मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 191–200
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 191–200
पृष्ठ 191
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता स्त्री आदि के मुकदमे में स्त्री आदि को साक्षी बनाना—
स्त्रीणां साक्ष्यं स्त्रियं कुर्युर्द्विजानां सदृशा द्विजाः ।
शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥ ६८ ॥
-१५५ भाष्य — यत्र पुमांसावर्थिप्रत्यर्थिनौ तत्र स्त्रीणां साक्ष्यं नास्ति । अत्र तु स्त्रिया सह पुंसः कार्यं स्त्रीणामेव चेतरेतरं स्वल्पं – तत्र भवन्त्येव स्त्रियः साक्षिण्यः । न चायं नियमः स्त्रीणां स्त्रिय एव साक्ष्यं कुर्युर्न पुमांसः । केवलं पुंविषये व्यवहारे क्वचिदेव स्त्रीणां साक्ष्यं यतोऽस्थिरत्वादिति हेतुरुपात्तः । भवन्ति काश्चन स्त्रियो ब्रह्मवादिन्य इव सत्यवादिन्यः स्थिरबुद्धयश्च । द्विजानां सदृशा द्विजाः । यः प्रमाणतरो द्विजः स विसदृशं शङ्क्यमानप्रमाण-भावमपि दिशन्साक्ष्ये न श्रद्धेयवचनो भवति । यतस्तथाभूतेन प्रमाणभूत एव द्रष्टव्यः । स हि तस्य सदृशः । सदृशानां हि समानदेशस्थानमितरेतरकार्यज्ञत्वं च सम्भाव्यते । इतरस्य तु तत्प्रदेशसन्निधिर्यत्नेन साध्यः । सदृशयोस्त्वौचित्यात्सिद्ध एव । एवं हीनस्य हीनगुणोऽपि सादृश्याद्ग्रहीतव्यः । न तूत्कृष्टगुणो न ग्रहीतव्यः । सादृश्यं जात्याशिल्पा-दिना वा गुणेन क्रियया वा श्रुताध्ययनादिकया समानशीलतया च । एतच्च नातिमहति कार्ये द्रष्टव्यम् । न हि हीनगुणेषु प्रत्ययितता निश्चीयते । अन्त्यानां चण्डालश्वपचादीनां तादृशा एवान्त्ययोनयः 1 । अन्ते भवा अन्त्या, सा योनिरुत्पत्तिकारणं येषामिति विग्रहः । प्रदर्शनं चैतत् । ये समाना जातिशिल्पशीलादि-भिस्तेषामिहानुक्तानामपि वणिक्कारुकुशीलवादीनां – हेतोः समानत्वात् ॥६८ ॥
हिन्दी— ( स्त्रियों के ( व्यवहार- मुकदमें में ) स्त्रियों को, द्विजों के ( व्यवहार में ) सदृश द्विजों को, शूद्रों के ( व्यवहार में ) शूद्रों को तथा चाण्डालों के ( व्यवहार में ) चाण्डालों को साक्षी बनाना चाहिए ॥६८ ॥
विमर्श - परस्पर व्यवहार में समान जाति वाले साक्षी के मिल सकने पर यह विधान है, नहीं मिल सकने पर विजातीय साक्षी भी बनाया जा सकता है । धन- ग्रहणादि से भिन्न व्यवहारों में साक्षी-अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥ ६ ९ ॥ भाष्य – अन्तर्वेश्मनि यत्कार्यमतर्कितोपनतं वाग्दण्डपारुष्यसंग्रहस्तेयसाहसादि-रूपम्, अरण्ये वा तादृशमेव, शरीरे च पीड्यमाने तत्काले दस्युभिरन्यैर्वा यतः कुत-श्चिद्गृहीतं यो वा धननिमित्तं प्रतिभूत्वेन स्थापितः न च साक्षिणो लभ्यन्ते न वा तावत्कालं प्रतिपालयन्ति, रहसि चोक्तो वाऽर्थमाददते अप्रकाशम्, – तादृशे विषये यः
पृष्ठ 192
पाठ पढ़ें पाठ छिपाएँ
१५६ मनुस्मृतिः [ अष्टमः कश्चिदनुभावी स साक्षित्वेन ग्रहीतव्यः । अनुभावी साक्षाद्रष्टा । यः कश्चिदिति न जातिनियम:, सदृशं च तदा नास्तीत्याह । अन्तर्वेश्मनीति विरलजनोपलक्षणार्थम् । तेन शून्यदेवतायतनादीन्यपि विरल-जनानि गृह्यन्ते । तथा चारण्यग्रहणमस्यैवार्थस्य प्रदर्शनार्थम् । अन्ये तु शरीरस्यापि चात्यय इत्यन्यथा व्याख्यानयन्ति । कार्यशरीरस्यातिपाते यः कश्चित्साक्षी । यत्कार्यमनुष्ठीयमानमतिपतत्युत्तरकालमशक्यानुष्ठानं तत्र साक्षिणां जाति-लिङ्गवयः — सादृश्यसम्बन्धाभावादिनियमो नास्ति । एतदेवोत्तरेण दर्शयति ॥६९ ॥
