मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 241–250

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 241–250

पृष्ठ 241

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 241 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २०५ नैवम् । धनीति सम्बन्धेन धनविषयतैव यत्किंचिदिति सामान्यशब्दस्य प्रतीयते । क एवमाह स्त्रियो न धनमिति । इत्थं विनियोज्ये द्रव्ये धनशब्दो वर्तते । अथास्मादेव स्त्रीधनात्स्वत्वमात्रोपलक्षणम् । धनोपमानेन पुमांसोऽपि भोगेन दासाः स्वीक्रियन्त एव । राजस्वम् । देशेश्वरा राजानस्तेषां धनम् । ते हि महाधनत्वादुच्चत्वान्वयं धन-मनन्विच्छन्तो विरुतभेदादिर्निधनीक्रियन्ते । तदूनापेक्षया श्रोत्रियद्रव्यं श्रोत्रियधनाभियुक्तिः ॥ १४ ९ ॥ हिन्दी - बन्धक, सीमा ( सरहद ), बच्चे ( नाबालिग ) का धन, धरोहर, किसी बक्स आदि में रज्कर मुहरबन्द करके रक्षार्थ सौंपी गयी वस्तु, स्त्री ( दासी आदि ), राजा तथा श्रोत्रिय का धन इनका दूसरे के भोग करने पर भी उनका स्वामित्व नष्ट नहीं होता अर्थात् उसको पाने का अधिकार उनके स्वामी को ही रहता है ॥ १४ ९ ॥ तीन पीढ़ियों तक बन्धक के भोगने पर-[ यद्विनाऽऽगममत्यन्तं भुक्तपूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाहर्तुं क्रमात्रिपुरुषागतम् ॥ १३ ॥ ]

[ हिन्दी - आगम के बिना तीन पीढ़ियों से भोग किये गए धन को लेने का अधिकारी उसका स्वामी नहीं होता है ॥ १३ ॥ ]

बन्धक भोगने पर आधा सूद-यः स्वामिनाऽननुज्ञातमाधिं भुङ्क्तेऽविचक्षणः ।

तेनार्थवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ १५० ॥

भाष्य — उक्तं ‘ न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् ' इति ( १४४ ) । सर्वस्य हि ग्रहणमुच्यते । तत्र निषिद्धे भोगे बलादाधिं भुञ्जानो सर्वां हारयत्येव वृद्धिम् । अननुज्ञाते प्रतिषेधनम् । रहस्युपभुज्यमानभोगे न चाभिर्नश्यति तत्र रूप्यसुवर्णालङ्कारा-दावर्द्धवृद्धित्यागोऽनेन श्लोकेनोच्यते । यत्तु नवं महार्धमलङ्करणवस्त्रादि परिधीयमानं नाशितं तत्र न केवलं वृद्धि-हानि:, यावद्धनं नष्टं तत्परिपीड्य मूलतः प्रविशतीति महत्तरैर्व्याख्यातम् । यज्वना तु व्याख्यातम्— यत्र स्वामी व्यवहरति अध्यधीनश्च तत्राध्यधीनेन बन्धो दत्तः, स्वामिना च दृष्टः, तत्र धारणकेन कस्मिंश्चिदवसरेऽध्यधीनः पृष्टः ' प्रयोजनं ममानेन बन्धेनास्ति ' तत्रोपनिधिन्यायेन तेनानुज्ञातः कालान्तरे भुञ्जानं यदि स्वामी पश्यंस्तदनुज्ञातं बन्धं क्षपितवान् – सतीदृशे विषयेऽर्द्धवृद्धित्यागः । तदयुक्तम् । यतस्तुल्यो व्यवहारः परस्परापेक्षः स्वामिभृत्ययोः । तत्र तत्रान्यतरेणा-नुज्ञाते नायमननुज्ञातः प्रयुज्यतेऽधर्मतः । स्वामिशब्दस्यार्थे स्वत्वमीदृशि विषये भवति ।

पृष्ठ 242

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 242 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०६ मनुस्मृतिः क [ अष्टमः अन्यथा बन्धं यो ददाति सोऽवश्यं स्वाम्येन युक्तः । “ अध्यधीनस्तु न स्वामी । ” यद्येवं चौरस्तर्हि । तस्मात्स्वामित्वाध्यारोपः । उपयोगे वाऽध्यधीने स्वाम्यनुज्ञा-व्यवहाराद्ब्राह्मदत्तवत् । अतः पूर्व एवार्थः । स्वामिग्रहणं पादपूरणार्थम् । भुङ्क्तेऽविचक्षण इत्यकारः संहितया प्रश्लिष्टनिर्दिष्टो वेदितव्यः । यस्य ह्यस्ति बुद्धिः ‘ वृद्धिर्ममास्त्येवाधिको लाभो वस्तुभोग इति ' सोऽविचक्षणः । न हि लोक-शास्त्रनियोजनीया स्थितिः यदुभौ लाभश्च भोगश्च वृद्धिः स्यात् तेन सा वृद्धिर्भोक्तव्या । निष्कृतिः परशुद्धिर्विनिमय इति यावत् । अन्ये तु द्विगुणीभूतेऽप्यमोक्ष्यमाणे प्रतिषेधमिममिच्छन्ति – तस्य हि स्वल्पोऽ-पराध इति वदन्तः । प्रथमं तावदादावेव तैर्याज्ञवल्क्यवचनस्य विषयो देय ' आधिः प्रणश्येदिति ’ ( व्य ० ५८ ) ॥ १५० ॥

