मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 201–210

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 201–210

पृष्ठ 201

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १६५ भाष्य — हृदयशब्देन हृदयायतनो लिङ्गपुरुष उच्यते । दिवादीनां द्रष्टृत्वे अचेतनेषु चैतन्यमारोप्यते । दर्शनान्तरे तु महाभूतानि देवतात्मतया चेतनान्येव । तथा च पृथिवी भारावतरणाय ब्रह्माणमुपागमदिति वर्ण्यते I । सर्वगतत्वात्तेषां न किञ्चिदप्रत्ययमस्तीति सर्वशरीरिणां वृत्तं शीलं चात्मन: कायगतं शुभमशुभं च जानते ॥ ८६ ॥

हिन्दी – आकाश, भूमि, जल, हृदय, चन्द्रमा, सूर्य, अग्नि, यम, वायु, रात्रि, दोनों सन्ध्याएँ ( प्रात: सन्ध्या तथा सायं सन्ध्या ) और धर्म – ये शरीरधारियों के व्यवहार ( शुभाशुभ कर्म ) को जानते हैं ॥ ८६ ॥

ब्राह्मणादि साक्षी से प्रश्नविधि-देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८७ ॥

भाष्य — देवा दुर्गामार्तण्डादयः प्रतिमाकल्पिताः । शुचीन् कृतस्नानाचमनादि-विधीन् । शुचिः प्रष्टा स्वयमपि तथाविध एव स्यात् । ऋतमिति श्लोकपूरणार्थमेव । प्रसिद्धमन्यत् ॥८७ ॥

हिन्दी - शुद्ध हृदय न्यायकर्त्ता देवता की प्रतिमा और ब्राह्मण के पास में पूर्व या उत्तर की ओर मुख करके खड़े हुए सत्यवक्ता द्विजों से ( या अन्य जातीय साक्षियों से भी ) पूर्वाह्न समय में ( दोपहर के पहले ) गवाही लेवे ॥८७ ॥

ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ।

गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ८८ ॥

भाष्य— “ क्व पुनरियं तृतीया गोबीजकाञ्चनैरिति । यदि तावत्पृच्छेदिति क्रिया-सम्बन्धात्करणमुच्यते, तदनुपपन्नम् । शब्दो हि तत्र करणम्, नार्थः ” । नैष दोषः । यथा गवादीनि प्रश्नकरणत्वं प्रतिपद्यन्ते तथा व्याख्येयम् । पातकैरि-त्युभयशेषो विज्ञेयः गोबीजकाञ्चनैः पातकैरिति । तेनायमर्थो भवति । गोबीजकाञ्चन-विषयैः पातकप्रदर्शनैः पृच्छेदिति । गां हृत्वा हत्वा वा यत्पातकं तद्भवति तव मिथ्या वदत इति प्रश्नवाक्यं पठितव्यम् । एवं वक्ष्यमाणैः पातकैः शूद्रं पृच्छेत् । पातकशब्दस्तु पातकप्रदर्शनार्थेष्वभिधानेषु द्रष्टव्यो मुख्यानां प्रश्नकरणत्वाभावादित्युक्तम् ॥८८ ॥

हिन्दी – न्यायाधीश ब्राह्मणों से ' कहो ', क्षत्रियों से ' सत्य कहो ', वैश्यों से, ' गौ, बीज और सोना चुराना पाप है । वह पाप तुम्हें असत्य गवाही देने पर लगेगा ' तथा शूद्रों से ‘ तुम्हें सब पाप लगेंगे, यदि तुम असत्य गवाही दोगे ' ऐसा ( ८।८ ९ -१०१ ) कहकर गवाही लेवे ॥८८ ॥

पृष्ठ 202

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६६ मनुस्मृतिः

असत्य गवाही देने से दोष-ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।

मित्रद्गुहः कृतघ्नस्य ते ते स्युब्रुवतो मृषा ॥ ८ ९ ॥

[ अष्टमः भाष्य — ब्राह्मणं हत्वा ये लोका नरकादिलक्षणाः प्राप्यन्ते तत्कारिभिस्ते तव भवन्ति मिथ्यावदतस्तस्मात्सत्यं ब्रूहीत्यनुयोगः । यश्च मित्रं द्रुह्यति ब्राह्मणादीन् दारसर्व-स्वापहरणादिना नाशयति - यश्च कृतमुपकारं विस्मृत्य तमेवोपकर्तारमपकरोति — यत्तस्य कृतघ्नस्व परत्र दुःखं तदवाप्नोति ॥८ ९ ॥ हिन्दी — ब्राह्मण, स्त्री तथा बालक की हत्या करनेवाले, मित्रद्रोही तथा कृतघ्न को जो नरक आदि लोक प्राप्त होते हैं, वे सब असत्य बोलते हुए तुम्हें प्राप्त होवें ॥८ ९ ॥

