मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 251–260
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 251–260
पृष्ठ 251
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २१५ हिन्दी - जो व्यक्ति ऋण लेने में ऋणी का प्रतिभू ( जमानतदार ) रहे; वह यदि ( समय पर ) उस ऋणी को उपस्थित नहीं करे तो अपनी सम्पत्ति से उस ऋण को चुकता करे ॥ १५८ ॥
प्रतिभू आदि का ऋण पुत्र न देवे-प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ १५ ९ ॥
भाष्य - प्रतिभुवः कर्म प्रातिभाव्यम् । प्रतिभुवा यत्कर्तव्यं परर्णसंशोधनादि तत् ' प्रातिभाव्यम् ' । अर्हत्ता योग्यता । साऽनेन प्रतिषिध्यते । तस्यां च प्रतिषिद्धायामधिकारप्रतिषेधः । अनिधिकृतश्च न ददातीत्येवं न दातव्यमित्युक्तं भवति । सर्वत्रार्हतौ क्रियापदे व्याख्याते द्रष्टव्ये । " कथं पुनः पुत्रस्य प्रातिभाव्यादिप्राप्तिस्तर्हि । तदृणस्य पित्राऽगृहीतत्वात् । ” नैष दोषः । यद्येन दातव्यतयाऽङ्गीकृतं तद्गृहीततुल्यफलत्वाद्गृहीतमेव । तन्नि-श्चितस्वरूपत्वमापन्ना अतः प्रतिषिध्यन्ते । वृथादानं परिहासादिनिमित्तं प्रतिश्रवणम् — ' कुरु कार्यमिदं परिनिष्पन्ने इदं दास्या-मीति ' निष्पादिते कार्ये पित्रादत्ते प्रतिश्रुते कथंचित्पुत्रो न दाप्यते । एवं पारितोषि-कादिबंदिपरिहासादिविषयम् । यं चाहममुष्माद्वणिज एतस्येयद्दापये इति — तत्र तु मनुष्ये प्रेषिते कथंचिद्दातुमघटितेऽसंनिधानाद्वणिजोऽन्यतोऽपि कारणाद्दत्तान्तरे पितरि मृते पुत्रो न दाप्यते । अक्षनिमित्तमाक्षिकम् — सभिकाय यद्धार्यतेऽन्यतो वा यत्प्रयोजनं तद्गृहीतमिति शक्यते ज्ञातुम् । तस्य प्रतिषेधः । यः परित्यक्तबान्धवोऽक्षमालास्वेव शय्यासनविहारी प्रसिद्धः क्रीडनकस्तदृणमाक्षिकमिति शक्यते निश्चेतुम् । सुरापाननिमित्तं सौरिकम् । सुराग्रहणं मद्योपलक्षणार्थम् । ते यः पानशौण्डोऽत्यन्त-मद्यपस्तदृणप्रतिषेधः । दण्डशुल्कयोरवशेषः । यत्र पित्रा दण्डांशः । शुल्कांशश्च कश्चिद्दत्तः परिपूर्णौ दण्डशुल्कौ न दत्तौ तादृशस्य प्रतिषेधः । यत्किंचित्पित्रा दत्तं स तद्दाप्यते । स्मृत्यन्तरेऽ-प्यविशेषेणोक्तं “ प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डा न पुत्रानध्याभवेयुः ” इति ( गौतम
१२।४१ ) । तत्र विकल्पः । महत्यपराधे महति च धने पैत्रिकेऽवशेषस्य प्रतिषेधः ।
शुल्केऽप्येवम् । स्वल्पे तु सर्वस्य ॥१५९ ॥
मनु II 16
पृष्ठ 252
पाठ पढ़ें पाठ छिपाएँ
२१६ मनुस्मृतिः [ अष्टमः हिन्दी – प्रतिभू ( जमानतदार ) होने से दिया जानेवाला, हँसी - मजाक आदि में भंड आदि को देने के लिए कहा गया, जुआ खेलने में हारा या लिया गया, मद्यपान में लिया गया, राजदण्ड ( जुर्माने ) का और नाव गाड़ी आदि के भाड़े का बाकी धन उसके पुत्र को नहीं देना पड़ता है ॥१५९ ॥
ऋण देना स्वीकार कर प्रतिभू होने पर—
दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः ।
दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ १६० ॥