हिन्दी- -बन्धक रक्खी हुई ( वस्त्र, भूषण आदि ) वस्तुओं का भोग जो नासमझ ( व्यवहार ज्ञानशून्य ) स्वामी की आज्ञा को नहीं पाकर करता हो, उसे उन वस्तुओं के भोग के बदले में आधा सूद लेना चाहिये ॥१५० ॥

विमर्श — बलात्कारपूर्वक बन्धक के भोग करने पर पूरा सूद देने का निषेध पहले ( ८।१४४ ) में कर चुके हैं । दुगुने से अधिक सूद का निषेध—

कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहिता ।

धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ १५१ ॥

भाष्य – लाभार्थो धनप्रयोगः कुसीदम् । तत्र वृद्धिः । अथवा प्रयुज्यमानं प्रयोक्तृ-सम्बन्धिधनमेव कुसीदम् | यदीयं स्वल्पं दत्त्वाऽधिकं ग्रहीष्यामीति धनं दीयते तत्कु-सीदम् । तत्र वृद्धिः । सा द्विगुणत्वं नातिक्रामति । तावदुत्तमर्णेन वृद्ध्यर्थं धनं दत्त-वताऽधमर्णाद् ग्रहीतव्यं यावन्मूलधनं द्विगुणं प्रविष्टम् । “ ननु वृद्धेर्द्वैगुण्यं श्रूयते । मूलेन सह त्रिगुणं प्राप्नोति ” । नैवम् । ‘ गुणो’ऽवयव उच्यते । स तावदवयविनमपेक्षते । प्रकृतं च धनम् । अतः प्रयोगविषयस्य धनस्यानेन प्रकारेण द्वैगुण्यमुक्तं भवति । तथा च स्मृत्यन्तरं ' चिर-स्थाने द्वैगुण्यं प्रयोगस्य ' ( गौतम १.२ / ३१ ) – “ मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे

पृष्ठ 243

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 243 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता धने ” इति ( याज्ञ ० व्य ० ६४ ) । २०७ वृद्धिश्चानेकरूपा । कार्षापणेषु प्रयुक्तेषु कार्षापण एव वर्द्धते ॥ क्वचित्सन्ततिः-‘ स्त्रीपशूनां वेति ’ संततिः । क्वचिदाधिभोगः, गोभूम्यादेः । तत्रेदं द्वैगुण्यं सरूपवृद्धिविषयं केचिदाहुः । तत्र हि मुख्यं वृद्धेर्द्वैगुण्यं प्रतीयते । संततौ न विज्ञायते किं सङ्ख्यायाऽस्या द्वैगुण्यमुत परिमाणेनोत मानतो वेयम् अतो णेत्वाद्यनिश्चयः । पशूनां मूल्याद्धि महार्घत्वं हस्त्यश्वादिषु क्रयविक्रयादौ दृश्यत एव । महाप्रमाणा हि महार्धा भवन्ति । " ननु च संततौ सारूप्यमस्त्येव । गो: संततिगैरिव । तत्र भेदोपन्यासो न युक्तो वृद्धिः सरूपा संततिश्चेति । ” उच्यते । नैकजातीयत्वमात्रेण सारूप्यं भवति, किन्तु वयः परिमाणादिसाम्येन । अतो युक्तो भेदोपन्यासः । भोगलाभेऽपि कुतो द्वैगुण्यप्रतीतिः । उपकारकाणि जनयितुं गाव: प्रयुज्यन्ते । गोभूम्यादि पयोयवसादयो यथासम्भवं भुज्यन्ते । तत्र कीदृशं द्वैगुण्यम् । समाचारश्च क्वचिदृश्यते । वर्षशतानि भूमिरामूलहिरण्यादानद्भुज्यते । पठति च याज्ञ-वल्क्यः “ आधिश्च भुज्यते तावद्यावत्तश्च प्रदीयते ” ( व्य ० ९ ० ) इति । अत्रोच्यते | वृद्धिमात्रे श्रूयमाणे द्वैगुण्यं कथं विशेषेऽवस्थाप्यते । न हि श्रुत्या सामान्यप्रतिपत्तिर्भवन्ती विना प्रमाणेन विशेषेऽवस्थातुमर्हति । यत्तु संततावनुपपन्नं द्वैगुण्यमित्यवगमे यत्नः क्रियताम् । मूलमर्घेण परिनिश्चितवता वृद्धिस्तत्सामान्या एव तज्जातानां भवति । भूमिभोगेऽपि यवसगोधूमादौ तत्पच्यमानस्यार्घतः शक्यत एव समत्वं निश्चेतुम् । उपकारवचनोऽपि गुणशब्दोऽस्ति । “ क एवं सति समगुणो भवति क उपकार को भवतीति कथं गम्यते । ” अनेन यावन्मूल्यं गोधान्यविनिमयादुत्पद्यते तावदेव चेत्तत उत्पन्ना वृद्धिस्तदा भवति समगुणत्वम्— परिमाणादिसाम्याभावेऽपि । यस्तु क्वचित्समाचार: - भवतैव परिहृतः क्वचिद्ग्रहणं प्रयुञ्जानेन । समाचारभ्रंश-सम्भवे स्मृतयो नियामिका अर्थवत्यः । “ आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ” इत्यत्र यावद्दानात्तद्विगुणमप्रविष्टम् इत्यपि शक्यते नेतुम् । स्मृत्यन्तरैकवाक्यत्वाच्चैतदेव युक्तमध्यवसातुम् । उपपादितं चैतन्त्रिपुणतोऽन्यत्र । सकृदाहिता । सकृदित्यनेन व्यवस्थापितोऽङ्गीकृतः पुनः पुनः प्रयोग इति यावत् । ‘ आधानं ’ स्थापनमुच्यते । वचनव्यवस्थया च निरूपणं स्थापनमेव । पुनः प्रयोगश्च द्विगुणीभूते धने आदीयमाने भवति । यदा द्विगुणो हि वृद्ध्यर्थ उत्तमर्णोऽधमर्णश्च तदीयेन धनेन महत्कार्यं करिष्यन् करणपरिवृत्तिं करोतीति या प्राक्तनी वृद्धिरियं वाऽद्य-

