मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 171–180
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 171–180
पृष्ठ 171
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता
चुराये गये धन का वितरण-दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हतं धनम् ।
राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥४० ॥
१३५ भाष्य – चौरैर्यनीतं किञ्चिद्धनं तद्राजा प्रत्याहृत्य नात्मन्युपयुञ्जीत । किंतर्हि य एव मुषितास्तेभ्य एव प्रतिपादयितव्यम् । सर्वग्रहणेन च चण्डालेभ्योऽपि देयमिति । ‘ चौराहृतम् ’ इत्यन्यस्मिन्पाठे चौरैः आहृतमिति विगृह्य ' साधनं कृतेति ' समासः । पाठा-न्तरे चौरहृतमिति तृतीयेति योगविभागात्पूर्ववद्वा समासः । अयं त्वत्रार्थो यच्चौरैर्हृतम-शक्यप्रत्यानयनं तद्राज्ञा स्वकोशाद्दातव्यम् । उत्तरश्लोकार्ध एवं योजनीयः । राजा तदुपयुञ्जान इति । अनेकार्थत्वाद्धातूना-मुपपूर्वो युजिर्लक्षणयाऽप्रतिपादन एव द्रष्टव्यः । यो ह्यन्यस्मै प्राप्तकालं धनं न ददाति स्वप्रयोजनेषु विनियुङ्क्ते तेन तदीयमेव तदुपयुक्तं भवतीति युक्तमुच्यते । राजा तदुप-युञ्जानश्चौरस्याप्नोति किल्बिषम् । किल्बिषं पापम् ॥४० ॥
हिन्दी- - राजा को चोरों के द्वारा चुराया गया धन ( उस चोरों से लेकर ) सब वर्णों के लिए दे देना चाहिये । उस धन का उपयोग करता ( अपने काम में लाता ) हुआ राजा चोर के पाप को प्राप्त करता है ॥ ४० ॥
जाति- देशादि के अनुसार व्यवस्था-जातिजानपदान्धर्मान् श्रेणीधर्मांश्च धर्मवित् ।
समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ ४१ ॥
भाष्य — कुरुकापिशकाश्मीरादिदेशो नियतावधिः ' जनपदम् ’ । तत्र भवा धर्मा ‘ जानपदाः ’ । केचित् तत्र भवन्ति ये तद्देशव्यपदेश्यैरनुष्ठीयन्ते । अथवा तन्निवासिनो जना: मञ्चाः क्रोशन्तीतिवत् जनदशब्देनाभिधीयन्ते । तेषामनुष्ठेया ‘ जानपदाः ’ । ‘ तस्ये-दमिति ' ( पा ० ४।३।१२० ) तद्धितः । जातेर्जानपदा जातिजानपदा इति षष्ठी-समासः । जातिमात्रविषया देशधर्मा राज्ञा परिपालनीयाः । समीक्ष्य विचार्य । किमाम्नायै-र्विरुद्धा अथ न — तथा पीडाकराः कस्यचिदुत न — एवं विचार्य येऽविरुद्धास्तान्प्रति-पादयेदनुष्ठापयेदित्यर्थः । तथा च वक्ष्यति “ सद्भिराचरितं यत्स्यात् ' इति, ( ८।४६ ) । अथवा जातयश्च ते जानपदाश्चेति विशेषणसमासः । जातिशब्देन च नित्यत्वं लक्ष्यते । प्रशंसामात्रं चैतद्देशधर्माणाम् । यथा जातिर्नित्या एवं देशधर्मा अपि शास्त्राविरुद्धा नित्याः । ते नित्यवदनुष्ठेया दृष्टार्था गोप्रचारोदकक्षरणादयः । यथा ग्रामीणा अत्र प्रदेशे गावो न चारणीया इति समयमाश्रयन्ति कस्यचित्कार्यस्य सिद्ध्यर्थं तत्र यो व्यतिक्रामति स राज्ञा दण्ड्यः । मनु II 11
पृष्ठ 172
पाठ पढ़ें पाठ छिपाएँ