जन्मप्रभृति यत्किञ्चित्पुण्यं भद्र त्वया कृतम् ।

तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥ ९ ० ॥

भाष्य- -शुनो गच्छेन्निष्फलं स्याद्भवत इत्यर्थः । अन्ये तु दोषप्रदर्शनार्थं श्वगमन-वचनम् । यथा कृच्छ्रेण महता सुवर्णाद्युत्तमद्रव्यमर्जयित्वाऽशुचिप्रवाहे त्यजेत्तादृक् सुकृतं भवति । न पुनरन्यकृतस्य सुकृतस्यान्यत्र गमनमस्तीत्यसकृदुक्तमेतत् ॥९ ० ॥। हिन्दी — हे भद्र! यदि तुम अन्यथ अर्थात् असत्य बोलो तो जन्म से लेकर जो कुछ तुमने पुण्य किया है, वह सब कुत्तों को प्राप्त हो अर्थात् वह सब पुण्य नष्ट हो जाय ॥९ ० ॥

एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे ।

नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ॥ ९ १ ॥

भाष्य – पुण्यपापयोरीक्षिता द्रष्टा मुनिस्तूष्णींभूतः ॥९ १ ॥

कः पुनरसौ मुनिः । भयातिशयप्रदर्शनार्थमाह— हिन्दी — हे कल्याणकारी चरित्र वाले! जो तुम ' मैं अकेला हूँ, ऐसा आत्मा ( जीवात्मा ) को मानते हो ( वैसा मत मानो, क्योंकि ) पुण्य - पाप को देखेनेवाला सर्वज्ञ ( परमात्मा ) तुम्हारे हृदय में सर्वदा वर्तमान रहता है ॥९ १ ॥

सत्य की प्रशंसा-यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः ।

तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ ९ २ ॥

भाष्य — य एष यमः सर्वप्राणिनां देहधनाद्युच्छेदकारी यातनाभिश्च निगृह्णीतेति

पृष्ठ 203

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १६७ श्रुतिपथमागतो भवतः सोऽयं तव हृदये वर्तते, न विप्रकृष्टः । सच कृतापराधमधुनैव यमयति । मा चैवं मनसि कृथाः - एष आत्मा मदीयो मामुपक्षिष्यत इति । न ह्येतस्य कश्चिदात्मीयः । तेन चेदविवादः । स चेत्प्रसन्नः प्रत्ययितः किं गङ्गागमनेन स्नानार्थिनः पापशुद्धये, किं वा कुरुक्षेत्रगमनेऽस्ति प्रयोजनम् । यत्फलं पापममोचनलक्षणं ततः प्राप्यते तदिहैवाविसम्वादिनि परमात्मनि । न हि पापकारिण आत्मा निर्विशङ्को भवति ।

किं मेऽन्तः स्यादेतेनेति । नास्तिकस्यापि किंकथिका कदाचित् भवत्येव ।

गङ्गानदी पावयन्ती । कुरुक्षेत्रं तु देश एव पावनः ॥९ २ ॥

हिन्दी — तुम्हारे हृदय में रहनेवाला जो यह यम अर्थात् दण्डकर्त्ता परमात्मा रहता है, उसके साथ यदि तुम्हारा विवाद नहीं है, तब तुम ( असत्य भाषणरूप पापकर्म के प्रायश्चित करने के लिए ) गङ्गाजी और कुरुक्षेत्र मत जाओ अर्थात् सत्य बोलने पर पाप नहीं लगने के कारण तुम्हें गङ्गाजी या कुरुक्षेत्र जाकर प्रायश्चित्त करने की आवश्यकता नहीं है ॥९ २ ॥ विमर्श - दण्ड देनेवाला यमाख्य परमात्मा सबके अन्तःकरण में निवास करता है — किसी से दूर नहीं है— अतः यह जीव के द्वारा किये गये समस्त कर्मों को साक्षात् देखता है, इस अवस्था में असत्य बोलना उस परमात्मा के साथ एक प्रकार से महान् विवाद अर्थात् विरोध ( पाप ) करना है और इसके दूर करने के लिए गङ्गाजी तथा कुरुक्षेत्र में जाने की आवश्यकता नहीं, ' यदि तुम सत्य भाषण करो ' ऐसा कहे ।

असत्य की निन्दा -नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।

अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ ९ ३ ॥

भाष्य — कपालं शरावादिपात्रैकदेशः सुबोधम् ॥९ ३ ॥

हिन्दी — गवाही में जो व्यक्ति असत्य बोलता है, वह अगले जन्म में नङ्गा, शिर मुड़ाया, अन्धा, भूख - प्यास से युक्त और कपात ( फूटा ठिकरा लिये हुए भीख माँगने के लिए शत्रुओं के यहाँ जाता है ॥९ ३ ॥