पृष्ठ 244

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 244 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०८ मनुस्मृतिः [ अष्टमः प्रभृति त्रर्धत इति— तदा द्विगुणभूतमपि पुनर्वर्धत एव । पुरुषान्तरसंचारेण वा । यदि द्विगुणीभूतं धनिकस्योपयुज्यते तदाऽधमर्ण उच्यमानोऽन्यपुरुषं ददतमर्पयति ‘ एष त इयद्भिरहोभिर्दास्यतीति ' तत्र स्वहस्तं दीयमानं पुनर्वर्द्धते । न चायं दानं प्रति प्रतिभूः किन्तु निक्षेप्ता दातैव । एतत्तु ऋजुना पुरुषान्तरसंक्रान्तमिति व्याख्यातम् । अथवा प्रागपि द्वैगुण्याद्यदा बन्धमन्यस्मै प्रत्यर्पयति — दीनारेषु सलाभेषु द्वित्वे-तस्य बन्धस्य मोक्ष एव धर्म्यः । बन्धस्य प्राग्वृद्धौ स्थितायां तस्मादह्वः प्रभृति पुनर्द्वै गुण्यमाप्नोति । यदा तदीयं बन्धकं तदनुज्ञयोत्तमर्णेनान्यत्राधाय स्वधनं गृह्यते तदा वर्धत एष पुरुषान्तरसंचारः । उभयत्र द्विगुणीभूते प्रयोक्ताऽधमर्णकेन येनकेन प्रकारेणान्यस्माद्ग्रहणमनुज्ञाप्यते । यदि वाऽस्मादन्यद्गृह्यते ग्रहीता देशान्तरं गमिष्यन् कार्यान्तरेण चान्यत्र संचारयति । ऋजुस्तु तस्मादेवाधमर्णादनवीकृते प्रयोगे द्विगुणाधिकां वृद्धिं नेच्छति । अत आह ‘ पुरुषान्तरमसंक्रान्ते पुनःक्रियाप्रयोजनं च वक्ष्यामः ' । ये तु व्याचक्षते— “ या वृद्धिरुपचिता सांवत्सरी युगपत्सर्वैवानीयते तत्रायं विधिः । या पुनः प्राप्तदानाऽपि सर्वा न दीयते तत्र द्विगुणादधिकग्रहणमपि ’ ” तेषां न ‘ न’शब्दो यथार्थो नापि ‘ आहित ’ इति । सांवत्सरी तावदुपचिता ग्राह्या द्वितीयसंवत्सरे पुनरान-यनमस्त्येवेति न क्वचिद्द्द्वैगुण्यनियमः स्यात् । अथ - – “ यो द्विगुणीभूतं सलाभं धनमानयति तत्राधिकनिषेधोऽस्तु । प्राग्द्वैगुण्याद् वृद्धिमात्रदानसमर्थो वृद्धिं ददाति । मूलं तस्यापरिमितग्रहणमिति " । एतदपि न किंचित्! यः संवहति तस्यानुग्रहो न्याय्यो नाधिकग्रहणम् । यस्तु राज्ञा द्विगुणीभूतमपि कथंचिद्-दाप्यते तस्याधिकमोक्ष इत्येतदन्याय्यम् । न चाहितेत्यस्य शब्दस्यायमर्थः । अथ ‘ आहृतेति ’ पाठान्तरम् - तथापि सकृच्छब्दो न निश्चितार्थो न्यायस्तु परि-त्यक्तः स्वकृतश्च पाठः स्यान्न मानवी स्मृतिरित्युक्तैव व्यवस्था न्याय्या । धान्यादिषु पञ्चतां पञ्चगुणतां नात्येति । स्मृत्यन्तरे धान्ये चतुर्गुणोक्ता " हिरण्यवस्त्रधान्यानां वृद्धिर्द्वित्रिचतुर्गुणा " इति ( नारद, याज्ञ ० व्य ० ३ ९ ) । तत्र व्यवस्था – यदि दरिद्रभूतः प्रयोक्ता ग्रहीता च महा-धनसम्पन्नस्तेन धान्येन महान्तमर्थं कृतवांस्तदा पञ्चगुणाऽन्यथा चतुर्गुणा । ‘ सदं ' फलं वार्क्षम्, धान्यस्य पृथगुपादानात् ।

