मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 211–220
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १७५ मुख्यः प्रयोजकः कर्त्ता । अव्यापयितारं चान्तरेण कारीषी न शक्नोत्यध्ययनहेतुभावं प्रतिपत्तुम् । आचार्यस्तु तमन्तरेणापि शक्त एवेति गौण: कारीषः । यत्र च करणादिभावो निश्चितो हेतुमत्प्रत्ययदर्शनातत्रापि गौणार्थतैव यथा कश्चित्स्वल्पेनापि प्रयोजनेन दूरं ग्रामं पुनः पुनर्गतवन्तं दृष्ट्वा व्रवीति ' अश्वो गमयति देवदत्तम् ' इति । यत्र तु न कस्यचिदा-सत्तिविप्रकर्षावन्तरङ्गबहिरङ्गभावो वा गम्यते तत्र यावन्तस्तदानुकूल्यं प्रतिपद्यन्ते सर्वे ते प्रयोजकाः । ननु च कारकसंज्ञायामन्तरङ्गयोगो नास्तीति को विशेष: कारीषोपाध्याययोः । स्वप्रक्रियैव सा तत्र भवताम् । न वस्त्वाश्रया । वस्त्वाश्रयौ च विधिप्रतिषेधौ । इदमपि तत्र पठ्यते — विवक्षातः कारकाणि भवन्तीति । एवं च सति यत्राकर्तुरेव कर्तृत्वं कश्चिद्विवक्षेत्तत्र कर्तृप्रत्ययविधिप्रतिषेधावपि स्याताम् । यथा पातकपरिगणनायामनुपठति “ क्रयविक्रयी संस्कर्त्ता चोपहर्ता चेति " । तस्मादन्वाख्यानसिद्ध्यर्था तावकी सा व्यवस्था न वस्त्वधिष्ठानमर्थमवस्कन्दति । अत एव व्याख्यातृभिरुक्तं — समर्थाचरणं चेद्धेतुः हेतुमात्रे प्रसङ्गः । ततश्च योऽपि कस्मैचिद्भोजनं ददाति स चौदरिकतयाऽतिसौहित्येन व्यापद्येत प्राप्तं तत्र दातुर्वधकर्तृत्वमिति । न च तत्प्रयुक्तं भवति । क्रियान्तरेण ह्यसौ निश्चितो भोजनाख्यप्रयोजको न वधो न वेर्ष्यादि कथञ्चिन्निमित्तं भवति । भवतु वा तन्निमित्तम्, प्रयोजकत्वाभावात्तु कर्तृत्वं नास्तीति ब्रूमः । अस्य तु भूमिसुवर्णापहा-रादिनाऽपराध्येत स च तदपहारमन्युना कथञ्चिन्म्रियेत किं तत्रापहर्तुरपहारदोष एवोत वधेऽपिनिमित्तिभाव इति चिन्त्यम् । किमत्र चिन्त्यते? अव्यभिचारावगम्यत्वाद्धेतुहेतुमद्भावस्य न खङ्गप्रहारभोजन-विच्छेदादेरिव भूम्यादिहरणस्य नियतनिमित्तत्वोपपत्तिः । कोऽयं नियमोऽभिप्रेतः? यदि ह वा केचिन्प्रियन्ते केचिन्नेत्यनियतो नियमो भवति । पुरुषस्वभावभेदात् तदेवौषधं श्लेष्मिकाय हितं विपरीतमन्यस्येति सर्वेषामेव च भावना-देशकालस्वभावभेदसहकारिसापेक्षः शक्त्यन्तरप्रादुर्भावः । तदेव लक्षणं पुरुषवित्त-संततिसापेक्षं पिपासाहेतुप्राण्यन्तरसापेक्षं तद्विच्छेदहेतुरिति । एवमत्यन्तामर्षिणो मन्यु-मतः स्वहरणपरिभवादि मरणाय कल्पते । किं तत्र शक्यो निमित्तभावोऽपह्वोतुम्? पेशलमानसस्य तूपेक्षैव तत्र । ये पुनर्मन्युपरीता अनशनश्वभ्रपतनविषभक्षणादिनाऽपरा-द्धारमुद्दिश्य म्रियेरंस्तत्राप्येष एव न्यायः । ननु चान्यस्यैव प्रसिद्धहेतुभावस्य विषभक्षणादेर्निमित्तस्य तत्र दर्शनान्न भूम्यादि-हरणस्यापराधो हन्तृत्वमाप्नुयात् । तेनोपजनितमन्युर्मरणहेतौ प्रवर्तत इति पारम्पर्यतौ निमित्तत्वमिति चेत् । एवं सति पथ्योपदेशेनापि केचिदुद्विजमाना आत्मानं व्यापादयन्ति,
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