अवाकशिरास्तमस्यन्धे किल्विषी नरकं व्रजेत् ।

यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये ॥ ९ ४ ॥

भाष्य — निमित्तं पृष्टो यो वितथमसत्यं वक्ति स तेन किल्बिषेन पानेन गृहीत ऊर्ध्वपादोऽधोमुखो महति गाढे तमसि नरकं यातनास्थानं तत्प्राप्नोतीत्यर्थः । अन्य-स्मिस्तमसि किञ्चिदृश्यते तत्र तु न किञ्चिदेवेत्यन्धग्रहणम् ॥९ ४ ॥ हिन्दी – धर्मनिर्णय ( गवाही ) में न्यायाधीश के सामने पूछने पर जो असत्य बोलता मनु II 13

पृष्ठ 204

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६८ मनुस्मृतिः है, वह पापी अधोमुख होकर घोर अन्धकार वाले नरक को जाता है ॥ ९ ४ ॥ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । [ अष्टमः यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ ९ ५ ॥ भाष्य — अर्थवैकल्यं सत्यादपेतं भाषते । यथा कण्टका अशिता भक्षिता जन-यन्ति न तादृशीं मत्स्याः प्रीतिं जनयन्ति । यदा धनलोभेन काचित्प्रीतिमात्रा भवति तथापि महदुःखं भवतीति सकण्टकमत्स्याशनोपमा ॥९ ५ ॥ हिन्दी — जो न्यायालय में जाकर बात को अस्तव्यस्त कर ( गड़बड़ करके असत्य ) बोलता है या बिना देखी हुई बात कहता है, वह मनुष्य काँटे सहित मछली को खानेवाले अन्धे के समान दुःखी होता है ॥९ ५ ॥

पुनः सत्य की प्रशंसा-यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते ।

तस्मिन्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ ९ ६ ॥

भाष्य — यस्य वदतः साक्षिणो विद्वान्सत्यानृते जानानः क्षेत्रज्ञोऽन्तर्यामी पुरुषो नातिशङ्कते किमयं सत्यं वक्ष्यत्यनृतं वेत्येवं नाशङ्कते - निश्चितमेवैष सत्यं वक्तोति यस्यात्मा निर्विशङ्कः — तस्मात्पुरुषान्नान्यं श्रेयांसं श्रेष्ठं प्रशस्ततमं पुरुषं देवा जानते । कः पुनरयं वेदिता । कश्च ततोऽन्य आशिङ्किता । एक एव ह्यात्मा स्वप्रयत्नद्वारेण वाचमीरयन्वेदिता सम्पद्यते । स एव तद्धर्मेण किं कथं स्यादित्येवंरूपेणाशङ्काख्यानेन

युज्यते । तत्र भेदानुपपत्तिः ।

सत्यमेतत् । काल्पनिकेन भेदेनैवमुक्तम् । यथा हन्त्यात्मानमात्मनेति ॥९ ६ ॥

हिन्दी – गवाही में बोलतु हुए जिस मनुष्य का सर्वज्ञ अन्यर्यामी ( यह असत्य बोलता है या सत्य ' ऐसी शङ्का नहीं करता, किन्तु यह सत्य ही बोलता है, ऐसा ) निःशङ्क रहता है अर्थात् गवाही देनेवाले मनुष्य के मन में कोई शङ्का नहीं होती; संसार में उससे अधिक श्रेष्ठ किसी दूसरे को देवता लोग नहीं मानते हैं ॥९ ६ ॥

विषयभेद से सत्य का फल-यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् ।

तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ ९ ७ ॥

भाष्य — द्रव्यविशेषानृताश्रयाः पापविशेषाः कूटसाक्षिण इत्येतत्प्रदर्शनार्थं प्रकरण-मारभ्यते । तत्रायं श्लोकः सम्बोधनद्वारेणोपादिश्यमान आदरार्थः सम्पद्यते । यद्गुह्यं मिथ उपदिश्यते तद्यथाकथञ्चिद्भवतीत्यवधारितं ग्रहणं नातिगुरु इदं त्वतिमहाप्रयोजनमवहितैः