लव उदीच्येषूर्णाविषयः प्रसिद्धः ।

बाह्यो गर्द्दभोष्ट्रबलीवर्दादिः ॥१५१ ॥

पृष्ठ 245

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 245 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २० ९ हिन्दी - मूल धन के एक साथ लिया गया सूद मूल धन के दुगुने से अधिक नहीं होता और अन्न, वृक्ष का फल, ऊन, भारवाहक जीव ( बैल, ऊँट, गधा आदि बहुत दिनों के बाद भी ) मूल के पंचगुने से अधिक नहीं होते ॥ १५१ ॥

सूद का प्रकार-कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥ १५२ ॥

भाष्य- - अनुसरन्त्यनुधावन्त्यनुवर्तन्ते सर्व एवार्था एतमित्यनुसारः शास्त्रोदितः समाचार: । स च विविधोऽशीतिभागादिः पञ्चकशतपर्यन्तः । तस्मादधिका वृद्धिः कृता यावत्तथाऽधमर्णोनोत्तमर्णस्य न सिध्यति । कुत:? व्यतिरिक्ता — यतः शास्त्र-वाह्येत्यर्थः । अर्थवादान्तरमाह । कुसीदपथमाहुस्तमिति । कुपुरुषा यत्र सीदन्ति तत् कुसीदम् । धर्मेण तद्धर्माणो लक्ष्यन्ते । कुसीदीनामयं पन्था मार्गो व्यवहारो न साधूनामिति निन्दा यस्यावश्यमधिका कर्तव्या - महद्धि कार्यमयं मदीयेन धनेन साधयतीति बुद्ध्या-तदा वर्णविभागमनपेक्ष्य पञ्चकं शतं ग्रहीतुमर्हति लिप्सेत् — तदर्थमिदमुच्यते । पाठान्तरं ‘ कृता तु सारादधिकेति ' । यस्याकिंचनस्य सतः स्वल्पा कृता तेनैव धनेनान्यथा वा महार्थतां प्राप्तस्तस्य या पुरुषसारादधिका क्रियमाणा न सिध्यति । य: परं पञ्चकशतमर्हति ॥१५२ ॥

हिन्दी – पूर्वोक्त ( ८।१३ ९ - १४२ ) प्रमाण से अधिक सूद नहीं लेना चाहिए तथा शूद्र से पाँच प्रतिशत लेने का जो प्रमाण है, उतना सूद द्विजों से लेना भी ( मनु आदि महर्षि ) निन्दित बतलाते हैं ॥१५२ ॥

विमर्श — बिना माँगे यदि ऋणी अपना नियत सूद ऋणदाता को प्रसन्नता से यथा समय दे दे तो उक्त क्रम से अधिक सूद नहीं लेना चाहिए; किन्तु माँगने पर ऋणी भी ऋणदाता को सूद नहीं दे तो पाँच प्रतिशत तक सूद लेना चाहिए ।

