मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 181–190
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता
असम्भाष्ये साक्षिभिश्च देशे सम्भाषते मिथः ।
निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ५५ ॥
ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । १४५ न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥ ५६ ॥
भाष्य — उक्तमेवाधमर्णेऽपह्नुवाने धनिना राजा ज्ञापयितव्य: । ईदृशो च ज्ञापना कर्तव्या । ‘ अस्मिन्देशेऽस्मिन्काले इदं धनमियद्वैतेन मत्सकाशाद्गृहीतम् ' । स च पृष्टो भावयति— ‘ नैतस्मिन् देशेऽहमभवं योऽनेन च ग्रहणकाल उपदिष्टः ' तदा देशे दिश्यते । अथवा देशसाक्षिणो व्याख्यातास्तान्साक्षिणो देशकालावसम्भवतो निर्दिशति । निर्दिश्य देशादिकमपजानीते ‘ नैतन्मया निर्दिष्टमिति ' । यश्चाधरोत्तरानर्थान्पौरस्त्यानौपरिष्टांश्च विगीतान्विरुद्धानभिहितान्नावबुध्यते । यद्वा पूर्वं वक्तव्यं तत्परस्माद्वक्ति यत्परतस्तत्पूर्वं क्रमभेदं च वचनगतमात्मनो नानुसंधत्ते । ' हीनः स इति निर्दिशेदिति ' सर्वत्र क्रियानुषङ्गो भविष्यतीति । पूर्वेणार्धेनोक्तस्यार्थस्य निगमनम् । उत्तरेणानुक्ताऽर्थ उच्यते । यदुक्तं “ अदेशं यश्च दिशति निर्दिश्यापह्नुते च यः ” इति स एवार्थः अपदिश्येत्यस्य । आदेश एवापदेशः । तमपदिश्य कथयित्वा पुनः पश्चादपधावत्यपसरति — ' नैतौ देशकालौ मम निश्चितौ ' । यावत्सुदेशकालोऽवधारयति तावदयं मह्यमिति ' पश्चाद्ब्रवीति । सोऽपि तस्मादर्थाद्धीयते । सम्यक् प्रणिहितं चार्थमनाकुलं निश्चितमुक्तं तदा पृच्छ्यते तदाऽनेनोक्तं तत्र किं ब्रवीर्षि केन वा प्रमाणेन स्वपक्षं साधयसीति पृष्टो न संधत्ते कथान्तरं प्रस्तौति-‘ विचारावसानेन किल मे पराजयो भवतीति कालमुपक्षिपामीति ' – तस्यापि पराजय एव । अथवाऽपदेशो व्याजस्तमपदिश्योपन्यस्य योऽपसरत्यधुना मे महती पीडा समुत्पन्ना न शक्नोमि प्रतिवक्तुमलीकादिना वा प्रस्थितः सोऽपि हीयते । असम्भाषणार्हे देशे गह्वरादौ साक्षिभिः सह सम्भाषत एकाकी तद्भेदाशङ्कया । निरुच्यमानं पृच्छ्यमानं निरूप्यमाणं वा प्रश्नं विचारवस्तु नेच्छति – किञ्चिद्राजकार्य-मुद्दिश्य राजपुत्रात्माद्यनुग्रहेण च काललाभं करोति । यश्चापि निष्यतेत् । वक्ष्यमाणमेव क्रियापदं ‘ स हीयत ’ इति । यदेवोक्तं ' पुनर्यस्तत्वपधावतीति ' स एवार्थः ‘ यश्चापि निष्पतेदिति ' । पुनर्वचने प्रयोजकमुक्तम् । अत्यन्तपौनरुक्त्यं मा भूदिति कश्चिद्विशेष आश्रयितव्यः । उक्तार्थ एव श्लोकोऽयं श्लोकान्तरैर्दृश्यते । पुनर्वचने च प्रयोजनमुक्तम् — ‘ बहुकृ-त्वोऽपि पथ्यं वेदितव्यमिति ' । अक्षरार्थस्त्वर्थिना निःशेषिते पूर्वपक्षे प्रतिवादी ' ब्रूह्य-स्मिन्वस्तुनीति ' पृष्टो यदि न ब्रूयात्पुनःपुनः पृच्छ्यमानोऽपि । यो हि सम्यगुत्तराभावान्मि-
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