भाष्य- - पूर्वश्लोके यो विधिर्मया चोदित उक्तः - यथा पुत्राणां न भवति पैत्रिकं प्रातिभाव्यं— तद्दर्शनप्रातिभाव्ये । “ यद्येवं प्रत्ययप्रतिभुवः पुत्रा दाप्यन्ताम्'- अत आह दानप्रतिभुवि प्रेते दायादाः पुत्रो दाप्यन्ते, नान्यस्मिन् । “ यद्येवं प्रथमोऽर्द्धश्लोकोऽनर्थकः । दानप्रतिभुवः पुत्राणां साधन उक्ते सामर्थ्या-दन्यस्य प्रतिभुवो नास्ति पुत्राणां सम्बन्ध इति गम्यते । अथ विस्पष्टार्थमुच्यते— प्रत्ययग्रहणमपि कर्तव्यम् । इतरथाप्रतिषेधे दर्शनग्रहणाद्विधौ च दानग्रहणादुभयपरि-भ्रष्टस्य किंविधिरुतप्रतिषेध इति संशयः स्यात् ' । नास्ति संशयः । स्मृत्यन्तरे स्पष्टमुक्तत्वात् ( या ० व्य ० ५४ ) “ दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय ये स्थिताः ॥ ” इति । इहापि दानप्रतिभुवीत्यस्य विधित्वादन्यत्राप्राप्तिः । दर्शनग्रहण-मुपलक्षणार्थम् । अनुवादे चोपलक्षणत्वमदोषः । किंप्रयोजनमिति चेद्विचित्रा श्लोकानां कृतिर्मानवी ॥१६० ॥
हिन्दी — उक्त विधान ( जमानतदार होने के कारण दिया जानेवाला ऋणदाता का धन जमानतदार के पुत्र को नहीं देना पड़ता ) ऋणी को धनी के पास उपस्थित करने मात्र के लिए ( जमानतदार ) होने की अवस्था के लिए है; किन्तु यदि पिता यह कहकर प्रतिभू बना हो कि ( यह ऋणी ऋण चुकता नहीं करेंगा तो इससे चुकता करवा दूँगा या मैं चुकता कर दूँगा ) ऐसी अवस्था में ऋणी के द्वारा धनी ( ऋणदाता ) का ऋण नहीं देने पर पिता के मरने पर भी वह ऋण उस ( प्रतिभू ) के पुत्र को देना पड़ता है ॥ १६० ॥
अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् ।
पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना ॥ १६१ ॥
भाष्य — अनेन श्लोकेन संदिहानः प्रश्नं कृत्वोत्तरेण निश्चाययति । संदेहहेतुः पदद्वयेनादातरि विज्ञातप्रकृताविति । सप्तम्यन्तानि समानाधिकरणानि पदानि व्या-
पृष्ठ 253
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २१७ ख्यायन्ते— अदातरि - प्रतिभुवि विज्ञातप्रकृतौ । ऋणमुत्तमर्ण: केन हेतुना परी-प्सेत लब्धुमिच्छेत्— किंकेवलेनैवात्मव्यापारेण उत प्रतिभुवः पुत्रमपि व्यापारयति । “ कुत: संदेहः? उक्तम् ‘ प्रेते दानप्रतिभुवि ' इति ततोऽन्यस्मिन् मृते कस्तत्पुत्राणां सम्बन्ध? ” यतस्तु खलु विज्ञातप्रकृतिर्विज्ञातकारणः प्रतिभूत्वेन धनं गृहीत्वा स्थित इत्येतन्निश्चितमतो भवति बुद्धिरस्ति तत्पुत्राणां सम्बन्धो यतस्तेन ऋणसंशुद्ध्यर्थमस्य निसृष्टमिति । पुनः शब्दः पूर्वस्माद्विशेषमाह । यदि दानप्रतिभुवः पुत्राः सम्बध्यन्ते यस्तर्ह्यदाता तस्मिन्मृते । दातोत्तमर्णः । पश्चात्तत उत्तरकालमित्यर्थः
शेषं व्याख्यातम् ।
परीप्सा प्राप्तीच्छा ॥१६१ ॥
हिन्दी- -अदाता ( जो ऋण देने की जमानत नहीं लिया हो; किन्तु केवल ऋणी को ऋणदाता के सामने नियत समय पर उपस्थित करने की ही जमानत लिया हो तथा यह प्रतिभू की प्रतिज्ञा ( शर्त ) ऋणदाता को मालूम हो उस प्रतिभू के मरने पर ( ऋणदाता ) किस कारण ( उसके पुत्र आदि से ) ऋण लेने की इच्छा करेगा? अर्थात् नहीं करेगा ( ऐसे जमानतदार पिता के मरने पर उसके पुत्र को वह ऋण देना नहीं पड़ता ) ॥१६१ ॥
निर्दिष्ट प्रतिभू के मरने पर—
निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंघनः ।
स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः ॥ १६२ ॥
भाष्य— निरादिष्टं निसृष्टं स्वधनादर्पितं – भव लग्नक इदं ते धनं मत्तस्त्वया संशोधनीयं यद्यहं न दद्याम् । अलंधनः पर्याप्तधनः । यावद्धनमुत्तमर्णाय दातव्यं तावत्परिपूर्णं प्रसृष्टम् । स्वल्पे तु निसृष्टे बहुनि संशोध्ये न दापयितव्यः । पूर्वस्य प्रश्नस्योत्तरमिदम् । यद्यपि दानप्रतिभूरद्य निरादिष्टस्तत्पुत्रो दाप्यते स्वधनादेव । तद्दद्यान्निरादिष्टपुत्र इति द्रष्टव्यं तस्यैव प्रकृतत्वात् । साक्षात्प्रतिभुवस्तु प्रतिभूत्वादेव प्राप्तिरिति ।
इति स्थितिः । एषा शास्त्रमर्यादा विचारादेव ।
अलंधन इति सिद्धे यन्निरादिष्टोऽलंधन इति चैवमभिधानं तत्पद्यग्रन्थानु-रोधेन ॥१६२ ॥
पृष्ठ 254
पाठ पढ़ें पाठ छिपाएँ
२१८ मनुस्मृतिः [ अष्टमः हिन्दी – पूर्व ( ८।१६१ ) श्लोकोक्त प्रतिभू को यदि ऋणी ने ऋण का धन दे दिया है तथा ऋणदाता ने धन वापस देने को नहीं कहा है, ऐसी अवस्था में यदि वह प्रतिभू मर जाय और और उसका पुत्र उस ऋण के धन को अपनी सम्पत्ति में से चुकाने में समर्थ हो तो वह ऋणी के ऋण को चुकता कर दे, ऐसी शास्त्र मर्यादा है ॥ १६२ ॥
मत्त आदि के ऋण की अदेयता-मत्तोन्मत्तार्त्ताध्यधीनैर्बालेन स्थविरेण वा ।
असम्बद्धकृतश्चैव व्यवहारो न सिध्यति ॥ १६३ ॥
भाष्य — कार्यपर्यायो व्यवहारशब्दः । यत्किंचिद्दानाधानविक्रयादिकार्यं लेख्यादि च प्रमाणम् । एतैः कृतं तन्न सिध्यति कृतमप्यकृतं भवति । मत्तोन्मत्तौ विख्यातौ । आर्त्तो धनबन्धुनाशादिपीडितः प्रत्युपस्थितभयश्च । यौगिकत्वान्मत्तादिशब्दानां यावन्मदादियुक्तास्तावत्तत्प्रमाणाभावबोधकोऽयं प्रतिषेधः । प्रदर्शनार्थं चैतदप्रकृतिस्थत्वमात्रस्य । यथोक्तम्— ' कुर्यादप्रतिकृतिं गतः । तदा प्रकृत-मस्याहुरस्वतन्त्रे सहेतुत ' इति । अप्रकृतिस्थश्चोच्यते उपप्लुतबुद्धिः स्वकार्यविवेचने असमर्थः । उक्तं च “ कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः । रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिंगताः ॥ ” इति । ( नारद १।४१ ) । कामादीनां द्वन्द्वं कृत्वा पीडितशब्देन तैः पीडिता इति साधनंकृतेति तृतीया-समासः । तेन पीडितस्य प्रतिषेधः । स चायं सम्प्रति मन्मथाधिष्ठितः स्त्रीपरिरम्भणादि परीप्समानो भवति । ‘ अभियुक्ता ' द्यूतादिक्रियान्तरे दत्तावधानाः । एते हि तत्र संसजन्त: स्वामिनोऽपि स्व इत्यस्य प्रातिभाव्यादिक्रियानिश्चयस्यानवधानान्न प्रमाणम् । यतः क्रियान्तरावहिततया परेण पृच्छ्यमाना इदमस्मै दीयतामङ्गीकृतं वा प्रातिभाव्यमियति वस्तुनीदृशेऽनेन च प्रकारेणोच्यत इत्येवमादि निपुणतो नावधारयन्ति— प्रकृतिक्रिया-विघ्नो वा माभूदस्मिन्निहस्थ इत्यभिप्रायमभ्युपगच्छन्ति — गच्छ त्वं यद्ब्रवीषि तत्सर्वम-नुष्ठीयत इति पारतन्त्र्यं वाऽङ्गीकुर्वन्ति । तदुक्तम्— ' अस्वतन्त्रे सहेतुत ' इति । येन हेतुनाऽस्वतन्त्रोऽप्रमाणं सोऽस्य स्वतन्त्रस्यापि हेतुर्विद्यते । यथाऽस्वतन्त्रः स्वमपि न विनियुङ्क्ते एवमयमपि कामादिवशीकृतोऽर्थविवेकं कार्याणां च गुणदोषौ क्रियमाणा-वनधिगच्छन्नस्वतन्त्रेण तुल्यो भवति । ' आर्तो ' व्याख्यातः । अभियुक्तार्तशब्दौ च धर्मि-वचनौ लक्षणया धर्मपरौ विज्ञेयौ — अभियोगोऽभियुक्त आतुर इति । व्यसनानि का क्रोधसमुत्थितानि मृगयादीनि । अभियुक्तव्यसन्यपि काञ्चित्क्रियां तार्पेण कुर्वन्नुच्यते ॥ अव्यसन्नप्रवृत्तोऽपि तद्ध्यानरतः । अथवा कामक्रोधशब्दौ कामिनि क्रोधवति वर्तेते
