मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 221–230
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 221–230
पृष्ठ 221
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १८५ कथमग्निः सत्यं जानातीति चेतद आह जगतः स्पशः । गूढात्मा परकीयकृता-कृतज्ञ: ‘ स्पश ’ उच्यते । स च चारः प्रणिधिरिति च प्रसिद्धिः । अग्निर्हि भगवान्सर्व-भूतान्तरचारी कृताकृतानां वेदिता । तथा च छान्दोग्ये ताण्डके प्रयोगो देवासुरसेन-योरभ्यन्तरे गौतममाश्रयन्ति गौतममिन्द्रं द्रढयेत्तत्र चाह “ इह नो भवान्स्पशश्चरत्वि-षेत्यादि ’ ” । अर्थवाचिनिदर्शनेऽपि पञ्चविंशब्राह्मणमुदाहार्यम् — ' वत्सश्च ह वै मेधा-तिथिश्च काश्यपावास्ताम् । तं वत्सं मेधातिथिराक्रोशत् अब्राह्मणोऽसि इत्यादि तस्य हालमेववौषधम् ' इति । ननु च चौरा अपि न दह्यन्ते । साधवोऽपि दह्यमाना दृश्यन्ते । तत्कथं शपथे आश्वासः । उच्यते । न दृश्येन व्यभिचारेण व्यवस्थेयमपनेतुं शक्यते । कादाचित्कत्वाद्-व्यभिचारस्य । प्रत्यक्षादिष्वपि प्रमाणेषु दृश्यत एव तादृशो व्यभिचारः । न च तानि न प्रमाणम् । अथ व्यभिचारवन्ति नैव प्रत्यक्षादिशब्दवाच्यानि – यद्व्यभिचरति न तत् प्रत्यक्षं, यत्प्रत्यक्षं न तद्व्यभिचरतीति वचनात् । इहापि शक्यते तद्वक्तुं — यद्व्यभिच-रतिनासौ शपथो यः शपथः स न व्यभिचरतीति । कः पुनः शपथः । यः समस्तेतिक-र्तव्यतामात्राद्यपग्रहेण निरूपितकुहकः स्तंभनाभावः । विपरीतोऽशपथः । न तादृशस्य व्यभिचारोऽस्ति । अथापि स्यात्तत्रापि प्राक्कृतस्य कर्मणः फलविपाको भवति, निमित्त-त्वात् । कृतापराधोऽपि पूर्वकृतेन गरीयसा शुभेन मुच्यते । अकृतापराधो जन्मान्तर-दोषेण निगृह्यते । विचित्रा हि कर्मणां फलपाकाभिव्यक्तिहेतवः, सहस्रादेकामिथ्या गृह्यते, उत्सर्गतस्त्वमिथ्यात्वम् । पुत्रेष्टिकारीर्यादिष्वप्येतत्समानम् ।
तस्मात्साक्षिवच्छपथेऽपि प्रत्येतव्यम् । तेऽपि हि कदाचिन्मिथ्यावदन्ति ।
न भयप्रदर्शनमात्रमेतत् । रूढ्या शपथा उक्ताः सत्यं प्रतिष्ठत इति ॥११६ ॥
हिन्दी — पूर्वकाल में ( सौतेले ) छोटे भाई के द्वारा ' तुम ब्राह्मण नहीं हो, शूद्र की संतान हो ' ऐसा दूषित वत्स ऋषि के रोम को ( भी संसार के शुभाशुभ जानने में ) गुप्तचर रूप अग्नि ने सत्य के कारण से नहीं जलाया ॥११६ ॥
असत्य प्रतीत होने पर पुनर्विचार-यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत्तत्कार्यं निवर्त्तेत कृतं चाप्यकृतं भवेत् ॥ ११७ ॥
भाष्य – यस्मिन्व्यवहारे कूटसाक्षिभिर्व्यवहारः कृतः स्यात्स निवर्तयितव्यः । कृतं चाप्यकृतं भवेत् । गृहीतधनोऽप्युत्तमर्णः प्रतिपादयितव्यः, इतरोदण्डी गृहीतोऽपि त्याज्यः । वाङ्मात्रेण जितस्त्वमसीति निश्चिते कार्यं निवर्तते इत्युच्यते ।
पृष्ठ 222
पाठ पढ़ें पाठ छिपाएँ
१८६ मनुस्मृतिः
दण्डपर्यन्तं कृतमपीति विशेषः । वीप्सा श्लोकपूरणायाम् ॥११७ ॥
