मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 231–240
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 231–240
पृष्ठ 231
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १ ९ ५ भाष्य – अशीतीति विधेयनिर्देशः । वसिष्ठविहितामित्यादिरर्थवादः । वसिष्ठो भगवान् त्रिकालज्ञो लोभादिदोषरहित इति तां वृद्धिं गृहीतवानत एषा प्रशस्ता । धनं तथा वृद्धिमुपैति । न च लोभदोषोऽस्ति । सृजेत्प्रयुञ्जीत यदा धनं तदाऽधमर्णस्य तां वृद्धिं धनप्रयोगकाले निर्दिशेत् । सर्वद्रव्येषु वस्त्रधान्यहिरण्यादिष्वेतदेव वृद्धिपरिमाणम् । संख्येय-परमेयादिषु ‘ रसस्याष्टगुणा वृद्धि: ' इत्यादिषु द्वैगुण्यापवाद इति वक्ष्यामः || १४० ॥ हिन्दी - ( सूद ( व्याज ) पर ऋण देनेवाला महाजन ) वसिष्ठ मुनि द्वारा प्रतिपादित धनवर्द्धक सूद ले व ऋणद्रव्य का १/८० भाग अर्थात् सवा रुपया प्रतिशत मासिक सूद लेना चाहिए || १४० ॥
द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् ।
द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥ १४१ ॥
भाष्य- - द्वौ वृद्धिरस्मिन् शते दीयते तद् द्विकं शतम् । द्विशता पूर्वयाऽजीवतो बहुकुटुम्बस्यायं द्विकशतविधिः । मासमनुवर्तते । सतामित्यादिरत्रायमर्थवादः सतां धर्म-मिति । एषाऽपि वृद्धिः साधूनां धर्मः 1 । नैतया साधुत्वं हीयते । नात्यन्तमर्थपर उच्यते तद्दर्शयति न भवत्यर्थकिल्बिषी । अन्यायेन परस्वग्रहणात्पापमर्थकिल्बिषं तदस्या-स्तीत्यर्थकिल्बिषी || १४१ ॥ हिन्दी — अथवा सज्जनों के धर्म को स्मरण करता हुआ ऋणदाता दो प्रतिशत अर्थात् दो रुपये सैकड़ा प्रतिमास सूद ले, दो प्रतिशत सूंद लेनेवाला ऋणदाता पापभागी नहीं होता ॥१४१ ॥
वर्ण के अनुसार सूद लेना-द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ १४२ ॥
भाष्य – ब्राह्मणादिवर्णक्रमेण चतुर्णां वर्णानां सकाशाद्द्द्विकादयश्चत्वारः कल्पा यथासङ्ख्यं न ग्राह्यतयाऽनुज्ञायन्ते । समम् । न पादेन वाऽर्धेन वाऽधिकम् । तदाधि-कोऽपि सपादद्विकं सार्द्धद्विकमिति द्विकादिव्यपदेस्यानिवृत्तेराशङ्कानिवारणार्थं सम-ग्रहणम् । यथा मात्रान्यत्वेऽपि संज्ञान्तरव्यपदेशं निवर्तयति । इदमपि पूर्वेणाजीवतः कल्पान्तरम् । यस्य वाऽल्पं धनं महते धर्माय गृहीतारश्च नातिधार्मिकास्तत्रायं विधिः । ‘ येऽसाधुभ्योऽर्थमादायेति ’ न्यायेन । समामिति पाठान्तरम् । संवत्सरं यावदेषा वृद्धिर्न परतोऽपि महत्त्वाद् द्वैगुण्यं स्यात् ॥१४२ ॥
हिन्दी — अथवा –वर्णों के अनुसार दो, तीन चार और पाँच प्रतिशत मासिक सूद
पृष्ठ 232
पाठ पढ़ें पाठ छिपाएँ
१ ९ ६ मनुस्मृतिः [ अष्टमः ले अर्थात् ब्राह्मण से दो रूपये सैकड़ा क्षत्रिय से तीन रुपये सैकड़ा, वैश्य से चार रुपये सैकड़ा और शूद्र से पाँच रुपये सैकड़ा सूद ॥१४२ ॥