हिन्दी — घर के भीतर, वन आदि में चोर आदि के शरीर में चोट आने या मारे जाने पर, जो भी कोई मिल जाय, उसे ही वादी और प्रतिवादी ( मुद्दई और मुद्दालह ) — दोनों पक्ष का साक्षी बनाना चाहिये ( किन्तु ऋण आदि के लेन - देने में जिस किसी को साक्षी नहीं बनाना चाहिये ॥६९ ॥
अभाव में बालक आदि को साक्षी बनाना-स्त्रियाऽप्यसम्भवे कार्यं बालेन स्थविरेण वा ।
शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ ७० ॥
-भाष्य — स्त्रियेति लिङ्गव्यत्यय उक्तः । बालेन स्थविरेण वेति वयोव्यत्ययः । शिष्येणेत्यादिना सम्बन्धिनः प्रतिप्रसवः । एतच्च प्रदर्शनमेवंविधानां नियमानां व्यभि-चाराय । तेन जातिसादृश्येऽपि नाद्रियेते । सुहृद्वैरिदृष्टदोषादयस्तु नेष्यन्ते । येषां किञ्चिद-सत्याभिधानकरणत्वं दृष्टं नापि व्यापकं ते न प्रतिप्रसूयन्ते । येषां तु बहुव्यापकं क्वचि-देव गुणातिशयं चेति व्यभिचारेत्ततः क्वचिदेव तत्साक्षिणः । उक्तं च— “ एकः सहस्राल्लभ्येत न सौहार्दान्न शात्रवात् । नार्थसम्बन्धतो वाऽपि पुरुषोऽनृतमाचरेदिति ॥ ” असम्भवेऽन्येषां साक्षिणां स्त्रियाऽपि कार्यम् । किम्? साक्ष्यमिति पूर्वश्लोकादनु-षज्यते । शिष्येणेति मौखश्रौतसम्बन्धप्रदर्शनार्थमेतत् । बन्धुनेति अहार्योत्पत्तिकायादि-सम्बन्धप्रतिप्रसवः । सत्यपि सम्बन्धत्वे यो नातिप्रत्यासन्नः स गृह्यते । तेन भ्रातृव्य-मातुलश्वशुर्यादयो न साक्षिणः । तथाविधे हि बन्धुशब्दो रूढः । दासेनेति स्वस्वामि-सम्बन्ध उपलक्ष्यते । न स्वाम्युपाध्यायो याजकश्च सर्वंविधे विषये साक्षिणः । दासो गर्भदासः । भृतको वैतनिकः । ननु चासामर्थ्याद्वालादयः साक्षित्वे निरस्ताः । न ह्येते साक्ष्यमवधारयितुं शक्नु-वन्ति बुद्धेरस्थैर्यात्परिपाकादिभिर्दोषैस्तदापदि प्रतिप्रसूयमानसमञ्जसमिति, न ह्यापदि शक्तिरस्याविर्भवति । यो हि ब्रूयात् ' न वा नवौदनः पक्तव्यः - सत्यग्नौ तु पक्तव्य इति ' तु
पृष्ठ 193
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] तादृगेतत्स्यात् । ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता नैष दोषः एवमर्थमेवोत्तरश्लोक आरभ्यते ॥७० ॥
१५७ हिन्दी — उक्त स्थानों ( ८।६ ९ ) में दूसरे साक्षी नहीं मिलने पर बालक, वृद्ध, शिष्य, बन्धु, दास और कर्मकर ( नौकर ) को साक्षी बनाना चाहिये ॥ ७० ॥
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ।
जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥ ७१ ॥
