रत्यागतो यावद्वाऽतीतशैशवः अतिक्रान्तबालभावः । अयं च विकल्पः । यो गृहशैशवो भवति तदर्थमतीतशैशवमुच्यते— यस्तु व्रतकः स निवृत्तेपि शैशवे आ समावर्तनात्प्रतिपाल्य-धनः स्यात् । अथवा द्विजातीनां समावर्तनमवधिरन्येषां शैशवात्ययः ॥२७ ॥

हिन्दी - राजा को नाबालिग या अनाथ के धन को तब तक रक्षा करनी चाहिये, जब तक उसका समावर्तन संस्कार ( ब्रह्मचर्य की पूर्ति के बाद का तथा गृहस्थाश्रमों में प्रवेश के पहले का संस्कार विशेष ) न हो जाय या उसकी अवस्था सोलह वर्ष की न हो जाय ॥२७ ॥

विमर्श - पूर्ववचन ( ३।१ ) के अनुसार ३६ या १८ या ९ वर्षों में गुरुकुल में वेदा- A ध्ययन समाप्त कर समावर्तन संस्कार का विधान है, अथवा किसी कारण विशेष से उक्त समय से पहले समावर्तन हो जाने पर भी कम से कम १६ वर्ष की अवस्था उस सम्पत्ति के स्वामी की न हो जाय तब तक उसकी सम्पत्ति की अन्यायपूर्वक उस धन को हरण करनेवाले चाचा आदि से रक्षा करे, १६ वर्ष की अवस्था होने पर बचपन नहीं रहता ।

वशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ।

पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ २८ ॥

भाष्य — यः कश्चिदनाथस्तस्य सर्वस्य धनं राजा यथावत्परिरक्षेत् । तथा चोदाहरण-मात्रं वशादयः । एवं प्रजापालनमनुष्ठितं भवति । पूर्वस्तु श्लोकः कालनियमार्थः । वशा वन्ध्या । अपुत्राऽसमर्थपुत्राऽविद्यमानपुत्रा दुर्गतपुत्रा वा । वशाश्चापुत्राश्चेति द्वन्द्वः । ननु च वशाऽप्यपुत्रैव । सत्यम् । उभयोपादानं तु सत्यपि भर्त्तरि तस्याः संरक्षणार्थम् । तस्यां ह्यधिविन्नायां भर्ता निरपेक्षो भवति । निष्कुलाग्रहणं तासां विशेषणं यासां न कश्चिद्देव-रपितृव्यमातुलादिः परिरक्षकोऽस्ति स्त्रीत्वाच्च स्वयमसमर्थाः बान्धवास्तु मत्सरिणः । तासामेतदुच्यते । बन्धुभिर्हि स्त्रीणां शीलशरीरधनानि रक्षितव्यानि । तदुक्तम् — ( नारद १३।२८-२९ ) “ विनियोगोऽस्ति रक्षासु भरणे च स ईश्वरः । परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये । तत्सपिंडेषु वाऽसत्सु पितृपक्षः प्रभुः स्त्रियाः पक्षद्व्यावसाने तु राजा भर्ता प्रभुः स्त्रियाः ॥ ”

पृष्ठ 164

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२८ मनुस्मृतिः [ अष्टमः या तू स्वयमेव कथंचिच्छक्ता न तत्र बान्धवानां व्यापारोऽस्ति । अत एवाह । आतुरास्विति । असामर्थ्यमेतेन लक्ष्यते । अन्यैस्त्वातुरभर्तृका आतुरा व्याख्याता । अविधवाऽपि भर्तुरसामर्थ्याद्राज्ञैव रक्ष्या स्यादिति निर्मनुष्याणामेतत् । कुलं बन्धुजातं यासां नास्ति ताः निष्कुलाः । अन्ये तु कुलटां निष्कुलामाहुः । तासामपि वेशाद्युपार्जितं धनं अपतितानां राज्ञा रक्ष्यम् । अस्मिंश्च पक्षे स्वतन्त्रनिष्कुलाग्रहणम् । पतिव्रतासु विधवासु । मृतभर्तृका विधवा । धव इति भर्तृनाम । तद्विरहिता विधवा । सा चेत्पतिव्रता भवति तदा सा रक्ष्यधना । व्यभिचाररतानां तु स्त्रीधनानर्हत्वं स्मृत्यंतरे पठ्यते । “ अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका । व्यभिचाररता या च स्त्रीधनं न तू साऽर्हति ॥ " इति । तस्यास्तु निष्काशनं विहितम् । निष्काशनं च प्रधानवेश्मनो बहिरवस्थापनम् । न तु निर्वासनमेव । यतः पतितानामपि तासां गृहांतिके वासो भक्ताच्छादनमात्रदानं च विहितम्—

एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि ।

वस्त्रान्नपानं देयं च वसेयुश्च गृहान्तिके ॥

तेन यः कश्चित्स्त्रीणां निर्वासनविधिः ' स्त्रीधनं द्रव्यसर्वस्वम् ' इत्यादिषु श्रूयते स एवं विषय एव द्रष्टव्यः । तथापि यावद्भिक्षोत्सर्पणादिना किंचिदर्जितं तदर्हत्येव । न बान्धवा अपहरेयुः । इह त्वस्मिन्नेव निमित्ते आधिवेदनं विहितं न तु स्त्रीधनापहारः । तथा ह्याह— " मद्यपाऽसाधुवृत्ता च प्रतिकूला च या भवेत् । व्याधिता चाधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा ॥ ” ( मनु ० ९ ।८० ) अतश्च मानवस्मृतिबलेन ‘ स्त्रीधनं न तु साऽर्हति ' इत्येषा स्मृतिरेवं व्याख्यायते । आधिवेदनिकं स्त्रीधनमेषा नार्हति नैतस्यै देयमित्यर्थः । यदुक्तम् “ अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् ” इति न तु प्राग्दत्तमस्या अपहर्तव्यम् । वयं तु ब्रूमः । पुरुष-द्वेषिण्या व्यभिचाररतायाश्च युक्त एवापहारः । यत इहाप्युक्तम्— “ अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा । सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ” ॥ ( मनु ० ९ ।७८ ) भूषणपरिच्छदैर्वियुक्ता कर्तव्येत्यर्थः ॥२८ ॥

हिन्दी - वन्ध्या, पुत्र या कुल ( सपिण्ड ) से हीन पतिव्रता विधवा और रोगिणी स्त्रियों की सम्पत्ति की रक्षा भी पूर्वोक्त वचन ( ८।२७ ) के अनुसार ही राजा को करनी चाहिये || २७ ||

पृष्ठ 165

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १२ ९ विमर्श - वन्ध्या- पुत्रोत्पादन न कर सकने के कारण जिसका पति दूसरा विवाह कर लिया हो तथा प्रथम स्त्री के जीवन - निर्वाह के लिए कुछ धन देकर उसकी रक्षा से सर्वथा निरपेक्ष हो गया हो; वह वन्ध्या स्त्री । पुत्र से हीन - जो सधवा पुत्र - पौत्रादि से रहित हो तथा पति के परदेश गमन आदि किसी कारण विशेष से अरक्षितावस्था में हो वह स्त्री । कुल से हीन - अपने वंश के सात पुरुषों ( सपिण्डों ) से रहित एवं अरक्षित सम्पत्तिवाली स्त्री । इन स्त्रियों के तथा पतिव्रता आदि अन्य स्त्रियों के धन को दायाद ( बन्धु - बान्धव आदि ) या दूसरा कोई व्यक्ति अन्याय से दबाकर अपने अधीन न कर ले, इस कारण राजा इन स्त्रियों के धन की रक्षा का प्रबन्ध करे । इसी वचन के अनुसार आजकल ‘ कोर्ट ऑफ वार्ड्स ' द्वारा राजा ऐसी सम्पत्तियों का प्रबन्ध अपने हाथ में लेकर उनकी रक्षा करता है । [ एवमेव विधिः कुर्याद्योषित्सु पतितास्वपि । वस्त्रान्नपानं देयं च वसेयुश्च गृहान्तिके ॥ २ ॥ ]