१४६ मनुस्मृतिः 1 [ अष्टमः थ्योत्तरवादित्वादमुनैव मे पराजयो भवति तूष्णींभूतस्य तु मे संशय एव पराजये इत्य-नया बुद्ध्या नोत्तरं ददाति । सोऽपि हीयते । वक्ष्यति चात्र कालावच्छेदम् " न चेत्-त्रिपक्षात्प्रब्रूयादिति ” ( ५८ ) । सद्यो ह्याकृष्टस्य पूर्वपक्षार्थानवबोधादुत्तराप्रतिपत्तेर्युक्तं कालहरणम् । अत्र च दिवसैः पञ्चभिर्दशभिर्द्वादशभिर्वेषदोषद्वदतस्त्रिपक्षसमाप्तिः न त्वियन्तं कालं तूष्णींभाव एव । यश्चातोऽधिकः कालः - ' संस्थितोऽपि कच्चित्संवत्सरं प्रतीक्षेताप्रतिभायामिति ' ( गौतम १३ । २८ ) – न युक्तामादर्तुं यतोऽप्रतिभा यदि प्रतीक्षा-कारणं सा चेत् संवत्सरादूर्ध्वं भवतीति किमित्यकारणम् । न चैष नियमः केनचित्-प्रकारेणावगम्यतेऽप्रतिभावतः संवत्सरेण प्रतिभा भवतीति । तस्मात्तावन्त्येवाहान्युपेक्षा युक्ता यावद्भिः पूर्वपक्षार्थावधारणं भवत्युत्तरं च प्रतिभाति । एतच्चामुकस्य मन्द-धियोप्येतावन्मात्रैरहोर्भवतीति नाधिकं कालमुपेक्षणीयम् । पूर्वपाक्षिकस्य तु तदहरेव स्वार्थविनिवेशनं युक्तम् । यत इदमेष मे धारयतीदं वाऽनेनममापकृतमिति निश्चितं तस्य भवति । स्वेच्छया ह्यसौ प्रवर्तते । केवलं तस्मै स्व-पक्षमावेदयते किमित्यनिश्चितः स्वार्थो भवति । उत्तरपाक्षिकस्त्वविदितसम्बन्धस्तदानी-मेव राजपुरुषैरानीयमानः कथमिव स्वपरपक्षौ निश्चिनुयात् । पक्षद्वयानिरूपणं हि तदस्य तदानीमेवापतति । नान्यथोत्तरपाक्षिको भवति । तस्मात्पूर्वपाक्षिकस्य साध्ये वस्तुनि तदहः पूर्वपक्षसमाप्तिर्द्विदिवसलाभो वा । उभावपि चैतो पक्षौ स्मृत्यन्तरपरिगृहीतौ । तथा ह्याह— “ सुनिश्चितबलाधानः पूर्वपक्षो भवेत्सदा दशाहं द्वाशाहं वा स्वपक्षं परिशोधयेत् ” ॥ इति । तथेदमपरम् ( याज्ञ॰व्य ० ७ ) " ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ” । या तु संवत्सरपरीक्षा सा मूलासम्भवादप्रमाणम् । न हि व्यवहारस्मृतावष्टकादि-वद्वेदमूलता शक्यते वक्तुम् — अकार्यरूपत्वादर्थस्य । प्रमाणान्तरविषयत्वे च तद-सम्भवः प्रतिपादितः । एषाऽपि पूर्वपक्षोपेक्षा न सर्वत्र । यत उक्तम्— “ साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ ” इति । ( याज्ञ ० व्य ० १५ ) साहसादौ हि चिरमुपेक्ष्यमाणेऽपरमाराध्नुयात् । अतः सद्यो विवादो विधीयते । न चात्रास्मृत्यादयोऽनुत्तरहेतवः सम्भवन्ति । साहसादिकारणं हि तदानीमेव राजानं वेदयेत् । तीव्रसम्वेगता हि तत्र भवति । वस्त्राद्यपहारेण तदुपेक्षायां रागशङ्का भवति । साक्षिण-स्तत्र यदृच्छया सन्निहिता अपि भवन्ति । ते हि देशान्तरं गता नामजात्यादिभिर्न विज्ञा-यन्ते । ततः स्वाभाविकप्रमाणाभावः ।
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता १४७ किञ्च ऋणादानादिषु कदाचिदितरेतरं संदधते । न तत्र राज्ञो हस्तप्रक्षेपः । प्रायेण च संशुद्धौ नानुसृतिरुपयुज्यते तदा कियद्दत्तमिति । साहसकारी तु राज्ञाऽवश्यं निग्रहीतव्य इतरेण संधीयमानोऽपि । तस्मादृणादिषु कालहरणं साहस्रादिषु सद्य इति स्थितम् । तदुक्तम्— ‘ “ गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि । ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया ॥ ” यदा सङ्कुलः पूर्वपक्षो भवति तदा गहनत्वान्न शक्यते ग्रहीतुम् । अनाकुलो विलुप्त-क्रमोऽपि गृहीतः प्रतिवचनकाले महत्वान्न शक्यते सर्वेण स्मर्तुमिति स्मृत्यन्तरस्यार्थः । उक्तं च न विभावयेत् | साध्यं वस्तु निर्दिश्य न साधयति साधनस्याभावात्, विपक्षे वा भावात् ।
न च पूर्वापरं विद्यात् । उक्तमेतत् ।
तस्मादर्थाद्व्यवहारवस्तुनः स हीयते पराजितो भवतीत्यर्थः ॥५३-५६ ॥