भाष्य — अयमस्यार्थः । नेहात्यन्ताप्राप्तनिबद्धभ्रान्तबुद्धयो बालादयो गृह्यन्ते येना-रभ्योऽर्थ उपदिष्टः स्यात् । किन्तु ये शक्नुवन्त्यवधारयितुं न चातिस्थिरचेतसस्तेभ्यः अनुज्ञायन्ते । तेषां वचनमनुमानेन परीक्ष्यम् । यदि सम्बद्धं वदन्ति न च खलन्ति न शङ्क्य-मानदोषेण केनचित्सङ्गगतास्ततः प्रमाणम् । तदाह तेषां मृषा वदतामस्थिरां वाचं जानीयात् । एतदुक्तं भवति । वाचोऽस्थैर्येण मृषात्वं निश्चिनुयात् । तत्र वाचोऽस्थैर्यं पदानामितरेतरमसङ्गतिः, अस्फुटापरिपूर्णाक्षरत्वं च । एतच्च बालादीनामवस्थोपलक्ष-णार्थम् । ये च वयसा व्याधिना वाऽप्यवस्थामियतों गता यदन्यद्विवक्षन्तोऽन्यदुच्चार-यन्ति तच्चाव्यक्तं न ते साक्षिणः । एतत्प्रत्यक्षवेद्यमसाक्षित्वकारणम् । अन्यत्तु रागद्वेषधन-लोभादिसाधारणमनुमानतः । परीक्ष्यम् । तच्चोक्तमेव । उत्सिक्तचेतसः प्रकृत्यैवोपप्लुता अधीरधियः ॥७१ ॥
हिन्दी — गवाही में असत्य बोलनेवाले बालक, स्त्री, वृद्ध और अस्थिर चित्त वालों की बातें अस्थिर होती हैं ( अतएव अस्थिर बात कहने पर न्यायाधीश उनकी गवाही को असत्य माने ) ॥७१ ॥
साहसादि कार्यों में साक्षिपरीक्षा का निषेध-साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥७२ ॥
भाष्य — ‘ सहो ’ बलं, तदाश्रित्य यत्क्रियते तत्साहसम् । राजवाल्लभ्येन महापक्ष-तया स्वशरीरबलेन बलवदाश्रयेण वा यदकार्यकरणं तत्साहसम् । यथा वस्त्रपाटना-ग्निदाहकेशछेदादि । अन्यत्प्रसिद्धम् । अत्र साक्षिणो न परीक्ष्याः । ' गृहिणः पुत्रिण ' इत्येवमादिरूपपरीक्षाऽत्र प्रतिषिध्यते । या तु व्यभिचारहेतुतया शङ्कयते रागद्वेषधन-लोभादिरूपा सा कर्त्तव्यैव । दृष्टमूलत्वादस्याः स्मृतेरित्युक्तम् ॥७२ ॥
हिन्दी — साहस कार्य ( घर या गल्ले आदि में आग लगाना आदि ), चोरी, आचार्य-स्त्री - संग्रहण, वचन तथा दण्ड की कठोरता- इनमें साक्षियों की परीक्षा ( ८।६२-६९ के
पृष्ठ 194
पाठ पढ़ें पाठ छिपाएँ
१५८ मनुस्मृतिः [ अष्टमः अनुसार ), नहीं करनी चाहिये ( किन्तु ८ ६ ९ -७० के अनुसार स्त्री- बालक आदि साक्षियों को भी स्वीकृत कर लेना चाहिये ) ॥७२ ॥
साक्षियों के परस्पर विरुद्ध कहने पर कर्त्तव्य-बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥७३ ॥
भाष्य— यत्र भूमिभागादौ विप्रतिपत्तिर्द्वाभ्यां च भोगसाधने साक्षिणो निर्दिष्टाः । ते च केचिदर्थिनो भोगमाहुरपरे प्रत्यर्थिनः । तत्र बहूनां वचनं ग्राह्यम् । समसङ्ख्येषु तु ये गुणैरुत्कृष्टा बहुगुणा इत्यर्थः । एकेन वा गुणेन दृष्टपुरुषार्थोपकारिणा सातिशयेन युक्ताः । गुणवतां समगुणानां भेदे जातिरादर्तव्या । सर्वसाम्ये शपथः । अन्यद्वा तंत्समानम् । बहुत्वं परिगृह्णीयात् । बहूनां वचनं प्रमाणीकुर्यात् । द्वैधं परस्परविरुद्धार्थाभि-धानम् ॥७३ ॥
हिन्दी – साक्षियों के परस्पर विरुद्ध वचन कहने पर राजा ( या राजा द्वारा नियुक्त न्यायाधीश ) बहुमत को तथा दोनों के समान होने पर श्रेष्ठ गुणवालों को और उन ( गुणियों ) में भी विरोध आने पर क्रियानिष्ठों को ( गोविन्दराज के मत से ब्राह्मणों को ) प्रमाणित माने ॥७३ ॥
साक्षी को सत्यभाषण करना--समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिद्ध्यति ।
तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥७४ ॥