नातिसांवत्सरीं वृद्धिं न चादृष्टां विनिर्हरेत् ।

चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ १५३ ॥

भाष्य - संवत्सरे भवा सांवत्सरी । ताम् अतिक्रान्ता अतिसांवत्सरी । भव-प्रत्ययार्थः सामर्थ्यादन्तर्भूतः । अथवा संवत्सरमतिक्रान्ता अतिसंवत्सरेति प्राप्ते वृद्धी-कारौ छन्दस्तुल्यत्वात्कर्तव्यौ । येषां वृद्धिरनन्तप्रक्रान्तं पञ्चकं शतं सर्ववर्णविषया सा संवत्सरं यावद्ग्रहीतव्या, नातीते संवत्सरे । अथवा यावत् संवत्सरम् । संवत्सरो वर्ष: । तावद्वृद्धिर्न ग्रहणीया ।

पृष्ठ 246

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 246 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१० मनुस्मृतिः अधमर्णेनापि संवत्सरादूर्ध्वं न विलंबितव्यम् । विनिर्हरेत् विनिष्कृष्य स्वधनादारभ्योपनयेदित्यर्थः । [ अष्टमः अर्वागपि संवत्सराद्या दीयते सोऽप्यतिक्रान्तसंवत्सरैव । अथवा मासादारभ्य संवत्सरस्य यावदवृद्धिः परिमाणतो निरूपितव्या - मासेन यद्वर्द्धते संवत्सरेण वेत्येवं प्रयोगः कर्तव्यः । न तु संवत्सरद्वयस्य लाभार्थी कदाचिच्चिरकालं ग्राहयति — किं मे कतिपयमासिकेन लाभेन यदि द्वे वर्षे ततोऽधिकं वा गृह्णासि तद्ग्रहणे एषा वेयता कालेन वृद्धिस्तत्रार्वाचीनमपि दददधमर्णे द्विसांवत्सरीं यथा कालकृतां तदा दाप्येत । “ एकां वृद्धिमनादेयां न दद्यान्नापि दापयेत् ” इति । यथा मासिकी वृद्धिः प्रथमे मासि द्वितीय एवाह्नि शोधयन्दाप्यते तथा यदैवमभ्युपैति संवत्सरेण यद्वर्धत इति तदा तथैव दाप्यते न तु तदधिककालकृता । न चादृष्टां विनिर्हरेत् । शास्त्रे या न दृष्टा दशैकादशिकाद्या पञ्चकादधिका न तां गृह्णीयात् । ‘ व्यतिरिक्त: न सिध्यति ' ( १५२ ) इत्यस्यैवायमनुवाद इति केचित् । इदं तु युक्तम् – अदृष्टामनुपचितामित्यर्थः । यावद्बहुभिर्मासैर्न संहतीभूता तावन्न ग्राह्या दिवसवृद्धिर्मासवृद्धिः । “ ननु च ‘ मासस्य वृद्धिं गृह्णीयात् ' ( १४२ ) इत्युक्तम् । ” परिमाणं मासिकम् । तद्वृद्धेर्न तु ग्रहणम् । चक्रवृद्धिः कालवृद्धिः कारिका कायिका च या तामपि न विनिहरे-दित्यनुषङ्गः – नैवादद्यादिति । यद्यप्यधमर्णस्य प्रतिषेधस्तथापि सामर्थ्यादुत्तमर्णस्यैव द्रष्टव्यः । अधमर्णो ह्यार्तः किं न करोति । अथवा ' विनिर्हारो ' ग्रहणमेव । तेनोत्तमर्णस्यैव शाब्दः प्रतिषेधः । " ननु च द्विकादिवृद्धिविधानाच्चक्रवृद्ध्यादीनां प्राप्तिरेव नास्ति— किं प्रतिषेधानुषङ्गेण? ” उच्यते । अप्राप्तः प्रतिषेधः पाक्षिकीं वृद्धिमनुमापयति । यथाऽऽधाने न ब्रह्म-सामाभिगायेदित्यविहितं सामगानं प्रतिषेधेनास्तीति ज्ञापयति । तेनैता अपि प्रतिषेध-द्वारेणाभ्यनुज्ञायन्ते । केषांचिदूनव्यवहारिणां चक्रवृद्ध्यादयोऽपि भवन्ति । तेन स्थल-पथवारिपथिका वाणिजो यथोक्तम् ( या ० व्या ० ३८ ) । “ कान्तारगास्तु दशकं सामुद्राविंशकं शतम् । दधुर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ” इति । कान्तारगादीनामेव स्वकृता सर्वजातिविषया साधारणी वृद्धिर्न त्वन्येषाम् । मिक