हिन्दी – यदि ऋणदाता ऐसे स्थान पर ऋण देना बतलावे जहाँ ऋण - ग्रहीता का उस समय रहना सर्वथा असम्भव हो, अथवा किसी स्थान को पहले कहकर बाद में उसे कहना स्वीकार न करे, बात को पूर्वापर विरुद्ध कहे ( पहले कही हुई बात से बाद में कही हुई बात का मिलान नहीं हो, दोनों एक दूसरे के विरूद्ध पड़ती हों ), पहले अपने हाथ से ऋण देना बतलाकर बाद में अपने पुत्र आदि के हाथ से ऋण देना कहने लगे; तथा न्यायाधीश के ‘ क्यों तुमने रात में, एकान्त में या बिना किसी साक्षी के रहते या बिना कागज ( स्टाम्प — हैंटनोट आदि ) दिखवाये आदि के धन दिया, इत्यादि पूछने पर ऋणदाता सन्तोषजनक उत्तर न दे, जो ऋणदाता साक्षियों को एकान्त में ले जाकर बातचीत करे ( साक्षी को सिखलावे ), जो पूर्वकथित विषय की दृढ़ता के लिए न्यायाधीश ( या प्रतिपक्षी या उसके वकील आदि ) से पूछे गये प्रश्नों ( जिरहों ) की चाहना न करे, जो कहे गये व्यवहारों को पहले नहीं कहकर इधर - उधर की बातें कहे, न्यायाधीश के ‘ कहो ' ऐसा कहने पर भी जो नहीं कहे, जो पूर्वकथित बातों का समर्थन प्रमाणों द्वारा नहीं करे, ‘ कौन बात मुझे कहनी है? ' यह ( घबड़ाने के कारण ) नहीं समझकर दूसरी ( अपने प्रतिकूल एवं प्रतिपक्षी के अनुकूल ) ही बात कहने लग जाय अर्थात् घबड़ाने से आगे पीछे की बात या अपने कार्य को सिद्ध करनेवाली बात नहीं कहकर चाहे चो कुछ कहे, वह ऋणदाता ऋण का ( धन का ) अधिकारी नहीं होता है ॥५३-५६ ॥
ज्ञातारः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः ।
धर्मस्थः कारणैरेतैर्हीनं तमिति निर्दिशेत् ॥ ५७ ॥
भाष्य — ज्ञातारः साक्षिणः पुरुषा मम सन्तीत्युक्त्वा यदोच्यते कथ्यतामिति तदा
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
१४८ मनुस्मृतिः [ अष्टमः तूष्णीक आस्ते — न तान्देशनामजातिभिर्विशेषणैः कथयति - तदा एतैः प्रत्येकं पूर्व-मुक्तैः कारणैरिह हीनोऽसौ व्यवहाराभ्रष्ट इति । धर्मस्थो धर्माधिकरणस्थः प्राड्वि-वाको निर्दिशेन्निश्चितं ब्रूयाज्जितोऽयमिति । यथैव विपक्षबाधकप्रमाणवृत्त्या पराजय एवं स्वपक्षसाधनाभावादपि । अभावनिश्चयश्च पुनः पुनरवसरेऽनुपन्यासात्कारणान्तरस्य चानुपन्यासेऽभावादिति । ज्ञातार इति तृन्नन्तमेव । तत्रेदमिति द्वितीयान्तं युज्यते । “ खलर्थतृनामिति ” ( पा ० सू ० २।३।६ ९ ) षष्ठीनिषेधात् । हीनं तमिति द्वितीयान्तः पाठः । इतिशब्दः प्रकारार्थो द्रष्टव्यः । एभिरुक्तैः प्रकारैरन्यैश्चैवंविधैर्हीनं तन्निर्दिशेत् । यदा तु वाक्यार्थपरामर्शः तदा हीनोऽसाविति पाठः । वाक्यार्थस्य कर्मत्वाद्द्द्वितीयाया अभावः । एते पराजयहेतवः । न त्वाकारेङ्गितादिवद्व्यभिचारिणः । यो हि पुनः पुनर्विचारा-वसरे न सन्निधीयते सन्निहितो नोत्तरं प्रतिवक्ति तत्र निश्चितमिदं भवति नास्य जयहेतुर-स्तीति । यदि च सर्वदैवानुत्तरवादिनं न पराजयेद्राजा ततो व्यवस्थाभङ्ग आपद्यते । पौर्वापर्यानवबोधस्त्विङ्गितादिवद्द्रष्टव्यः । यः सर्वकालं वाग्मी प्रगल्भः प्रतिपत्तिमांस्तस्ये-ङ्गितादयोऽन्यथाभवन्तः पराजयहेतौ प्रमाणान्तरेणानिश्चितेऽपि लिङ्गदर्शनस्थानीया उपोद्-बलका भवन्ति ॥५७ ॥
हिन्दी— ( जो ऋणदाता ) ‘ मेरे साक्षी हैं ' ऐसा कहने पर न्यायाधीश के ' उन साक्षियों को यहाँ उपस्थि कर सके; न्यायासन पर स्थित वह न्यायाधीश उन कारणों से उस ऋणदाता के लिए ऋणग्रहीता से ऋण में लिये हुए धन को न दिलवावे ॥५७ ॥।