[ अष्टमः हिन्दी — जिस - जिस विवाद ( झगड़े - मुकदमे ) में असत्य गवाही हो, ( न्यायाधीश ) उस - उस विवाद को फिर विचार करे और जिस विवाद में दण्ड - विधानादि ( जुर्माने आदि का फैसला ) हो चुका हो, वह समाप्त होकर भी नहीं समाप्त के समान है ( अत: उस पर भी पुनर्विचार करे ) ॥११७ ॥
लोभादि से साक्ष्य की असत्यता -लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च ।
अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते ॥ ११८ ॥
भाष्य — कौटसाक्ष्यं लोभादिनिमित्तम् । विषयकथनं दण्डविशेषभावार्थम् ।
वितथमसत्यम् । सर्वत्र पञ्चमी हेत्वर्था ॥११८ ॥
हिन्दी — लोभ, मोह ( विपरीत ज्ञान अर्थात् उल्टा समझना ), भय, प्रेम, काम, क्रोध, अज्ञान तथा असावधानी ( या लड़कपन ) से साक्षी असत्य माना जाता है ॥११८ ॥
लोभादि से साक्ष्य देने पर दण्ड विशेष-एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् ।
तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ ११ ९ ॥
लोभात्सहस्त्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम् ।
भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम् ॥ १२० ॥
भाष्य – लोभाद्यो वितथं वक्ति स सहस्रं दण्डनीय इत्येवं योजना कर्तव्या । तत्र यः परस्माद्धनमुपादाय विपरीतं वक्ति तस्य लोभो हेतुः । मोहात् । स्वभावतो यथार्थवादी यथादृष्टार्थवादीय च केनचित्रितसंक्षोभहे-तुना प्रश्नकाले व्यारूढः सम्यक् प्रश्नार्थमनवधार्यास्मृतत्वाद्वाऽन्यथा ब्रूयात्स मोहादि-त्युच्यते । भयं त्रासः । यदि मदीयेन सत्यवचनेनायं जीयेत तत्रायं कदाचित् ज्ञातिधनादि-बाधया मां व्यापादयेदित्याशङ्का । सहस्त्रमिति संख्येयविशेषावगतिर्वाक्यान्तरात्पणानामिति । पूर्वं तु साहसं प्रथमं ' पणानां द्वे शते सार्धे, ( श्लो ० १३८ ) इत्यादौ । द्वौ मध्यमौ साहसाविति विपरिणामः । पूर्वं चतुर्गुणं सहस्रमेवेत्यर्थः । वृत्तानुरोधेन विचित्रयः शब्दवृत्त्या स एवार्थः कथ्यते ॥ ११ ९ -१२० ॥
पृष्ठ 223
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १८७ हिन्दी – ( भृगु मुनि ऋषियों से कहते हैं कि — ) उक्त ( ८।११८ ) लोभादि में से किसी एक के कारण से ( भी ) जो असत्य गवाही दे, उसके दण्ड विशेष को हम क्रमशः कहते हैं— ॥११ ९ ॥।
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् ।
अज्ञानाद्द्द्वे शते पूर्णे बालिश्याच्छतमेव तु ॥ १२१ ॥
भाष्य — मन्मथः कामः । यत्र स्त्रियो विवदन्ते तत्सम्बन्ध्यन्यतरो कामयमानो-ऽनृतं वदति अर्धतृतीयानि सहस्राणि दण्ड्यते । क्रोधात्त्रिगुणं परं प्रथमसाहसस्य प्रकृतत्वात्ततः परो मध्यः । सर्वान्ते लोकविज्ञानादिति वा उत्तम एव परः । द्वेषः ‘ क्रोध: ' । अज्ञानादिति । यो विपरीतं प्रथमं ब्रूयाद्भ्रान्त्या, नतु प्रश्नकाले द्वे शते दमः । प्रदर्शनमेव विपरीतं नाभिधानम् । बालिश्यं बालभावः अप्रापव्यवहारता । ईषदप-क्रान्तबालभावस्याप्राप्तबुद्धिस्थैर्यस्यायं बालिश्यदण्डोऽन्यस्य त्वसाक्षितैव ॥१२१ ॥