१३६ मनुस्मृतिः [ अष्टमः अथवा जनपदे भवा ‘ जानपदा ' देशनिवासिन उच्यन्ते । जात्या जानपदा ' जाति-जानपदाः ' । जातिर्जन्मोत्पत्तिरिति यावत् । एतेन देशसम्बन्धस्य पुरुषाणां नित्यता लक्ष्यते । ये तद्देशजास्तद्देशाभिजनास्तन्निवासिनश्च गृह्यन्ते तेषां सर्वविशेषणविशिष्टा-नामनिदंप्रथमतो जाता ये धर्मास्ते जातिजानपदशब्देनोच्यन्ते । ‘ वृद्धाच्छेति ’ तद्धिते प्रसंक्ते छान्दसत्वादणेव कृतः । अथवाऽभेदोपचारात् पुरुषशब्दस्तत्सम्बन्धिषु धर्मेषु प्रयुक्तः । तेनायं देशनियमो धर्माणां स एवंविधात्पुरुषात्प्रतिद्रष्टव्यः । एते हि देशधर्मा म्लेच्छानां न पुनरार्याणाम् । ते हि तिर्यक्समानधर्माणोऽन्यत्रानधिकृताः स्वसमाचारप्रसिद्धं धर्ममनुतिष्ठन्ति मातृविवा-हादि । सोऽयं सार्वभौमेन न निवारणीयः । स्वदेशाचारवतां तेषां जातिधर्मोऽयं जनपद-निवाससम्बन्धेनाभ्यनुज्ञानात् । आम्नायविरोधोऽप्यत्र नास्ति । अधिकृतानां विरोधात् विरोधो न तिरश्चाम् । ननु ‘ “ अहिंसा सत्यमक्रोधः शौचमिन्द्रियसंयमः ” इति प्रतिलोमाधिकारेणैवोक्तम् ( १०।६३ ) । म्लेच्छाश्च प्रतिलोमा एव । तत्र यदि मातृविवाहे मूत्रोत्सर्गे चोदकशुद्ध्य-भावे न दुष्यति क इन्द्रियसंयमः कीदृशं वा शौचमिति । उक्तमेतत् । आर्यावर्तमध्यवर्तिनामेते धर्माः शौचादयः । चातुर्वर्ण्ये तु तत्तद्देश-नियमो धर्माणां नास्ति । केचिददृष्टार्था देशधर्मा इति वक्ष्यामः । एककार्यापन्ना वणिक्कारुकुसीदचातुरिकादयः । तेषां धर्माः ‘ श्रेणीधर्माः ’ । यथा केचन वणिङ्महत्तरा वचनेन परिच्छिन्नं राज्ञो भागं प्रयच्छन्ति — इमां वणिज्यां वयमुप-जीवाम एष ते राजभागोऽस्माकं यावल्लाभोऽस्तु न्यूनोऽधिको वा । तत्र राज्ञाऽभ्युपगते वणिज्ये लाभातिशयार्थं राष्ट्रविरोधिनीं चेतरेतरव्यवस्थां कुर्वन्ति – इदं द्रव्यमित्यन्तं कालमविक्रेयम्, अयं राज्ञोऽपदेशेनार्थो दण्डः पतति, देवतोत्सवार्थो वा । तत्र यदि कश्चिद्व्यतिक्रामति स एवं श्रेणीधर्मव्यतिक्रामन्दण्ड्यः । कुलधर्मा इति । ' कुलं ' वंशः । तत्र प्रख्यातमहिम्ना पूर्वजेन धर्मः प्रवर्तितो भवति योऽस्मद्वंशजः कुलश्चन धनं लभेत स नादत्वा ब्राह्मणेभ्योऽन्यत्र विनियुञ्जीते-त्यादयो धर्माः । तथा सति योग्यत्वे य एव पूर्वपुरुषाणां याजकाः कन्यादिसम्प्रदानभूता वा त एव कार्याः । तदतिक्रामन् राज्ञोऽनुष्ठापयितव्यः । एतेषां च सामवायिकत्वादधर्मत्वशङ्कया पुनर्वचनम् । न चायं संविद्व्यतिक्रम इति वक्ष्यामः ॥४१ ॥
हिन्दी — धर्मज्ञ ( राजा ) जातिधर्म ( ब्राह्मणादि के लिए यज्ञ करना - कराना आदि ) देशधर्म ( देशानुसार शास्त्रानुकूल व्यवस्थित धर्म ) श्रेणिधर्म ( वनिया अर्थात् व्यापारी आदि
पृष्ठ 173
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १३७ के लिए नियत धर्म - विशेष ) और कुलधर्म ( वंशपरम्परानुसार नियत धर्म ) को देखकर तदनुसार उनके अपने - अपने धर्म की व्यवस्था करे ॥४१ ॥
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः ।
प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥ ४२ ॥
भाष्य- - पूर्वोक्तस्य जानपदादेर्धर्मस्य दृष्टादृष्टताऽनेन प्रदर्श्यते । स्वानि कर्माणि कुलस्थित्यनुरूपाणि कुर्वन्ति ते दूरस्था अपि प्रिया भवन्ति । सर्वस्यान्यो निकटवर्त्ती संसर्गातिशयात्प्रियो भवति । स्वकर्मकारी तु दूरस्थ एव प्रियः । स्वे स्वे कर्मण्यव-स्थिता इत्यनेन परकर्माननुष्ठानमाह । ये न परकर्माणि कुर्वन्ति ते सर्वस्य प्रिया भवन्तीति श्लोकार्थः ॥४२ ॥
हिन्दी – ( जाति- देश - कुल धर्मानुसार ) अपने - अपने कार्यों को करते तथा अपने-अपने कार्य में स्थित होकर दूर रहते हुए ( साक्षात् नित्य नैमित्तिक सम्बन्ध नहीं रहने पर ) भीमनुष्य लोकप्रिय हो जाता है ॥४२ ॥