भाष्य — ननु च “ अनुभावी तु यः कश्चित् " इत्यनेनोक्तमेवैतत्कथं चान्यथा-सिद्धिराशङ्क्यते येनेदमुच्यते दर्शनश्रवणाभ्यां साक्ष्यसिद्धिरिति । अत्रोच्यते । साक्षी व्यवहरिष्यता कर्तव्यः त्वं मे साक्षी भविष्यसि इत्युक्तम् । तत्र एवन्नोक्तः स न प्राप्नोति । एवमर्थमिदमुच्यते । यस्तत्र सन्निहितः कथञ्चिदनुभविता त्वं स्मर्त्तुमर्हस्यावयोरमुमर्थमित्येवमनुक्तेऽपि भवत्येव साक्षी – समक्षदर्शनात्साक्षादनुभा-वाछ्रवणाच्च । समक्षशब्दानुषङ्गः कर्तव्यः । यत्कुतश्चिदेकेन श्रूयते ततोऽन्येन तत्परं-पराश्रुतं तेन परम्पराश्रावी न साक्षी । यथैतेनेदमकार्यं कृतमिदमस्मै वा धारयतीति लोक-प्रसिद्ध्यागतम्, न तु प्रमाणतः । तत्र समक्षदर्शनं साक्षादनुभवनमर्थविषयमृणप्रयोग-दण्डपारुष्यादि साक्षाद्दृष्टं चक्षुर्व्यापारेण वाक्पारुष्यं तथेदमस्मान्मया गृहीतमित्येव-मादिविषयं शब्दश्रवणम् । यद्यपि दृशिरुपलब्धिमात्रवचनः तथापि वृत्तानुरोधितया श्रोत्र-ज्ञानं श्रवणं भेदेनोपातम् । एतावच्चात्र विवक्षितम् । प्रमाणतो येनानुभूतं स साक्षी । समक्षशब्दग्रहणं प्रमाणमात्रोपलक्षणार्थम् । तेनानुमानादिनाऽप्यनुभूतमनुभूतमेव । अत
पृष्ठ 195
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १५ ९ आप्तागमाच्छ्रुतमप्रत्यक्षमपि प्रमाणम् । उत्तरस्तु श्लोकार्थोऽनुवाद एव । सत्यवचनस्य विहितत्वात्, धर्मार्थहानेश्च प्रमाणान्तरावगतत्वात् ॥७४ ॥
हिन्दी – देखने योग्य विषय में प्रत्यक्ष देखने तथा सुनने योग्य विषय में स्वयं सुनने से साक्षित्व ( गवाही ) ठीक होता है, उस विषय में सत्य कहनेवाला साक्षी धर्म, अर्थ से हीन नहीं होता है ( अन्यथा असत्य कहनेवाला साक्षी धर्मच्युत तो होता ही है अर्थ दण्ड ( जुर्माना आदि ) होने से अर्थच्यूत भी होता है ) ॥ ७४ ॥
साक्षी
असत्य साक्षित्व में दोष-दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि ।
अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ॥ ७५ ॥
भाष्य — असत्याभिधानं साक्षिणां फलदर्शनार्थमिदम् । दृष्टश्रुतशब्द उपलब्धि-पर्याय इत्युक्तम् । तस्मादन्यदनुपलब्धम् । तच्चेद्ब्रवीति | आर्याः सभ्याः सम्यक्कारिणः । तेषां संसदि सभायाम् अवाङ् अधोमुखः । नरकं याति यमयातनास्थानं गच्छति । प्रेत्य मृत्वा । स्वर्गाच्च हीयते भ्रश्यति । यदप्यनेन स्वर्गारोहणिकं कर्म कृतं तदपि कौटसाक्ष्यपापस्य गुरुत्वात्प्रतिबध्यते । न तु स्वर्गस्य कर्मणः पापेनान्येन नाशः | स्वफलविधित्वात् कर्मणामन्यत्र प्रायश्चित्तेभ्यः ॥७५ ॥
हिन्दी – यदि साक्षी देखे या सुने हुए विषय को न्यायालय में असत्य कहता है, तो वह अधोमुख ( उल्टा होकर नीचे मुख किये ) नरक में गिरता है तथा ( अन्य पुण्य ) कर्मों से प्राप्त होनेवाला स्वर्ग भी उसे नहीं मिलता है ॥७५ ॥
श्रुतसाक्षी–
यत्रानिबद्धोऽपीक्षेत शृणुयाद्वाऽपि किञ्चन ।
पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम् ॥ ७६ ॥
भाष्य-- " ननु चोक्तं समक्षदर्शनादित्यत्र यथाकथञ्चिदनुभूतवतोऽनियुक्तस्यापि साक्ष्यमस्तीति । तत्र किमनेन यत्रानिबद्धोऽपीति । को वा विशेष: " । उच्यते 1 । लेख्यारूढस्य व्यापारविशेषाद्युक्तं साक्षित्वं न पुनरनारूढस्य । आरोहण-स्यानर्थक्यप्रसङ्गादुभयोः साक्षित्वे । अत एतामाशङ्कामपनेतुमिदमुच्यते । पूर्वस्तु श्लोको
यत्रानु॑क्ताः साक्षिणः । अयं तु यत्र ससाक्षिकं लेख्यम् ।