हिन्दी – लोभ से असत्य गवाही देने पर १००० पण, मोह से असत्य गवाही देने पर प्रथम साहस, भय से असत्य गवाही देने पर दो मध्यम साहस, मित्रता ( प्रेम ) से असत्य गवाही देने पर चौगुना अर्थात् चार प्रथम साहस, काम से असत्य गवाही देने पर दश गुना प्रथम साहस, क्रोध से असत्य गवाही देने पर तिगुना मध्यम साहस, अज्ञान से असत्य गवाही देने पर सौ पण और असावधानी से असत्य गवाही देने पर सौ पण का ‘ दण्ड ’ ( जुर्माना, न्यायाधीश उस असत्य गवाही देनेवाले पर ) करे ॥ १२०-१२१ ॥ विमर्श - प्रथम साहस = २५० पण । मध्यम साहस = ५०० पण । १ पैसा ( ताँबे का ) विस्तृत प्रमाण का विचार आगे ( ८ । १३१-१३८ ) कहेंगे । एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः । धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ १२२ ॥
भाष्य — उभयप्रयोजनो दण्ड इति दर्शयत्यवश्यानुष्ठेयत्वाय । शास्त्राचारनिरूढा व्यवस्था ‘ धर्मः ’, तस्य ‘ अव्यभिचारोऽनिवृत्तिरुच्यते ॥१२२ ॥
हिन्दी – ( मनु आदि ) विद्वानों ने धर्म के स्थापन तथा अधर्म के निवारण के लिए
असत्य गवाहियों में इन ( ८।११०-१२१ ) दण्डों को बतलाया है ॥१२२ ॥
बार - बार असत्य गवाही देने पर दण्ड–
कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः ।
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ १२३ ॥
भाष्य — सकृदपराद्धानां पूर्वो दण्डः । अभ्यासात्प्रवर्तमानानां दण्डयित्वा प्रवासनं राष्ट्रान्निष्कासनं मरणं वाऽर्थशास्त्रे प्रयोगदर्शनात्तद्रूपत्वाच्च दण्डविधेः । ब्राह्मणं तु
पृष्ठ 224
पाठ पढ़ें पाठ छिपाएँ
१८८ मनुस्मृतिः [ अष्टमः विवासयेत् । वाससोऽपहरणं विवासनं गृहभंगो वा । विवासं करोति तत्करोतीति णिचि णाविष्टवदिति टिलोपे रूपम् । त्रीन्वर्णानिति क्षत्रादयस्त्रयः, ब्राह्मणस्य दण्डान्तर-विधानात् ॥१२३ ॥
हिन्दी — धार्मिक राजा बार - बार असत्य गवाही देनेवाले तीन वर्णों ( क्षत्रिय, वैश्य तथा शूद्र ) को उक्त ( ८।१२०-१२१ ) प्रकार से दण्डित कर राज्य से निकाल दे और ब्राह्मण को केवल राज्य से निकाल दे अर्थात् उसे दण्डित न करे ॥१२३ ॥
विमर्श - उक्त वचनानुसार बार - बार असत्य गवाही देनेवाले ब्राह्मण को उसके धन सहित राज्य से निकाल देना चाहिए । गोविन्दराज के मत से ' ऐसे ब्राह्मण को बार - बार उक्त ( ८।१२०-१२१ ) दण्ड से दण्डित कर नग्न कर दे ' यह अर्थ है तथा मेधा-तिथि के मत से ऐसे ब्राह्मण को ' नग्न कर दे या उसका घर ढहवाकर गृह हीन कर दे ’ यह अर्थ है |
दण्ड के दश स्थान-दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ १२४ ॥