राजा को विवाद खड़ा करने का निषेध-नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पूरुषः ।
न च प्रापितमन्येन प्रसेतार्थं कथञ्चन ॥ ४३ ॥
भाष्य — कार्यं विवादस्तु । तद्राजा स्वयं न प्रवर्तयेत् । कस्यचिद्द्द्वेष्यस्योपघातार्थं धनिनो वा धनग्रहणार्थं न तदीयमृणिकमन्यं वाऽपराद्धमुद्वेजयेत् — एष ते धारयति किमिति ममाग्रतो नाकर्षसि — एतेन वा तावदपराद्धं यावदहमेनं निपातयामीत्येवं राज्ञा न कर्तव्यम् । सत्यपि द्वेषे धनलोभे वा । न च प्रापितमावेदितमन्येनार्थिना ग्रसेत निगि-रेन्नोपेक्षेतेति यावत् । अवधीरणायां निगिरेदिति प्रयुज्यते । तत्समानार्थश्च ग्रसतिः । तथा च वक्तारो भवन्ति यावत्किञ्चिदस्योच्यते तत्सर्वं निगिरति न किञ्चिदयं प्रतिवक्ति । अन्ये तूत्तरं श्लोकार्द्धमेवं व्याचक्षते । न च प्रापितं व्यवहारादन्येन प्रकारेणार्थं धनं ग्रसेत स्वीकुर्यात् । यदि हि राजा छललेशोद्देशिकया धनदण्डे प्रवर्तेत ततः पर-लोके दोषो द्रष्टव्यः । स्वराज्ये चोपघातः स्यात् । अथेदमपरं केषाञ्चिद्व्याख्यानम् । नोत्पादयेत्स्वयं कार्यं राजा । साक्षादुपलभ्या-प्यकार्यकारिणं न स्वयं किञ्चिद्ब्रूयात्, तस्य पराधीनेन यावद्व्यवहारेण नाकृष्टः । येन परव्यवहारदर्शनमेव पराजितस्य निग्रहाय भवति, न राजा । एतच्च ऋणादानादि-ष्वेव द्रष्टव्यम् । ये तु स्तेनसाहसिकादयः कण्टकस्थानीयास्तान् राजा स्वयमेवावगम्य
गृह्णीयात् । शेषं समानम् ।
नाप्यस्य पूरुष इति अस्य राज्ञः पुरुषोऽधिकारी मनुष्यः ॥ ४३ ॥
पृष्ठ 174
पाठ पढ़ें पाठ छिपाएँ
१३८ मनुस्मृतिः [ अष्टमः हिन्दी – राजा या राजपुरुष स्वयं विवाद ( झगड़े ) को उत्पन्न ( खड़ा पैदा ) न करे और दूसरे ( अर्थी या प्रत्यर्थी अर्थात् मुद्दई या मुद्दालह ) के लाए हुए विवाद को किसी प्रकार ( लोभ आदि के कारण ) दबावे नहीं अर्थात् उसकी उपेक्षा नहीं करके उसका III II I I I न्याय करे ॥४३ ॥
अनुमान से विवाद - निर्णय-यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् ।
नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥ ४४ ॥
भाष्य- - यदुक्तं न स्वयं दृष्टाऽपि राजा सहसा कञ्चिदाक्रमेत वा निगृह्णीयात् ततः नर्मणाऽप्येतत्सम्भवति । कथं पुनरेतदवगन्तव्यम् किं परिहासकृतमेतदुत क्रोधाद्यनु-बन्धकृतमिति । अत आह अनुमानेनैतज्ज्ञातव्यम् । यथा मृगयुर्मृगव्याधो विध्ध्वा मृगं नष्टं दृष्टिपथादपक्रान्तं छिद्रनिसृतैरसृक्पातैः स्रवद्भिः शोणितैः पदं मृगस्य नयत्या-सादयत्येवं राजाऽनुमानेन परोक्षे प्रत्यक्षे वाऽर्थकारणं निश्चिनुयात् । धर्मश्च कृतव्यवहार-विषयस्तत्वावगमः । उक्तस्याप्यनुमानस्य पुनर्वचनं स्मृतिदार्यार्थम् ॥४४ ॥
हिन्दी — जिस प्रकार शिकारी मृग के रक्तचाप ( से चिह्नित मार्ग ) से स्थान का निश्चय कर लेता है, उसी प्रकार राजा को अनुमान ( ८।२५-२६ ), या प्रत्यक्ष प्रमाण ) से धर्म के तत्त्व का निर्णय करना चाहिए ॥ ४४ ॥
सत्यादि से व्यवहार - दर्शन-सत्यमर्थं च सम्पश्येदात्मानमथ साक्षिणम् ।
देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥४५ ॥