पृष्ठ 205

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] श्रोतव्यमिति । ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १६ ९ सौम्येति चैकवचनमनेकशिष्यसन्निधाने भृगावेव विवक्षितम् । यस्मिन् साक्ष्य इति व्यधिकरणसप्तमी । यस्मिन् द्रव्यभेदभिन्ने व्यवहारे यत्साक्ष्यं तत्र तन्निमित्तं यदनृतमित्येषा विषय-सप्तमी । अपरा ‘ यस्य च भावेनेति ' ( पा ० सू ० २।३।३७ ) । अथवा द्रव्यभेदात्साक्ष्य-भेद:, तत्र समानाधिकरण एव । तावत इति परिमाणे व्युत्पाद्यते । तत्र यत्प्रभूत-निमित्तमपि तरिमाणं सम्भाव्यते इत्यतो विशिनष्टि संख्येति । अनुपूर्वश इति सुख-प्रतिपत्तयेऽनुपूर्वेण ह्यभिधीयमानं सुखेन प्रतीयते । आनुपूर्वी च सङ्ख्यागताऽत्राभिप्रेता । तस्या एव वक्ष्यमाणत्वात् ' पञ्च पश्वित्यादि ' ॥ ९ ७ ॥ हिन्दी – हे सौम्य! गवाही में असत्य कहकर मनुष्य जितने बान्धवों को नरक में डालता है ( या जितने बान्धवों की हत्या करने का फल पाता है ), उनकी संख्या क्रमशः मुझसे सुनो — ॥९ ७ ॥ [ एवं सम्बन्धनात्तस्मान्मुच्यते नियतावृतः । पशून्गोश्वपुरुषाणां हिरण्यं भूर्यथाक्रमम् ॥ ९ ॥ ]

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।

शतमश्वानृते हन्ति सहस्त्रं पुरुषानृते ॥ ९ ८ ॥

भाष्य— पशुनिमित्तमनृतम् । शाकपार्थिववत्समासः । पञ्चबान्धवांश्चानृतं हन्ति । ततश्च तेषां नरकपातनम् । मातापितरौ जायामिथुनं चापत्यमिति पञ्च । कथं पुनरन्यकृतेनैनसाऽन्यस्य फलम् । अन्यकृतेन पुण्यपापादिनाऽन्यस्य स्वर्ग-नरकादिप्राप्तिः संसर्गादिति ब्रूमः । तैरयं परित्यज्यत इत्युक्तं भवति । अथवा तैर्हतै-र्यत्पापं तदस्य भवतीत्यघ्नन्नपि हन्तीत्युच्यते । अदृष्टकार्यतुल्यत्वात् । अर्थवादश्चायं न तत्कार्योपदेशः । तत्कार्योपदेशे हि हिंसाप्रायश्चित्तो स्यात् । कौट-सक्ष्यप्रायश्चित्तमेतद्भवति । उत्तरोत्तरसङ्ख्यादिवृद्धिः प्रायश्चित्तगौरवार्था न पुनर्विवक्षितैव ।

तेनोत्तरोत्तरस्य गरीयः प्रायश्चित्तमित्युक्तं भवति ।

अयं पुरुषः कस्य दास इत्येवं संशये यदनृतं तत्पुरुषानृतमुच्यते ॥९ ८ ॥

हिन्दी — पशु के विषय में असत्य बोलने पर पाँच, गौ के विषय में असत्य बोलने पर दश, घोड़े के विषय में असत्य बोलने पर सौ तथा मनुष्य के लिए असत्य बोलने पर सहस्र बान्धवों को नरक में डालता ( या उनकी हत्या करने का फल पाता ) है ॥ ९ ८ ॥