भाष्य - स्थानशब्दो विषयपर्याय: । एतैः प्रदेशैः पीडयितव्यः प्रत्यपराधम् । शब्देन ब्राह्मणस्य धनदण्डविधानादक्षतत्वोपदेशः शरीरपीडापरिहारार्थः कल्पते— सत्यपि धनस्य दशसङ्ख्यान्तर्भावे । वयं तु ब्रूमः —— समग्रधनमक्षत ' मित्यत्र धनपीडाऽपि निषिद्धैव ब्राह्मणस्य । तस्माद्यः सकृत्कथंचिदपराद्धः श्रुतशीलाभिजनयुक्तस्तस्य धनदण्डोऽपि नास्ति । तथा च गौत-मतादृशमेव ब्राह्मणमधिकृत्य ' द्वौ लोके धृतव्रतौ ' इत्युपक्रम्य ‘ षड्भिः परिहार्यश्चे-त्यादि ' ( अ ० ८ सू ० १-१३ ) ॥ १२४ ॥
हिन्दी - ब्रह्मा के पुत्र मनु ने तीन वर्णों ( क्षत्रिय, वैश्य तथा शूद्र ) से विषय में दण्ड के दश स्थानों को ( ८।१२५ ) कहा है और ब्राह्मण तो पीडारहित अर्थात् बिना किसी प्रकार दण्डित किये केवल राज्य से निकाल दिया जाता है ॥ १२४ ॥
दश दण्ड- स्थानों के नाम-उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ १२५ ॥
भाष्य — उपस्थं प्रजनधर्मः स्त्रीपुंसयोः । उद्देशमात्रमिदं विनियोगस्तूत्तरत्र भवि-ष्यति । यत्र च दण्डविशेषो नाम्नातस्तत्र यो येनैवाङ्गेनापराद्धः स तत्रैव पीडयितव्यः । तत्रागम्यागमन उपस्थनिग्रहः । चौर्य उदरत आहारनिवृत्त्यादिना वाग्दण्डपारुष्ये जिह्वा-
पृष्ठ 225
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता १८ ९ हस्तयोः । पादबलेन व्यक्तिक्रामन्पादयोः । विवृत्य विश्रब्धं राजदारान्वीक्षमाणश्चक्षुषोः । अनुलेपनगन्धमाजिघ्रन्नासिकायाम् । रहसि राजानं मन्त्रयमाणं कुड्यपटान्तरित उपशृण्वन्
कर्णयोः 1 । धने प्रसिद्धो दण्डः । देहे मारणं महापातकिनः ॥ १२५ ॥
हिन्दी – उपस्थ ( मूत्रमार्ग ), पेट, जीभ, हाथ, पैर, नेत्र, नाक, कान, धन और देह ( ये दण्ड के दश स्थान ) हैं ॥ १२५ ॥
विमर्श — उक्त अङ्गों से महापातकादि बड़े अपराध करने पर उक्त अंगों का पीडन या छेदन अपराध के छोटे - बड़े अनुसार करना चाहिए; किन्तु साधारण अपराध करने पर तो केवल अर्थदण्ड ही करना चाहिए ।
अपराधादि के अनुसार दण्डविधान-अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ १२६ ॥
भाष्य- उक्तानुक्तदण्ड्येष्वपराधेषु मातृका श्लोकोऽयम् । एतदर्थानुसारेण सर्वत्र दण्डक्लृप्तिः कर्तव्या । तत्र पौनःपुन्येन प्रवृत्तिरनुबन्धः । प्रवृत्तिकरणं वा, अनुबध्यते प्रयुज्यते येन तस्मिन्कर्मणि । तं परिज्ञाय । किमयमात्मकुटुम्बक्षुदवसायेन धर्मतन्त्र-प्रसङ्गेन वा — अथ मद्यद्यूतादिशौण्डतयातथा प्रमादाद्बुद्धिपूर्वं वा परप्रयुक्तस्वेच्छया वेत्यादिरनुबन्धः । देशो ग्रामारण्यगृहजलजन्मप्रसवभूम्यादिः । कालो नक्तं दिवादिः । सुभिक्षदुर्भिक्षबाल्ययौवनादि वा । सारः शक्त्यशक्ती आढ्यत्वदारिद्रपे । अपराधो-ऽष्टादशानां पदानामन्यतमः । एतत्सर्वं पौर्वापर्येण निरूप्य तथा दण्डं पातयेत्कुर्या-द्यथा स्थितिः सांसारिकी न भ्रश्यतीति ॥ १२६ ॥
हिन्दी— ( न्यायाधीश या राजा ) बार - बार किये गये अपराध, देश ( ग्राम, वन आदि ) काल ( रात - दिन आदि ), अपराधी की शारीरिक तथा आर्थिक शक्ति और अपराध के गौरव - लाघव का वास्तविक विचार कर दण्डनीय व्यक्ति को दण्डित करे ॥१२६ ॥