अनिबद्धो लेख्यमनारूढोऽपीत्यर्थः । ईक्षणश्रवणे व्याख्याते । शेषं सुबोधम् ॥७६ ॥
हिन्दी - वादी या प्रतिवादी के द्वारा साक्षी नहीं बनाये जाने पर ( ' मेरा साक्षी बनो ' ऐसो उनके नहीं कहने पर ) भी वह जैसा देखे तथा सुने, न्यायाधीश के पूछने पर वैसा ही कहे || ७६ ॥
पृष्ठ 196
पाठ पढ़ें पाठ छिपाएँ
१६० मनुस्मृतिः निर्लोभ साक्षी की श्रेष्ठता-[ अष्टमः
एको लुब्धस्त्वसाक्षी स्याद्वद्द्यः शुच्योऽपि न स्त्रियः ।
स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥ ७७ ॥
भाष्य – एकस्य पुनःप्रतिषेधो लोभादिरहितस्य प्रतिप्रसवार्थः I । तेन सत्यवादितया निश्चित एकोऽपि साक्षी भवत्येव । स्त्रियस्तु न कथञ्चित्साक्ष्यमर्हन्त्यल्पा वा बह्वयो वा । शुच्योऽपीति गुणवत्योऽपीत्यर्थः । अत्र हेतुः । स्त्रीबुद्धेरस्थिरत्वादिति । प्रकृतिरेषा स्त्रीणां यद्बुद्धेश्चापलम् । गुणस्तु यत्नोपार्जिता अपि प्रमादालस्यादिना व्यपयन्त्यत: स्वाभाविकमस्थैर्यं तिष्ठेदेव । यथाऽऽमयाविनो घृतादिनोत्पन्नेऽप्यग्नेः स्थैर्ये स्वल्पेनापि प्रमादे पुनः सहजामयावितानुवृत्तिः । अतोऽनया शङ्कया गुणवतीष्वपि तासु नाश्वास: । यत्तु “ स्त्रियाऽप्वसम्भवे कार्यम् ” ( श्लो ० ७० ) इति तद्यत तत्क्षणादेव पृच्छ्यन्ते । यत्रेयमाशङ्का न भवति केनचिदासां सञ्चलितं मन इति । यत्र तु कालव्यवधानं तत्र जीयमानेन कदाचिदनुकूल्यन्ते इति न क्वचित् साक्षिण्यः । दोषैश्चान्येऽपि ये वृताः । रोगादिभिर्दोषैर्ये स्त्रीभ्योऽन्येऽपि पुरुषा वृता आक्रान्ता भूयिष्ठदोषा इत्यर्थः । के पुनरमी दोषा नाम । उक्तं च । रागादयः शास्त्रप्रतिषिद्धाः शंक्यमानव्यभिचारहेतुभावाः । यद्यपि केवलेन स्वशब्देनैवोक्ता दोषाः तथाप्यनुक्तपरिग्रहार्थमिदमपुनरुक्तम् । सामान्यविशेषाभिधानं हि सर्वत्र ग्रन्थकारा अनुमन्यन्ते । अन्ये त्वकाराप्रश्लेषेणालुब्धोऽप्येको न साक्षी किं पुनर्लुब्ध इत्येवमाचक्षते । तथा च द्वयोरभ्यनुज्ञानं भवति ।
शुच्य इतीकारो दुर्लभो ' वोतो गुणवचनात् इति ' ( पा ० सू ० ४।१।४४ ) विधानात् ।
कृदिकारादिति ( वा ० ४।१।४५ ) केचित्समर्थयन्ते ॥७७ ॥
हिन्दी — निर्लोभ एक भी साक्षी ठीक होता है, स्त्री - बुद्धि के अस्थिर होने से आत्मशुद्धियुक्त भी बहुत - सी स्त्रियाँ ठीक साक्षी नहीं होतीं, तथा चोरी आदि के दोषों से युक्त साक्षी भी ( चाहे वे पुरुष ही क्यों न हों ) ठीक नहीं होते ॥७७ ॥
विमर्श — मेघातिथि तथा गोविन्दराज ने ' एको लुब्धस्त्वसाक्षी स्यात् ’ ऐसा पाठ मानकर ‘ लोभी एक व्यक्ति साक्षी नहीं होता है, अलोभी गुणवान् एक भी किसी अवस्था में साक्षी हो सकता है, ऐसा अर्थ किया है । इस पाठ में एक का प्रतिषेध निर्लोभी के प्रति ये सबके लिए किया गया है, अतः एक भी साक्षी के सत्यवादी निश्चित हो जाने पर उसका साक्षित्व प्रमाणित मानना चाहिए । स्त्री बुद्धि के स्वभावतः चञ्चल होने से
पृष्ठ 197
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १६१ प्रमादादि दोष के कारण वे शुद्ध होकर भी अन्यथा कह सकती हैं, अत: उनका साक्षित्व उन निर्लोभ एवं सत्यवादी पुरुष की अपेक्षा ठीक नहीं है । साक्षी के स्वाभाविक वचन की प्रमाणिकता-स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् । अतो यदन्यद्विब्रूयुर्धर्मार्थे तदपार्थकम् ॥७८ ॥