विमर्श - गोविन्दराज तथा मेधातिथि का मत है कि ' सवा तथा दो प्रतिशत मासिक सूद ब्राह्मण से लेने पर प्रथम पक्ष अत्यल्प तथा द्वितीय पक्ष अत्यधिक होता है, अतएव यदि प्रथम पक्ष सवा प्रतिशत सूद लेने से निर्वाह होना सम्भव नहीं हो तब दो प्रतिशत सूद लेना चाहिये ' परन्तु महर्षि याज्ञवल्यके ' मत को आधार मानकर मन्वर्थ-मुक्तावलीकार का मत है कि – कोई वस्तु ( आभूषण आदि ) बन्धक ( गिरवी ) रखने पर सवा प्रतिशत और अन्यथा दो प्रतिशत मासिक सूद ब्राह्मण से लेना चाहिये । याज्ञवल्क्य-श्लोक - व्याख्याता ‘ मित्ताक्षराकार ' के मत से त्रैराशिक क्रम से ब्राह्मण से २ में अर्थात् सवा तो क्षत्रिय, वैश्य और शूद्र से ३, ४ और ५ में क्रमशः १, २ % और ३१ अर्थात् बन्धक रखने पर सौ रुपये पर ब्राह्मण से सवा रुपया, क्षत्रिय से एक रुपया चौदह आना, वैश्य से ढाई रुपया और शूद्र से तीन रुपये दो आना ( प्रतिशत ) मासिक सूद लेना चाहिये; किन्तु ' नेने ' शास्त्री का मत है कि ' समम् ' पद होने से उक्त क्रम क्षत्रियादि के साथ बन्धक रखने पर भी नहीं लागू होगा । अतएव बन्धक नहीं रखने पर क्षत्रिय, वैश्य तथा शूद्र से क्रमशः तीन, चार और पाँच प्रतिशत ही सूद लेना चाहिये । ‘ समाम् ’ पाठान्तर होने पर यह वृद्धि - वैषम्य केवल एक ही वर्ष तक मानना चाहिये बाद में नहीं । रेहन रखने पर सूद लेने का निषेध—
न त्वेवाधौ सोपकारै कौसीदीं वृद्धिमाप्नुयात् ।
च चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥ १४३ ॥
भाष्य — बहुधा प्रयोगः– गृहीत्वाऽऽधिमन्यथा च । आधिरपि द्विविधो — गोप्यो भोग्यश्च । भोग्योऽपि द्विविधः – समयादुह्यमानभोगः स्वरूपतो वा । आधिर्दोग्ध्री गौः पिहितसुवर्णादि । तत्र भोग्यमाधिमधिकृत्येदमुच्यते न त्वेवाधौ सोपकार इति । विविधः सोपकारः— क्षीरिणो गौ: क्षेत्रारामादि च । तस्मिन् भुज्यमाने । कुसीदे भवा कौसीदी अनन्तरोक्ता वृद्धिस्तां नाप्नुयात् । आधिं तु भुञ्जानो नान्यां वृद्धिं लभेत । गोप्येऽप्याधौ कालसंरोधाच्चिरमवस्थानाद् द्विगुणीभूतेऽप्यमोक्षमाणे न निसर्गोऽस्ति न विक्रयः । अन्यत्र च विधिनाऽर्पणं निसर्गः । अन्यत्र संक्रामितं द्विगुणीभूतमपि पुनर्वर्धत एव । तथा च पठिष्यति ‘ सकृदाहृतेति ' । विक्रयः प्रसिद्धः । सोऽपि न कर्तव्यः । “ किं तर्ह्यस्यामवस्थायां कर्तव्यम् ” । तावदाधि भुञ्जीत यावद्विगुणं धनं प्रविष्टं ततो मोच्य १. ‘ अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥ ' ( या ० व ० २।३७ ) ।
पृष्ठ 233
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १ ९ ७ आधिः । तदुत्पन्ने प्रविष्टे द्विगुणे धने भोग्यस्तावदेव, अभोग्यस्तदनन्तरम् । भोग्य-स्त्वाधिः शान्तलाभस्तिष्ठत्येव यावदाधाता नागतः । यस्तु कथंचिद्धनिको दरिद्रतामुप-गतस्तावन्मात्रशेषधन: स कञ्चित्कालं प्रतीक्ष्य राजनि निवेद्य विक्रीणीत बन्धम् — ततो विक्रयादुत्पन्नं द्विगुणमात्मनो धनं गृहीत्वा शेषं मध्यस्थहस्ते ऋणिकसात्कुर्यात् । ननु च “ आधिः प्रणश्येद्विगुणे धने यदि न मोक्षयेत् ” इति पठ्यते ( याज्ञ ० २।५८ ) । एतदुत्तरत्र व्याख्यास्यामः । प्रणश्यत्वान्न पूर्वस्वामिनः स्वाभ्यहानि: प्रयोक्तुश्च स्वत्वापत्तिः । यदि च निसर्गविक्रयौ न स्तः कीदृशमस्य स्वाम्यमुच्यते? तस्मात्प्रति-षेधसामर्थ्येन प्रणाशवचनं प्रतिषिद्धभोगस्य भोगानुज्ञानार्थं व्याख्यायते । वस्त्रादिविषयं वा । तस्य हि भुज्यमानस्य प्रयाश एव । न क्षेत्रादेरिव तिष्ठवः स्वरूपात्प्रपच्यवमानस्य भोग्यता सम्भवति । तेनैतत्स्मृतिव्यवस्थायां व्याख्येयम् । गौणौ चात्र प्रणाशनिसर्गौ । विक्रयप्रतिषेधस्तु मुख्य एव । न ह्यसौ गौणतया प्रतिपत्तुं शक्यते । एतदेव प्रस्तुत्य " न स्यातां विक्रयाधीने ” इति स्मृत्यन्तरे पठितम् ।