भाष्य - व्यवहारविधौ व्यवहारकर्मणि स्थितः प्रवृत्तो न केवलं व्यवहाराक्षराणि सम्पश्येद्यावदेतदपरं सत्यादि । तत्र सत्यस्य दर्शनम् — यद्यप्यर्थिप्रत्यर्थिनोरन्यतरेण शालीनतया परिपूर्णाक्षरं नाभिहितं तथापि यदि राजा प्रमाणान्तरतः पूर्वोक्ताद्वाऽनुमा-नादेव कथञ्चिदीदृशोऽयमर्थ इति निश्चेतुं पारयेत् तदा तदाश्रयेनोपेक्षेत । अनेनैतन्न सर्व-मुक्तमिति । तदुक्तम् ( या ० व्य ० १ ९ ) । “ छलं निरस्य भूतेषु व्यवहारान्नयेन्नृप इति ” । अर्थस्य दर्शनम् —अर्थशब्दो धनवचन: प्रयोजनवचनो वा । तत्र यदि महान्तमर्थ-मासादयेत्तदा त्यक्त्वाऽप्यन्यानि राजकार्याणि नोद्विजेत, व्यवहारेक्षणं कुर्यादेव । अथवा यदि कश्चिद्ब्रूयात्साक्षिभिरर्थ एतस्माद्गृहीतोऽन्येन वा सभ्येन तत्र निरुपयितव्यं यदेतद्-व्यवहारपदं यदि स्वल्पं न सम्भवति धनग्रहणम् । अथ गुरु सभ्याः साक्षिणश्च दैन्यं गतास्तदा सम्भावनीयं प्रमाणान्तराच्च निश्चेतव्यम् । एतच्चात्मानं साक्षिणं कृत्वा गवेषणीयम् । एतदुक्तं भवति । कण्टकशोधनन्यायेन 1
पृष्ठ 175
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १३ ९ चारैश्चारयेत् । अथवाऽत्मानं सम्पश्येदात्मनोऽवस्थां सम्पश्येत्कोशक्षयं महाकोशतां वा । अस्मिन् पक्षे साक्षिण इति स्वतन्त्रं पदम् । देशस्य दर्शनम् — क्वचिदल्पोऽप्यर्थो महत्त्वमासादयति, महानपि योऽन्यत्र स क्वचिल्लघुर्भवतीति । एतद्देशस्य दर्शनम् । एवं कालोऽपि द्रष्टव्यः । रूपं व्यवहारवस्तुस्वभावः । तस्य गुरुलघुतां पश्येदिति । अन्यैस्तु व्याख्यातम् । सत्यार्थयोः सारफलतां पश्येदात्मानं साक्षिणं कृत्वा । एतदुक्तं भवति । अर्थात्सत्यं गुरुत्वेन महाप्रयोजनत्वादुभयोर्लोकसाधनरूपतयाऽऽ-श्रयितव्यम् । अर्थस्त्यक्तव्योऽसारत्वात् । देश: स्वर्गादिः सत्यसमाश्रयप्राप्यः । कालश्चिरं तत्र वास: । रूपं सुरूपं सुन्दरं मनोहरम् । एवदेव विपरीतम् । सत्यत्यागेन केवलार्थ-समाश्रयणात् ॥४५ ॥
हिन्दी – व्यवहार अर्थात् मुकदमा देखने के लिए तैयार राजा सत्य से युक्त व्यवहार को, अपने को, ( अन्याय करने से स्वर्गादि प्राप्ति नहीं होगी इत्यादि ) साक्षियों ( गवाह ) को; देश, काल के अनुसार स्वरूप ( छोटा या बड़ा इत्यादि ) को देखे ॥४५ ॥
सदाचार- पालन—
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः ।
तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ४६ ॥
भाष्य – सन्तः प्रतिषिद्धवर्जकाः, मार्मिका विहितानुष्ठायिनः । यद्यप्येक एव शब्द उभयमर्थं प्रतिपादयितुं शक्नोति तथापि भेदोपादानाद्विषयविभागेनैवं व्याख्यायते । तैर्यदाचरितमनुपलभ्यमानश्रुतिस्मृतिवाक्यं तद्देशकुलजातीनां प्रकल्पयेदनुष्ठापयेत् । अविरुद्धं श्रुतिस्मृतिभिरुपलभ्यमानाभिः । यदुक्तं “ जातिजानपदान्धर्मान् ” ( ४१ ) इत्यत्र
श्लोके देशकुलाद्याचारस्य प्रामाण्यं तस्यानेन विशेषः कथ्यते । आम्नायेनाविरोधेन
तत्प्रमाणम्, न विरोधे तत्प्रमाणम् । तेन दृष्टार्थान्यपि ग्रामदेशराजकार्याणि शास्त्राविरुद्धा-न्यादरणीयानि, न विरुद्धानि । यथा क्वचिद्देश ऋणिक आत्मानं विक्रय्य धनं दाप्यते । तच्च “ कर्मणाऽपि समम् ” इत्यनेन विरुद्धम् । अन्यच्च श्लोकेन दर्शितम् । अन्यस्य त्वाचारस्य शिष्टसम्बन्धितयैव प्रामाण्यमुक्तम् “ आचारश्चैव साधूनाम् ” इति । न च तद्विरुद्धार्थसमाचरणेन साधुत्वमुपपद्यते । तस्माद् यन्नादृष्टाय तद्विषयोऽयमुपदेशः । अन्यस्त्वाह । देशान्तरे धार्मिकैः सद्भिर्द्विजैर्यदविरुद्धं श्रुत्या स्मृत्यन्तरेण वा-ऽऽचर्यते तद्देशान्तरेऽपि राजा प्रकल्पयेत् । यथोद्वृषभयज्ञादय उदीच्येषु प्रसिद्धास्ते प्राच्यैर्दाक्षिणात्यैः प्रतीच्यैश्चानुष्ठेयाः । कुतः । आचाराद्धि स्मृतिरनुमातव्या । स्मृतेः