१७६ मनुस्मृतिः [ अष्टमः ततश्च तत्रोपदेष्टारो हन्तारः स्युः । तथा मत्सरिणः परद्रव्येष्वीर्ष्यया शुष्यन्ता धनिषु दोषमाददीरन् । तथाऽन्ये मूढमनसः प्रियान्पुत्रान्स्वामिनश्चानुम्रियन्ते, तत्र प्रियादीनां हन्तृतापत्ति: । अपरे च रूपवत्स्त्रीदर्शनेन परिफल्गुमनसोऽसूयन्ते भज्यमानहृदयाश्च विवेकशून्यात्मानस्तत्र शीलवत्यः स्त्रियो दुष्येयुः । तदेवेदमापतितं मृतस्य ब्रह्महत्येति । सत्यमेवं यदि विधिप्रतिषेधविशेषो न स्यात् । विहितो हितोपदेशः प्रतिषिद्धं स्वहरणादि । तथा चाहु: -“ उपकारप्रवृत्तानां कथञ्चिच्चेद्विपर्ययः । न तत्र दोषः केषाञ्चिद्भेषजामौषधी यथा ॥ ” यत्र न केवलं वैद्यादेरातुरोपकारार्थिनः प्रयुक्तौषधस्य कथञ्चिद्विपरीततयोपपत्ता-वदोषः – किंतर्ह्यन्यस्यापि गवादेर्महति पङ्के निमग्नस्योद्धर्तृभुजाकर्षणाय यथाश्रमेण यदि व्यापत्तिर्न तत्रोद्धर्त्ता दुष्येदिति कथितं भवति । एवं सर्वत्र । योऽपि कस्मिंश्चित्स्वव्यापारानुष्ठानवति धनरूपातिशयसम्पद्वति दृश्यमाने दन्दह्यते न तं प्रति कस्यचिच्छास्त्रार्थातिक्रमः । निश्चितो हि निमित्तभावः प्रतिषेधस्य विषयो भवितुमर्हति । न च प्राण्यन्तराश्रयिषु चैतसिकेषु धर्मेषु प्रतिक्षणमन्यथाभवत्सु स्वभाव-विशेषावसायः । न हि शक्यमवसादितुमयमस्या रूपसम्पदा व्यापद्यत इति । न च निश्चिते प्रतिषेधविषये सम्भवत्यनिश्चितविषयता न्याय्या । अत्र तर्हि कथञ्चिद्वर्णविपर्ययशरीरशोषणादिना कुतार्किकपरीता स्यादपि निमित्ताव-गतिस्तत्र किं भ्रंशयितुं शीलं संयुज्यतां कामिना, भवतु वा पुरुषघातिनीति । नैतदेवम् । न हीदृशी भवन्त्यपि निमित्तता प्रतिषेधस्य विषयः, विध्यन्तरविरोधात् । अस्ति ह्यत्र व्यभिचारप्रतिषेधविधिः । न वाऽपि विध्यन्तरेणानवष्टब्धे विषये कृता-वकाशा विधयो विरोधविध्यन्तरं विषयमास्कंदितुमर्हन्ति । येऽपि मन्यन्ते रागलक्षणां प्रवृत्तिं शीलसंरक्षणोपदेशो निषेधति न शास्त्रलक्षणां तेन महानुभावतया मास्य तप-स्विनो जीवितमुच्छेत्सीदिति प्राणोज्जिहीर्षया मुमूर्षुणा सम्प्रयुज्यते नासौ व्यभिचारप्रति-षेधमतिक्रामेत् । यत्तु विध्यन्तरविषये न विध्यन्तरं प्रवर्तत इति नैवायं विध्यन्तरस्य विषयो रागलक्षणत्वात् । ननु च प्रवृत्तावपि नैव शास्त्रमस्ति नियोगविधाविव व्यभिचारानुज्ञानस्मृत्यभावात् । अथाप्रवृत्तौ कामयेत मारणमिति प्रतिषेधभयात्प्रवर्तते सोऽपि प्रतिषेधो रागलक्षणामेव हिंसां प्रतिषेधयति । न चासौ रागतो न प्रवर्ततेऽपि तु प्रतिषेधभयात् । या तु परोपकारत: प्रवृत्तिः सोऽपि प्रतिषेधविषयपरिहारेण । योऽपि किंचिद्याचेदयमहमात्मानं हन्मीति हन्यान्न तत्राप्रयच्छतो घातकत्वं व्यवहारोच्छेदप्रसङ्गात् ॥ १०४ ॥।
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १७७ हिन्दी — जहाँ सत्य कहने पर शूद्र, वैश्य, क्षत्रिय या ब्राह्मण को प्राणदण्ड ( फाँसी ) होवे; वहाँ असत्य कहना ( गवाही देना ) चाहिए, क्योंकि वह ( असत्य कहना सत्य कहने से श्रेष्ठ है ॥ ' १०४ ॥ विमर्श — प्रमादादि के कारण शूदादि से अपराध हो जाने पर साक्षी को सत्य बात हुए भी असत्य कहकर उस प्रमादापराधी की प्राणरक्षा करनी चाहिए, किन्तु ऐसे असत्य बोलने पर दोष तो लगता ही है अतएव उसके निवारणार्थ अग्रिम ( ८।१०५ )
श्लोकोक्त प्रायश्चित्त कहा गया है, द्वेषवश जान - बूझकर अपराध करनेवाले की प्राणरक्षा
के लिए अपराध को जानते हुए झूठ नहीं बोलता चाहिए । यद्यपि वक्ष्यमाण ' न जातु