अत इह निसर्गोऽन्यत्राधानम् विक्रयसाहचर्यात् । सदृशौ हि तौ केनचिदंशेन ॥ १४३ ॥
हिन्दी – भूमि ( घर या खेत ) तथा गौर आदि रेहन ( गिरवी ) रखकर ऋण लेने पर उनका उपभोग करता हुआ ऋणदाता ऋणी ( ऋण लेनेवाले ) से सूद नहीं लेता तथा अधिक समय बीत जाने पर ( मूलधन राशि के दुगुना हो जाने पर ) भी ऋणदाता रेहन रखी हुई सम्पत्ति ( भूमि गोधन, आदि ) को न तो किसी दूसरे को देने का अधिकारी है और न बेचने का ॥१४३ ॥
विमर्श — मेधातिथि तथा गोविन्दराज ने इस उत्तरार्द्ध श्लोक का अर्थ ' रेहन की वस्तु के बहुत दिनों तक ऋणदाता के यहाँ रहने पर भी वह ऋणदाता उस वस्तु ( भूमि आदि ) को न तो किसी को बन्धक ( रेहन ) देने का अधिकारी है और न बेचने का ' ऐसा किया है । परन्तु ‘ बन्धक रक्खे हुए भूमि आदि का दूसरे के पास बन्धक रखने का व्यवहार देखे जाने से उक्त मत शिष्टाचार से विरुद्ध है ' ऐसा मन्वर्थ मुक्तावलीकार का मत है । इस विषय में विशेष निर्णय के जिज्ञासुओं को ' काशी सं ० ग्रन्थमाला, बनारस ' से प्रकाशित ‘ मन्वर्थमुक्तावली ' व्याख्या की ' नेने शास्त्रीकृत टिप्पणी देखनी चाहिये ।
गोप्य बन्धक के भोग का निषेध-न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमृत्सृजेत् ।
मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ १४४ ॥
भाष्य-- " ननु च प्रागप्येतदुक्तं ' त्वेवाधाविति ( १४३ ) ” । सत्यम् । यत्र यावत्येव वृद्धिस्तावानेव भोगः स पूर्वस्य विषयः । यत्र तु महती
पृष्ठ 234
पाठ पढ़ें पाठ छिपाएँ
१ ९ ८ मनुस्मृतिः [ अष्टमः वृद्धिः स्वल्पोपभोगश्चेद्वलादिना भुञ्जानस्य सर्वेण सर्ववृद्धिहानिः । यत्र क्षेत्रगवादि-र्बन्धस्तद्भोगश्च न वृद्धिसम्मितः स चोपचितामपि वृद्धिं न ददाति, न च बन्धनं द्वि-गुणं तत्र कयाचिदतिमत्यात्यन्तमुक्तैव वृद्धिर्निश्चेतव्या । यदि तु वस्त्रादि भुज्यमानं नश्येत्तत्र मूल्येन तोषयेदेनम् आघातारम् । इतरोऽपि वृद्धिं लभते । अतोऽन्यथाऽददन्मूल्यमाधिस्तेनो भवेत् । यज्जातीयमाधिं भुक्तवांस्तद-पहारे यो दण्डः स एव दाप्यः । स्तेनश्चौरः । अन्ये व्याचक्षते । बलाद्भुक्ते वृद्धिहानिः । भुञ्जीत तन्मूल्यत एव वा । यदृणिकस्य मूल्यं मूल्यहिरण्यम् । यत्र भुञ्जान उच्यते ' मा मे बन्धं विनीनशो मा भुङ्क्ष्व कति-पयैरहोभिर्मोक्षयामि ' तथाऽप्युच्यमानो भुङ्क्त एवेति सोऽस्य विषयः ॥१४४ ॥
हिन्दी — ऋणदाता बन्धक में रक्खी हुई वस्तु ( वस्त्र, आभूषण आदि ) का भोग न करे और यदि भोग करे तो वह ऋणी से उस वस्तु के ऋण का ( ८।१४०-१४२ में ) कथित सूद न ले तथा यदि बन्धक रक्खी हुई वस्तु नष्ट - भ्रष्ट हो ( टूट - फूट ) जाय तो उसका मूल्य देकर ऋणी को सन्तुष्ट करे अन्यथा ऋण देनेवाले को बन्धक रक्खी हुई वस्तु की चोरी का पाप लगता है ॥१४४ ॥
बन्धक तथा मंगनी में ली गई वस्तु का परावर्तन-आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः । अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥ १४५ ॥