पृष्ठ 176
पाठ पढ़ें पाठ छिपाएँ
१४० मनुस्मृतिः [ अष्टमः श्रुतिः । सा च यद्येव - मनुमीयते — ' उदीच्यैरेतत्कर्तव्यमिति ' तत्र तद्धितस्य बहुष्वर्थेषु स्मरणात्तत्र जातस्यत्र भवस्तत आगतस्तमभिप्रस्थितः शेष इति चैतस्य लक्षणविकारो-भयरूपत्वादन्येष्वप्यर्थेषु प्रतिपदमनुपातेषु तद्धितस्मरणान्नास्त्युदीच्यो नाम य उदीच्य-शब्देन निवर्त्येत । ततश्च पुरुषमात्रेणैतत्कर्तव्यमित्यापतति । देशसमाख्याया नियतनिमित्त-त्वाभावेनानियामकत्वात् । अथैवं वाक्यमनुमीयेत — ‘ उदीच्यां जातेन तद्देशवासिना वा ’ तदपि व्यभिचारि । तत्र जातोऽपि नान्यत्र करोति, तन्निवास्यप्यन्यत्र जातो न करोत्येव । अथोदग्देशाभिजनस्तन्निवासी चेति — नित्यत्वादभिजननिवासयोस्तदपि न युक्तमेव । न हि जातगुणगोत्राणीवाभिजननिवासौ नित्यौ । तस्मान्नित्यस्य कस्यचिदनुष्ठातॄणामव-च्छेदकस्यानुपपत्तेः सर्वविषया धर्माः । न देशधर्मा नाम केचन सन्ति । अनेनैव न्यायेन कुलधर्मा अपि । कथं ‘ तर्हि देशधर्माः कुलधर्मा ' इति च स्मृतिकारैर्भेदेन व्यपदिश्यन्ते । उक्तं दृष्टार्था नियता व्यवस्था । तत्र धर्मस्तस्य च नियम उपपद्यत इति उक्तम् । कुलं च गोत्रैकदेशः । यस्तु कृत्स्नगोत्रधर्मो — यथा ‘ न वासिष्ठा वैश्वामित्रैः सम्बघ्नयु-रिति ’ — स नित्यत्वाद्गोत्रव्यपदेशस्य नित्यएवेति विरम्यते ॥४६ ॥
हिन्दी- - सज्जन ( श्रेष्ठ विद्वान् ) एवं धार्मिक ब्राह्मणों ने जिनका पालन किया हो, देश कुल ( वंश ) तथा जाति के अनुसार उस व्यवहार का निर्णय करे ॥ ४६ ॥
ऋण ग्रहण करने पर-अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः ।
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ४७ ॥
भाष्य — यत्सर्वेषु व्यवहारपदेषु साधारणं तदुक्तम् । विशेषविवक्षायामिदमाह । सोपचयं कालान्तरे दास्यामीति यो धनमन्यस्माद्गृह्णाति सोऽधमर्णः । यस्तु सोपचयं प्रत्यादास्यामीति प्रयुङ्क्ते स उत्तमर्णः । सम्बन्धिशब्दावेतौ । अधमर्णस्यार्थः । अर्थो धनं प्रकारणाद्यदेवोत्तमर्णाय देयं तदेवोच्यते । तस्य सिद्धिरुत्तमर्णं प्रति निर्यणः । द्वितीयोऽर्थशब्दः प्रयोजनवचनः । अयं समुदायार्थः । उत्तमर्णेन यदा राजा चोदितो भवत्यधमर्णेन यो गृहीतोऽर्थः स मे सिद्ध्यतु दापयतु भवान् - राजा त्वधमर्णात्तदा दापयेद्धनिकस्यार्थम् । धनमस्यास्तीति धनिकः । उत्तमर्ण एव च प्रसिद्ध्या धनिक उच्यते | दापयेदिति सम्बन्धाच्चतुर्थी प्राप्ता । सा त्वपूर्णत्वात्सम्प्रदानभावस्य न कृता । यथा घ्नतः पृष्टं ददाति, रजकस्य वस्त्रं ददातीति । न ह्यत्र मुख्यो ददात्यर्थः । इहा-प्युभयोः स्वत्वस्य भावात् । उभयोः स्वत्त्वाभावादपरिपूर्णो ददातीत्यर्थः । किमुत्तमर्णवचनादेवासौ दापयितव्यः नेत्याह विभावितमिति । यदा निश्चितेन
पृष्ठ 177