धर्मविरुद्ध दण्ड की निन्दा-अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ १२७ ॥
भाष्य — अधर्मप्रधानदण्डमधर्मदण्डनम् । पूर्वोक्तमनपेक्ष्येदं शास्त्रपाठमात्रेण राजे-च्छया रागद्वेषादिभिर्वा । तद्यशोनाशकं कीर्तेश्च विच्छेदकम् । स्वदेशे गुणख्याति-र्यशः देशान्तरे कीर्तिः । जीवतो वा पूर्वकालिकं यशः उत्तरकालिकी कीर्तिः । निर्दोषगुणवतीकीर्तियशसी । अन्यो वा भेद उन्नेयोऽर्थवादत्वात् । अस्वयं स्वर्ग-
पृष्ठ 226
पाठ पढ़ें पाठ छिपाएँ
१ ९ ० मनुस्मृतिः [ अष्टमः प्राप्तौ कर्मान्तरजन्यायां प्रतिबन्धकम् । परत्रापीति श्लोकपूरणार्थम्, स्वर्गस्यामुष्मि-कत्त्वात् ॥१२७ ॥
हिन्दी — धर्मविरुद्ध दिया गया दण्ड ( राजा ) के यश ( जीवित अवस्था में प्रसिद्धि ) तथा कीर्ति ( मरने पर प्रसिद्धि ) का नाश करनेवाला तथा परलोक में भी दूसरे धर्म से प्राप्त होनेवाले स्वर्ग का प्रतिबन्धक है; अतएव उसका त्याग करना चाहिए ॥ १२७ ॥
अदण्ड्यके दण्ड तथा दण्ड्य के त्याग से हानि-अदण्ड्यान्दण्डयत्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ १२८ ॥
भाष्य – पूर्वश्लोकोऽनुबन्धादिनिरूपणविधिशेषः अनेन त्वनपराधानां दण्डनं
प्रतिषिध्यते सापराधानां च विधीयते ।
वृत्त्यर्थतां दण्डस्य मन्यमानोऽनुग्रहेणाहासीदिति ( अयशः ) ॥ १२८ ॥
हिन्दी – अदण्डनीय को दण्डित करता हुआ तथा दण्डनीय को छोड़ता हुआ राजा बड़ा अयश पाता है तथा नरक को भी जाता है ॥१२८ ॥
वाग्दण्ड, धिग्दण्डादि-वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ १२ ९ ॥
भाष्य – यो गुणावानीषत्प्रथममेवापराद्धः स वाचा निर्भर्त्स्यते ‘ न साधु कृत-वानसि मा पुनरेवं कार्षीरिति ' । तथा विनीयमाने यदि न निवर्तते ' कोऽत्रदोष ' इति वा प्रतिजानीयात्तदा धिग्धिगादिशब्दैः परुषवचनैः कुत्सार्थैः क्षिप्यते । ततोऽप्यनिवर्त-मानो यथाशास्त्रं धनेन दण्डनीयः । तदप्यगणयन्नैश्वर्यादिना हंतव्यः । वधदण्डश्च ताडनाङ्ग-च्छेदनादि, न मरणमेव ॥१२९ ॥
यत आह-हिन्दी – राजा गुणियों को प्रथम बार अपराध करने पर वाग्दण्ड, उसके बाद ( दूसरी बार अपराध करने पर ) धिग्दण्ड, तीसरी बार आर्थिक दण्ड ( जुर्माना ) और इसके बाद वधदण्ड ( अपराधानुसार शरीर ताडन अर्थात् कोड़े बेंत से मारना या अंगच्छेद आदि या प्राण दण्ड ) से दण्डित करे ॥ १२ ९ ॥ विमर्श - वाग्दण्ड– - तुमने यह अच्छा काम नहीं किया, सावधान, फिर कभी ऐसा दुष्कर्म मत करना आदि । धिग्दण्ड - जाल्म तुम्हें धिक्कार है आदि । वधदण्ड-अपराध के गौरव लाघव के अनुसार वेंत, कोड़े आदि से मारने का दण्ड, जिस अंग से अपराध किया है उसको काटने का दण्ड या प्राणदण्ड ।
पृष्ठ 227
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । १ ९ १ तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ १३० ॥