भाष्य — आधिरुक्तार्थः । प्रीत्या भुज्यमान उपनिधिस्तु शास्त्रन्तरवदन्तर्हितो न्यासः । तौ चिरकालं न स्थाप्यौ । किं तर्हि? प्राप्ते काले मोक्षणीयौ । आधेर्मोक्षण-काले द्विगुणीभूतं धनम् । तस्यातिक्रमस्तस्मिन्नपि कालेऽमोक्षणम् । उपनिधिरपि यावता कालेन नास्यावसरो भवति मदीयमेवैतद्भोक्ताऽहमिति स प्रत्याहरणकालः । ततोऽधिकः कालः कालात्ययः । तं नार्हतः स न कर्तव्य इत्यर्थः । हेतुमाह । अवहार्यौ भवेतां ताविति । तौ हि दीर्घकालमवस्थितावप्रत्याह्रीयमाणौ अवहार्याविति स्थितम् । तस्माद्-द्विगुणीभूतधनेऽधिमोक्षणे प्रयतितव्यम् । सुहृदुपदेशोऽयं न त्वेवाध्युपनिध्योर्भूयसाऽपि कालेनापहारः । यतो वक्ष्यति – “ आधिसीमाबालधनमिति ” ( १४ ९ ) । अतस्तस्यैवा-यमनुवादः । अन्ये त्वाधिविषयमुपदेशमिच्छन्ति । यो द्वेषेण द्विगुणीभूते धने कालं क्षपयति, तत्त्रिलाभं धनं नाधिकं वर्द्धते, न चास्याधुनाऽन्यत्राधानविक्रयौ स्तः, इह वृद्धिमयं मा लभतामित्यनेन मात्सर्येण - तत्रेदमुच्यते अवहार्यौ भवेतां ताविति । अनया बुद्ध्या-ऽमोक्षयतः स्वाम्यमस्य निवर्तते । यस्तु कथंचिदसति धने न मोक्षयति तस्य निसर्ग-
पृष्ठ 235
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा’हिन्दीटीकासहिता १ ९९ विक्रयौ न स्त इति । अथवाऽपरोऽर्थो मुखेनोपेक्षयति – परहस्तगतया शङ्कयोच्यते अवहार्यौ भवेतामिति ॥ १४५ ॥
हिन्दी – बन्धक रक्खी हुई या प्रेम से भोग के लिए अर्थात् मंगनी दी हुई वस्तु समय अधिक बीत जाने पर भी समय बीतने के नियन्त्रण योग्य नहीं होती है, अतएव नियत समय बीत जाने पर भी उन वस्तुओं को देनेवाला जब मांगे तभी वे वस्तुएँ वापस कर देनी चाहिये ॥१४५ ॥
गौ आदि के भोगने पर भी अधिकार का निषेध-सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ १४६ ॥
भाष्य - -प्रीतिरेव सम्प्रीतिः । तथा हेतुभूतयोपभुज्यन्ते धेन्वादयस्ते न नश्यन्ति । पूर्वस्वामिसम्बन्धहान्या भोक्तुः स्वत्वापत्ति ' र्नाश: ' स धेन्वादीनां प्रीत्या भुज्यमानानां न भवति । " ननु च सर्वस्यैवोपनिधेर्भोगेनापहारो नास्ति । वक्ष्यति ' निक्षेपोपनिधिस्त्रिय ' इति ( १४ ९ ) । को विशेषो धेन्वादीनाम् ” । उच्यते । यत्र दशवर्षो भोगो न च स्वरूपनाशस्तत्र ' यत्किंचिदिति ' ( १४७ ) सामान्यवचनेन प्राप्तेऽपहारे उपनिधेः प्रतिषेधः । धेन्वादीनां तूपनिधित्वमेव नास्त्यतः प्रतिषेधस्य नायं विषय इति स्यादाशङ्का । धाननिमित्तो हि धेनुशब्दो यदि परसम्वत्सरे ' धेनुः स्यात् परत उपसर्या यदि गर्भमादध्याद्धेनुत्वमापद्येत तदा जनयेदाशङ्कामस्यैवेयं न देवदत्तस्य । यतः प्रष्ठौही न भोग्या प्रीतिसम्भोग्यश्चापनिधिः । येन स्वकैर्भोग्यं परि-प्पाल्य पुनर्भुज्यमानं दृष्टम् । न पुनरुपनिधेरेतद्रूपम् । भोग्यो ह्युपनिधिः । असद्भावा-द्भोगस्य च कीदृशगुणमुपनिधित्वम् । उपनिधेश्चासौ प्रतिषेधः । तस्मादुपनिधिरूपाति-व्र्क्रमादसति तस्मिन्प्रतिषेधे यत्नान्तरमुक्तम् । उष्ट्रादीनामपि दशवर्षाणि भुज्यमानानामवस्थान्तरापत्तिः । अतस्तत्रापि नोपनिधित्वम् । वहन्निति केचिदश्वविशेषणं मन्यन्ते । वृषस्य नायं विधिः । अपरे तु गर्दभाश्वतरार्थं म्मन्यन्ते । दम्यो बलीवर्द: । प्रयुज्यते वाहनार्थं यो दीयते । अन्येतु पुनः प्रतिषेधं विकल्पार्थं मन्यन्ते । एतद्व्यतिरेकेणान्यस्योपनिधेरस्ति क्कादाचित्कोऽपहारः । तेन यद्वस्त्रादि प्रीत्या भुज्यते तच्च परिक्षीणं तत्रास्त्येवापहारः । न हिं प्रीत्या गृहीते वस्त्रे परिक्षीणे स्वामितनोपेक्ष्यते पुनरवसरोऽस्ति देहि मे वस्त्रं विनाशितं त्वया तत्समेन मूल्येन संशोधयेति ॥१४६ ॥