वादी को दण्डादि-अभियोक्ता न चेद्ब्रूयाद्बन्ध्यो दण्ड्यश्च धर्मतः ।
न चेत् त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः ॥ ५८ ॥
भाष्य - अभियोक्ताऽर्थी राजान्तिकं कञ्चन पुरुषमाहूय यदि व्यवहारपदं न कथयति तदा निष्प्रयोजनाद्वन्ध्यो दण्ड्यश्च । दण्डबन्धने दण्डपरिमाणे च गुणवत्तां प्रत्यर्थिन आह्वानेन च हानिमपेक्ष्य कल्पनीयानि । अतस्तदहरेवार्थिना विवदितव्यम् । प्रत्यर्थी: तु न चेत्त्रिपक्षाद्ब्रूयादित्यर्थः-- तदा नासौ दण्ड्यो बन्धयितव्यो वा । किं तर्हीयता कालेनोत्तरं सत्यपराजित एव । धर्मं प्रति । धर्मत एवायं पराजयो न छलमित्यर्थः । त्रिपक्षादिति पात्रादिषु द्रष्टव्यस्तेनेकाराभावः । अर्थतत्त्वमस्य श्लोकस्यास्माभिः प्राङ्निरूपितम् ॥५८ ॥
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १४ ९ हिन्दी — जो वादी ( अर्थी = मुद्दई पहले मुकदमा दायर कर ) बाद में कुछ न कहे, वह धर्मानुसार ( बड़े - छोटे मुकदमे के अनुसार ) वध्य ( फाँसी देने योग्य ) या दण्ड्य ( ताडन या अर्थदण्ड जुर्माना करने योग्य ) है और यदि प्रत्यर्थी ( मुद्दालह ) तीन पक्ष में नहीं बोले अर्थात् मुद्दई की बातों का सन्तोषजनक उत्तर न दे तो वह धर्मानुसार ( कपटपूर्वक नहीं ) पराजित होता है ॥ ५८ ॥
विमर्श - पहले मुकदमों का फैसला जल्दी हुआ करता था, अतः यहाँ १ || मास का समय मुद्दालह को जवाब देने के लिए दिया गया है । वर्तमान समय में जल्दी फैसले नहीं होते, अतएव तीन पक्ष के स्थान में तीन पेशी ( तारीख ) मानना उचित प्रतीत होता है; इस प्रकार मुद्दालह यदि तीन पेशी तक बराबर मुहलत माँगता रहे और कोई जवाब न दे तो वह धर्मानुसार ही पराजित होता है ।
असत्य धनपरिमाण बतलाने पर दण्ड-यो यावन्निह्नु वीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ ५ ९ ॥
भाष्य— येन पञ्चसहस्राणि दत्तानीति प्रमाणान्तरान्निश्चितं – लेख्यादौ तु करणे ‘ दश’समारोपितानि — प्रमाणान्तरं संवत्सराख्यमिति निश्चित्येदमपश्यत्केवलेन लेख्य-प्रमाणेन सर्वत्र प्रवर्तमान: - छलव्यवहारीति द्विगुणं दण्ड्यः । यस्य तु विस्मृत्याऽप्य-न्यथाप्रवृत्तिराशङ्क्यते तस्य दशकं शतम् । एवमितरस्यापि । न तु सर्वापह्नवे दशभाग एकदेशापह्नुवे द्विगुणमिति । किन्तु शाठ्यादन्यथाप्रतिपद्यमानौ द्विगुणं दण्ड्यौ । विस्मृति-दारिद्र्याभ्यां दण्डमुत्तरम् । यो यावन्तमर्थपह्नुवातापजानीतेऽधमर्णः - मिथ्या यावति विपरीतं धनं वददुत्तमणेः– तावुत्तमणोधमर्णावधमज्ञौ । तद्विगुणं दमम् | तदित्य-पहूयमानधनपरामर्शः । यावदपह्नुतं ततो द्विगुणं दमो दण्डः । अधर्मज्ञग्रहणाच्च लिङ्गा-निश्चितछलविषयोऽयं दण्ड इत्युक्तम् ॥५८ ॥
हिन्दी – जो प्रत्यर्थी ( मुद्दालह ) जितने धन को छिपावे अर्थात् अधिक धन लेकर भी जितना कम बतलावे तथा जो अर्थी ( मुद्दई ) जितने धन को असत्य बोले अर्थात् कम धन देकर भी जितने अधिक धन का दावा करे अधर्म को जाननेवाला राजा ( या राज नियुक्त न्यायाधीश ) उसका दुगुने धन से उन्हें दण्डित करे ॥५८ ॥
विमर्श - ' अधर्मज्ञ ' शब्द के कहने पर यदि ज्ञानपूर्वक ( जान - बूझकर ) प्रत्यर्थी धन को छिपावे या अर्थी अधिक बतलावे तो द्विगुणित दण्ड की व्यवस्था भगवान् मनु ने कही है, प्रमाद आदि के कारण अज्ञानपूर्वक वैसा करने पर शतांश या दशांश दण्ड की व्यवस्था आगे कही है ।