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।

सर्व भूम्यनृते हन्ति मास्म भूम्यनृतं वदीः ॥ ९९ ॥

पृष्ठ 206

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७० मनुस्मृतिः [ अष्टमः भाष्य — कथं पुनरजातानामसति संसर्गे परकीयेन संयोगो येनेदमुच्यते हन्ति जातानजातांश्चेति । उक्तमर्थवादोऽयमिति । सर्वं भूम्यनृतं वदन् । माऽवदोः भूमिसम्बन्ध्यसत्यम् । माऽवदीरित्यादरार्थम-प्येतत् प्रत्यक्षं सम्बोधनम् । का पुनरियं भूमिर्नाम । यदेतत्पृथिवीगोलकं पर्वतावष्टंभनं सागरावधि प्रसिद्धम् । नन्वियत्याः कः स्वामी को वाऽपहर्ता । न हि सार्वभौमः कश्चिदस्ति । तथा च गाथा भूमेः– “ न मां मर्त्यः कश्चन दातुमर्हति ' । न कश्चित्सार्वभौमोऽस्तीत्यभिप्रायः । ‘ विश्वकर्मन् दासिथ भौवनमादिविश्वकर्मभौमनेति पितृव्यपदेशेन स्वनाम्ना च राज्ञामन्त्रणं श्रुतं मयाऽसौ रन्तुमिच्छतीति उपमैष्यति सलिलस्य मध्ये निमज्जेऽहं सलिलस्य मध्य-मेवं सङ्कल्पं वृथा सङ्कल्पितवति त्वयि सलिले मज्जामि । ' सलिलमज्जनेन नैष्फल्यमत्र दान सङ्कल्पस्याह । यथा सलिले निक्षिप्तं निष्फलमेवमेतदपीति । मृषैष कश्यपाय सङ्गरः तवैष सङ्गरः प्रतिश्रवः प्रतिज्ञानं कश्यपाय ददामीति मोघो वंध्योऽस्तु सर्व-साधारणाऽहम् । सर्वजनोपभोग्या । केवलं राजानो रक्षानिर्बंधमात्रभाज इत्यभिप्रायः । अत एतावत्या भूमेर्न दानापहारासम्भव इति कुतो विवादः । सत्यम् यथैवायं भूमिशब्दोऽत्र वर्तते एवं क्षेत्रग्रामस्थण्डिलादावपि । तत्र च सम्भव-त्येव स्वाम्यम् । प्रत्यक्षस्यैव दानापहाराविति न किञ्चिदनुपपन्नम् । अपहारश्चास्या यादृशेन रूपेण अपहारः गृहादेर्न वीरुद्विच्छेदः । अतश्च यः परकीये क्षेत्रे चक्रम्येत मृदो वा कश्चिदादद्यान्नासौ भूम्यपहारी स्यात् । मीमांसकैरुक्तं " न भूमिः स्यात्सर्वान्प्रत्यविशिष्ट-त्वादिति ” ( मी ० सू ० ६।३।३ ) । एकदेशवचनं च भूमिशब्दमधिकृत्य भगवान् कृष्णद्वैपायनो दानधर्मेषु पठित-वान्– “ परैरप्यनुमन्तव्यो दानधर्मो नृपैर्भुवि । अक्षयो हि निधिर्ब्राह्मो विहितोऽयं मही-भृताम् ” इति । कृत्स्नगोलकाभिप्रायमेव चादेयत्वं भूमेर्विश्वजिति मीमांसकैरुक्तं “ न भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति ” ( मी ० सू ० ६।३।३ ) । सर्वान्पुरुषान्प्रतिचक्र-मणादियोग्यतयाऽविशिष्टा भूमिः स्वात्मीकर्तुमशक्या कथं दीयत इत्यर्थः । अस्मिंस्तु पक्षे ग्रामनगरादि विश्वजिति दातव्यम् । अन्ये तु पठन्ति ' अन्तरेण सदः पत्नीशालं च दक्षिणा नयन्तीति ' भूमौ गुणविधेरस्यासम्भवात्क्षेत्रादेरप्यदानम् । वदन्निति चैकवचननिर्देशाच्छृणु सौम्येति साक्षिविषयमेवैतत्सम्बोधनम् न शिष्य-विषयम् ।

पृष्ठ 207

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १७१ ' शूद्रमेभिस्तु पातकैः ' इत्यत आरभ्य यावन्तो मध्यमपुरुषनिर्देशास्ते सर्वेषां पातक-भूयस्त्वसमानाख्यातरूपाद्येकवाक्यत्वाच्छूद्रानुयोगार्थाः । ' अन्धः शत्रुगृहं गच्छेत् ' इत्यत आरभ्य सर्वे साक्षिविषया अनुयोगाः । आख्यातवैरूप्येन प्रकरणस्य विच्छेदात् मध्यमपुरुषे समानार्थक्रमत्वात्कर्तव्ये गच्छेदिति प्रथमपुरुषनिर्देश: पूर्वाधिकारनिवृत्त्यर्थः ॥९९ ॥

हिन्दी - सुवर्ण के विषय में असत्य बोलता हुआ मनुष्य उत्पन्न ( पिता, दादा आदि ) तथा नहीं उत्पन्न हुए ( पुत्र - पौत्र आदि ) को नरक में डालता ( या उनकी हत्या करने का फल पाता ) है और पृथ्वी के विषय में असत्य बोलने पर सबसे नरक में डालता ( या उनकी हत्या करने का फल पाता है, इस कारण से भूमि के विषय में असत्य ( कभी ) मत बोलो ॥९९ ॥

[ पशुवत्क्षौद्रघृतयोर्यच्चान्यत्पशुसम्भवम् ।

गोवद्वस्त्रहिरण्येषु धान्यपुष्पफलेषु च ॥

अश्ववत्सर्वयानेषु खरोष्ट्रवतरादिषु ॥ १० ॥ ]