हिन्दी - प्रेम से उपभोग में लायी जाती हुई ( दूध के लिए ) गो, ( सवारी करने या मनु II. 15
पृष्ठ 236
पाठ पढ़ें पाठ छिपाएँ
२०० मनुस्मृतिः [ अष्टमः बोझ ढोने ( लादने ) के लिए ) ऊँट तथा घोड़ा, हल आदि में जोतने योग्य बैल आदि पर से स्वामी का अधिकार कभी भी नष्ट नहीं होता अर्थात् ग्रहण करनेवाले के उपभोग में आने पर भी उन पर मालिक का ही अधिकार रहता है ॥१४६ ॥
विमर्श -यह श्लोक अग्रिम ( ८। १४७ ) का अपवाद है ।
दश वर्ष भोगने पर स्वामीत्वनाश-यत्किंचिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ १४७ ॥
भाष्य- य - यत्किंचिद्भुज्यमानमिति व्यवहितेन सम्बन्धः । धनीति सन्निधानात्सामान्य-निर्देशेऽपि भुज्यमानधनोपेक्षणं प्रतीयते । यत्किंचिदिति दासीदासासारभाण्डादि सर्वं ग्राहयति । न हि तल्लोकेऽत्यन्तं धनमिति प्रसिद्धं गोभूहिरण्याद्येव महार्घं धनमिति प्रसिद्धतरम् । तेनायमत्रवाक्यार्थः । यत्किंचिद्द्रव्यं परेण भुज्यमानं धनी धनस्वामी दशवर्षाणि यावत्प्रेक्षते — न किंचिद्वक्ति, न राजनि व्यवहरति, न कुलसमक्षं भोक्तारं वदति ‘ मदीयमेतत्किमिति त्वया स्वयं भुज्यत ' इति - स दशभ्यो वर्षेभ्य उत्तरकालं न तल्लब्धुं स्वीकर्तुमर्हति । निवर्ततेऽस्य स्वमिति यावत् । प्रेक्षणेन ज्ञेयतामात्रमुच्यते न प्रत्यक्षतैव । संनिधाविति वक्ष्यामः परैः I न ज्ञातिसम्भन्धिभिः । तथा च स्मृत्यन्तरं - ' ज्ञातिसम्बन्धिभिर्विना ’ इति ॥ “ सम्बन्धिबान्धवैश्चैव भुक्तं यज्जातिभिस्तथा । न तद्भोगो निवर्तेत भोगमन्यत्र कल्पयेत् ॥ ” तदयुक्तम् । अव्यवस्थैवं सति स्यात् । के ज्ञातयः के वा सम्बन्धिन इति सम्बन्ध-मात्रग्रहणे न किञ्चिद्व्यावर्त्यम् । तस्माद्येनान्यदायं भुज्यते स एवं भवति । किन्तु तथा सति परशब्दोनुवादमात्रमनर्थः, कस्यापि न परव्यपदेशः । स निरस्यते । यथा भार्यापती पितापुत्राविति । तत्र ह्यात्मन्यपि व्यपदेशोऽस्ति “ अर्द्धा ह वा एष आत्मनो यज्जाया ” -“ आत्मा वै पुत्र नामासि ” इति । तेन दम्पत्योः पितृपुत्रयोर्न भोगाभोगौ कारणम् । तेषा-मपि विभक्तधनानां भोगकाले प्राप्तेऽभोगो बाधक एव । भार्याया अपि स्त्रीधने भर्तृसकाशाद्-गृहीते बन्धेन पत्युर्भोगे नासिद्धिः । सा ह्यत्यन्तपरवतीं । नोभयोर्विभागोऽस्ति । स्त्रीधन-मपि तेनैव तस्याः परिपालनीयम् । ' राजा स्त्रीश्रोत्रियद्रव्यादन्यत्र ' इति च पठ्यते । एवमनेन स्वामिन उपेक्षमाणस्य स्वाम्यहानिरुक्ता ॥१४७ ॥
कस्य तर्हि तत्सम्भवतीत्येवमर्थमुत्तरश्लोकः-हिन्दी - अपनी सम्पत्ति को दूसरे के द्वारा अपने काम में लायी जाती हुई देखता हुआ भी स्वामी दश वर्षों तक कुछ नहीं कहता अर्थात् नहीं रोकता तो वह स्वामी उस
पृष्ठ 237
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २०१ सम्पत्ति को पाने का अधिकारी नहीं है ॥ १४७ ॥