भाष्य — मारणं चेद्वधः किं तदन्यद्यन्न शक्यते – कथं चैनं पापं निगृह्णीतेत्या-दिपरुषवाक्यपूर्वं दुर्विनीतेषु धनदण्डवधौ समुच्चेतव्यौ । कृतेऽपि शरीरदण्डे यदि नावतिष्ठते ततो न कृतनिग्रह इत्युत्सृजेदपि तु स वधदण्डः कर्तव्यः । धनवधदण्डयोश्च पुनःप्रवृत्त्यर्थोऽयमारम्भः । वाग्दण्डे तु मृदुत्वात्कः पृच्छति । धनेन च निगृहीतस्य पुनर्वधो दृष्टोऽङ्गुलिग्रन्थिभेदस्येति ” ( ९ ।२७७ ) ॥१३० ॥
हिन्दी – यदि ( राजा या न्यायाधीश ) वध ( शरीरताडनच्छेदन आदि ) से भी इसे ( अपराधी को ) वश में नहीं कर सके तो इन चारों ( ८।१२ ९ ) प्रकार के दण्डों से एक साथ उसे दण्डित करे ॥१३० ॥
त्रसरेणु आदि का परिमाण ( तौल ) -लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ १३१ ॥
भाष्य – ताम्रादीनां लिक्षादयः । संज्ञा भुवि प्रसिद्धाः । -“ किं शास्त्रपरिभाषया । तत्र वृद्धव्यवहारो गवादिशब्दवत् ” इत्यत आह लोकसंव्यवहारार्थम् । अर्थशब्दो विषयवचनः । तेन व्यवहारप्रसिद्धिराश्रिता भवति । “ ततश्च गवादिशब्दतुल्यतया व्यवहारात् प्रसिद्धः – किं शास्त्रोपदेशेन ” । उच्यते । नियमार्थ उपदेशः । अन्येषामपि परिमेयानामयस्कांस्यसुवर्णादीनामेताः संज्ञाः सन्ति, तन्निवृत्त्यर्थः । क्वचिद्देशे परिमाणे भेदोऽप्यस्ति, तन्निवृत्त्यर्थश्च । क्वचित् सम्बन्धतया नियम्यते । तदा च क्वचिदष्टाचत्वारिंशता माषबन्धं क्वचिच्चतुःषष्ट्या क्वचित् साष्टेन शतेन । तदेतत्सर्वं नियम्यते । अथ चैवं सम्बन्धः क्रियते — याः संज्ञा भुवि प्रथितास्ता लोकसंव्यव-हारार्थंवक्ष्यामि । सर्वस्य लोकस्याभिरेव संव्यवहारो यथा स्याद्दण्डादिनियोगस्याप्यन्यथा प्रसिद्धिः ॥१३१ ॥
हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि - ) लोगों के व्यवहार के लिए ताँबे - चाँदी तथा सुवर्ण ( सोने ) की जो संज्ञायें ( प्रमाण - विशेष ) प्रसिद्ध हैं, उन सभी को मैं कहूँगा ॥१३१ ॥
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ १३२ ॥
पृष्ठ 228
पाठ पढ़ें पाठ छिपाएँ
१ ९ २ मनुस्मृतिः ' श [ अष्टमः भ्गष्य — इमं श्लोकं केचिन्नाधीयते त्रसरेणौ विप्रतिपत्त्यभावात् । गवाक्षकुचिका-विवरप्रविष्टे सूर्ये यो रणुर्दृश्यते स त्रसरेणुः । अन्तरशब्दो विवरपर्याय: । प्रथमं तत्प्रमाणानामिति ॥ १३२ ॥
हिन्दी — खिड़की आदि के छिद्र से सूर्य किरण के प्रवेश करते रहने पर जो सूक्ष्म धूलि ( चमकता हुआ धूलिकण ) दिखलायी पड़ती है, उसा ( दिखलाई पड़नेवाले धूलि कण ) को प्रमाणों के बीच में प्रथम प्रमाण ' त्रसरेणु ' कहते हैं ॥ १३२ ॥
सरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ता राजसर्षपस्तिस्त्रस्ते त्रयो गौरसर्षपः ॥ १३३ ॥
भाष्य- य — तत्रोपचितपरिमाणाः । न पुनरयं लिक्षाशब्दः स्वेदजक्षुद्रजन्तुवचनः । तास्तिस्रो लिक्षा एको राजसर्षपाख्यपरिमाणपदार्थः । एवं योजनीयम् । ततश्च ये व्यभिचारयन्ति न यथोक्तपरिमाणा यवादयो ऽर्था इति ते निरस्ता भवन्ति । नहि यवादीनामर्थानां परिमाणम् । “ कथं तर्हि यथोक्तपरिमाणार्थः ” । यथा चोपक्रान्तसंज्ञाः प्रवक्ष्यामि परिमाणमिति । त्रसरेणुश्चार्थो नियतपरिमाणस्तेनैतत्सर्वं निश्चेयम् । शक्नुवन्ति च निपुणास्त्रसरेणून् संहन्तुमिति नानारभ्यार्थोपदेशः । एतत्स्वर्णकाराभिमानसंख्यास्मृति-रूपं निर्बाधं भवति । तत एव वस्तु निपुणतोऽशेषतोऽवधारयितव्यम् ॥१३३ ॥