भाष्य - साक्षिणो यत् स्वभावेन व्यावहारिकं ब्रुवन्ति तद्ग्राह्यम् । यत्तु स्व-भावाद्विचलिता । धर्मबुद्ध्या धर्मार्थं ब्रूयुस्तदपार्थकमग्राह्यमित्यर्थः । यद्यथादृष्टार्थस्य वचनं तत् स्वभावतः । यत्त्वन्यथा – माभूदस्य तपस्विनो मद्वचनेन बाध इत्यनया बुद्ध्यातदपार्थकम् । यथाकेनचिदावेदितं भवति अनेनाहमाक्रुष्ट इति – तत्र परेणाप-ह्रुतम् — साक्षिण आहुः सत्यमाक्रुष्टः, नर्मणा, न तु रोषेणेति । तत्राक्रुष्ट इत्येतत्साक्षिणां वचो ग्राह्यम् । नर्मणेत्येतदुत्तरवादिनानुक्तत्वादपृष्टमुक्तमपि न ग्राह्यम् । व्यावहारिकं व्यवहारगतम् । अपगतप्रयोजनमपार्थकम् । अन्ये व्याचक्षते । यदप्रागल्भ्यादिभिः स्खलितपदमुदाहरन्ति न तावता तदनादेयं किन्तु स्वभाव एषामुपलक्षितव्योऽनुमानेन - किममी अप्रागल्भ्यात्स्खलन्ति उतासत्या-भिधायितयेति । तत्तु प्रागुक्तं न चाक्षरार्थ इत्युपेक्ष्यम् ॥७८ ॥
हिन्दी – साक्षी ( भय या दबाव आदि न होने पर ) स्वभावतः जो कुछ कहे न्याया-धीश को उसे ही ठीक मानना चाहिये; अन्य किसी कारण ( भय, दबाव, शील या सङ्कोच आदि ) से धर्मविरुद्ध निष्प्रयोजन बातें वह कहे तो उसे ठीक नहीं मानना चाहिये ॥७८ ॥
साक्षी से प्रश्न करने की विधि-सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ।
वाड्विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ॥ ७ ९ ॥
भाष्य — सभायामन्तः सभान्तः । शौण्डादित्वात्समासः ( पा ० २।१।४० ) । व्यव-हारदेशगता उभयोरर्थिप्रत्यर्थिनोः सन्निधानेऽनुयोक्तव्या वक्ष्यमाणेन विधिना । सांत्वयन् अपरुषम्बूवन् । पारुष्येण हि प्राड्विवाकाद्विभ्यतोऽप्रकृतिस्था न सर्वं स्मरेयुः, संस्कारभ्रंशहेतुत्वाद्भयस्य । प्राड्विवाको राज्ञा व्यवहारदर्शनाधिकृतो रूढ्यो-च्यते । यद्यप्यवयवार्थो राजन्यपि सम्भवति – पृच्छति विविनक्तीति तथाऽपि भेदेन प्रयोगदर्शनम्– “ अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ” इति ( ९ ।२३४ ) । पृच्छतीति प्राट् “ क्विब्वचिप्रच्छिश्रिद्रुश्रुश्रुवां दीर्घोऽसम्प्रसारणं चेति ” प्राट् । विशेषेण धर्मसङ्कटेषु विवेक्तीति विवाकः । “ कृत्यल्युटो बहुलम् ' ( पा ० सू ० ३।३।११३ ) ।
पृष्ठ 198
पाठ पढ़ें पाठ छिपाएँ
१६२ मनुस्मृतिः [ अष्टमः कर्तरि पञ् । “ चजोः कुघिण्यतो: " ( पा ० सू ० ७।३।५२ ) इति कुत्वम् । प्राट् चासौ विवाकश्च प्राड्विवाकः ॥७९ ॥
हिन्दी — वादी तथा प्रतिवादी ( मुद्दई तथा मुद्दालह ) के सामने न्यायालय में उपस्थित साक्षियों से‘न्यायाधीश प्रियभाषण करता हुआ इस विधि से ( ८।८०-८६ ) प्रश्न करे ॥७ ९ ॥
यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः ।
तद्ब्रूत सर्वं सत्येन युष्माकं ह्यात्र साक्षिता ॥ ८० ॥
-भाष्य – यज्जानीथ अस्मिन् व्यवहारवस्तुनि अनयोर्मिथः प्रत्यक्षं रहसि वा चेष्टितं वृत्तं तत्सर्वं सत्येन तथ्येन ब्रूत कथयत । युष्माकं ह्यत्र साक्षिता भवतामत्र प्रामाण्यम् । युष्मद्वचनाधीने सत्यानृते । इत्यनेन प्रोत्साह्यन्ते । साक्षिभूता अस्मिन् कार्य इति सामान्यनिर्देशेऽप्यखिलवस्तु श्रावणं सामर्थ्याद्द्रष्टव्यम् । न ह्यश्रुतविशेषाः प्रश्नविषयं वेदितुमर्हन्तीति ॥८० ॥