अजडश्चेदपोगण्डो विषये चास्य भुज्यते ।
भग्नं तद्व्यवहारेण भोक्ता तद्धनमर्हति ॥ १४८ ॥
भाष्य— न स तल्लब्धुमर्हतीत्यस्य शेषः । अजडश्चेदपोगण्ड इति । जडः अप्रतिपत्तिमान् । पोगण्डो बालः । प्राक्षोडशाद्वाल: पोगण्ड इत्युच्यते । एतच्च स्व-धनसंरक्षणासामर्थ्यकारणानामन्येषामप्युपलक्षणार्थम् । मद्यद्यूतविषक्तता दीर्घरोगगृही-तता तपःस्वाध्यायैकपरत्वं व्यवहारेष्वनैपुण्यं वागिन्द्रियाभावो बाधिर्यम् । यस्यैतेऽ-सामर्थ्यहेतवः सन्ति न तदीये धने भोक्तुर्बहुतरेणापि कालेन स्वत्वमापद्यते । विषये चास्य भुज्यते । अस्येति धनिनः प्रत्यवमर्शः । विषयः काश्मीराणां कश्मीर:, पञ्चालानां च पञ्चालः । यदि भोक्ता च स्वामी चैकस्मिन्नेव देशे वसेत्तथापि ' शक्तिविहीनस्यायं व्यवहारः । अत्रापि व्याख्याने प्रपञ्च एवायम् । अजडापोगण्डग्रहणस्य प्रदर्शनार्थतया ग्व्याख्यातत्वात् । तेन यस्य जानतो यदुपेक्षाकारणं न सम्भाव्यते तदीयं धनं दशवर्षाणि ' भुञ्जानो भोक्तैवार्हति — तस्य तत्स्वमित्यवगन्तव्यम् । -ननु च न भोगात्स्वत्वं युक्तम् । स्वत्वे सति भोगो युक्तः । भोगाद्धि स्वत्वेऽ-ग्व्यवस्था स्यात् । यश्चायमवधिर्दशवर्षाणीति स स्मृत्यन्तरेण न सर्वस्मिन्धन इष्यते । 1 किं तर्हि? “ पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ” इति ( याज्ञ ० व्य ० २४ ) । अन्ये तु विंशतिवार्षिकेणापि भोगेन स्वाम्यमनुमन्यन्ते । एवं ह्याहुः “ अनागमं च यो भुङ्क्ते ब्बहून्यब्दशतान्यपि । ” ( नारद ८७/७० ) तथा “ सम्भोगो यत्र दृश्यते न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥ ” ( नारद ८४ ) त्रिपुरुषभुक्तिवादिनस्तावदेवं पठन्ति । ( नारदीये १ / ९ १ ) “ यद्विनागममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाहर्तुं क्रमात्त्रिपुरुषागतम् ॥ ” अस्यायमर्थः । आगमो दानादिः । असति तस्मिन्यद्भुक्तं पितृपितामहप्रपिता-म्महैस्तच्चतुर्थस्य सिध्यति, न तु विंशत्या वर्षैः । तत्रान्यत्रोक्तम्— “ आदौ तु कारणं दानं मध्ये भुक्तिस्तुसागमा । अन्ते तु भुक्तिरेवैका प्रमाणं स्थावरे भवेत् ॥ ” तृतीयस्य भोगात्सिद्धिर्न प्रथमद्वितीययोः पितृपितामहयोः । अस्यापि न विंशति-व्वर्षेर्भोगः प्रमाणम् । अन्ये त्वागमरहितस्य वार्षशतिकस्यापि भोगस्याप्रामाण्यमनु-
पृष्ठ 238
पाठ पढ़ें पाठ छिपाएँ
२०२ मन्यन्ते । तथा चाहुः मनुस्मृतिः “ अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ ”
" भोगं केवलतो यस्तु कीर्तयेन्नागमं क्वचित् ।
आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥
[ अष्टमः ( नारद ८७,८६,८४ ) या तु बहून्यब्दशतानीति तदाहर्तृविषयमात्मीयमेव भोगं चिरकालत्वे हेतुमाह । तस्य पितृपितामहभोगेन विना न सिद्ध्यतीत्यर्थः । “ कथं पुनरेकस्यानेकाब्दशतो भोगः पुरुषस्य ” । नैष दोषः । चिरकालप्रतिपादनपरा बहुत्ववचनाः शतं सहस्रमित्यादयः शब्दाः । यथा “ शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय ” इति । एतदुक्तं भवति । विंशति-वार्षिकाद्भोगादधिकादपि न प्रथमभोक्तुर्भोगात्स्वत्वसिद्धिः । अर्थात् पुत्रस्यापि न सिद्-ध्यतीति यथा- - श्रुतमेव । न बहुष्वब्दशतेष्वागमस्मरणं सम्भवति । ततश्च चिरन्तन-देवायतनब्राह्मणमठग्रामा राजभिरपह्रियेरन् । लेख्यशासनमपि राजाधिकृतलेखकलिखित-मिति चिरन्तनेषु नैव प्रत्यभिज्ञायेत । कूटशासनमपि सम्भाव्येत । तस्माच्चिरन्तनो भोगः स्वत्वस्य दानाद्यागमसम्भावनाया ज्ञापको हेतुर्न तु कारकः । अत एव भुक्तिः प्रमाण-मध्ये पठिता ॥ “ लिखितं साक्षिणो भुक्ति प्रमाणं त्रिविधं स्मृतम् ” इति ( नारद ६ ९ ) । न तु स्वत्वकारणमध्ये “ सप्तवित्तागमा इति ' ( मनु १० / ११५ ) “ श्रुतशौर्यतप: कन्या ” इत्यादौ च । अथवा यत्र बलादि भोगकारणं सम्भाव्यते तद्विषयमेतत् ' अनागममित्यादि ’ अत्रैव प्रकरणे पठितम् ( नारद ८७ ) “ अन्वाहितं हृतं न्यस्तं बलावष्टब्धयाचितम् । अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमं विना ॥ ” इति । ( नारद ९ २ ) ननु च ‘ आधि: सीमा ' इत्यनेनैवायमर्थः सिद्धः । ” “ उक्तस्य कालस्य त्रिपुरुषं यावद्भुङ्क्ते स एवार्थः । अयं तु तत उत्तरकालमपि निवृत्त्यर्थमारभते । तथा च बहून्यब्दशतानीत्यत्र वचनम् । ‘ अन्वाहितं ' यत्प्रकटमन्यथा प्रदर्श्यान्तर्हितमन्यदवस्थाप्यते । ' हृतं ' रात्रौ सन्धिभेदच्छलादिना । ' बलावष्टब्धं ' प्रसह्येति शेषः । शिष्टं प्रसिद्धम् । “ यदि त्रिपुरुषा भुक्तिः प्रमाणं कस्तर्हि ' पश्यतोऽब्रुवतो भूमेर्हानिर्विंशति-वार्षिकी ' इत्यस्यार्थः? ”
पृष्ठ 239
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २०३ केचिदाहुः । कियन्तं कालं भुञ्जानस्य सति लेख्यदोषादौ सक्ताभियुक्तादि-कृतत्वं क्रमाक्षरविलेपादसत्यनयाभ्यामधमर्ण उच्यते । संदिग्धरूपमपि लेख्यमियता भोगकालेन निश्चीयते । अन्ये -त्वाहु: - -यत्रैव तामेव भूमिमेकस्य बन्धायार्पयति तामेव चापरस्यैकस्या-ऽऽद्यं प्रमाणमपरस्य पाश्चात्यं— तत्र सत्यपि प्रामाण्यस्याद्यत्वे पाश्चात्यो विंशतिवार्षिकी भोगो बलवान् । एतच्चायुक्तम् । येनैव स्वीकृतो बन्धस्तथैव सः - ' आधेः स्वीकरणात्सिद्धिः ’ इति वचनात् । स्वीकारश्च भूमेर्भोगाभिलाषैव । तेनेदृशे विषये स्वल्पेनापि कालेन बन्ध-सिद्धिः । एतदेवाभिप्रेत्योक्तम्— “ विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यत्र भुक्तं न तत्स्थिरम् ॥ ” इति । ( नारद ७७ ) विशेषग्रहणं गवाश्वादावभुज्यमानेऽपि नासिद्धिर्यतस्ते नावश्यंभोग्याः । तथाहि भवेद्गौर्गर्भं न गृह्णाति कीदृशोऽस्या अतो भोगः । भूमिस्तु सर्वदा फलदेति भोगलाभ-मन्तरेण न बन्धत्वसिद्धिः । तत्रापि कथञ्चिदुपेक्ष्यमाणस्य तु यच्छतः प्रथमभोगकाल एव यदि द्वितीयेनाऽ-ऽधिग्राहकेण संनिकर्षादिना स्वीकृतः स्यादितरेण वाद्यप्रमाणवता देशविप्रकर्षात्कार्यव्या-सङ्गाद्वा न स्वीकृतस्तदा विचार्यते नेयता तदसिद्धिः । यदा तु गृहीताधिरेव समनन्तरं राज्ञा प्रव्राजितो महान्तं व्याधिमाससाद न वाऽस्यान्योऽर्थरक्षाद्यधिकृतः कश्चिदस्ति स चिरेणाप्यागतः सिद्धावपि निरुपधिप्रमाणकाले लभत एव स्वीकृतमप्यन्येन । अन् तु भ्रातॄणां न्यूनाधिकविभक्तानां पुनर्विभागः समीकरणार्थ उक्तः । स विंशति-वर्षेभ्य ऊर्ध्वं नास्तीत्येवमर्थमिदमाहुः । एतावन्मात्रफलत्वे तत्रैवाभिधानमुचितम् । सामान्या-भिधानं तु प्रकरणोत्कर्षेणान्यविषयतामपि ज्ञापयति । अपरे तु — “ खिलीभूता भूमिर्येन क्षेत्रीकृता