ब्राह्मणं हन्यात् ' ( ८।३८० ) वचन के द्वारा ब्राह्मण को प्राणदण्ड देने का निषेध होने पर उसके वध की सम्भावना नहीं है, तथापि बड़ा अपराध होने पर कठिन दण्ड देना सम्भव है, अतः इस श्लोक में ' ब्राह्मण के वध उपस्थित होने पर असत्य साक्ष्य देकर उसकी प्राणरक्षा का आदेश किया गया है । वध का अमङ्गल होने से ' वर्णानामानुपूर्व्येण ' ' वार्त्तिक से ब्राह्मणादि क्रम से ' विप्रक्षत्रविट्शूद्राणां ' कहना उचित था; किन्तु वध कार्य के अमङ्गल होने से शूद्रादि प्रतिकूल वर्णक्रम से कहा गया है ।
उक्त असत्य बोलने पर प्रायश्चित्त-वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् ।
अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ १०५ ॥
भाष्य – वाक् चासौ देवता च सा वाग्देवता । तदर्थं च चरवो वाग्दैवत्याः । तण्डुलः नातिपक्वाश्चरवः । तैर्यजेरन्निति बहुवचननिर्देशात् चरुभिरिति बहुवचनम् । न पुनरेकैकशो बहवश्चरवो नापि संहतानां व्रात्यस्तोमवद्यागो ' देवश्चेद्वर्षेद्वहवो ब्राह्मणा यजेरन्निति, तद्बहुवचनम्, नतु कपिञ्जलैश्च त्रिभिर्यजेरन्नितिवत् । तदेतद्ब्राह्मणाद्यनुग्रहार्थमनृतमुक्तं भवति । अनृतमेवैनः पापमसत्याभिधान-लक्षणा क्रिया । यथा धर्मक्रियावत एवं समानाधिकरणे षष्ठी । येषां तु क्रियाजन्यौ धर्माधर्मौ न क्रियैव - तन्मतेऽनृतस्य यदेन इति वैय्यधिकरण्येऽनृतनिमित्तत्त्वादेनो-ऽनृतम्, उपचारत: समानाधिकरणे एव । तस्य निष्कृतिः शोधनं पावनं प्रायश्चित्तमिति यावत् । परा प्रकृष्टा । ननु च कुतोऽत्र पापम् — यावताऽस्मिन्निमित्तेनानृतवचने दोष इत्युक्तम् । केचिदाहुः “ निवृत्तिस्तु महाफलेति ” । अस्माच्छास्त्रात्तु यावज्जीवमनृतं मया न वक्तव्यमिति येन संकल्पि तस्य मिथ्यासंकल्पदोषो मा भूदिति प्रायश्चित्तमुच्यते । गेहदाह-वधप्रतिषेधेऽपि नैमित्तिकं विधानम् । एनसो निष्कृतिमित्यर्थवादः । कथं तर्हि वाग्दैवत्यैः सरस्वतीं यजेरन् । यदि वाग्देवता सरस्वती कथमिज्यते ।
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
१७८ मनुस्मृतिः [ अष्टमः अथ तगक्सरस्वत्योरेकत्वेनैवं देवताभावे शब्दावगम्यरूपत्वाद्देवताया भिन्नौ चैतौ वाक्-सरस्वतीशब्दौ । यथाऽग्नये जुहोतीति चोदितेन ज्वलनाय कृशानवे वा स्वाहेति हूयते, वायवे निरूप्य जुहुयाद्वायुर्वै प्राण इत्युक्तेऽपि न प्राणायेति हूयते । सत्यम् । वागेव देवता,। सामानाधिकरण्याद्देवतार्थे तद्धितः । न सरस्वतीमिति द्वितीयानिर्देश्या देवता । कर्मणि हि द्वितीया । सम्प्रदानं च देवता न कर्म । कथं तर्हि सरस्वतीपदान्वयः । अर्थवादोऽयम् । अग्नये जुहोत्यग्निर्वै सर्वा देवता इति । वागेव सरस्वती– तयेष्टया साऽपोष्टा भवति । यागेन देवताऽवगम्यते । कथम् । अग्निर्यष्टव्यः प्रजा - पति-र्यष्टव्यस्तथाग्निं यजति यदग्निं यजतीत्यादि केचिदाहुः । देवताः स्वतस्तत्र तत्र पूज्यन्ते । दैवतपूजावचनोऽत्र यजिः । पूजा च पूज्यमानकर्मिका । तत्र युक्ता द्वितीया । तथा च देवता पूजनीयेत्यादि स्मर्यते । एतच्च न युक्तम् । अस्मिन् हि पक्षे देवतात्वमन्यतोमृग्यम् । तत्र यागसम्प्रदानं देवतेति स्मरणविरोध: । एषा च स्मृतिर्बलीयसी । निरपेक्षत्वात् । पूर्वा देवता उद्देश्या ध्येया च । यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेदिति तत्क्रियाकर्मत्वात्कर्म-ण्येषा द्वितीया ॥ १०५ ॥