पृष्ठ 255
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २१ ९ अत्र च पक्षे भयव्यसनशब्दौ कृतद्वन्द्वौ तृतीयान्तौ पीडितशब्देन सम्बध्येते । अन्ये तु स्वतन्त्रा एव । ‘ रागद्वेषाभ्यां परीता ' व्याप्ताः । रागः क्वचिदात्मीयेष्वभिषङ्ग आत्मीयतया परिगृहीतस्य कस्यचित्सम्बन्धिनोऽपि ध्यायतो वाऽभिप्रेतसिद्धौ मनसः परितोषो रागः । तद्विपरीतो द्वेषविषयः । परिपन्थिन्यनात्मीयतया परिगृहीते तदस्वास्थ्यतद्विपर्ययात्परि-तुष्टिवृत्तिरित्येवमादिरूपौ रागद्वेषौ । सर्वथाऽस्य भावबुद्धिश्चलिता क्षणमपि विवक्षिते कार्ये नावतिष्ठते । अन्यद्वदन्नन्यदाचरति । एवंरूपोऽप्रकृतिस्थः । अन्यथा सर्व एव पुरुषाः कामादियुक्ताः जराजीर्णाक्षिशिरोरोगार्त्तिमन्तोऽप्रकृतिस्थाः स्युः । न चैवम् । अध्यधीनो गर्भदासः पुत्रशिष्यौ भार्या च । यदापि रूढ्या गर्भदास एवाध्य-धीनस्तथाऽप्यस्वतन्त्रोपलक्षणार्थत्वात्सर्व एव ते गृह्यन्ते । स्वधनदानादि स्वामिनमनु-ज्ञाप्य यत्कुर्वन्ति तत्सिध्यति । तथा च नारदः ( १३३ ) – “ यद्वालः कुरुते कार्यमस्वतन्त्रकृतं च यत् । अकृतं तदिति प्राहुः ” ॥ इति
“ अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ।
अस्वतन्त्राः स्त्रियः पुत्रा दासाद्यश्च परिग्रहः ॥
" स्वतन्त्रस्तु गृही यस्य तस्य तत्स्यात्क्रमागतम् ॥ ” “ ननु यदि न स्वातन्त्र्यं स्त्रीणामुच्यते पुंसश्च स्वातन्त्र्यमेतदनुपपन्नम् । यतः साधारणं धनम् । कथमेकाकी मनुष्यो भार्ययाऽननुज्ञातो दानविक्रयादिभ्यः प्रभवेत् ” । अत्रोक्तम्— “ स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ” इति । तथा ‘ कुले ज्येष्ठ ’ इत्युपक्रम्य ‘ तत्कृतं तत्कार्यजातं नास्वतंत्रकृत ' मिति च । धनसाधारण्ये हि पुरुषोऽपि स्त्रीवदस्वतन्त्रः । यच्छब्दे स्वाभ्यं पारतन्त्र्यं चेति तद्विरुद्धमिव स्वामित्वस्येत्येताश्च व्यवस्थेति योज्यं भवति । पारतन्त्र्यं परविधेयता तदिच्छानुवर्तित्वम् । यदि च परतन्त्र: परेच्छामन्तरेण विनियोक्तुं न लभते कीदृशमस्य स्वाम्यम् । अथ दानाधानविक्रये यत्र प्रकृतत्वादनीशाः । स्वशरीरे परिभोगादौ यावदिच्छं स्वधनं विनियोज्यते, परतन्त्र-महाधनानां शास्त्रनिगृहीतात्मनां द्विजानां नात्मोपभोगो भवेत् । बालस्य स्वाम्यपारतन्त्रे उपपन्ने । यदा प्राप्तव्यवहारस्तदा ईशिष्यते । एवं पुत्रादावपि । स्त्रियास्तु न कदाचिद-पारतन्त्र्यम् । “ बालया वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वातन्त्र्येण कर्तव्यं कार्यं किञ्चिदिति स्थितिः ॥ ” ( मनु ० ५। १४७ ) ।. स्वाम्यपारतंत्र्ये स्त्रीणामसमावेश उच्यते । न पारतंत्र्यवचनेन स्त्रीणां स्वधनविनि-योगनिषेधः क्रियते । किंतर्ह्यस्थाने दानाधानविक्रयादि वार्यते । ' परतन्त्राः ' I ताः स्थाने निरूपणीयेन हिताहितं स्वयं विवेक्तुमलम् — एष पात्रमर्हति भूमिहिरण्यादि-प्रतिग्रहम् अनेन कन्यासम्बन्धं कुर्यात्, इदं द्रव्यमस्मात् क्रेतुं विक्रेतुं वाऽर्हतीत्येवमादि