हिन्दी — तुम लोग इन दोनों ( अर्थी - प्रत्यर्थियों ) के व्यवहार ( मुकदमे ) में जो कुछ जानते हो, उन्हें सत्य - सत्य कहो, क्योंकि तुम लोगों की यहाँ गवाही है ॥८० ॥
साक्षियों को सत्य बोलना-सत्यं साक्ष्ये ब्रुवन् साक्षी लोकानाप्नोत्यनिन्दितान् ।
इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ॥ ८१ ॥
भाष्य — इतःप्रभृति सत्यवचनार्थः साक्षिणामनुयोगविधिः । सत्यं वदन् लोकान् स्वर्गादिलक्षणाननिन्दितानगर्हितानभिप्रेतफलभोगहेतून् लभते साक्षी । जातिवचनो वा लोकशब्दः । शुभे जन्मनि जायत इत्यर्थः । अस्मिंश्च जन्मनि कीर्तिं ख्यातिम् अनुत्तमां यस्या अन्यदुत्तमं प्रकृष्टं नास्ति तां लभते । साधुवादो जनेनास्मै दीयते । यस्मादेषा च वाक् सत्या सरस्वती ब्रह्मणा प्रजापतिना पूजिता ॥८१ ॥
हिन्दी — गवाही में सत्य कहनेवाला साक्षी मरने पर श्रेष्ठ लोकों ( स्वर्ग आदि ) को पाता है और इस लोक में श्रेष्ठ यश ( नामवरी ) पाता है, क्योंकि यह सत्य भाषण ब्रह्मा से पूजित है ॥८१ ॥
[ विक्रियाद्यो धनं किञ्चिद् गृह्णीयात्कुलसन्निधौ । क्रमेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ५ ॥ ]
[ हिन्दी – जो व्यक्ति व्यापारि - समूह के सामने किसी वस्तु को बेचे या खरीदे, वह व्यक्ति उस निर्दोष धन को न्यायानुसार प्राप्त करता है ॥५ ॥ ]
पृष्ठ 199
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य'मणिप्रभा ' हिन्दीटीकासहिता
साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् ।
विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम् ॥ ८२ ॥
१६३ भाष्य - - पूर्वेण दृष्टशुभफलप्रदर्शनेन सत्यवचने साक्षिण: प्रोत्साहिताः । अनेन विपरीताभिधाने दुःखोत्पत्तिदर्शनम् । सत्यवचनार्थमेवैतत् । साक्षिणः कर्म साक्ष्यम् | तत्रासत्यं ब्रुवाणो वारुणैः पाशैर्बध्यते पीड्यते । भृशमत्यर्थम् । विवशः परतन्त्रीकृतः सर्वचेष्टासु वाक्चक्षुर्गतात्वपि । शतं यावज्जन्मनि वारुणाः पाशा घोराः सर्परज्जवो जलोदराणि वा । एतद्दोषपरिहारार्थं सत्यं वदेदिति विधिः । आजातीरिति नायं मर्यादा-भिविध्योराङ् । तथा सति पञ्चमी स्यात् । तस्मादुपसर्गोऽयमनर्थकः, प्रलम्ब इतिवत् ।
द्वितीया चेयं आवृत्तिश्चात्र गम्यते । शतं जन्मान्यावर्तते उदरगृहीतः ॥८२ ॥
हिन्दी — गवाही में असत्य बोलता हुआ मनुष्य वरुण के पाश ( सर्परूप रस्सी ) से बाँधा जाता है तथा जलोदर रोग से परवश होकर सौ जन्म तक पीड़ित होता है; इस कारण गवाही में सत्य बोलना चाहिये ॥ ८२ ॥
सत्य की श्रेष्ठता-[ ब्राह्मणो वै मनुष्याणामादित्यस्तेजसां दिवि । शिरो वा सर्वगात्राणां धर्माणां सत्यमुत्तमम् ॥ ६ ॥ ]
[ हिन्दी – मनुष्यों में ब्राह्मण, आकाशीय तेजों में सूर्य और सम्पूर्ण शरीर में मस्तक के समान सब धर्मों में सत्य श्रेष्ठ है || ६ || ] [ नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । साक्षिधर्मे विशेषेण तस्मात्सत्यं विशिष्यते ॥७ ॥ ]