हिन्दी — उस असत्य का निवारण करते हुए वे ( असत्य कहनेवाले साक्षी ) चरुओं से वाणी है देवता जिसकी ऐसा सरस्वती का याग करें ॥ १०५ ॥
कूष्माण्डैर्वाऽपि जुहुयाद्घृतमग्नौ यथाविधि ।
उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ १०६ ॥
भाष्य — कूष्माण्डा नाम मन्त्रा यजुर्वेदे पठ्यन्ते तैर्घृतमग्नौ जुहुयात् । जुहोतिश्च देवतामुद्दिश्य द्रव्यस्य त्यागः । आघारविशेषणे तत्रेहाग्नावित्यधिकरणनिर्देशान्मांत्रवर्णिकी देवता वेदितव्या । येषु च मन्त्रेषु देवताविशेषलिङ्गं न दृश्यते — यथा ‘ देवकृतस्यैन-सोवयजनमसि ' इत्यादिषु — तत्र प्रजापतिर्देवतेति याज्ञिकाः । अथवा यस्यान्यत्र देवतात्वं दृष्टं सह सम्बन्धि यावत् । तथा च निरुक्तकारा: ' अपि वा सा कामदेवता स्यादिति ' । यद्यपि याऽन्यस्य हविषो देवता साऽन्यस्य च कदाचित् तथाऽपि यजति श्रूयते द्रव्यं मन्त्राश्च तेऽत्रासत्यां देवतायां जुहोतीति रूपं तदुत्तरेण जुहुयादिति व्याख्येयम् । तच्चा-युक्तम् । तथाभिधारयेदिति वक्तव्यं स्यात् । वयं तु ब्रूमो ‘ देवकृतस्यैनसोवयजनमसि ’ इत्यत्र कर्मैवावयजनमेवावयाजनमित्युच्यते । अतस्तद्देवता । सर्वत्र च मन्त्राभिधेयं वस्त्व-स्त्विति न देवतायां मन्त्रवर्णाभावः । उदित्यृचा वा वारुण्येति । उदुत्तमं वरुणपाशमस्मत् इति ( ऋग्वेद १।२४।१५ )
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १७ ९ एषा ऋक् वरुणदेवता उदिति प्रतीकेन लक्ष्यते । वारुणीग्रहणं चान्यस्या ' उ त्वा मदंतु स्तोमा ' ( ऋग्वेद ८।६४।१ ) इत्युच्छब्दप्रतीकाया निवृत्त्यर्थम् । तृचेताब्दैवतेन चेति | देवतैव दैवतम्, आपो दैवतम् अस्य त्र्यृचस्य तेन— ‘ आपो हिष्ठा ’ इत्यादिना ( ऋग्वेद १०।९ ।१ ) । अतश्चैकैकया एकैकाहुतिः प्रत्येक-शब्दवत्, समस्तेन च समुदायाहुतिरेकेति । घृतमग्नाविति सर्वत्रानुषङ्गः । यथाविधि । यादृशः शिष्टसमाचार इत्यर्थः । तेन च हविषः सत्वादप्राप्ताया-मितिकर्तव्यताया परिसमूहनपर्युक्षणावेक्षणस्रुवहोमाद्येतावन्मात्रमनुजानाति । वाशब्दाद्वैकल्पिकाः सर्व एव ॥ १०६ ॥
हिन्दी – अथवा ( उक्त असत्य कहनेवाला साक्षी उक्त दोष के निवारणार्थ ) कूष्माण्ड ( यद्देवा देवहेडनम् यजु ० २० । १४ ) मन्त्रों से, या वरुण देवता को ( वरुण हैं देवता जिसका ऐसे ) ‘ उदुत्तमं वरुणपाशम् ( यजु ० १२।२ ) ' मन्त्र से अथवा जल है देवता जिसका ऐसे ' आपो हि ष्ठा मयो भुवः ' ( यजु ० १२।५० ) ' मंत्र से विधिपूर्वक ( स्वगृह्येोक्त परिस्तरणादि के साथ ) अग्नि में हवन करे ॥ १०६ ॥
तीन पक्ष तक साक्षी के साक्ष्य नहीं देने पर पराजय-त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः ॥ १०७ ॥