[ हिन्दी - ( राजा ) पतित स्त्रियों ( के धन ) के विषय में भी यह ( ८।२८ ) व्यवस्था करे, उनके लिए उचित भोजन वस्त्र ( खाने के लिए अन्न तथा पहनने के लिए वस्त्र ) दे और वे स्त्रियाँ घर के पास ही निवास करें || २ || ] जीवित स्त्रियों का धन लेनेवाले का शासन-जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । ताञ्छिप्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ २ ९ ॥ भाष्य — बान्धवानां स्त्रीधनमपहरतामयं चोरदण्डः । ते हि बहुभिरुपधाभिरप-हरन्ति । अस्वतन्त्रैषा स्त्री किं ददाति किं वा भुंक्ते वयमत्र स्वामिन इति अचौराशंकया चौरदण्डो विधीयते । जीवन्तीनां तासां स्वबान्धवा देवरादयस्तद्धनं ये हरेयुस्ताञ्छि-ष्यात् पृथिवीपतिर्निगृह्णीयात् । चौरदण्डो वक्ष्यमाणः “ येन येन यथाङ्गेन स्तेनोनृषु विचेष्टते । छेत्तव्यं तत्तदेवान्यत्तन्मनोरनुशासनमिति ” ( ८।३२१ ) । स्वबन्धुभ्यश्चैतद्विशेषेण

राज्ञा रक्षितव्यम् । चौररक्षा तु सर्वराष्ट्रविषया विहिता ॥२९ ॥

हिन्दी – उन जीवित स्त्रियों ( ८-२८ ) का धन जो बान्धव आदि रक्षा करने के बहाने से या अन्य प्रकार से दबाकर ले, धर्मात्मा राजा चोर के समान दण्डित कर उनका शासन करे ॥२९ ॥

अस्वामिक धन की रक्षा का समय-प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।

अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ३० ॥

पृष्ठ 166

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३० मनुस्मृतिः [ अष्टमः भाष्य- –यद्द्रव्यं स्वामिनो नष्टं प्रमादात्कथंचित्पथि गच्छतो भ्रष्टमरण्ये कान्तारे वा स्थापयित्वाऽरण्यपालैरन्यैर्वा राजपुरुषैर्लब्धं राजसकाशमानीतं तद्राज्ञा रक्षां कृत्वा राजद्वारे राजमार्गे वा प्रकाशं स्थापयितव्यम् । पटहघोषणेन वा कस्य किं हारितमिति प्रकाशयितव्यम् । यत: प्रदेशाल्लब्धं तस्मिन्नेव प्रदेशे रक्षिपुरुषाधिष्ठितं कर्तव्यम् । एवं त्रीणि वर्षाणि स्थापयितव्यम् । तत्रार्वाक् त्रिभ्यो वर्षेभ्यो यः कारणत आत्मीयं ज्ञापये-त्तस्योद्धृतवक्ष्यमाणेषु भागादिभागकं समर्पयितव्यं, परतः स्वकोष्ठे प्रवेशनीयमिति । प्रनष्टः स्वामी यस्य रिक्थस्य तत्प्रनष्टस्वामिकम् । प्रनष्टोऽविज्ञातः । रिक्थं धनम् । त्रयाणामब्दानां समाहारस्त्र्यब्दम् । त्रिवर्षवत् त्र्यब्दे ङीबभावः । अब्दशब्दः संवत्सरपर्यायः । निधापयेत्स्थापयेत् । अर्वाक्त्र्यब्दात्पूर्वं त्रिभ्यो वर्षेभ्यः । हरेत्स्वामी स्वीकुर्यात् । अर्वाक्शब्दोऽवधौ दिग्देशादिकात् पूर्वमाह । अन्ये तु नृपतिर्हरेदिति भोगानुज्ञानमपहारमाहुः । न हि ऊर्ध्वमपि त्रिभ्यो वर्षेभ्यः परकीयस्य द्रव्यस्यापहारो युक्तः । तस्मात्त्रिभ्यो वर्षेभ्य ऊर्ध्वमनागच्छति राज्ञा स्वामिनि भोक्तव्यम् । तैरयं श्लोकः कथं व्याख्यानीयो “ यत्किंचिद्दशवर्षाणीति ” ( ८।१४७ ) । यदि च परकीयस्यापहारो न युक्त इत्युच्यते भोगोऽपि नैव युक्तः । परकीयं वस्त्रादिवद्भुज्य-मानं नश्यत्येव । तत्रापहारोपचारो युक्तः, भुक्तेरेवापहारफलस्य सद्भावात् । गजतुरगादेस्तु कीदृशो भोग इति वाच्यम् । तस्मान्न यथाश्रुतार्थत्यागे कारणमस्ति । हरतिश्च गृह्णात्यर्थे असकृद्दृष्टप्रयोग ऋक्थं हरेदित्यादौ । तस्मात्परेण नृपतिर्हरेत्स्वीकुर्यादित्ययमेवार्थः ॥ ३० ॥