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
१५० मनुस्मृतिः
साक्षी- संख्या-पृष्टाऽपव्ययमानस्तु कृतावस्थो धनैषिणा ।
त्र्यवरैः साक्षिभिभाव्यो नृपब्राह्मणसन्निधौ ॥ ६० ॥
[ अष्टमः भाष्य — यः कृतावस्थ आहूतोऽभियुक्तो गृहीतप्रतिभूश्च राजसकाशे प्राड्विवाकेना-न्यैर्वा पृच्छ्यते किमस्मै धारयति नेति पृष्ठः सन्नपव्ययतेऽपह्नुते । धनैषिणा स्वधनं पूर्वप्रथुक्तमात्मनः साधयितुमिच्छता । साक्षिभिर्भाव्यो विप्रतिपन्नः प्रतिपादयितव्यः । त्र्यवरैः । त्रय अवरे येषां तैत्र्यवरैः । अवरमपचयातिशयमाह । यद्यत्यन्तं न्यूनास्तदा त्रयः स्युः । अन्यथा त्रिभ्य ऊर्ध्वम् । नृपब्राह्मणसन्निधाविति । " ननु च तेषामेव यैर्न्यायः प्रारब्धस्तत्र तत्सन्निधान एव साक्षिप्रश्नः प्राप्तः । किमनेन नृपब्राह्मणसन्नि-धाविति ” । नैवम् । प्रमाणपुरुषप्रेषणेनापि साक्षिप्रश्न उपपद्यत इति । साक्षात्प्रष्टव्य इति पुनर्वचनम् ॥६० ॥
हिन्दी — धन चाहनेवाले ( मुद्दई के मुकदमा करने पर मुद्दालह ) धन लेना स्वीकार न करे तो राजाधिकारी ब्राह्मण ( न्यायाधीश ) के सामने वादी ( मुद्दई ) कम से कम तीन साक्षियों ( गवाहों ) से अपनी बात को प्रमाणित करे ॥ ६० ॥
साक्षि - कथन-यादृशाधनिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान्सम्प्रवक्ष्यामि यथा वाच्यमृतं च तैः ॥६१ ॥
भाष्य — साक्षिलक्षणोपन्यासः श्लोकः । यादृशाः साक्षिणो यज्जातीया यद्गुण-युक्ताश्च धनिभिरुत्तमर्णैर्व्यवहारेषु धनप्रयोगादिषु कर्त्तव्यास्तादृशान्वक्ष्यमाणेन कथ-यिष्यामि । यथा च ऋतं सत्यं वाच्यं वक्तव्यं पृष्टैः सद्भिस्तैः– पूर्वाह्न इत्यादि— तमपि प्रकारं वक्ष्यामीति ॥६१ ॥
हिन्दी — महर्षियों से भृगु मुनि कहते हैं कि ' धन लेनेवालों ( साहुकार = महाजन ) को मुकदमों में जैसे साक्षी बनाने चाहिये, उन्हें कहता हूँ तथा जिन प्रकार उनको सत्य कहना चाहिये वह भी कहता हूँ — ॥ ६१ ॥
साक्षी के योग्य व्यक्ति-गृहिणः पुत्रिणो मौलाः क्षत्त्रविट्शूद्रयोनयः ।
अर्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि ॥ ६२ ॥
भाष्य — कृतदारपरिग्रहा गृहिणः । गृहशब्दो दारेषु वर्तते । ते हि स्वकत्रपरिभव-भयान्न कूटमाचरन्ति । आत्मनि केचिन्निरपेक्षा अपि भवन्ति । अन्यदेशान्तरगमनेनात्मानं रक्षयिष्याम इहैव च क्वचिद्गुप्ता भविष्यामो धनं मित्रं वाऽर्जयाम इत्यनया बुद्ध्या
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १५१ अनृतमपि वदन्ति । कुटुम्बिनस्तु स्वकुटुम्बभयात् ' क्व वाऽत्मानं न परिरक्षिष्याम ' इति दूरं कृत्वा कुटुम्बस्य सापेक्षतया राजदण्डभयान्नान्यथा प्रवर्तन्ते । पुत्रिण इति पुत्रस्नेहात्पुत्रिणः । अपुत्रदारश्च साक्षिप्रश्नकाले साध्वाचारोऽपि कदा-चिन्न सन्निहितो भवति । स हि नैकस्मिन् देशे आस्थानवान् भवति । एवं मौला अपि व्याख्येया: । मौला जानपदास्तद्देशाभिजनाः । ते हि स्वजनज्ञाति-मध्ये पापभीरुतया न मिथ्या वदन्ति । ' मूलं ' प्रतिष्ठा - सा येषामस्ति ते मौलाः | अर्थकथनमेतत् । तद्धितस्तु भवार्थ एव कर्त्तव्यः । यो हि यत्र भवः सोऽपि तस्या-स्तीत्यविरुद्धम् । क्षत्रविट्शूद्रयोनयः । न ब्राह्मणः । सर्वदा ह्यस्याध्ययनाध्यापने विहिते, अन्वहं वाऽग्निहोत्रहोमः । तत्र दूरस्थे राजनि धर्मोपरोधोऽस्य माभूदित्यसौ न कर्तव्यतयोपादी-यते यदृच्छयाऽवगतार्थस्तु साक्ष्यन्तराभावे गरीयस कार्ये मुख्यतमः स साक्षी । तथा च " ब्रूहीति ब्राह्मणं पृच्छेदिति " साक्षिप्रश्नो भविष्यति ( ८८ ) । योनिशब्दः प्रत्येकमभि-सम्बध्यते । क्षत्रं योनिरुत्पत्तिः कारणमस्यासौ ' क्षत्रयोनिः ' क्षत्रियजातीयय इत्यर्थः । क्षत्राद्वा योनिर्जन्मास्येति पञ्चमीति योगविभागात्समासोऽप्युक्तः । अर्थिना यदोक्तं भव-न्त्येते मम साक्षिणः तदा साक्षिकर्मणि योग्या भवन्ति । ये तु स्वयमागत्य साक्ष्यं ददति न ते साक्षिणः । अनापदि । ‘ आपत्’साक्ष्यन्तराभाव इति केचित् । तदयुक्तम् । विसंवादकत्वमसा-क्षित्वे कारणम् । तत्वसंवादकान्तराभावे नापैति । न वयं ब्रूमः - प्रतिषिद्धसाक्षिभावा विद्यमानानृताभिधानहेतवोऽर्थसम्बन्ध्यादयो वाऽस्यामवस्थायां प्रतिप्रसूयन्ते – किं तर्हि येषां कदाचिदाहूयमानानां धर्मविरोधो भवति श्रोत्रियादीनां तेषामविद्यमानेष्वन्येष्वनु-भूतार्थानामिदं प्रत्यनुज्ञानं न पुनरनृतानाम् ॥६२ ॥
हिन्दी – गृहस्थ, पुत्रवाले, पहले से वहाँ निवास करनेवाले, क्षत्रिय, वैश्य, शूद्र जाति वाले ये लोग मुद्दई के साक्षी हो सकते हैं; आपत्तिकाल को छोड़कर ( धनादि के लेन - देन में ) चाहे जो काई साक्षी नहीं हो सकता है ॥६२ ॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ ६३ ॥
भाष्य -आप्ता अविसंवादका यथादृष्टार्थवादितः येषां लोको विप्रलम्भकत्वं न सम्भावयति — धर्मानुष्ठानपरा ये ख्याताः । सर्वधर्मविद श्रौतं स्मार्तमाचारनिरूढं च सर्वं धर्मम् — इह नरकः फलमिह स्वर्ग इत्येवं निरवशेषं - जानन्ति ते ह्यनृताभिधाने नरकं पश्यन्तो बिभ्यति । मनु II 12
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
१५२ मनुस्मृतिः अलुब्धा उदारसत्वा न स्वल्पं धनं बहु मन्यन्ते । [ अष्टमः एकैकस्य समस्तानि सर्वाणि विशेषणानि – साक्षिक्रियायां गुणभूतत्वाद्गुणे च साहित्यस्य विवक्षितत्वात् । सर्वेषु वर्णेष्विति । सर्वकार्येषु न जातिनियमोऽस्तोत्युक्तं भवति । यत्पुनर्जाति-व्यवस्थावचनं तदुपरिष्टाद्वक्ष्यामः । तदेतदुक्तं भवति । सर्वै: कार्यिभिः सर्वे वर्णा यथा-सम्भवं साक्षिणः कर्तव्याः । कार्येषु ऋणादानादिषु । यथोक्तलक्षणात् विपरीतांस्तु वर्जयेत् । यद्यपि विशिष्टेष्वभिहितेषु तद्विपरीतानां प्रसङ्ग एव नास्ति तथापि लौकिकोऽयं पर्युदासः । प्रयोग हि लौकिका अन्यं विधायान्यं तद्विपरीतं निषेधयन्ति । तथा च भवन्ति वक्तारः - ' क्रिया हि द्रव्यं विनयति नाद्रव्य-मिति ' । किञ्चाविसंवादकत्वमिह प्रधानं साक्षिलक्षणम् तच्च न विधिमुखेन शक्याव-सानम्, किन्तु विसंवादकरणाभावमुखेन । न ह्यविसंवादकत्वं प्रत्यक्षदृश्यम् । तद्धि यथार्थाभिधानम् । श्रोत्रग्राह्ये च वस्तुनि कुतः प्रत्यक्षा यथार्थनिश्चयः । प्रत्यक्षत्वे हि नैव साक्ष्यवगमोऽन्विष्यते । न च सर्वत्र परोक्षे वस्तुनि शब्दावगम्ये प्रमाणान्तरसम्वादसम्भव: । तस्माद्यानि भूयस्त्वेन मिथ्याभिधानकरणतया दृष्टानि तदभावनिश्चयेनाविसम्वादकत्व-मनुमीयते । अतस्तत्प्रदर्शनार्थोऽयमुपक्रमो विपरीतांस्तु वर्जयेदिति || ६३ || हिन्दी - सब वर्णों में ( ब्राह्मों में भी ) आप्तों ( राग - द्वेष से रहित होकर निष्पक्ष बोलनेवालों ) को, सब धर्मों के ज्ञाता, निर्लोभी - इन लोगों को सब वर्णों ( ब्राह्मणों में भी ) में साक्षी बनना चाहिये तथा इनके प्रतिकूल ( राग - द्वेषपूर्वक पक्षपात से बोलनेवाले धर्मज्ञानशून्य तथा लोभी ) लोगों को ( साक्षी बनाने में ) छोड़ देना चाहिये । साक्षी के अयोग्य व्यक्ति—