भाष्य – पञ्चदशाहोरात्राणि पक्षः । त्रयाणां पक्षणां समाहारः त्रिपक्षम् । ‘ अकारान्तोत्तरपदो द्विगुः ' इति ( वार्तिक २।४।१७ ) स्त्रीत्वे प्राप्ते पात्रादिदर्शनात्-प्रतिषेधः । यद्येवं त्रिपक्षीति न प्राप्नोति । छान्दसस्तत्र लिङ्गव्यत्ययः । ल्यब्लोपे कर्मणि पञ्चमी । त्रीन्पक्षान्यावदतीत्य यः साक्ष्यं न ददाति । अगदोऽ-पीडितशरीरस्तगुणं प्राप्नुयादित्यर्थः । दशबन्धं च । दशमं च भागं दण्डनीयस्तस्मादृणात् । ऋणादिषु इत्यादिग्रहणेन सर्वव्यवहारोपक्रमः । द्वितीयमृणग्रहणमुपलक्षणार्थम् । यस्मिन्व्यवहारे साक्ष्यमियन्तं कालं न भवति पराजीयमानस्य साक्षिणी बोढारइत्युक्तं भवति । गदो रोगः तत्समानप्रत्युत्थानहेतूपलक्षणार्थम् । तेनात्र कुटुम्बोपद्रवधनिकोपरोधा-द्यपि परीक्ष्यम् ।
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
१८० मनुस्मृतिः बन्धशब्दः सङ्ख्यादिपरो दण्डविषये दशमांशवचनः । नरग्रहणं सर्वतोग्रहणं च श्लोकपूरणार्थम् । [ अष्टमः
अन्ये त्वाहुस्तद्वृणं प्राप्नुयादित्यस्यायमर्थः - ऋणापहरणलक्षणेन पापेन युज्येत ।
राज्ञे वा जीयमानस्य यो दण्डस्ततो दशममंशं दद्यादिति दण्डितः पुनः दंड्यते ॥१०७ ॥
हिन्दी – यदि स्वच्छ रहता हुआ भी साक्षी तीन पक्ष ( डेढ़ मास ) तक ऋण के मुकदमे में साक्ष्य गवाही न दे तो ऋणी मनुष्य ऋणदाता ( महाजन ) को सब लिया हुआ धन देवे तथा राजा को दण्डस्वरूप उक्त ऋणद्रव्य का दसवाँ भाग देवे ॥ १०७ ॥
विमर्श - यहाँ तीन पक्ष से तीन तारीखों अर्थात् पेशियों को समझना चाहिए ।
साक्षी के यहाँ आपत्ति आने पर -यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः ।
रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥ १०८ ॥
भाष्य – सप्ताहादिति पञ्चमीदर्शनादर्वागित्यध्याह्रियते । सप्तानां दिवसानाम-न्यतमस्मिन्नहनि यस्य साक्षिणा रोगादि दृश्यते स मृषावादी दैवेन विभावितः पूर्वोक्तेन विधिना दापयितव्यः । रोगोऽत्यन्तपीडाकरः, अग्निर्गोवाहनदहनः, पुत्रदारादिप्रत्या-सन्नज्ञातिमरणं, तस्य कूटसाक्षित्वे लिङ्गम् ॥। १०८ ॥ हिन्दी — गवाही देनेवाले गवाह के यहाँ ( गवाही देने के बाद ) एक सप्ताह में रोग; आग लगना अथवा बान्धवों ( पुत्रादि निकट सम्बन्धियों ) का मरण हो जाय तो ऋणी महाजन को सब धन देवे तथा राजा को दण्ड स्वरूप ( ऋणद्रव्य का दशांश धन ) देवे ॥१०८ ॥
साक्षी के अभाव में शपथ से निर्णय-असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः ।
अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ १० ९ ॥
भाष्य — अविद्यमानाः साक्षिणो येष्वर्थेषु व्यवहारेषु तेऽसाक्षिकाः । तेषु सत्यम-जानानो राजा तत्त्वतो लौकिकेनानुमानेनापीत्यर्थः । तत्र शपथेनापि वक्ष्यमाणेन दैवेना-नुमानेन लम्भयेत् जानीयात् । लभिः प्राप्तिवचनोऽपि सामर्थ्याज्जानात्यर्थः । न ह्यन्य: सत्यस्य ‘ लाभ: ’ । ‘ न विन्दन् ' इति पाठेऽप्येवमेव व्याख्येयम् । ‘ असाक्षिकेषु शपथेन लम्भयेत् ' इत्येतावद्विध्युद्देशवाक्यावसानात् श्लोकपूरणार्थम् मिथः– परस्परम् ॥१० ९ ॥ हिन्दी — बिना साक्षी वाले मुकदमों में परस्पर विवाद करते हुए वादी तथा प्रतिवादी ( मुद्दई तथा मुद्दालह ) से ठीक - ठीक सच्चाई नहीं मालूम पड़ने पर राजा ( न्यायाधीश ) को करे ॥१० ९ ॥ शपथ करके सच्चाई • मालूम
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता शपथ द्वारा निर्णय करने में सहेतुक दृष्टान्त—
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः ।
वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ ११० ॥