पृष्ठ 247

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 247 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २११ तत्र चक्रवृद्धिः स्मृत्यन्तरे पठिता- ' वृद्धेर्वृद्धिश्चक्रवृद्धिः ' ( नारदीये १।१०४ ) । अन्ये तु चक्रवद्यानं गन्त्र्यादि — तदवृद्धिश्चक्रवृद्धिः । तेषां यस्मिन्नहनि चक्रं वर्तते तत्रैव वृद्धिः । यदा तु नदीसंतारे दुर्दिनादिना अप्रयाणं तदा नास्ति वृद्धिः । एवमन्येषामपि बलीवर्द्यादिवाह्यप्रयोक्तृणामीदृशी वृद्धिश्चक्रवृद्धिरुच्यते । कालवृद्धिः “ प्रतिमासं तु कालिका ” ( नारदीये १।१।३ ) । मासग्रहणमुपलक्ष-णार्थम् । याऽनुपचिता वृद्धिर्दिवसे दिवसे गृह्यते मासि मासि वा यस्याः कालो न प्रतीक्ष्यते अथ चैतस्मिन्काले यदि न ददासि तदा द्विगुणीभवति धनमित्येकरूपा कालवृद्धिः । कारिता । इत्थंकृतां यावतीं वा परस्परोपकारापेक्षयोत्तमर्णाधमर्णौ कुरुतः । एषा-ऽपि दिग्भागवणिजामेव । अन्येषां तु “ व्यतिरिक्ता न सिध्यति ” इत्युक्तम् । “ पञ्चकं शतमर्हतीति ” । अथवा हिरण्ये प्रयुक्ते वासांसि वृद्ध्या गृह्यन्ते, तत्राधिलक्षणं द्रव्यं, सा ' कारिता ’ यथाभोगलाभे न्यासरूपविषये च स्यात् । कायिका कायकर्मणा संशोध्या । कायजीविका च— - येषां क्रमेण काचैवाधि-कादीनाम् (? ) ॥ १५३ ॥

हिन्दी — ऋणदाता ऋणी से पहले ही ' प्रतिमास, प्रति दो मास, प्रति तीन मास तुम सूद दिया करना ' ऐसा एक वर्ष तक का सूद चुकता कर देने का निर्णय करा ले, किन्तु एक वर्ष से अधिक समय का सूद एक बार में लेने का नियम कभी भी न करे और शास्त्र में ( ८।१३१-१४२ ) कहे हुए प्रमाण से अधिक सूद भी कभी नहीं ले; चक्रवृद्धि कालवृद्धि, कारित तथा कायिक सूद भी न ले ॥ १५३ ॥

विमर्श - सूद का सूद ' चक्रवृद्धि, प्रतिमास बढ़ाया गया सूद ' कालिक ', ऋणी के आपत्ति काल में ही उस पर दबाव डालकर बढ़ाया या लिया गया सूद ' कारित ' और अधिक बोझ ढोवाने या अधिक दूध दूहने से वसूल किया गया सूद कायिक सूद है । [ अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् । प्रेक्ष्यश्च तमृणं दाप्यः काले देशे यथोदयम् ॥ १४ ॥ ]

[ हिन्दी – यदि ऋणी समय के बदलने से शक्तिहीन हो जाय तब उसको देशकाल में उसकी उन्नति के अनुसार ऋण दिलवाना चाहिये ॥१४ ॥ ]

कागज ( हैण्डनोट आदि ) बदलना-ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् ।

स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ १५४ ॥

पृष्ठ 248

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 248 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१२ मनुस्मृतिः [ अष्टमः भाष्य — वृद्धिद्विगुणीभूतमृणं धनपरिक्षयाद्दातुमशक्तो यः स पुनः क्रियां कारयितव्यः । करणं लेख्यसाक्ष्यादि परिवर्तयितव्यः । वृद्धिं तु दद्यात् निर्जितां— यावती गणनया भवतीत्यर्थः । द्विगुणादधिकं न ग्राह्यमिति यदुक्तं तस्यायमपवादः । जयो ह्ययं प्रयोग इति । “ कुतः पुनः द्वैगुण्यापवादार्थता ” । यावता नेह किंचिदीदृशं वचनमस्ति वृद्धिसहितं धनं वर्द्धते मूलधनं वा । केवलं पुनःक्रिया श्रूयते । सा च करणं परिवर्तयेदिति व्याख्यान्तरेण व्याख्याता । “ यदि न वर्धते किमर्थं तर्हि करणपरिवर्तनम्? ” उच्यते । शान्तलाभे धनेऽदीयमाने आलस्यादिसम्भावना साक्षिणश्च दार्धे गच्छति काले विस्मरेयुः । यथोक्तम्— “ यत्र कार्ये भवेद्येन कृतोपेक्षा दशाब्दिकी विवादस्तत्र नैव स्यात्साहसेषु विशेषतः ॥ ” तथा ‘ “ दशवर्षोपेक्षितमृणमसाध्यमिति ” तथा च पूर्वे स्म व्याचक्षते । अयं च राज्ञ उपदेशः पीडितस्यानुग्रहः । यदि च द्विगुणस्य नवीकरणेन पुनः प्रयोगो वृद्धिसहितस्य पुनर्वृद्धिर्महानयं पीडितस्यानुग्रहः (? ) । अथ सर्वं तदानीम-वष्टभ्य न दाप्यत एषोऽनुग्रहो निर्धनस्य । ईदृशोऽनुग्रहो दैवेनैव कृतः । तथा च सर्व-स्मृतिष्वस्यामवस्थायां विहितम्—

“ अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् ।

प्रेक्ष्य शक्तिमृणं दाप्यः काले देशे यथोदयम् ” ॥

यद्यधमर्णो दैवदोषान्निर्धनीभूतस्तदा न दुर्गावरोधादिना राज्ञा पीडयितव्यः । किं तर्हि कर्तव्यम्? यदाऽस्य कथंचिद्धनं भवेत्तदा यथासम्भवं शनैः शनैर्दापयितव्यः । ' प्रेक्ष्य शक्तिं ' धनवत्तां ज्ञात्वेत्यर्थः । ' दाप्यः ' उचितस्य । वक्ष्यति ' कर्मणाऽपि समं कुर्यात् ' इति ( १७७ ) । तस्मात् करणपरिवृत्तौ यदेवोक्तमस्माभिस्तदेव प्रयोजनम्॥१५४ ॥

हिन्दी — निर्धारित समय पर ऋण चुकाने में असमर्थ ऋणी यदि फिर ( हैण्डनोट आदि लिखना ) चाहे तो वह वास्तविक सूद देकर हैण्डनोट आदि को बदल दे ( नया लिख दे ) ॥१५४ ॥

अदर्शयित्वा तत्रैव हिरण्यं परिवर्त्तयेत् ।

यावती सम्भवेद्वृद्धिस्तावतीं दातुमर्हति ॥ १५५ ॥

भाष्य - अदर्शयित्वा हिरण्यम्, अदत्वा निर्धनत्वादहिरण्यम्, तत्रैव पुनःकरणं

पृष्ठ 249

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 249 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २१३ परिवर्तयेत् । साक्षिसमक्षमेवं ब्रूयात् ' एतावन्मूलमस्मै धारयामि एतावती च वृद्धिरिति ’ तत्रैवारोपयेत् यावसंवत्सरात् वृद्धिरिति तावद्व्याचक्षते । पुनः करणे वृद्धिसहितमूली-भूते लघीयसी वृद्धिः कर्तव्या । यावत्या वृद्ध्या नातिपीड्यते । या प्रागासीत्ततो न्यूने-त्यर्थः । यज्वासहायनारदानां तु मते काकिणीमात्रमपि शक्तः करणपरिवृत्तिकाले दाप-यितव्यः । येन साक्षिणो न श्रवणमात्रे साक्षित्वं — ददाति तत्समक्षमधमर्णः । अर्थ-सम्बन्धोऽपि प्रत्यक्षीभवति । यतः श्रवणाश्रवणे च कृता भविष्यन्ति, ततश्चित्तं तिष्ठति, धने दशवर्षोपेक्षितमित्यादि व्यनश्वरो भविष्यति (? ) ॥ १५५ ॥

हिन्दी — यदि ऋणी सूद देने में असमर्थ हो तो सूद को मूल धन में जोड़कर जो धनराशि हो उतने का कागज ( हैण्डनोट आदि ) लिख दे, ऐसा करने पर उस धन ( सूद सहित मूल धन ) का सूद भी ऋणी को ( ऋणदाता के लिए ) देना होगा ।

स्थान तथा समय का भाड़ा-चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।

अतिक्रामन्देशकालौ न तत्फलमवाप्नुयात् ॥ १५६ ॥

भाष्य — ‘ वाराणसीं यास्यामि तदीयं पुण्यं मे भाण्डं च हेतुः, एषा च ते वृद्धिरिति । ’ तत्र यदि कान्तारनदीसंतरणं राष्ट्रोपल्पवादिना तं देशं न गतस्ततोऽर्वाग्द-शात्कियता लाभेन प्रवृत्त्याव्यावृत्तस्तदा यथानिरूपिता वृद्धिर्न दाप्यते । यतस्तं देशं यावद्वहतां या वृद्धिरप्राप्तानां सा कथं स्यात्? दीर्घमध्वानं वहतां युग्यानां महान्क्लेशः स्वामिनश्च तावन्तं कालं कृतैव वृद्धिर्युग्योपकारः । शीघ्रं तु प्रतिनिवृत्तानां स्वामिनः पुनरन्यत्रोपकारणं सम्पद्यत एव । एष एवातिक्रमः । एवं कालातिक्रमः — ‘ मासं मे वहन्तु बलीवर्द्या इयती तव वृद्धिरिति ' । तत्र यदि पक्षात्प्रत्येति तत्र चक्रवृद्धिमधमर्णः समारूढः प्रतिपन्नोऽङ्गीकृतवानिति यावत् । तस्यां वृद्धौ देशकालौ व्यवस्थितौ । यत्तया पूर्वोक्तेन प्रकारेण देशविशेषं कालविशेषं वा न, निर्विशेषणमेव, कृतवान् स एवंविधोऽधमर्णस्तौ देशकालौ अतिक्रामन नाप्नुया-त्तत्फलं वृद्ध्याख्यं नाप्नुयान्न भजेत न दद्यादित्यर्थः ॥१५६ ॥