[ हिन्दी - शहद तथा घृत और पशु से उत्पन्न अन्य वस्तु ( दूध, दही, मक्खन आदि ) के विषय में असत्य बोलने पर पशु के विषय में असत्य बोलने के समान, कपड़ा, सोना, धान्य ( गल्ला ), फूल और फल के विषय में असत्य बोलने पर गौ के विषय में असत्य बोलने के समान, गधा, ऊँट, नाव आदि सवारियों के विषय में असत्य बोलने पर घोड़े के विषय में असत्य बोलने के समान मनुष्य पापी होता है अर्थात् क्रमश: पाँच, दश और सौ बान्धवों को नरकों में डालता ( या उनकी हत्या करने के ) समान फल पाता है ॥९९ ६ ॥ ]

अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ।

अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ १०० ॥

भाष्य — कूपतडागादिस्थे महति जले स्वल्पे वा भूमिवद्दोषः । स्त्रीणां भोगे च मैथुनाख्ये — केनेयं स्त्री भुक्ता मैथुनधर्मेणेति । अब्जेषु रत्नेषु मणयो रत्नानि मुक्ताद्या: । अश्ममयेषु वैडूर्यादिषु । रत्नेष्विति सम्बन्धते । द्विविधान्येव रत्नानि जलजान्यश्ममयानि च । अतो रत्नग्रहण एव कर्तव्ये विशेषणद्वयोपादानं श्लोकपूरणार्थम् । अद्भ्यो जातान्यब्जानि 1 । अश्मनो विकारा अश्ममयानि ॥ १०० ॥

हिन्दी — पानी ( तालाब, कूआँ, नहर आदि ) स्त्री - भोग, मैथुन, कमल, रत्न और पत्थर की बनी सब प्रकार की वस्तुओं के विषय में असत्य बोलने पर भूमि के विषय में असत्य बोलने के समान पाप लगता है अर्थात् वह मनुष्य सब बान्धवों को नरक में डालता ( या उनकी हत्या करने के समान फल पाता ) है ॥ १०० ॥

पृष्ठ 208

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७२ मनुस्मृतिः [ पशुवत्क्षौद्रघृतयोर्यानेषु च तथाश्ववत् । गोवद्रजतवस्त्रेषु धान्ये ब्राह्मणवद्विधिः ॥ ११ ॥ ]

[ अष्टमः [ हिन्दी – शहद तथा घृत के विषय में असत्य बोलने पर पशु के विषय में असत्य बोलने के समान, सवारियों के विषय में असत्य बोलने पर घोड़े के विषय में असत्य बोलने के समान, चाँदी तथा कपड़ों के विषय में असत्य बोलने पर गौ के विषय में असत्य बोलने के समान और धान्य के विषय में असत्य बोलने पर ब्राह्मण के विषय में असत्य बोलने के समान पाप लगता है अर्थात् पशु आदि के विषय में असत्य बोलने पर जितने - जितने बान्धवों को नरक में डालता ( या उनके मारने के समान फल पाता ) है, शहद, थी आदि के विषय में असत्य बोलकर उतने - उतने बान्धवों को नरक में डालता ( या उनकी हत्या करने के समान फल पाता ) है ॥ ११ ॥ ]

एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे ।

यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥ १०१ ॥

भाष्य — ऊहापोहौ वर्जयित्वा यथादृष्टं यथाश्रुतं चादृष्टं तत्त्वेन ब्रूहि ॥ १०१ ॥

हिन्दी— ( न्यायाधीश साक्षी ( गवाह ) से कहे कि ) तुम असत्य बोलने पर इन ( ८।८०-१०० ) सब दोषों को देख ( जान ) कर जैसा देखा और जैसा सुना है, वैसा ही सब कहो ॥१०१ ॥

निन्दित ब्राह्मण से शूद्रवत् प्रश्न-गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।

प्रेष्यान्वार्द्धर्षिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ १०२ ॥

भाष्य — कारवः शिल्पिनस्तक्षायस्कारसूपकरादयः । कुशीलवा नर्तकगाय-नाद्याः । प्रेष्या जीविकार्थं परस्याज्ञाकारा दासा इति प्रसिद्धाः । वार्धुषिका वृद्ध्युप-जीविनः । एते ब्राह्मणा अपि सन्तः प्रकरणात्साक्ष्ये शपथे च शूद्रवद्द्रष्टव्या न क्रियान्तरे । यथा शूद्रो न दानपुण्यादिना पृच्छ्यते साक्ष्ये शपथे चाग्निहरणादिना शोध्यते तद्वदेषोऽपि शपथो यद्यपि पूर्वत्राप्रकृतः तथाप्युत्तरत्रानन्तर्याद्दोषवत्वात्प्रयतत्वात् प्रयतत्वेऽप्यानन्तर्यस्य सम्बन्धहेतुत्वाद्वक्ष्यमाणस्यापि प्रत्यासत्त्या पूर्ववद्द्वयोःसन्नि-पातात् शपथेऽपि तुल्यम् ॥१०२ ॥