हिन्दी – राजा अस्वामिक ( लावारिस ) धन को तीन वर्ष तक सुरक्षित रखे ( ‘ यह किसका धन है? कहाँ तथा किस प्रकार खो गया था? ' इत्यादि घोषणाकर राजद्वार आदि सबके देखने योग्य स्थान पर रखे ), तीन वर्ष के पहले उस धन का स्वामी ( प्रमाण देकर ) उस धन को ले जावे तथा तीन वर्ष के बाद राजा उस धन को अपने अधीन कर ले अर्थात् अपने कोष में सम्मिलित कर ले ॥ ३० ॥

अस्वामिक धन का परिचयपूर्वक लेना-ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि ।

संवाद्य रूपसंख्यादीन्स्वामी तद्द्रव्यमर्हति ॥ ३१ ॥

भाष्य — कथं पुनः स्वामी प्रनष्टे धने स्वामित्वं ज्ञापयेदत आह । यः कश्चिदागत्य ममेदं स्वं द्रव्यमिति ब्रूयात्सोऽनुयोज्यो यथाविधि । अनुयोज्यः प्रष्टव्य इत्यर्थः । कोऽसावनुयोगविधिः? को भवान्? किं द्रव्यं हारितं किंरूपं किंपरिमाणं किंसङ्ख्याकं सम्पतितमपतितं वा, यदि पतितं, कस्मिन्देशे? तथा कुत आगमितं त्वयेत्येवं पर्यनुयोगः कर्तव्यः । स यदि संवादयति रूपसङ्ख्यादीन् । ' रूपम्'– प्राणिवस्त्रादिविषयं शुक्लं

पृष्ठ 167

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १३१ वस्त्रं गौर्वेत्येवमादि । तथा ' संख्या'- - दश गावो वा युगानि वा । आदिग्रहणाद्धस्तादि-प्रमाणं सुवर्णादिपरिमाणं प्रकीर्णरूपकं वा । एतत्सर्वं संवादयति तदाऽसौ स्वामी भवति । अतस्तद्द्द्द्रव्यमर्हति स्वीकर्तुम् । संवाद उच्यते । यादृशमेकेन प्रमाणेन परिच्छिन्नं तादृश-मेवास्यानेन परिच्छिद्यते । रूपसंख्यादिग्रहणं च प्रदर्शनार्थं स्वामित्वकारणानामन्येषामपि साक्ष्यादीनाम् ॥३१ ॥

हिन्दी – ( उस अस्वामिक अर्थात् लावारिस धन को ) जो कोई ' यह मेरा है ' ऐसा कहे, उससे राजा विधिपूर्वक प्रश्न करे ( धन का रंग, रूप, तौल या गिनती आदि प्रमाण, नष्ट होने का स्थान तथा समय पूछे ) और उसके कहने के अनुसार धन का रंग संख्या, आदि प्रमाण ठीक - ठीक मिल जाय तब उस धन का वह मनुष्य अधिकारी होता है ( अतएव राजा वह धन उस मनुष्य को दे दे ) ॥ ३१ ॥

अस्वामिक धन के लिए असत्य बोलने पर दण्ड-आवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।

वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ३२ ॥

भाष्य — मिथ्या प्रवर्तमानस्य दण्डोऽयमुच्यते । यो न ज्ञापयति नष्टस्य धनस्य देशं कालं चास्मिन्देशे काले वा हारितम् । तत्त्वतः परमार्थतः । वर्णं शुक्लादिकम् ।