१८१ भाष्य — अर्थवादोऽयं पूर्वोक्तस्य शपथविधेः । महर्षिभिः सप्तर्षिप्रभृतिभिः कार्यार्थं संदिग्धकार्यनिर्णयार्थं शपथाः कृताः । अस्मिन्नर्थे च भगवतः कृष्णद्वैपायन-स्याख्यानमुदाहर्तव्यम् । पुष्करेषु तेष्वपहारितेष्वितरेतरं सप्तर्षयः शेपिरे ' यस्ते हरति पुष्करं स इमां पापकृतो गतिं गच्छेत् ' इत्यादि । देवैरिन्द्रप्रभृतिभिः । इन्द्रो ह्यहिल्यां प्रत्यभिशप्तः शापभयाद्बहुविधं शपथं चकार । वसिष्ठश्चेति पृथङ् निर्देशः प्राधान्य-ख्यापनार्थः । शपथं कृतवानित्यर्थः । उपपदादेव विशेषावगतेः शपतिः करोत्यर्थमात्रे वर्तते । यथा ‘ यज्ञं यजत ’ इति ' स्वपोषं पुष्ट ' इति तथा ' शपथं शेप ' इति ज्ञेयम् । ' शप उपलम्भने ' इति लिटि प्रथमपुरुषात्मनेपदैकवचने शेपे इति रूपम् । पैजवनो राजा बभूव । तस्मिन्काले विश्वामित्रेणाक्रुष्टो मण्डलमध्यगतः काम-क्रोधाभ्यां संक्षुब्धाचरणोऽघासुरो यातुधानोऽस्मीति शपथं गृहीतवान् । विश्वामित्रेणोक्त-स्तस्य राज्ञः समक्षमनेनैव तत्पुत्रशतमशितमेष हि रक्ष इति । ततः स उवाच । अद्यैव म्रिये यदि रक्षः स्यामित्यात्मन्यनिष्टाशंसनमत्र शपथः । पुत्रदारादिशिरःस्पर्शने एतद-निष्टाशंसनं शपथो मन्तव्यः ॥११० ॥
हिन्दी – महर्षियों तथा देवों ने सन्दिग्ध कार्य के निर्णायक शपथ को बनाया ( ' इस वसिष्ठ मुनि ने सौ पुत्रों को भक्षण किया है ' ऐसा विश्वामित्र के कहने पर वसिष्ठ ने अपने को निर्दोष बताने के लिए ) पैजवन ( पिजवन के पुत्र ) ' सुदास् ' नामक राजा के यहाँ शपथ किया था ॥११० ॥
असत्य शपथ में द्वेष-न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ।
वृथा हि शपथं कुर्वन् प्रेत्य चेह न नश्यति ॥ १११ ॥
भाष्य — मिथ्याशपथे फलाख्यानमेतत् । वृथाऽन्यथाऽसत्यमिति यावत् । तत्रा-पह्रियमाणसुवर्णादिद्रव्यजात्यपेक्षोऽनृतशपथदोषोऽन्यथाशपथे स्वल्पे । गरीयसि तु कार्ये गौरवादधिकतरो दोषोऽस्त्येव 1 । प्रेत्य नाशो नरकम्, इह महदयशः । प्रमाणान्तरैस्त ज्ञाते राजदण्डः ॥१११ ॥
हिन्दी — विद्वान् ( समझदार ) मनुष्य छोटे काम के लिए भी असत्य शपथ न करे; क्योंकि असत्य शपथ लेता हुआ मनुष्य परलोक में ( मरकर नरक पाने से ) तथा इस लोक में भी ( अपयश बदनामी पाने से ) नष्ट होता है ॥१११ ॥
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
१८२ मनुस्मृतिः
असत्य शपथ का प्रतिप्रसव-कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ११२ ॥
[ अष्टमः भाष्य — कामः प्रीतिविशेषो विशिष्टेन्द्रियस्पर्शजन्य:, स यासु भवति पुरुषस्य ताः कामिन्यो भार्यावेश्यादयः । तत्र यः शपथः । कामसिद्ध्यर्थो यथा ' नाहमन्यां कामये प्राणेश्वरी मे त्व'मित्याद्यः । यस्तु ' संप्रयुज्यस्व मया ' ' इदं त्वया देयं ’ ‘ दास्य ' इति— तत्र भवत्येव दोष: । शपथे - विषयसप्तमी चेयं न निमित्तसप्तमी । तेन यस्यामेवैका-किन्यां यथाप्यते तत्रोक्तरूपशपथे न दोषः । निमित्तसप्तम्यां तु निमित्ते परद्रव्यापहारे दोष: स्यात् । अतश्च “ कामाद्दशगुणं पूर्वम् ' ( ८।१२१ ) इत्यादिकं दण्डविधानं न युज्यते । तथापि निमित्तानन्तरकृते विवादेऽस्त्येव वृथाशपथदोषः । एवं सर्वत्र । विवाहेषु । न त्वयाऽन्या वोढव्या न वाऽन्यो वोढव्य इति अन्यस्यापि सुहृदा-देर्विवाहार्थमेवंविधमनृतमदोषः । न पुनर्जात्यपह्नवादौ ॥ गवां भक्ष्ये । गवां यवससिद्ध्यर्थं मयाऽपहर्तव्यं — न मयाऽपहृतं परस्य चातत्सम्बन्धिभिरभिक्तस्य वृथासाक्ष्ये शपमानस्य न दोषः । एवमिन्धने । ब्राह्मणानामभ्युपपत्तिरनुग्रहः । सर्ववर्णानुग्रहेऽनुज्ञातमेव । किमिह पुनर्वचनेन । केचिदाहुः – शपथो ब्राह्मणेऽनुज्ञायते, शूद्रादिषु त्वनृतमेव । एतच्च ‘ तद्धि सत्याद्वि-शिष्यते ' इति ( ८।१०४ ) वचनान्नैतदनृतम् । अतो न भवति प्रतिषेधो ह्यसौ । वृथा-शपथस्य पूर्वेण प्रतिषिद्धस्य प्रतिप्रसवशास्त्रमेतत् । तस्मात्सर्ववर्णानुग्रहे शपमानस्य न दोषः । किमर्थं तर्हीदमुच्यते । तत्र वधात्परित्राणमुक्तं सर्ववर्णविषयम् । अभ्युपपत्तिस्तु ब्राह्मणस्यैव । सा हि धनलाभादिना सम्भवति । सर्वतश्च परसम्बन्धिनीषु क्रियास्वेवं-विधासु शपथाभ्यनुज्ञानमुपायान्तरेण तत्सिद्ध्यसम्भव एव द्रष्टव्यम् ॥११२ ॥
हिन्दी — कामिनी के विषय में ( अनेक अपनी स्त्रियों के रहने पर ‘ मैं तुमसे ही बहुत प्रेम करता हूँ दूसरी से नहीं ' ऐसा शपथकर रति आदि करने के विषय में ), विवाहों में ( मैं दूसरी स्त्री के साथ विवाह नहीं करूंगा ऐसा, अथवा — कन्यादि के विवाह के विषय में अर्थात् बहुत गुणवती एवं सुन्दरी है ' इत्यादि कहकर कन्या के विवाह कराने में ), गौओं के भूसा - घास आदि के विषय में, होम के लिए लकड़ी लेने के विषय में तथा ब्राह्मणरक्षार्थ स्वीकृत धनादि के विषय में असत्य शपथ करने में पाप नहीं होता है ॥११२ ॥
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
ब्राह्मणादि से सत्यादि का शपथ-सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ११३ ॥
१८३ भाष्य — ननु च यद्यमहमेवं कुर्यां तदिदमनिष्टमाप्नुयामिति संकीर्तनक्रिया शपथः, तं यः कारयेत्स शापयेदित्युच्यते । ' सत्येन शपे ' सत्यादिनिबन्धनोऽयं ' धर्मो वा मे निष्फलः स्यादिति ' । एवं चायुधानामपि करणत्वं वाहनानां च । एतैरात्मानं शपेत्— ‘ एतानि निष्फलानि स्युरिति ' । गोबीजकाञ्चनानि वैश्यो हस्तेन स्पर्शयित्वाऽभिशपेदेतानि वा मे निष्फलानि पूर्ववत् । शूद्रं सर्वैस्तु पातकैः । वक्ष्यमाणानि पातकानि मे स्युरिति शूद्रो वाच्यते ॥ ११३ ॥।
हिन्दी- ब्राह्मण को सत्य की, क्षत्रिय को वाहन ( हाथी, घोड़ा आदि ) तथा शस्त्र -की, वैश्यों को गौ, व्यापार तथा सुवर्ण आदि धन की और शूद्र को सब पापों की शपथ करावे ॥११३ ॥
विमर्श – न्यायाधीश शपथ कराते समय ब्राह्मण से ' यदि मैं असत्य शपथ करूँ तो मेरे अब तक किये गये सम्पूर्ण सत्यभाषण से उत्पन्न पुण्य नष्ट हो जाँय ' ऐसा कहलाकर; क्षत्रिय से ' यदि मैं असत्य शपथ करूँ तो मेरे वाहन मर जाँय तथा हथियार निष्क्रिय हो जाँय ' ऐसा कहलाकर, वैश्य से ' यदि मैं असत्य शपथ करूँ तो मेरे गौ आदि पशु, बीज अर्थात् खेती तथा सुवर्णादि धन नष्ट हो जाँय ' ऐसा कहलाकर और शूद्र से ‘ यदि मैं असत्य शपथ करूँ तो मुझे सब पाप लगे ' ऐसा कहलाकर शपथ करावे । कार्यापेक्षा से शूद्रादि से शपथ—
अग्निं वाऽऽहारयेदेनमप्सु चैनं निमज्जयेत् ।
पुत्रदारस्य वाऽप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ११४ ॥