हिन्दी — गो - रक्षा, व्यापार, बढ़ई, लोहार या सूप - डाला आदि बनाने, नाचने-गाने, दास ( सन्देश पहुँचाने ) और निन्दित कर्म करने ( या सूद लेने ) की जीविका करनेवाले ब्राह्मणों से ( साक्षी के विषय में प्रश्न करते समय राजा ) शूद्र के समान वर्ताव करे ॥१०२ ॥

पृष्ठ 209

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता [ येऽप्यतीताः स्वधर्मेभ्यः परपिण्डोपजीविनः । १७३ द्विजत्वमभिकाङ्क्षन्ति तांश्च शूद्रानिवाचरेत् ॥ १२ ॥ ]

[ हिन्दी — जो अपने धर्म से भ्रष्ट होकर भोजन के लिए दूसरों के आश्रित हों तथा ब्राह्मण बनना चाहते हों, उनके साथ भी ( साक्षी के विषय में राजा ) शूद्र के समान बर्ताव करे ॥१२ ॥ ]

धर्मबुद्धि से असत्य साक्षि के दोषाभाव-तद्वदन् धर्मतोऽर्थेषु जानन्नप्यन्यथा नरः ।

न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम् ॥ १०३ ॥

भाष्य — तदन्यथाऽपि जानन्नन्यथा वदन्न स्वर्गाद्भ्रश्यति । कूटमपि वदन्न दुष्यती-त्यर्थः । किं सर्वदैव? नेत्याह । धर्मतोऽर्थेषु । धर्मेण दयादिना निमित्तेनार्थेषु व्यव-हारेषु । धर्मस्य च निमित्तत्वमुक्तमुत्तरश्लोके दर्शयिष्यति । एतच्च न स्वमनीषिकयो-च्यते किं तर्ह्येतां दैवीं वाचं वदन्ति - अस्मात्पूर्वेऽपि स्मर्तारः । का पुनर्दैवी वाक् । यथाऽस्मिन्निमित्तेऽनृतं वदितव्यमित्येषा देवानां सम्बन्धिनी वाक् तां मन्वादयः श्रुत्वा वदन्तीति विशेषेऽनृतप्रशंसा । अन्यैस्तु पूर्वविधिशेषतयाऽयं श्लोको व्याख्यातः । तदेतद्गोरक्षकादिष्वनुयोग-वाक्येषु ब्राह्मणेषु भवितव्यम् । अन्यथा ब्राह्मणेषु सत्यं ब्रूहीति यथा ब्राह्मणा एते कथं शूद्रवदनुयोज्या इति तद्विद्वानपि न दुष्यतीति यतो मन्वादय एवंविधां वाचं वदन्ति यथैते शूद्रवदाचरणीया इति । ते च धर्माधर्मयोः प्रमाणम् । तैश्च सत्यं वदितव्यम् । तच्च यथाविहितं तत्र स एव धर्मो यत्र वाऽनृतं तत्रानृताभिधानमेव धर्म इति ॥१०३ ॥

हिन्दी — बात को जानता हुआ धर्म ( दया, जीवरक्षा आदि ) के कारण आगे वक्ष्य-माण विषयों में अन्यथा कहनेवाला मनुष्य स्वर्गलोक से भ्रष्ट नहीं होता अर्थात् धर्मबुद्धि से असत्य साक्षी देनेवाले का स्वर्ग नहीं बिगड़ता है । ( मनु आदि महर्षिगण ) उस वाणी को दैवी ( देव - सम्बन्धिनी ) वाणी कहते हैं ॥ १०३ ॥

शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः ।

तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ १०४ ॥

भाष्य — तत्र नानृतं वदेदिति यः प्रतिषेधस्तस्याशूद्रादिविषयताऽनेनोच्यते, न पुनरनृतवदनं विधीयते । तथा सति प्रतिषेधेनैकवाक्यता बाध्येत । का पुनरत्र निमित्तश्रुतिः तत्रंति । तस्य वधविशेषणत्वान्न वधः । तस्यासतो निमित्तत्वानुपपत्तेः । अतश्च कृते पश्चात्तद्विषयमतद्विषयं वाऽनृतं वक्तव्यमित्यर्थ आपतति । तत्त्वनिष्टम् ।