तत्र भूमिस्थानोपभोग उक्तः । स चेदेतावन्ति वर्षाणि निगृहीतस्तथा सूत्रक्षेत्रयन्त्रैश्च स्वामी भूमित्वेन स च विषय ” इत्येवमाहुः । इह भवन्तस्त्वाहुर्यौ समानदेशौ समानसामर्थ्यं समानस्वभावौ समानधनौ तुल्य-प्रयोजनावपरस्परसम्बन्धिनौ तयोरन्यतरस्येतरेण भुज्यमानमियन्तमवधिं समक्षमुपेक्ष-माणस्यास्य नैव स्थावरेषु स्वाम्यम् । किन्तु त्रिपुरुषभुक्तिवरोधात् सर्वेण सर्वम् । विरुद्धे ह्येते स्मृती ते न किमपि कल्पनमर्हतः येनास्ति च स्वाम्यं नास्ति चेत् किंचिद्युज्यते तत एव व्यवस्था युक्ता ।
पृष्ठ 240
पाठ पढ़ें पाठ छिपाएँ
२०४ मनुस्मृतिः [ अष्टमः यद्यपि स्वत्वागमकारणानि बहूनि सन्ति दानविक्रयबन्धकारणादीनि तथाऽप्य-नुपलभ्यमानकारणविशेषे विंशतिवार्षिक भोगेऽनन्तरादर्शितविषये बन्धरूपताऽभ्युपगन्तुं युक्ता । चञ्चलं भोग्यं च स्वत्वम् । वस्त्वपचये तत्प्रत्याहर्तुं लभ्यते । ततश्च त्रिपुरुषा भुक्तिः सर्वस्य स्वत्वमापादयति । दानविक्रयसम्भावना च यावत्येव सा वार्षिकी भवि-ष्यति । विंशतिवार्षिके भोगे न किंचिदनुपपन्ना । यत्रोभावप्यागममन्तरेण भोगमात्रबलात्प्रवृत्तौ तत्र पूर्वो भोगश्चिरन्तनोऽपि विंशति-वर्षभोग्येन साम्प्रतिकेन निरुपाधिना बाध्यते । दण्डपूर्विकयाऽत्रागत् इयत्कालो भोगः त्रिपुरुषागताया भुक्तेर्बाधक इत्युक्तं भवति । भग्नं तद्व्यवहारेणेति । व्यवहारग्रहणं धर्मनिवृत्त्यर्थम् । तेन यदि कथञ्चि-ञ्जानीते तदा जीयेत । तदापि त्वनेनोपनिधिभोगज्ञापने प्रमाणं नास्ति, तेन व्यवहरतो
जीयन्ते तद्धर्मो नास्ति । तादृशेन भोगेनापि हत इति तिष्ठत्वेतत् ॥१४८ ॥
हिन्दी – यदि किसी सम्पत्ति का स्वामी जड़ ( पागल आदि ) या सोलह वर्ष से कम आयु वाला ( नाबालिग ) न हो और उसके सामने अर्थात् जानकारी में ही उसकी सम्पत्ति ( भूमि आदि का ) उपभोग दूसरा कोई व्यक्ति दश वर्ष से कर रहा हो, तब व्यवहार के अनुसार उस सम्पत्ति पर उसके स्वामी का अधिकार नष्ट हो जाता ( नहीं रहता ) है तथा भोग करनेवाला व्यक्ति उस सम्पत्ति को पाता है ॥१४८ ॥
उक्त वचन का अपवाद-आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः ।
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ १४ ९ ॥
भाष्य — आधीयत इत्याधिर्बन्धकद्रव्यं गोभूहिरण्याद्युच्यते । यच्चोत्तमर्णाद्धन-मादीयते 1 । उपनिधिः शास्त्रन्तरेणान्तर्हितो न्यास उक्तः । यदप्रदर्शितरूपं सचिह्नवस्त्रा-दिना पिहितं निक्षिप्यते । प्रीतिभोग्यं तु युक्तमुपनिधिशब्दवाच्यम् । तस्य निक्षेपग्रहणे-नैव गृहीतत्वात् । सीमा मर्यादा ग्रामादीनाम् । बहुसाधारण्याद्धि तत्रोपेक्षा सम्भवति । गृहादीनां तु प्राकारपरिखादिरूपा द्वित्रिहस्तपरिमाणरूपा द्वयोः साधारणो याऽन्यतरे कथंचिदुपजीर्य-माणा स्वल्पत्वाद्भोगश्च कश्चित्कियन्तं कालमुपेक्ष्येतापि । तत्रापि दानादिस्वत्वापगमहेतुं सम्भावयतः । अतस्तत्पुत्राः पौत्रा वा गूढचिह्नादिना प्रज्ञापितसीमत्वादाच्छिन्दन्त्येव । बालधनं दृष्टान्तार्थं पोगण्डशब्दस्य दर्शितत्वादित्युक्तम् । स्त्रियो दास्यः भार्या वा । नेतरस्याधनस्यापहार उक्तो ' धनस्य दशवार्षिकी ' इति । “ ननु च नेह धनमस्ति, यत्किंचिदिति वस्तुमात्रनिर्देशोऽयम् ” ।