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्त्तव्या न व्याध्यार्ता न दूषिताः ॥ ६४ ॥
भाष्य — तानीमानि सम्भाव्यमानमिथ्याभिधानकरणत्वेन पठ्यन्ते । तत्रार्थ सम्बन्धिन उत्तमर्णाधमर्णाद्याः । उत्तमर्णा ह्यधर्मवचनेन पराजीयमानास्तदानी-मेव रोषावेशवशतः स्तम्भयन्ति धनं प्रत्यादातुमधमर्णम् । अतोऽसौ सन्निहितधनिक-चित्तमनुवर्तमानः तदनुगुणं वक्तुं शक्नोति । तस्मादसौ न साक्षो । उत्तमर्णोऽपि निर्धनेऽ-धमर्णे व्यवहारजयाच्च धनप्राप्तौ मह्यमयं प्रतिदास्यतीत्यनया बुद्ध्या कदाचित्तत्पक्षानु-गुणं वक्तीति सोऽप्यसाक्षी । अथवाऽर्थः प्रयोजनं यस्य साक्षिणो विवादिभ्यां किञ्चित्प्रयोजनं साध्वं, तेन वा
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १५३ तयो:, स उपकारगन्धान्न साक्षी । यो वा व्यवहारगतेनार्थेन समानफलः । इत्येवं-प्रकारार्थसम्बन्धिनः । आप्ता मित्रबान्धवतया कार्याभ्यन्तराः पितृव्यमातुलादयः । सहायाः प्रतिभू-प्रभृतयः । वैरिणः प्रसिद्धाः । दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः । अन्यद्वा प्रतिषिद्ध-माचरितवन्तः । व्याध्यार्ता रोगपीडिताः । न पुनरीषद्रोगिण इत्यार्त्तग्रहणम् । पीडितस्य हि क्रोधविस्मृत्यादयो मिथ्यावचने सम्भाव्यन्ते । दूषिताः पातकिनोऽभ्यस्तोपपातकाश्च । दृष्टदोषग्रहणं तु तेषामेव कृतनिग्रहणां परिग्रहार्थम् । ते हि राजनि वृत्तदण्डा ग्राहितविनय-त्वान्न सम्प्रति ' दूषिता ' भवन्ति ॥६४ ॥
हिन्दी – ऋणादि के देने या लेने के सम्बन्ध वाले, मिश्र, सहायक ( नौकर आदि ), शत्रु ( मुद्दालह का विरोधी ), जिसने दूसरे किसी बात में झूठी गवाही दी हो वह, रोग-पीड़ित तथा महापातक आदि से दूषित लोगों को साक्षी न बनावे || ६४ ||
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ६५ ॥
भाष्य - त्वं मे साक्षी भविष्यसीति व्यवहारकृता धनविसर्गादिकाले साक्षित्वे नृपतिर्नाध्येषितव्यः । तस्य हि साक्ष्यं ददतः पक्षपातमाशङ्केरन् । प्रभुत्वाद्वा ददतोऽन्य-तरस्य कार्यनाशः । न च साक्षिधर्मेण प्रष्टुं युज्यते । तद्देशवासी च यद्यपि लेखादिना संवादयेत्तथाऽपि साक्षिधर्मं सर्वं न कुर्यादिति तद्देशवासिनो राज्ञः साक्षिकरणप्रतिषेधः । कारुकादीनां स्वकार्योपरोधशङ्कया । सङ्गत्या च ते जीवन्ति । स्वभावश्चैव जान-पदानां यत्स्वयं निश्चितवन्तोऽपि ' जीयामहे वयमिति ' जिताः साक्षिकादिभ्यो रुष्यन्ति । ततश्च सार्वलौकिकी सङ्गतिः कारुकादीनामुच्छिद्यते । किञ्च प्रकृतिपरिलघुत्वात्तेषां वृत्तेश्च-लयितुमपि शक्यन्ते । तथा च पक्षपातं भजेरन् । श्रोत्रियस्य तु साक्षित्वे कर्त्तव्यता प्रति-षिध्यते राजवन्न पुनरप्रत्ययिततया । न हि श्रोतियत्वं प्रामाण्यं विहन्ति, जनयत्येव विशेषतः । न हि श्रोत्रियत्वं विसंवादहेतुतयोपलब्धम् । एवमुत्तरत्रापि । कारुकाः शिल्पोपजीविनः सूपकारायस्कारादयः । कुशीलवाः नटनर्तकगायनाद्याः । श्रोत्रियो वेदपाठकः । यस्त्वध्यनतत्परः स इह गृह्यते । अथवा श्रोत्रियत्वं कर्मा-नुष्ठानोपलक्षणार्थम् । तेनानुष्ठानपरस्य तद्विरोधतया प्रतिषेधः । लिङ्गस्थो ब्रह्मचारी | परिव्राजकपाखण्डलिङ्गधारिणस्तु कुशास्त्रवर्तित्वादेवाप्राप्ताः । सङ्गेभ्यो विनिर्गता वेद-संन्यासिनो गृहस्था: । ‘ सङ्गः ' अभ्यासतो विषयोपभोगः; दृष्टार्थकर्मारम्भो वा ॥ ६५ ॥