किं तत्र नैवास्ति वृद्धिरथवा पञ्चकं शतम्? तेनेत्याह हिन्दी — देश तथा काल की वृद्धि ( भाड़ा - अमुक स्थान तक यह बोझ पहुँचाने का अथवा अमुक समय तक काम करने का इतना धन लूँगा इस प्रकार ) निश्चय करने के बाद में देश या समय का उल्लंघन करे ( उस नियत स्थान तक बोझ नहीं पहुँचावे या उतने समय तक कार्य नहीं करे ) तब वह उसका भाड़ा पाने का अधिकारी नहीं होता है ॥ १५६ ॥

पृष्ठ 250

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 250 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१४ मनुस्मृतिः [ अष्टमः समुद्रयानकुशला

देशकालार्थदर्शिनः ।

स्थापयन्ति तु यां वृद्धिं सा तत्राधिगम प्रति ॥ १५७ ॥

भाष्य — समुद्रयानग्रहणं यात्रोपलक्षणार्थम् । स्थलपथिका वारिपथिकाश्च वणिजो यां वृद्धिं स्थापयन्ति सा तत्राधिगमं प्रति निश्चयं प्रति । सैव निश्चेतव्येत्यर्थः । देशकालार्थदर्शिनः– अस्मिन्प्रदेश इयानर्थलाभोऽस्मिन्नियानिति ये पश्यन्ति जानते — न तु समुद्रयान एव च ये कुशलाः कर्णधारादयः । अन्ये पूर्वश्लोकमेवं व्याचक्षते यदृच्छाध्याहारेण — अधमर्णेन या देशं कालं चाश्रिता तां च प्राप्य तद्देशोदितं फलं लाभाख्यं तस्माद्देशाद्यदि नाप्नुयात्तदा कीदृशी तत्र वृद्धिरित्याकांक्षायामुत्तरश्लोकः । चक्रवृद्धिग्रहणं कारिताया अपि प्रदर्शनार्थम् । लोभातिशयभाजां वणिजां क्षयव्ययादिसंविधिज्ञाः परस्परस्य यां वृद्धिं स्थापये-युस्तां राजा प्रमाणीकुर्यात् । तत्राधिगमं प्रतीति । प्रतिः कर्मप्रवचनीयोऽधिगमस्य लक्षणत्वाल्लक्षणेत्थं-भूताख्याने तद्युक्ते च द्वितीया ॥१५७ ॥

हिन्दी — जलमार्ग तथा स्थलमार्ग के जानकर तथा इतने स्थान या इतने समय में इस विक्रेय वस्तु ( सौदे ) को पहुँचाने से इतना लाभ होगा इसको यथावत् समझनेवाले व्यापारी आदि उस नियत स्थान तक पहुँचाने या उतने समय तक काम करने से जो वृद्धि ( भाड़ा ) निश्चित कर दे, उस स्थान तक वस्तु आदि पहुँचाने या उतने समय तक काम करने की वही वृद्धि ( भाड़ा ) प्रमाणित मानी जाती है ।

दर्शक प्रतिभू रहने पर -यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।

अदर्शयन्स तं तस्य यतेत स्वधनादृणम् ॥ १५८ ॥

भाष्य — ऋणप्रयोगे द्विविधो विश्रम्भः - प्रतिभूराधिर्वा । तत्र प्रतिभूपक्ष इदमुच्यते । त्रिविधश्च प्रतिभूः - दर्शने प्रत्यये दाने च । तत्र दर्शनप्रतिभुवमधिकृत्येदमाह । यस्य दर्शनाय प्रतिभूस्तिष्ठेदमुष्मिन्प्रदेशे मयैष तव दर्शनीयः - स तथाऽकुर्वन्स्वधनात्तस्य ऋणं यतेत प्रयत्नं कुर्याद्दातुमिति शेषः । दद्यादिति यावत् । ऋणग्रहणं व्यवहार-वस्तुमात्रोपलक्षणार्थम् । तेन यावन्तोऽर्थविषया व्यवहारेऽनुक्राम्यन्ते तत्तद्वस्तु दद्यात् दर्शनेनान्यतरेणाभियुक्तः । वाक्पारुष्यसंग्रहणादौ पणपरिभाषा कर्तव्या यदि न दर्शितं चेत्तन्मया दातव्यम् । अकृतायां तु परिभाषायां राजदण्डमेव दाप्यः । शरीरे तू निग्रहान्तं विक्रयणं सुवर्णम् ॥१५८ ॥