हिन्दी — आठ त्रसरेणु का एक लिक्षा, तीन लिक्षाओं का एक ' राजसर्षप ', तीन राजसर्षपों का एक ‘ गौरसर्षप ' जानना चाहिए ॥ १३३ ॥
सर्षपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम् ।
पञ्चकृष्णलिको माषस्ते सुवर्णस्तु षोडश ॥ १३४ ॥
भाष्य – “ मध्यशब्दो भ्रान्तिहेतुः । परिमाणपरत्वे नात्यन्तमपचितो नातिस्थूलः सर्षपपरिमाण इति मध्यग्रहणमर्थवत् । संज्ञापरत्वे तु न किंचिन्मध्यशब्देन, यव-शब्दसंज्ञात्वात् ” । तदसत् । नायं संदर्भो येन प्रत्यवयवं प्रयोजनमुच्यते । पद्यग्रन्थोऽयम् । तत्र गतार्थमपि वृत्तानुरोधात्किञ्चिदुच्यते । अस्ति चास्यान्वयः । अनन्विताभिधानं हि वाक्यार्थ-विरोधान्न प्रमाणम् । न चावगताभिधानमपि परिमाणभेदांस्त्रसरेणुशतमानादीनाद्यन्तान-पेक्ष्य मध्यपठितत्वान्मध्यो यवाख्यः परिमाणविशेषः । पञ्चकृष्णला अस्मिन्सन्ति पञ्चकृष्णलिकः । “ अत इनि ठनौ ” इति ठन्
कर्त्तव्यः । ‘ पञ्चकृष्णालक ’ इति पाठे कबन्तो बहुव्रीहिः ।
कृष्णला: षोडश एकः सुवर्णः ॥ १३४ ॥
हिन्दी — छः गौर सर्षपों का एक ' मध्ययव ' ( न अत्यन्त मोटा और न अत्यन्त
पृष्ठ 229
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १ ९ ३ महीन ), तीन मध्ययवों का एक ' कृष्णल ' ( रत्ती ), पाँच कृष्णलों ( रत्तियों का एक ' मासा ' ) ( मासा अर्थात् एक आना भर ) सोलह मासों ( मासाओं = १६ आने भर ) का एक सुवर्ण अर्थात् एक रुपया भर = ८० रत्तीभर ( जानना चाहिए ) ॥
पलं सुवर्णाश्चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ॥ १३५ ॥
भाष्य – पलमिति संज्ञानिर्देशः । सुवर्णमिति संज्ञो । चत्वार इति विशेषणम् । धरणमिति संज्ञा । दश पलानीति संज्ञी । द्वे कृष्णले इति संज्ञा । रूप्यमाषक इति समुदायसंज्ञां मन्यन्ते 1 " ननु रूप्यविषयमाषकनिर्देशे द्वे कृष्णले प्रतिपत्तव्ये इति प्रजिजानीते । तत-श्चानिश्चयः । ” समधृते । तुलासूत्रके उन्मानादिहीने यदि धार्येते । प्रयोजनं मध्यशब्दवत्, यतोऽ-समयाद्धार्यमाणतया परिमाणनिश्चयः ॥ १३५ ॥
हिन्दी — चार सुवर्णों ( रुपये भर ) का एक ' पल ' ( छटाँक ), दश पलों का एक ‘ धरण ’ तथा दो कृष्णल ( रत्तिओं ) को काँटे ( तराजू ) पर रखने पर उसके बराबर एक ‘ रौप्यमाषक ’ जानना चाहिये ॥१३५ ॥
ते षोडश स्याद्धरणं पुराणश्चैव राजतः ।
कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ १३६ ॥
भाष्य – षोडशरूप्यमाषका रूप्यस्य धरणं भवति । पुराण इति संज्ञान्तरम् । कार्षापणः पण इति च द्वे संज्ञे ताम्रकर्षस्य । कर्षाख्यश्च शब्दो लोकत एव प्रसिद्धार्थ इह गृह्यते व्यभिचारदर्शनासत्त्वेन न कृष्णलादिवत्परिभाष्यते ॥१३६ ॥