भाष्य – अग्निमाहारयेदेनं हस्तेनाश्वत्थपर्णव्यवहितेन तयोः प्रदेशान्तरं सप्त-पदसंहितमित्यादि स्मृत्यन्तरान्निपुणतोऽन्वेष्यम् । पारम्पर्यप्रसिद्धेश्चैतदेवोच्यते अप्सु जले निमज्जयेत् प्राड्विवाक इत्यर्थः । पुत्रदारशिरांसि स्पर्शयेत् । पुत्रस्य दारस्य शिरः स्पर्शयेत् — हस्तेन, शपथा-धिकाराद्वाचाऽपि, शपथस्यैवंरूपत्वादित्युक्तम् । पृथगेकैकस्य ॥ ११४ ॥
हिन्दी — अथवा ( मुकदमें के बड़ा या छोटा होने की अपेक्षा ) इस शूद्र से अग्नि लेकर सात कदम चलावे, जोंक आदि से रहित पानी में डूबावे अथवा इसके पुत्र तथा स्त्री के शिर का पृथक् - पृथक् स्पर्श करावे ॥११४ ॥
मनु II 14
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
१८४ मनुस्मृतिः [ अष्टमः विमर्श - तौल में पचास पल ( ढाई सेर ) लोहे के आठ अंगुल लम्बे गोले को अग्नि के समान लाल तपाकर पीपल के सात पत्तों को उसके हाथ पर रखकर उन्हें श्वेत सात सूत्रों से बाँधकर फिर सात पत्तों को रखकर उनके ऊपर उस तपाये लोहे को रखकर साक्षी करनेवाले उस शूद्र को ' त्वमग्ने ' – ( याज्ञ ० २।१०४ ) श्लोक को कहते हुए सात पग चलने को कहे तथा ऐसा करने पर यदि उसके हाथ नहीं जलें तो उसके साक्षी को सत्य माने तथा यदि बीच मार्ग में ही वह लोहा गिर पड़े तो पुनः वैसे ही तपे लोहे को लेकर दुबारा चलने को कहे । हाथ के अतिरिक्त दूसरे अंग या वस्त्र यदि प्रमादादि से जल जाँय तो भी उसके साक्षी को सत्य नहीं माने । अथवा अन्य स्मृतियों में कही गयी विधि से जल में डुबोकर उसकी साक्षी के सत्यासत्यत्व का ज्ञान करे ॥
शपथ में शुद्धि का ज्ञान-यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च ।
न चार्त्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ११५ ॥
भाष्य — तप्तायसपिण्डोऽनवद्य गृहीतो न दहति । आपश्च नोर्ध्वं प्लावयन्ति, सत्यशपथे । केशादो न चार्तिमृच्छति पीडां न प्राप्नोति I । रोगोऽग्निरित्यन्यत्रोक्तम् । स शुद्धः शुचिर्निर्दोषः । क्षिप्रम् - चतुर्दश वाऽहान्यवधिः स्मृत्यन्तरात् ॥११५ ॥।
हिन्दी— ( वैसा करने पर ) जिस साक्षी करनेवाले को अग्नि ( तपाया हुआ लौह ) नहीं जलावे, पानी ऊपर को नहीं फेंके तथा शीघ्र वह दुःख नहीं पावे; उस साक्षी करनेवालों को शपथ में सच्चा समझना चाहिये ॥११५ ॥
उक्त विषय में प्राचीन दृष्टान्त-वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥ ११६ ॥
भाष्य — कथं पुनरग्निर्न धक्ष्यति, नोन्मज्जयिष्यन्ति । न हि महाभूतानि विपरि-यन्ति स्वभावतो चैतन्यादिति — पर्यनुयोगमाशङ्क्यार्थवादेनोक्तमर्थं दृढीकरोति । यद्य-प्ययमन्वयव्यतिरेकसमधिगम्योऽर्थः प्रत्यक्षवेद्यो वा तथापि धूर्तकल्पितेन्द्रजालवद् भ्रान्ति-वदत्र मुखबिभीषिकासञ्जनमात्रफलं शपथं मन्यमानो वैदिकं निदर्शनमुपन्यसति । भवन्ति प्रतिपत्तारोऽर्थागमेन पूर्ववृत्तदर्शनाद्दृढतां प्रतिपद्यन्ते । वत्सो नाम काण्व ऋषिरभवत् । स च कनीयसा वैमात्रेयेणा भ्राताऽभिशस्त आक्रुष्टः — ‘ न त्वमसि ब्राह्मणः शूद्रापुत्र ' इति । स तं प्रत्युवाच —‘सत्येनाग्निं प्रविशामि यदि न ब्राह्मण ' इति । तस्येदमुक्तवतः प्रविष्टस्य नाग्निददाह रोमापि । कथम्? सत्येन हेतुना ।