[ हिन्दी — सत्य से बढ़कर दूसरा धर्म और असत्य से बढ़कर दूसरा पाप नहीं है, इस कारण गवाही में विशेष रूप से सत्य श्रेष्ठ माना जाता है || ७ || ] [ एकेवाद्वितीयं तु प्रब्रुवन्नावबुध्यते । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ८ ॥ ]
[ हिन्दी — जो केवल सत्य ही बोलता है, दूसरा ( असत्य ) नहीं बोलता, वह कदापि भूलता नहीं है, समुद्र की नाव के समान सत्य स्वर्ग की सीढ़ी है ॥८ ॥ ]
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८३ ॥
भाष्य – पूयते शुद्ध्यत्यन्यस्मादपि पापान्मुच्यत इति यावत् । शेषं गतार्थम् ॥८३ ॥
हिन्दी — गवाह सत्य से पवित्र होता ( पाप से छूट जाता है, सत्य से उसका धर्म बढ़ता है, इस कारण गवाहों को सब वर्णों के विषय में सत्य ही बोलना चाहिये ॥८३ ॥
पृष्ठ 200
पाठ पढ़ें पाठ छिपाएँ
१६४ मनुस्मृतिः
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः ।
माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ ८४ ॥
भाष्य – एष एवार्थो विस्पष्टीक्रियते उत्तरेण श्लोकेन ॥ ८४ ॥
-[ अष्टमः हिन्दी - आत्मा ही शुभ और अशुभ कर्मों का साक्षी ( गवाह ) है और आत्मा की गति भी आत्मा ही है, इस कारण मनुष्यों के श्रेष्ठ साक्षी आत्मा का ( असत्य बोलकर ) अपमान मत करो ॥८४ ॥
साक्षिरूप स्वात्मा के अपमान का निषेध –
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ।
तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८५ ॥
भाष्य- -नशब्दो व्यवहितः । पापकृतः कूटादिकारिण एवं जानते । न कश्चिद-स्मान्पश्यतीति । इतिकारेण मन्यतेर्वाक्यार्थः कर्मेति प्रतिपाद्यते । न नः कश्चित्पश्यती-त्येष वाक्यार्थः । तांस्तु देवा वक्ष्यमाणाः पश्यन्ति । स्वस्य चान्तरात्मा । तदुक्तम्— “ आत्मैव ह्यात्मनः साक्षी ” इति । ननु कः पुनरयं पापचारी तस्य च कोऽन्यो द्रष्टा? यावताऽऽत्मैव कर्त्ता शुभा-शुभानां न चान्तरपुरुषो द्रष्टेति । सत्यम् । तस्यैव देवतात्वमध्यारोप्य भेदेन कर्मकर्तृव्यपदेशोऽनृतनिवृत्त्यर्थः । देवता-रूपं त्वं जानीषे । तात्त्विकमात्मीयमान्तरं रूपं शारीरम्, तथा बाह्यमनात्मीयमसारम्, एतदुपभोगार्थं मा दुष्कृतं कार्षीरिति प्रोत्साह्यते । अतो ' माऽवमंस्थाः स्वमात्मानम् ’ माऽवज्ञासी ‘ र्नृणां साक्षिणमुत्तमम् ' । अन्यो हि साक्षी अस्मिन्नेव लोके, अयं तु मृत-स्यापि साक्ष्यं ददाति । तस्मादेतस्माद्भेतव्यम् । असत्यवादी मदाचिन्मन्यते - आत्मान्तरं प्रतिपन्नस्य किमेष मे द्रष्टाऽपि करिष्यतीति । तन्न । ' गतिरात्मा तथात्मनः ' । आत्मान-मन्तरेणान्या गतिर्नास्ति । न हि द्वावात्मानावेकस्य भवतः । अन्ये तु मन्यन्ते परमात्मा साक्षी संसार्यात्मानो नियोज्या इति भेदः ॥ ८५ ॥
तु के पुनस्ते देवा रहस्यपि प्रच्छन्नं पापमाचरन्तं ये पश्यन्त्यत आह— हिन्दी - पापी पुरुष समझते हैं कि ' हमको कोई नही देखता '; किन्तु उनको ( अग्रिम
श्लोक में कहे जानेवाले ) देवता देखते हैं तब अपने ही अन्तःकरणों में स्थित पुरुष
देखता है ॥८५ ॥
द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः सन्ध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८६ ॥