रूपं पटीशाटकयुगं वेत्यादिकमाकारम् । प्रमाणं पञ्चहस्तायामं सप्तहस्तमात्रं वा ।

अवेदयानः । तदा तत्समं यावति द्रव्ये मिथ्याप्रवृत्तस्तत्तुल्यं दण्डमर्हति ॥३२ ॥

हिन्दी — अस्वामिक ( लावारिस ) धन के नष्ट होने ( भूलने ) के स्थान, रंग रूप तथा प्रमाण को ठीक - ठीक नहीं बतलाने पर ( उस धन को अपना कहनेवाले व्यक्ति से ) जितना धन हो, उतना ही दण्ड ले ( जुर्माना करे ) ॥३२ ॥

अस्वामिक धन से ग्राह्य राजकर-आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः ।

दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ॥ ३३ ॥

भाष्य — आददीत गृह्णीयात्षष्ठं भागं दशमं द्वादशं वा प्रनष्टलब्धाद्द्रव्यात् । अवशिष्टं स्वामिनेऽर्पयेत् । तत्र प्रथमे वर्षे द्वादशो भागो द्वितीये दशमस्तृतीये षष्ठ इति । अथवा रक्षाक्लेशक्षयापेक्षो भागविकल्पः । सतां धर्ममनुस्मरन् शिष्टानामेष समाचार इति जानानः ॥३३ ॥

हिन्दी— अस्वामिक ( लावारिस ) धन को अपना बतलानेवाला व्यक्ति ( उस धन के रंग रूप, नष्ट होने का स्थान, प्रमाण आदि ठीक - ठीक बतला दे, तब राजा उस धन में से पात्र के अनुसार षष्ठांश; दशमांश या द्वादशांश धन को धर्म का स्मरण करता हुआ )

पृष्ठ 168

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२ मनुस्मृतिः [ अष्टमः ( ‘ ऐसे अस्वामिक धन में से इतना भाग लेना राजा का धर्म है ' यह मानता हुआ ) ग्रहण करे ( तथा शेष धन उस व्यक्ति को देवे ) ॥ ३३ ॥

चौरों को दण्ड-प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम् ।

यांस्तत्र चौरान् गृह्णीयात्तान् राजेभेन घातयेत् ॥ ३४ ॥

भाष्य — प्रनष्टमधिगतं प्रनष्टाधिगतं पूर्वं प्रनष्टं पश्चादधिगतम् । अधिष्ठितं युक्तै-स्तत्परैरारक्षपुरुषैः । तिष्ठेत् । तथास्थितमपि यदि केचन चौरा गृह्णीयुस्तान् राजा

इभेन हस्तिना घातयेत् । हस्तिग्रहणमदृष्टार्थम् ॥३४ ॥

हिन्दी — यदि चोरी किये गये हुए धन को राजपुरुष ( पुलिस आदि के ) द्वारा प्राप्त कर लें तो राजा योग्य रक्षकों के द्वारा उस धन की रक्षा करावे तथा उस धन के चोर को हाथी से मरवा डाले ॥ ३४ ॥

विशेष – ' शतादभ्यधिके वध: ' अर्थात् ' सौ अशर्फियों से अधिक की सम्पत्ति होने पर प्राणदण्ड करे ' ऐसा वचन होने से उससे कम धन होने पर प्राणदण्ड न दे ' यह गेविन्दराज का कथन ठीक नहीं है; क्योंकि ' सन्धि छित्ता ( ९ ।२७६ ) वचन के अनुसार थोड़े धन के चुराने पर भी प्राणदण्ड का विधान होने से उक्त वचन ' शताद-भ्यधिके वधः ' विशेषत: कथित वध से भिन्न विषयक है ।

चोरी किये गये धन में से ग्राह्य राजभाग-ममायमिति यो ब्रूयान्निधिं सत्येन मानवः ।

तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ३५ ॥

भाष्य - निखातायां भूमौ गुप्तं स्थापितं धनं निधिरुच्यते । वर्षशतिका वर्षसहस्रि-काश्च निधयो भवन्ति । तत्र यदि भूमेर्विदार्यमाणायाः कथञ्चित्केनचिन्निधिरासाद्यते स तु राजधनम् । तथा च गौतमः ' निध्यधिगमो राजधनम् ' इति ( १०।४३ ) । एतच्चास्मर्य-माणनिधातृके निधौ द्रष्टव्यम् । तस्याऽख्याता षष्ठं लभेतेत्युक्तम् । अयं तु श्लोको यत्रा-ख्यातैव निधाता तत्पुरुषो वा पितृपितामहादिस्तद्विषयो द्रष्टव्यः । ममायं निधिरिति यो ब्रूयात्सत्येन प्रमाणेन ज्ञापयेदित्यर्थः 1 । तस्याददीत षड्भागमिति । निश्चिते तत्स्वामिकत्वे