पृष्ठ 256
पाठ पढ़ें पाठ छिपाएँ
२२० मनुस्मृतिः [ अष्टमः तथा ज्ञातव्यम् । अतो लेख्यादिकाले भर्त्राद्यनुमतिरुपयुज्यते । केवलया कृते कार्ये नाहं किञ्चिञ्जानामित्वया विप्रलब्धाऽस्मीति वचनस्यावसरत्वात् । भर्त्राद्यनुमतौ तु किं वक्ष्यति । तदुक्तम्— “ एतान्यपि प्रमाणानि भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजाऽधिपतिपुत्रयोः ॥ ” अस्वातन्त्र्यमपि नियमितम्— “ अनुशिष्टा विसर्गे च विक्रये विस्वरा मता । ” अपि बुद्धिपूर्वे बालशिक्षिते स्वामिना पत्न्यादयो नियोज्या अनुबन्धादिना— नतु स्वाम्यविसर्गेऽपि । “ सा सद्यः संनिरोद्धव्या त्यजेद्वा कुलसंनिधौ ' ( मनु ० ९ ।८३ ) इति स्त्रीणामेव न पुंसः पारतन्त्र्यम् । पतितस्याप्या प्रायश्चित्तसमाप्तेः प्रतीक्षणोपदेशः । अतो न विक्रयोऽपि दासादीनां गरीयस्यामापदि कुत्रचिदस्ति । तेषु स्वामिन इत्येतदपेक्ष्य भार्याशिष्यदासीनां यथास्वं पारतन्त्र्यम् । धनसाधारण्यात्तु न भर्तुरनुज्ञां विना भार्याया यागादौ क्वचिदधिकार इति स्थितम् । यच्चेदम् — “ पुत्राणां भर्तरि प्रेते वशे तिष्ठेत्तु सा तथा । ” “ जीवतोरस्वतन्त्रः स्याज्जरयाऽपि समन्वितः । ” “ तयोरपि पिता श्रेयानभावे जननी मता " इति । -अनेन पुत्राणां पारतंत्र्यम् । ननु चान्योन्यव्याहतमिति । ” नास्ति व्याघातः । अनधिकारिणि पुत्रे बाले मातृपरतन्त्रता । मातुस्तु पुत्रे पार-तन्त्र्यं मातृधनरक्षणं चोरादिदोषेभ्यः । पुत्रस्यापि यत्पितरि पारतन्त्र्यं तदपृथक्-कृतस्य तद्गृहे निवसतः । यदा तु पितृविभक्तो धनं स्वयमर्जितवांस्तदा " ऊर्ध्वं तु षोडशाद्वर्षात्पुत्रं मित्रवदाचरेत् ” इति स्वातन्त्र्यमेव । बालोऽप्राप्तव्यवहारः षोडशवर्षात्प्राक् । स्थविरो लुप्तस्मृतिः जराभिभूतोऽतीतव्यवहारः । यद्यप्ययं कस्यांचिद्वेलायां प्रकृतिस्थोऽपि भवति तथापि न प्रमाणमप्रत्ययात् । ” यस्य तु भर्तुः स्त्री जानाना कार्यप्रबन्धेन वर्तते तथाऽनुज्ञातमेतद्भवति । असम्बद्धकृतः । परार्थमनियुक्तो यो व्यवहारयति — न भ्राता न पिता— देवदत्ताय शतं धारयती'त्येवमादि वक्तुं न लभ्यते । ये तु भ्रातरः समानकार्याः सर्वे च तुल्यव्यव-हारिणस्तेषामन्यतरेणापि गोपश्वादिविक्रयो गृहादिबन्धनप्रयोगादि च क्रियमाणं सिध्यति । सम्बन्धित्वात् ।
पृष्ठ 257
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २२१
व्यवहारशब्दः सर्वव्यवहारग्रहणार्थः । प्रकरणादृणव्यवहार एव स्यात् ॥ १६३ ॥।
हिन्दी — मत्त ( मदिरा आदि के नशे से मतवाला ), उन्मत्त ( पागल ), रोगी, सेवक, बालक ( १६ वर्ष से कम आयु वाला अर्थात् नाबालिग ), और बूढ़ा - इनको पिता - भाई आदि सम्बन्धियों की सम्मति के बिना दिया गया ऋण व्यवहार ( शास्त्र मर्यादा ) के प्रतिकूल होता है ॥१६३ ॥
सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता ।