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १४१ प्रमाणेन धारयतीति प्रतिपद्यते । अथवा विभावितः स्वयं प्रतिपन्नः । यतो विप्रति-पन्नस्य वक्ष्यति ‘ अपह्नवेऽधमर्णस्येति ' ( ५२ ) । कथं पुनः स्वयं प्रतिपन्नो विभावित इत्युच्यते । नैष दोषः । विस्मरणे स्वहस्तलेख्यादिना स्वयं प्रतिपन्नश्च भवति । विभा-वितश्चाप्रतिपन्नश्च जानानोऽपि मिथ्याप्रतिपन्नः ॥४७ || -हिन्दी – ( यहाँ तक साधारण रूप से व्यवहार देखने की विधि कहकर आगे ऋण लेने पर व्यवहार देखने की विधि कहते हैं - ) ऋण देनेवाले अपना ऋण पाने के लिए राजा के यहाँ प्रार्थना की हो तो वह राजा ( आगे कहे गये लेख, साक्षी आदि प्रमाणों से प्रमाणित ) धन को ऋण लेनेवालों से ऋण देनेवालों को दिलवाये ।
ऋण प्राप्त करने के उपाय-यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ।
तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥ ४८ ॥
भाष्य- -नेहाप्राप्तार्थानुत्तमर्णाद्राज्ञे भागं वक्ष्यत्यधमर्णाद्दण्डम् । तत्र स्वभाग-तृष्णाया राजान उपायान्तरेण धनमार्गणं धनिकानां कारयेयुरतस्तन्निवृत्त्यर्थमिदमुच्यते । यैर्यैर्वक्ष्यमाणैरुपायैः स्वधनं पूर्वप्रयुक्तमुत्तमर्णो लभेत तैस्तैरधमर्णं दापयेत् । संगृह्य स्थिरीकृत्य । अनेनैवोपायेनैतस्मादेतल्लभ्यत इत्येतन्निश्चित्येत्यर्थः । अथवाऽनुकूलमुप-सांत्वनं संग्रह । उत्तमर्ण एव उत्तमर्णिकः । उत्तमं च तदृशं चोत्तमर्णम् । तदस्यास्ती-त्युत्तमर्णिकः । “ अत इनि उनाविति ' ( पा ० ५।२।११५ ) रूपम् । एवमितरोपि । वृद्धि-लाभार्थं प्रयोगविषयं धनमृणम् । द्वौ च तस्य सम्बन्धिनौ प्रयोक्ता ग्रहीता च । प्रयोजकस्य च तत् — ‘ उत्तमं ’ भवति । स्वतन्त्रो धनदाने प्रत्यादाने च । इतरस्य सोपचयदानाद्बह्वा-यामत्वाच्च ‘ अधमत्वम् ’ । व्युत्पत्तिमात्रं त्वेतत् । रूढ्यैव त्वेतौ प्रयोक्तृग्रहीत्रोर्वाचकौ । के पुनस्तत्रोपाया इत्येतत्प्रदर्शनार्थ उत्तरश्लोकः ॥४८ ॥
हिन्दी — जिन - जिन उपायों से ( उक्त लेख साक्षी आदि उपायों से प्रमाणित ) धन ऋण देनेवालों को मिल सके, उन - उन उपायों से ऋण लेनेवालों को वश में करके राजा उक्त प्रमाणित धन ऋण देनेवाले को दिलवाये ॥४८ ॥
बल से धन वसूल करनेवालेऋणदाता को अनिषेध—
धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥ ४ ९ ॥
भाष्य — तत्र धर्मस्कन्धकरीत्या स्तोकं स्तोकं ग्रहणमिदमद्य इदं श्व परश्वः-यथा कुटुम्बसंवाहोऽस्यैवं वयमपि तव गुटुम्बभूताः संविभागयोग्या इत्यादि पठित-प्रयोगो धर्मः । यस्तु निःस्वः स व्यवहारेण दापयितव्यः अन्यत्र कर्णोदकवद्धनं दत्वा
पृष्ठ 178
पाठ पढ़ें पाठ छिपाएँ
१४२ मनुस्मृतिः [ अष्टमः कृषिवाणिज्यादिना व्यवहारयितव्यम् । तत्रोत्पन्नं धनं तस्माद्ग्रहीतव्यम् । यस्तु ‘ व्यवहारो ’ राजनिवेद्यस्तस्य सर्वोपायपरिक्षये योज्यत्वाद्वलग्रहणेन च गृहीतत्वात् । यस्तु साक्षान्न ददाति विद्यमानधनोऽपि स छलेन दापयितव्यः । केनचिदपदेशेन विवाहोत्स - वादिना कटकाद्याभरणं गृहीत्वा न दातव्यं — यावदनेन तद्धनं न दत्तम् । आचरितमभोजनगृह-द्वारोपवेशनादि 1 । बलं राजाधिकरणोपस्थानम् । तत्र राजा साम्नाऽप्रयच्छन्तं निगृह्य च प्रपीड्य दापयतीति । नतु स्वगृहसम्बन्धिधनादि ' बलं ', यतः “ प्राकृतीनां बलं राजा ” इति पठ्यते अस्मिन्नेव प्रसङ्गे उश्नसा । अन्ये तु राज्ञ एवायमुपदेश इति वर्णयन्ति राजधर्मप्रकरणात् । राजा ज्ञापित उपायैरेनं दापयेत्पराजितं स्वयं प्रतिपन्नं च । न तु सहसाऽवष्टभ्य सर्वस्वं धनिने प्रतिपादनीयः । यत उभयानुग्रहो राज्ञा कर्तव्यः । सर्वस्वा-दाने चाधमर्णस्य कुटुम्बोत्सादः स्यात्सोऽपि न युक्तः । उक्तं हि— “ नावसाद्य शनैर्दाप्यः काले काले यथोदयम् । ब्राह्मणस्तु विशेषेण धार्मिके सति राजनि " ॥ इति । तस्मात्किञ्चनवृद्ध्या संदापनीयः । कुटुम्बादधिकधनसम्भवे सर्वं दापनीयः । सर्वा-सम्भवे च ‘ कर्मणाऽपि समं कुर्यात् ' इति । अन्यस्मिन्व्याख्याने छलाचारौ राजानम-ज्ञापयित्वा न कायौ ॥४ ९ ॥ हिन्दी - धर्म, व्यवहार, छल, आचरण और पाँचवें बलात्कार के द्वारा ऋण लेनेवाले व्यक्ति से धनी ( ॠण देनेवाले ) का धन दिलवाये ॥ ४ ९ ॥ विमर्श-( १ ) मित्रों या सम्बन्धियों के सन्देशों से, सामने तथा अनुगमन से ऋण लेनेवाले के द्वारा ऋण देनेवाले का धन दिलवाना ' धर्म ' है । ( २ ) आगे ( १०।५१ ) कहा जानेवाला प्रकार ' व्यवहार ' है । ( ३ - क ) ऋण लेनेवाले से छलपूर्वक धन लाना, ( ख ) दूसरे किसी के द्वारा ऋण लेनेवाले से धन मँगवाकर उसे रोक लेना ' छल ' है । ( ४ ) ऋण लेनेवाले के स्त्री, पुत्र या पशु आदि को मार - पीटकर या उसके द्वार पर बैठकर ऋण देनेवाले का धन लेना ' आचरित ' है । ( ५ ) ऋण लेनेवाले को अपने यहाँ बुलवाकर उसे उस धन का कर या मार - पीटकर ऋण देनेवाले का धन लेना ' बल ' अर्थात् ' बलात्कार ' है । मेधातिथि का मत है कि ' जो निर्धन हो, उसे व्यवहार से ऋण दिलवाना चाहिए, दूसरे कार्यों का साधन धन देकर व्यापार या खेती आदि से व्यवहार कराकर उसमें उत्पन्न धन उस ऋण लेनेवाले से लेना चाहिए । ' इस पर पूज्यचरण ' नेने ' शास्त्री का कथन है कि ऋण लेनेवाले
पृष्ठ 179
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १४३ की रक्षा करते हुए थोड़ा - थोड़ा अर्थात् ' किस्त ' रूप में धन देना ' धर्म ' है 1 । जो निर्धन है उसे ' व्यवहार ' से दिलवाना चाहिए । अन्यत्र थोड़ा - सा धन देकर उस धन से खेती या व्यापार करावे और उसमें पैदा हुए धन को उससे ग्रहण करे । जो राजा के यहाँ निवेदन करने योग्य अर्थात् मुकदमा करने योग्य है, उसको सभी उपायों के सफल नहीं होने पर काम में लावे और बलात्कार से धन ग्रहण करे । जो धन रहते हुए भी ऋण लिया हुआ धन नहीं देवे, उससे कपटपूर्वक धन ले अर्थात् विवाह आदि के छल से भूषण आदि लाकर रोक ले तथा उस ऋण के धन के वसूल होने पर उस भूषण आदि को वापस करे । ' यः
ऋण लेकर अपलाप करने पर -स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।
न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन्धनम् ॥ ५० ॥
भाष्य - उक्तस्यैवार्थस्य स्पष्टीकरणार्थः श्लोकः । न छलादिनोपायेन स्वेच्छयो-त्तमर्णोऽधमर्णाद्धनं संसाधयन् राज्ञा किञ्चिद्वक्तव्यः - ' मामविज्ञाप्य किमित्यस्मादाभ-रणादि स्वधनसंशुद्ध्यर्थं व्याजेन छद्मना गृहीत्वा किं नास्मै प्रतिप्रयच्छसीति ॥५० ॥
हिन्दी — जो ऋण देनेवाला ऋण लेनेवाले में बल आदि के द्वारा अपना ऋण में दिया हुआ धन वसूल करता हो, उसे राजा मना न करे अर्थात् अपना ऋण वसूल कर लेने दे ॥५० ॥
ऋण लेकर अपलाप करने पर—
अर्थेऽपव्ययमानं तु कारणेनं विभावितम् ।
दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ ५१ ॥