राज्ञः षष्ठादिभागग्रहणम् । विकल्पश्चाऽऽख्यातृगुणापेक्षया ॥३५ ॥

हिन्दी - स्वयं या राजपुरुष ( पुलिस आदि ) के द्वारा प्राप्त चोरी किये गये धन को जो मनुष्य सत्य - सत्य ( उस धन का रङ्ग, रूप, संख्या या तौल आदि षष्ठांश प्रमाण या, भूलने द्वादशांश का स्थान आदि ठीक - ठीक ) बतला दे, ( राजा पात्रानुसार ) उस धन में से लेकर शेष धन उस मनुष्य को वापस दे दे ॥ ३५ ॥

पृष्ठ 169

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता परधन को अपना कहनेवाले को दण्ड-अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम् । १३३ तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम् ॥ ३६ ॥

भाष्य — यस्तु मयाऽयं निहितो मत्पूर्वजेन वेति प्रतिज्ञां न साधयति सोऽसत्यवादी दण्ड्यः । यावत्तस्य वित्तमस्ति ततोऽष्टमं भागं तस्यैव वा निधानस्याल्पायसीं कलां मात्रां भाग मित्यर्थः । न तु तदेव द्रव्यं सुवर्णादिकं दापयेत्किन्तु तत्परिमाणमन्यद्वा सममूल्यं यया धनमात्रया दण्डितोऽवसादं न गच्छेद्विनयं वा ग्राह्येत । अनुबन्धादिविशेषा-पेक्षया पुरुषगुणापेक्षया च विकल्प आश्रयणीयः । आतिशायनिकात्पूर्वदण्डात्स्वल्पो दण्ड इति ज्ञापयति । तेन यस्य बहु वित्तं स्वल्पो निधिस्तत्र निध्यपेक्षां मात्रामष्टमांशम्

अर्थादीनां दण्ड्यः । सा ह्यल्पीयसी भवति ॥३६ ॥

हिन्दी – दूसरे के धन को अपना बतलानेवाले अपराधी को उसके धन का अष्टमांश या उसी धन ( जिसे वह अपना बतलाता था ) के बहुत थोड़े भाग से दण्डित करे अर्थात् उससे जुर्माना वसूल करे ॥ ३६ ॥

विद्वान् ब्राह्मण सम्पूर्ण धन का अधिकारी-विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥ ३७ । भाष्य — विद्वान्ब्राह्मणः पूर्वैः पित्रादिभिरुपहितं निधिं यदा पश्येत्तदा सर्वमेवा-ददीत । न राज्ञे पूर्वोक्तं भागं दद्यात् । अस्यार्थवादः सर्वस्याधिपतिर्हि सः । तथा चोक्तं सर्वस्वं ब्राह्मणस्येदमिति । एतच्चाशेषतो ग्रहणं यो ब्राह्मणस्वामिक एव निधिः । यस्त्वविज्ञातस्वामिकः तस्मिन्विद्वद्ब्राह्मणदृष्टेऽप्यस्त्येव राज्ञो भागः । यतो वक्ष्यति “ निधीनां तु पुराणानाम् ” इति ॥३७ ॥

हिन्दी — विद्वान् ब्राह्मण तो पूर्वस्थापित धन को देखकर सब धन ले ले ( षष्ठांश-भाग भी राजा को न दे ) क्योंकि वह ( विद्वान् ब्राह्मण ) सबका स्वामी है || ३७ || विमर्श - इसी कारण ' सर्वं स्वं ब्राह्मणस्येदम् ' १।१०० ) अर्थात् ' सब धन ब्राह्मण का है ' ऐसा वचन कहा गया है । अतः ' नारद तथा याज्ञवल्क्य के वचनों के अनुसार राजा द्वारा दूसरे का स्थापित धन ब्राह्मण को लेने के लिए कथित यह वचन होने से १. नारदः– “ परेण निहितं लब्ध्वा राजा ह्यपहरेन्निधिम् । राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते ॥ ” ( म ० मु ० ) २. ' राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्थं द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ' ( या ० स्मृ ० २।३४ )