हिन्दी - उन सोलह रौप्य मापकों का एक ' रौप्यवरण ' तथा ' राजत ' अर्थात् चाँदी का ‘ पुराण ' और ताँबे के कर्ष ( पैसे ) को ' कर्ष ' तथा ' पण ' कहते हैं ॥१३६ ॥
धरणानि दश ज्ञेयः शतमानस्तु राजतः ।
चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ १३७ ॥
भाष्य — शतमान इति संज्ञा दशानां धरणानाम् । रजतशब्देन सुवर्णमप्युच्यते । तेन रूप्यसुवर्णयोरियं संज्ञा । सुवर्णस्य मानं तु शास्त्रान्तरात्परिमातव्यम् । तथा च विशेषयिष्यति शतमानं तु राजतमिति ॥ १३७ ॥
हिन्दी – दश रौप्य ( चाँदी का ) धरणों का एक राजत ( चाँदी का ) ' शतमान ' जानना चाहिये और प्रमाण से चार सुवर्णों का एक ' निष्क ' ( अशर्फी ) जानना चाहिये ॥
पृष्ठ 230
पाठ पढ़ें पाठ छिपाएँ
१ ९ ४ मनुस्मृतिः
प्रथम आदि साहस का प्रमाण-पणानां द्वशते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ १३८ ॥
[ अष्टमः भाष्य — मध्यम उत्तम इत्यत्र साहसपदानुषङ्गः कर्त्तव्यः । मध्यमोत्तमशब्दावत्र केवलावपि शास्त्रान्तरदृष्टौ— “ आभ्यां दण्ड उत्तम ' इति । तत्र शास्त्रसिद्ध्या साहचर्या-त्साहसं प्रतीयते । अवयवाः स्पष्टाः ॥ १३८ ॥
हिन्दी — ढाई सौ पणों का ' प्रथम ( पहला ) साहस ' कहा गया है, पाँच सौ पणों का ‘ मध्यम साहस ' तथा एक सहस्र पणों का एक ' उत्तम साहस ' जानना चाहिये ॥१३८ ॥
ऋण लेने पर दण्डनियम—
ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।
अपह्नवे तद्द्द्विगुणं तन्मनोरनुशासनम् ॥ १३ ९ ॥
भाष्य — यो राजसभायामानीतो धर्मेण ऋणं देयतया प्रतिजानीते सत्यमस्मै धार-यामि स पञ्चकं शतमर्हति दण्डमिति शेषः । अनेन संकल्पितेन विंशतितमो भागो दण्ड्यते—– ‘ किमिति मत्सकाशमुत्तमर्णः प्रेषितो बहिरेव कस्मान्न परितोषित ' इत्यतो-ऽनेन शास्त्रव्यतिक्रमेण दण्डमर्हति । यस्तु व्यतिक्रमान्तरं करोत्पह्नुते — ‘ नाहमस्मै धारयामीति’- स तैः प्रतिपादितस्तद्विगुणम् । तस्मात्पञ्चकाद्विगुणं दशकं शत-मित्यर्थः । तन्मनोः प्रजापतेरनुशासनं सृष्टिकालप्रभृति व्यवस्था नीतिरिति यावत् । अन्ये तु तच्छब्देन देयमेव प्रत्यवमृशन्ति । यावत्तस्मै देयं तद्विगुणम् । तेन यावदृणमित्यनेनैकवाक्यं भवति । अन्यथा वाक्यभेदः । विषयविशेषानिर्देशादेकविषयत्वे विकल्पः प्राप्नोति । स च न युक्तो द्विगुणस्यात्यन्तबहुत्वात् । असत्यपि निर्देशे तस्य विषयो दर्शनं तस्य प्रत्यासन्नेषु पञ्चकमित्यर्थस्तस्यैवानुप्रत्यवमर्शो युक्तः ॥१३९ ॥
हिन्दी – ( न्यायालय में ऋण लेनेवाले के ) ऋण लेना स्वीकार कर लेने पर ऋण द्रव्य का पाँच प्रतिशत और असत्यता से ऋण लेना स्वीकार नहीं करने पर उसे दश प्रतिशत दण्डित करना चाहिये, ऐसा मनु भगवान् का आदेश है ॥१३९ ॥
सूद ( व्याज ) का प्रमाण-वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्द्धिनीम् ।
अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते ॥ १४० ॥