हिन्दी — राजा, कारीगर ( पाचक; बढ़ई, लोहार आदि ) नट - भाट आदि, वैदिक, ब्रह्मचारी तथा संन्यासी — इनको साक्षी न बनावे ॥६५ ॥
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
१५४ मनुस्मृतिः नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । [ अष्टमः न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥ ६६ ॥
भाष्य — अध्यधीनशब्दोऽत्यन्तपरतन्त्रगर्भदासादौ रूढ्या वर्तते । अन्ये तु तुल्य-संहितत्वादध्याधीन इति पठन्ति । ' अध्याधीनो ' बन्धकीकृतः । वक्तव्योऽनुशास्यः शिष्य-पुत्रादिः, आचार्याधीनत्वात् । अथवा कुष्ठादीना कुत्सितकायः । दस्युः भृतिदासः वैतनिकः । ‘ स ह्युपादासयति ' कर्माणीति नैरुक्ते निरुक्तः । तस्य च दिवसभृतत्वा-नात्यन्तपारतन्त्र्यमस्तीति पृथगुपदेशः क्रियते । कर्मजीवनत्वापत्तौ तथाविधानां जीविको-च्छेदः, लघुवृत्तित्वाच्च लोभादिसम्भवेनाप्रत्ययितताऽपि । चौरस्य तु शब्दान्तरोपादानान्न दस्युग्रहणेन ग्रहणम् । कठिनहृदयो वा दस्युः क्रूरचेष्टः । विकर्मकृच्छास्त्रविरुद्धं यः कर्म करोति । यथा ब्राह्मणः क्षत्रियवृत्तिं वैश्यो वेत्यादि । वृद्धो वयःपरिभाणामाद-संस्मृतिः । शिशुर्बालोऽप्राप्तव्यवहारः । एकः । त्र्यवरग्रहणेनैकस्याप्राप्तेः प्रतिषेधो द्वयोः कस्याञ्चिदवस्थायामभ्यनुज्ञानार्थः । यथा त्रिहस्ताचारोपत्रे । ‘ यद्यपि तत्र तृतीय-लेखको न भवति तथापि लेखनमात्रस्य व्यापारो न साक्षित्व इति ' कस्यचिदियमाशङ्का स्यात् । अन्त्यो बर्बरचण्डालादिः – स्ववर्गादन्यत्र । शूद्रयोनित्वेन प्राप्तस्य प्रतिषेधः । विकलेन्द्रियोऽन्धबधिरादिः - शरीरपीडयोपलब्धिर्विकलत्वाच्च ॥६६ ॥
हिन्दी — अत्यन्त अधीन ( गर्भ - दास या क्रीत - दास आदि ) लोक निन्दित, क्रूर कर्म करनेवाला, बूढ़ा, बालक, अकेला, चाण्डाल और विकलेन्द्रिय इनको साक्षी नहीं बनाना चाहिये ॥६६ ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्त्तो न कामार्त्तो न क्रुद्धो नापि तस्करः ॥ ६७ ॥
भाष्य— आर्तो बन्धुधनादिनाशेन । मत्तो मद्यमदक्षीबः । अपस्मारगृहीत उन्मत्तः पिशाचकी । क्षुत्तृष्णोपपीडितो बुभुक्षापिपासाभ्यां व्यथितः । श्रमः कायचेष्टाधिक्येन दूराध्वगमनयुद्धादिनोत्पन्नस्तेनार्तः पीडितः । कामः स्त्रीसङ्गाभिलाषस्तेनाऽऽर्तः । विप्र-लम्भोऽत्यन्तसंयोगो द्वावपि तावत्प्रत्ययौ चित्तोपप्लवात्तत्साधने च विप्रलम्भाशङ्कया च । क्रुद्धोऽन्यस्मिन्नपि बहुतरक्रोधः । स हि क्रोधेन व्याप्तचित्तत्वान्न यावदनुभवति नाप्यनु-भूतं स्मरति । तस्करश्चोरः । यद्यप्यसौ विकर्मकृत्तथाऽपि भेदोपादानाद्गोबलीवर्दन्यायो द्रष्टव्यः ॥६७ ॥
हिन्दी— ( बान्धवादि के विनाशादि के कारण ) दुःखी, मत्त, पागल, भूख - प्यास से पीड़ित, थका, कामी, क्रोधी और चोर -इनको साक्षी नहीं बनावे ॥६७ ॥