पृष्ठ 170

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४ मनुस्मृतिः [ अष्टमः मेघातिथि तथा गोविन्दराज का ' मेरा यह धन है ' ( ८।३५ ) इस वचन से कथित षष्ठांश या द्वादशांश भाग जो राजा को लेने के लिए कहा गया है ' यह पिता आदि के स्थापित धन के विषय में है ' कथन ठीक नहीं है । [ ब्राह्मणस्तु निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । तेन दत्तं तु भुञ्जीत स्तेनः स्यादनिवेदयन् ॥ ३ ॥ ]

[ हिन्दी - ब्राह्मण निधि ( स्थापित धन ) को लेकर राजा के लिए निवेदन करे अर्थात् देवे, उससे दिये हुए का वह भोग करे बिना दिए ( भोग करने पर वह ) चोर होता है || ३ || ]

भूगर्भ से प्राप्त धन का अधिकारी-यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ ।

तस्माद्द्द्विजेभ्यो दत्वाऽर्धमर्ध कोशे प्रवेशयेत् ॥ ३८ ॥

भाष्य — यो राज्ञा स्वयं निधिरधिगतस्तस्मान्निधेरयं ब्राह्मणेभ्यो दाननियमो राज्ञः ।

कोशशब्देन वित्तसञ्चयस्थानमुच्यते । पुराणं निहितं क्षिताविति निधिरूपानुवादः ॥३८ ॥

हिन्दी – पृथिवी में गड़े हुए ( अस्वाभाविक अर्थात् लावारिश ) प्राचीन जिस धन को राजा देखे अर्थात् प्राप्त करें, उसमें से आधा ब्राह्मण को दे और आधा अपने खजाने में जमा करे ॥३८ ॥

निधीनां तु पुराणानां धातूनामेव च क्षितौ ।

अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ३ ९ ॥

भाष्य — अन्येनापि दृष्टस्य निधे राज्ञा भाग: पूर्वोक्तो ग्रहीतव्य इत्यस्य विधेरर्थ-वादोऽयम् । निधीनां हि पुराणानामिति धातूनामेव च क्षितौ । अयं त्वप्राप्तविधि: । सुवर्णरूप्यादि मृदः सिन्दूरकालाञ्जनाद्याश्च धातवः । सुवर्णाद्याकरभूमीर्यः खनति यो वा पर्वतादिषु गौरिकादि धातूनुपजीवति तेनापि पूर्ववद्राज्ञे भागो दातव्यः । अर्धभागिति । अर्धशब्दोंऽशमात्रवचनः समासनिर्देशात् । यथा ग्रामार्धो नगरार्धमिति । नपुंसकलिङ्गस्तु समप्रविभागः । इह तु समासे लिङ्गविशेषप्रतिपत्त्यभावात्पूर्ववत् षड्दशद्वादशादेर्भागस्य प्रकृतत्वात्तद्वचनो विज्ञायते । अर्धं भजत एकदेश गृह्णातीत्यर्थः । यत्र हेतू रक्षणादिति । यद्यपि क्षितौ निहितस्य केनचिदज्ञानान्न राजकीयरक्षोपयुज्यते तथापि तस्य बलवता-ऽपहारः सम्भाव्यते । अतोऽस्त्येव रक्षाया अर्थवत्त्वम् । एतदर्थमेवाह भूमेरधिपतिर्हि सः । प्रभुरसौ भूमेस्तदीयायाश्च भुवो यल्लब्धं तत्र युक्तं तस्य भागदानम् ॥३ ९ ॥। हिन्दी - पृथ्वी में गड़े हुए प्राचीन ( ब्राह्मणों को छोड़कर दूसरे के धन का तथा धातुओं के खानों ) का आधा भाग रक्षा करने से राजा लेवे; क्योंकि वह पृथ्वी का स्वामी है ॥३ ९ ॥