भाष्य — सत्यपि विभावके प्रमाणे यो न स्वयं प्रतिपद्यते न तस्य छलाद्युपाय-प्रयोगः कर्तव्यः । किंतर्हि राजैव तेन ज्ञापयितव्यः । तत्र राज्ञाऽऽकारितेऽर्थे ऋणेऽ-पव्ययमानमपहुवानं — नास्मै किञ्चन धारयामीति वदन्तं - कारणेन साक्षिलेख्य-भुक्त्यात्मकेन विभावितं धारयामिति प्रतिपादितं दापयेदुत्तमर्णाय धनम् । दण्डलेशं च स्वल्पं दण्डं दण्डमात्रमित्यर्थः । अन्यत्र दशमं भागं वक्ष्यति । यस्तु तावद्दातुम-शक्तः सोऽल्पमपि दशमाद्भागाद्दण्डं दापयितव्यः । अथवा यः प्रमादात्कथञ्चिद्वि-स्मृत्यापजानीते तस्यायं यथाशक्ति दशमभागाल्पतो दण्डः । कारणं प्रमाणं त्रिविधम् । तदन्यैरिह सम्भवतीति परिगणितम् । तथा चाहु: -“ यत्र न स्यात्कृतं पत्रं साक्षी चैव न विद्यते । न चोपलम्भः पूर्वौक्तो दैवी तत्र क्रिया भवेत् ” ॥ इति ॥५१ ॥
पृष्ठ 180
पाठ पढ़ें पाठ छिपाएँ
१४४ मनुस्मृतिः [ अष्टमः हिन्दी — यदि ऋण लेनेवाला ऋण को मुकर जाय अर्थात् मैंने ऋण नहीं लिया है ऐसे मना कर दे तथा लेख और साक्षी के द्वारा उसका ऋण लेना प्रमाणित हो जाय तो राजा ऋण लेनेवाले से ऋण में लिया हुआ धन ऋणपूर्तिरूप में तथा ऋण का दशमांश
अतिरिक्त धन दण्डरूप में ऋण देनेवाले के लिए ( १०।१३५ के अनुसार ) दिलवावे ॥५१ ॥
[ यत्र तत्स्यात्कृतं यत्र करणं च न विद्यते । न चोपलम्भपूर्वोक्तस्तत्र दैवी क्रिया भवेत् ॥ ४ ॥ ]
[ हिन्दी – जहाँ पर ऋण लिया गया हो, वहाँ साधन उत्तम ( लेखसाक्षी आदि ) न हो और उसकी प्राप्ति न हो; वहाँ पर दैवी क्रिया करनी चाहिये || ४ || ]
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि ।
अभियोक्ता दिशेद्देशं कारणं वाऽन्यदुद्दिशेत् ॥ ५२ ॥
भाष्य — यदा राज्ञा प्राड्विवाकेन वा संसदि व्यवहाराधिकरणादिदेशे देह्युत्तमर्णाय धनमिति उक्तस्याप्ह्रवोऽपलापः अधर्मेण भवति तदाऽभियोक्ता धनस्य प्रयोक्तोत्तमर्णो दिशेद्देशं साक्षिणं प्रमाणभूतं निर्दिशेत् । अन्यद्वा कारणं लेख्यादि । देशशब्देन लक्षणया धनप्रयोगप्रदेशवर्तिनां साक्षिणामुपादानात् कारणशब्दः सामान्यशब्दोऽपि गोबलीवर्दवत्साक्षिव्यतिरिक्तं लेख्यादिकारणमाचष्टे । ततश्च पाठान्तरं “ कारणं वा समु-द्दिशेदिति ” । अस्याप्ययमेवार्थः । अथवाऽयमन्यः पाठः ‘ अभियुक्तो दिशेद्देशमिति ' । अयं चाऽर्थः । यत्राधमर्णो देही-त्युक्तः प्रतिजानीते ‘ सत्यमेव धनं गृहीतं प्रतिदत्तं तु तत् ' इति यदसावभियोक्ताऽऽसीत्स एवाभियुक्तः संवृत्तः । स चाभियुक्तः संदिशेद्देशम् –‘कस्मिन्देशे त्वया मे प्रतिदत्तम् ' । कालं च निर्दिशेत् । देशग्रहणस्य प्रदर्शनार्थत्वात् । कारणं वा समुद्दिशेत् । ‘ अस्ति भोः किं कारणं तव प्रतिपादने तत्समुद्दिश ' इत्येवं ब्रूयात् । अथवा दिशे- देशम् — यत्तस्मिन्-काले नार्हं साक्ष्यादिप्रदर्शनं कारणं वेति । वाशब्दः चशब्दस्य स्थाने || ५२ ॥ हिन्दी – न्यायालय में न्यायाधीश क ' इस धनी ( ऋण देनेवाला ) का धन दो ' ऐसा कहने पर ऋण देनेवाला यदि मुकर जाय ( ऋण लेने का निषेध कर दे ) तो अर्थी ( मुद्दई अर्थात् ऋण देनेवाला ) साक्षी या अन्यान्य प्रमाण ( लेख आदि ) बतलावे ॥५२ ॥।
ऋणदत्त धन का अधिकारी होने के कारण— अदेशं यश्च दिशति निर्दिश्यापह्नु ते च यः । यश्चाधरोत्तरानर्थान्विगीतान्नावबुध्यते अपदिश्यापदेशं च ॥५३ ॥
पुनर्यस्त्वपधावति ।
सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति ॥ ५४ ॥