बहिश्चेद्भाष्यते धर्मान्नियताद्व्यावहारिकात् ॥ १६४ ॥
भाष्य – कस्यचिदनुष्ठेयस्यार्थस्य प्रतिपादकः शब्दो भाषा सामान्येन भवति । योऽर्थस्तया प्रतिपाद्यते सोऽनुष्ठेयः । किं सर्वापि भाषा न सत्या? नेत्याह बहिश्चे-द्धर्मात्— धर्मबाह्यं यदुच्यते शास्त्राचारविरुद्धम् — पञ्चकादधिका वृद्धिः, भार्यापत्य-विक्रयादिः, अन्वयिनः सर्वस्वदानमित्येवमादि । यद्यपि स्यात्प्रतिष्ठिता पत्रलिखिता प्रतिभुवां वा दत्ता तथापि न सिध्यति । व्यावहारिको धर्म आचारनिरूढः । नियतोऽ-नादिर्नेदानींतनः । पूर्वशेषं चैतत् । अस्वतन्त्राप्रकृतिस्थैः कृतं दानाद्यनिश्चितमिति न प्रमाणम् ॥१६४ ॥
हिन्दी - ' मैं ऐसा करूँगा ' इस प्रकार की बात लेख आदि के द्वारा निर्णीत करने पर भी यदि धर्म ( शास्त्रमर्यादा ), कुल परम्परा और व्यवहार से प्रतिकूल कही गयी हो तो वह सत्य ( प्रामाणिक ) नहीं होती ॥१६४ ॥
योगाधमनविक्रीतं
योगदानप्रतिग्रहम् ।
यत्र वाऽप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ १६५ ॥
भाष्य – योगः । छद्म । तेन यदा ' धमनं ' बन्धकार्पणं कृतमिति । एतच्च ज्ञायते असत्यकार्येण कृतम् । तद्राजा विनिवर्तयेत् । कश्चिद्धनिकेनोपरुध्यमान आह ‘ न मे किंचिदस्तीति ’ — ‘ ननु क्षेत्रं स्थण्डिलं वासोऽस्ति तदर्पयेत्यनया शङ्कया सुहृत्स्वजनाय कस्मै चिदसावाधानीकरोति । तत आह— ' तदन्यस्य मया बन्धकीकृतमिति ' । एतच्च ज्ञायते । सत्यपि प्रकाशलेख्ये तस्य आधातृतायोगात् यदि हि परमार्थतयाऽऽधित्वेन कृतं कथमाधातैव भुङ्क्त इति । एवंविधं योगाधमनमप्रमाणीकृत्य धनिने क्षेत्रादि दापयि-तव्योऽधमर्णः । यस्य चान्येनागमेन स्वाम्यं धनदानकाल आगमान्तरेण करणं करोति तदपि ‘ योगाधमनम् ’ । तत्राधमर्णो यस्य वानेनागमेन स्वाम्यं कल्पितः सत्यमागमं कारयितव्यः । एवं विक्रयादि । योऽल्पेन मूल्येन महार्धमर्थं विक्रीणीते यो वा नैव मूल्यं क्रेतुरादत्ते यच्चाह ‘ विक्रीतं मया तवेदमिति'- • स उत्तरकालं ' न विक्रीतं ममेदमिति ' न लभते
पृष्ठ 258
पाठ पढ़ें पाठ छिपाएँ
२२२ मनुस्मृतिः [ अष्टमः वक्तुम् । न चायं विक्रयानुशयो दशाहात्परेणापि निवर्तयेदिति, योवाऽऽप्तेन क्राययति । पूर्वोक्ते निमित्ते सति निमित्तान्तरे वा सति विक्रीणीते न च रूपकादिभिः क्रयोपहर्तव्य-व्यवहारे न दृश्यते न च रूपकादिसंचयशील इत्यादिना योगविक्रयाधिगमः । योगदानप्रतिग्रहम् । यद्यपि दानप्रतिग्रहक्रिययोरन्यतरोपादानेनैवेतराक्षेपः-अन्यथास्वरूपासिद्धेः– तथापि क्रियाद्वयोपादानं वृत्तपूरणार्थम् । अथवैकक्रियोपादाने तत्कारिण एव दण्डः स्यात् न द्वितीयस्य, सत्यपि तत्साधनत्वे शब्देनानुपादानात् । अतो दातुः प्रतिग्रहीतुर्द्वयोर्दण्डार्थं भेदेनोपादानम् । “ तथा सति योगाधमनविक्रीतमित्यत्रापि क्रयादिद्वितीयक्रियोपादानं कर्तव्यम् । ” न कर्तव्यम् । स्मृत्यन्तराद्वा सामान्यशास्त्राद्वाऽनुपादाने दण्डः स्यात् । यदुभय-स्वामिकमन्यतरः प्रतिग्रहीत्रा सह संविदं कृत्वा दापयते एवमादि योगदानप्रति-ग्रहम् । दानं च प्रतिग्रहश्चेति विगृह्य द्वन्द्वैकव्यवहारः । यत्र वाऽप्युपधिं पश्येदिति । उपधिः छद्म । अनेनैव अन्यत्राप्येताभ्यः क्रियाभ्यः उपधिर्निवर्त्यः । यथा कश्चिद्धनिनोक्त: - ‘ यावदियद्भिरहोभिर्दातव्यमिति प्रतिभुवं न स्थापयसि तावत्त्वां न त्यक्ष्यामीति ' तस्मिंस्तूष्णींभूते कश्चिदुत्तमर्णेन सह संविदं करोति ‘ मामस्य प्रतिभुवं गृहाण यावदेनमुपपीडयामि बह्वनेन समापकृतं अहमस्य पीडार्थ एव प्रतिभूर्न मया किंचिद्दातव्यमिति ' तत्रोत्तमर्ण: प्रकाशमाह ' यद्यन्यस्ते प्रति-भूर्नास्ति कर्मादिकं च न प्रार्थयसे, नूनं जिहीर्षितं ते धनम् ' – स पीडित: प्रत्याह ‘ नैतेन सह ममेदृशो व्यवहारः प्रवृत्तपूर्व इति ' प्रतिभूः पुनराह ' भवानि तवाहं प्रतिभूः ’ सोऽनिच्छन्पीडोपरोधादाह ' यथेच्छसि तथा कुरु'- नास्य पूर्वक्रियास्वन्तर्भावः । एवं कृषिवाणिज्यशिल्पादिक्रियाः एतद्व्यतिरेकिण्यः प्रतिदर्शनीयाः । उदाहरण-मात्रं दानाधमनविक्रयाः । तदेतद्योगकृतं कार्यं यावत्किंचन तत्सर्वं राजा निवर्तयेत् — राजा कृतमप्यकृत-मादिशेत्— न प्रमाणीकुर्यात् — कर्तारं कारयितारं च दण्डयेत् ॥ १६५ ॥
हिन्दी - जो वस्तु कपट से बन्धक रक्खी गयी हो, बेची गयी हो; दी गयी हो या दान ली गयी हो; अथवा जहाँ पर कपट व्यवहार देखा गया हो वह सब नहीं किये के बराबर हो जाता है अर्थात् अमान्य होता है ॥ १६५ ॥
कुटुम्बार्थ गृहीत ऋण की देयता-ग्रहीता यदि नष्टः स्यात्कुटुम्बे च कृतो व्ययः ।
दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥ १६६ ॥
पृष्ठ 259
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २२३ भाष्य - उक्तम् — येन गृहीतमृणं तेन प्रतिदातव्यम् — तद्भावे पुत्रपौत्रे: -तद्भावे तदृक्थहारिणा । न तद्व्यतिरेकेणान्यस्य दानं प्राप्तमिष्यते । अत्र क्वचिद्विषये तदर्थमिदमुच्यते । येन गृहीतं धनं स चेन्नष्टो मृतो देशान्तरं गतो वा— कुटुम्बे च कृतो व्ययः- दातव्यं बान्धवैस्तद् भ्रातृतत्पुत्रपितृव्यादिभिः - प्रविभक्तैर्विभक्त-धनैरपि— स्वतः स्वधनादित्यर्थः । यावद्भ्रातरः सह वसन्ति तेषां यदृणमुपजातं तद्-गृहमध्यादेव दीयते । तच्छिष्टेऽस्य विभागः । यथोक्तम्— “ पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् । मात्रा वा यत्कुटुम्बार्थं दद्युस्तत्सर्वमृक्थत ॥ ” इति । अविभक्तानामन्यतमेन यत्कुटुम्बार्थमृणं कृतं तद्भातृपितृव्यतत्पुत्रादयः सर्वे दद्युर्न त्वकुटुम्बार्थमित्यर्थः । अविभक्तग्रहणात्तेषामेव तथाविधमृणं सम्भवेत् प्राय: । न हि प्रविभक्ताः परकीयकुटुम्बभरणार्थमृणं गृह्णन्तो दृश्यन्ते – अतः प्रविभक्तैरपीत्याह । अपिशब्दादविभक्तैश्च । यदि कश्चिद्भ्रातॄणां विभक्तानां स्वकुटुम्बभरणमकृत्वा प्रवसेदितरश्च महासत्त्वतया तदीयं कुटुंबं बिभृयात् — तत्र विभक्तेनापि भ्रात्रा पितृव्येण वा यदृणं कृतं तदितरो दद्यादेव देशान्तरागतः ॥१६६ ॥
हिन्दी - ऋणी यदि मर जाय तथा उसने ऋणद्रव्य को अलग हुए या सम्मिलित परिवार के लिए व्यय किया हो तो वह ऋण उस मृत ऋणी के अलग हुए या सम्मिलित परिवार वालों को चुकाना चाहिये ॥१६६ ॥
कुटुम्बार्थेध्यधीनोऽपि व्यवहारं यमाचरेत् ।
स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ १६७ ॥