पृष्ठ 210

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७४ मनुस्मृतिः [ अष्टमः ननु च यत्रेति व्यवहारस्तु निर्दिश्यते पुनस्तत्रेति तदेव प्रतिनिर्दिश्यते । ततश्च यस्मिन् व्यवहारे पराजिताः सन्तो वधार्हा भवन्ति तस्य नानुपपन्नो निमित्तभावः । अत्र वदन्ति । न चात्र वधार्हेष्वनृतमिष्यते यतोऽनिष्टं पापीयसो जीवनमिति । यस्त्ववधार्हानवकाशान्न पुरदास्यादिस्खलितादनुहतदडताख्यापनाय वा जनैः स्वल्पा-पराधात् न घातयित्वोपपत्ति राजसत्वात् क्रोधस्य दण्डस्य चाशास्त्रीयत्वादस्थितपरि-माणतया निश्चयाभावो न तस्यापि निमित्तत्वोपपत्तिः । अतः प्रतिषेधशेषतैव न्याय्या । गौतमीये त्वनृतविध्याशङ्काऽपि नास्ति । " नानृतवदने दोषो जीवनं चेत्तदधीनम् " इत्येव-मादिप्रतिषेधे सत्यानृतयोः कामचारप्रसङ्गे सत्यवचनेन निमित्तभावः प्रतिपद्यमानो ‘ न हिंस्यात्सर्वभूतानीति ' प्रतिषेधव्यतिक्रमतया चानृतं प्रतिपद्यत इति युक्तिमत्वेनेदं कृतम् । न चेदसौ पृष्ट आचष्टे न पुनर्हन्ति, अघ्नंश्च कथं हिंसादोषेणानुषज्यते । अथ सत्यपि स्वातन्त्र्ये तद्वचनेन राज्ञा हन्यमानत्वात्तद्धेतुभावापत्त्या प्रयोजककर्तृ-त्वमिति चेत् न । सर्वो हेतुः प्रयोजक: - धनेन कुलं, विद्यया यश इति, भवति विद्या यशसो हेतुर्न प्रयोक्त्री । न चान्य एवायं लौकिकफलोत्पत्तियोग्यता हेतुलक्षणे हेतुभावः, अपि तु द्रव्यगुणाः । अत्रापि क्रिया श्रूयते ' अग्निना पाक इति ' साऽपि स्वरूपेण सिद्ध-रूपाभिधानात्कृदन्तैर्भावस्य । अन्यश्चायं शास्त्रीयः कर्तृव्यापारस्य प्रयोजको हेतुर्न तु तत्प्रयोजकत्वमेवमित्यर्थम् । यदि तावत्प्रेषणाध्येषणे आज्ञाप्रार्थनारूपे प्रयोजकत्वं साधयेते व्रीहीनातप इत्यादावचेतनेषु णिजुत्पत्तिर्दुर्लभा । ननु च परिहृतमेतद्व्याख्यातृभिः मुख्योपचरितक्रिय इति चेतनावद्वस्तूपचारे ‘ भिक्षा वासयति ’ ‘ कारीषोऽध्यापयतीति ' । न ह्यत्र चैतन्यकृत उपकारः, अपि तु निश्चितत्वात्त-दन्यस्य प्रयोजकस्य । अध्ययनं ह्याचार्यकरणविधिप्रयुक्तं कुर्वाणस्य माणवकस्य शीतादि-लक्षणं प्रतिबन्धकमनुवदति । कारीषे प्रयोजकत्वाध्यारोपः । प्रेरकत्वाद्धि प्रयोजकमु-च्यते । तच्चाचैतन्यस्य वायुजलादेरग्निकाष्ठादौ सुतरां दृश्यते । तदा विधिप्रयोकस्तुति-प्रयोक्तृभिः प्रेषणाद्यभावाद्गौणार्थाः शब्दाः स्युः । अथैतत्स्थमर्थाचरणं प्रयोजकत्वं तच्च प्रयोजकस्य व्यापारानुगुणं प्रेषणादिव्यतिरिक्तक्रियान्तरावरणं संविधानाख्यम् । संविद-धान एव हि कारयतीत्युच्यते । यथा बुभुक्षमाणस्य कश्चित्पात्रमाहरत्यन्यो भक्तमुप-नयति । कस्यचिद्वधप्रवृत्तस्य कश्चिदायुधमर्पयत्यन्यो वध्यदोषाविष्करणेन मन्युमुपदी-पयति । एवंलक्षणः प्रेषित्रादिरूपरहितः सव्यापारः प्रयोज्यफलसिद्धावानुकूल्यं प्रतिपद्य-मानस्तत्समर्थाचरणपक्षे प्रयोजकः । अस्मिन् पक्षे कारीषोपाध्यायौ तुल्यौ प्राप्नुतः । अत्रापि यमन्तरेण क्रियाया अनिवृत्तिर्यस्य च कारकविशेषसंज्ञा न प्रवर्तेत स