भाष्य— तिष्ठन्तु तावद्भ्रात्रादयः । कुटुम्बार्थेऽध्यधीनोऽपि गृहभृत्योऽपि व्यवहारं गोपश्वादिविक्रयं क्षेत्रस्थण्डिलादिप्रयोगं कर्षणाय ऋणं व्यवहारं वा यमा-चरेत् — स्वदेशे विदेशे वा सन्निहितस्य प्रोषितस्य वा— तं ज्यायान् गृहस्वामी न विचालयेत् अविचार्यैव साधु कृतमित्यनुमन्येत । अन्ये तु पूर्वशेषोऽयमर्थवादो न विधिरित्याहुः । तदयुक्तम् । न ह्यर्थवादताबीजं किंचिदस्ति विभज्यमानं साकांक्षं यत्तच्छब्दाभिसम्बद्धम् । अथ – ' प्रमाणमिति । -'मत्तोन्मत्तार्त्ताध्यधीनैः ' ( १६३ ) इत्यस्वातन्त्र्यादध्यधीनस्य न तत्कृत-अकुटुम्बार्थे संनिहिते च स्वामिनि न युक्तं कल्पयितुम् । अन्यथा कुटुम्बावसादः स्यात् । अतस्तद्भरणात्मके व्यापारे प्रमाणीभवति दैवादध्यधीनः ॥ १६७ ॥
हिन्दी – स्वामी ( घर के मालिक ) के देश या विदेश में रहने पर अधीन स्वरूप
पृष्ठ 260
पाठ पढ़ें पाठ छिपाएँ
२२४ मनुस्मृतिः [ अष्टमः सेवक आदि ने भी कुटुम्ब के पालन - पोषणादि के लिए जो ऋण लिया हो, उसे स्वामी चुकता कर दे ॥१६७ ॥
बलात्कार से किये गये की अमान्यता-बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् ।
सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ १६८ ॥
भाष्य — यथा न बालास्वतन्त्राप्रकृतिस्थोपधिकृतं प्रमाणं तद्वद्वलकृतमपि । सर्वान्बलकृतानर्थान्निवर्त्यानित्येव विधिः । भुक्तं दत्तं लेखितमित्युदाहरणमात्रम् । तत्र बलाद्दत्तं यदनुपयुज्यमानं क्षेत्रारामादिवाहनाय दीयते— वृद्धिकामो वा यद्धनं बलादारोपयति— भारवाहनमनिच्छताम् — गृहेषु मूल्यार्पणं पण्यमश्नुते । लेखितं पत्रकरणम् । सर्वानित्यन्यानप्येवंविधानर्थान्कार्याणीत्यर्थः । योगाधमनमित्यत्र निपुणं दर्शितमत्रापि श्लोके समस्य योगबलशक्ये प्रक्षेप्तुं पृथक् श्लोकद्वयकरणम् । विचित्रा श्लोकस्य कृतिर्मनोः । मत्तोन्मत्तार्ताध्यधीनैर्बाल-वृद्धैर्वा बलात्कृतः असम्बद्धेन योगाच्च कृतो व्यवहारो न सिध्यति — इति न सिद्ध्य-त्येव, न मानवद्भवति ॥१६८ ॥
हिन्दी — बलात्कार से जो ( नहीं देने योग्य वस्तु ) दिया गया हो, जो ( भूमि, भूषण आदि ) भोगा गया हो, अथवा ( ऋण लेने या चक्रवृद्धि आदि सम्बन्धी ) लेख ( हैंडनोट, दस्तावेज आदि ) लिखवाया गया हो; बलात्कार से कराये गये उन सब कार्यों को मनु ने नहीं किया गया अर्थात् अमान्य बतलाया है ॥ १६८ ॥
प्रातिभाव्यादि का निषेध-त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
चत्वारस्तुपचीयन्ते विप्र आढ्यो वणिनृपः ॥ १६ ९ ॥
भाष्य – परेणार्थ्यमाने साक्ष्यं प्रातिभाव्यं व्यवहारेक्षणं च कर्तव्यं कुलादिभिर्न स्वयमुपेत्य हठात् । अतः स्वयं कुर्वन्तो न प्रमाणीभवन्ति । अथवा परस्यार्थं कुर्वन्तः क्लेशमाप्नुवन्ति, न ह्येषां स्वार्थगन्धोऽस्त्यतो बलान्न कारयितव्याः । परेण वाऽर्थ्यमाना विप्रादय उपचीयन्ते । अतो न हठादनिच्छन्विप्रः प्रतिग्राह-यितव्यः । अथवा परसम्बन्धिनोऽर्थायोपचयो विप्रस्य – अतः स्वार्था प्रवृत्तिर्न परार्थैव— तेन विप्रेण न बलात्तदनादाने प्रवर्तनीयम् । हतबलसाध्यं दानमिति लोकप्रवादो न