मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 261–270

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 261–270

पृष्ठ 261

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 261 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता दापयन्तं निषेधति । तदिच्छन्तं दापयेत् । याञ्च्या तु बलम् । २२५ ' एवमाढ्यः कुसीदवृत्तिर्धनवानिव न प्रयोजनीयः किमिति कुसीदं व्यवहारे-ऽन्यस्मै ददाति न मह्यमिति ' । १. कामात कुसाद अथवा तेन बलवताऽन्यस्मिन्ननिच्छति व्ययं कुर्वति धनमारोपयितव्यम् । यतः परेणार्थ्यमान उपचीयते न बलात्प्रयुञ्जान: - शास्त्रनिषेधात् । एवं वणिक्कुसीदीव धनवृद्धिकाम एव व्यवहारयति । वणिक् पण्यजीवी । नृपो राजाऽपि प्रयुक्तराजदण्डमाददान उपचीयते— न तु बलादिप्रोत्साहनेन व्यवहारयन् । तदुक्तं “ नोत्साहयेत्स्वयं कार्यम् ” इति । विप्रादीनांविधिरनुवादो ` राज्ञो रा दृष्टान्तार्थः ॥

। अथवा सर्वस्योदाहरणप्रपञ्चः । तथाऽ-ग्रेतनोऽपि ॥१६९ ॥

हिन्दी— ( धर्म, अर्थ तथा व्यवहार अर्थात् मुकदमे देखनेवाले क्रमशः ) गवाह, जमानतदार तथा कुल अर्थात् स्वजन दूसरों के लिए क्लेश पाते हैं और ( दान लेने, ऋण देने, विक्रय करने और व्यवहार देखने से क्रमश:) ब्राह्मण, ऋणदाता ( महाजन ), व्यापारी और राजा— ये चारों धन की वृद्धि करते हैं ॥ १६ ९ ॥ विमर्श - उक्त कारण से बलात्कार पूर्वक गवाही देने, जमानत लेने और व्यवहार देखने के लिए स्वीकार नहीं कराना चाहिए तथा ब्राह्मण दाता को, ऋणदाता ऋणी को, व्यापारी क्रयकर्ता ( खरीददार ) को और राजा व्यवहार ( मुकदमे ) वाले को बलात्कार पूर्वक प्रवृत्त नहीं करे ॥

अग्राह्य धन लेने का निषेध-अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।

न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १७० ॥

भाष्य — करदण्डशुल्कादि शास्त्रविहितं वर्जयित्वाऽन्यत्पौरधनमनादेयं राज्ञः क्षीण-कोशस्यापि । यत्तु शास्त्रन्यायागतं रक्षानिर्वेशधनं तत्सूक्ष्मं कार्षापणमात्रमपि न त्यजेत् । तदुक्तं “ वल्मीकपथवद्राजा कोशवृद्धिं तु कारयेत् ” इति ॥१०७ ॥

हिन्दी - धनादि से क्षीण भी राजा को अग्राह्य धन नहीं लेना चाहिए तथा समृद्धिमान् होते हुए भी ( राजा को ) ग्राह्य थोड़ा भी धन नहीं छोड़ना चाहिये ॥ १७० ॥

अग्राह्य अर्थ के लेने आदि में दोष-अनादेयस्य चादानादादेयस्य च वर्जनात् ।

दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १७१ ॥

पृष्ठ 262

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 262 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२६ मनुस्मृतिः [ अष्टमः भाष्य – अनादानार्हमनादेयम् । अर्हे कृत्यस्तच्च दर्शितम् । दौर्बल्यं ख्याप्यते प्रकृतिभिः– ‘ अस्मान्दण्डयति स्तेनाटविकसामन्तादीन्न शक्तो विजेतुमिति ' । परे स्व-शक्तिं प्रथयन्ति राष्ट्रीयाः । अतस्तैरभिषेण्यमानो विरक्तप्रकृतिरिह नश्यति । आदानात् इह— प्रेत्य च धर्मदण्डनात् ॥१७१ ॥

हिन्दी – अग्राह्य धनं के लेने तथा ग्राह्य धन के छोड़ने से ( नागरिकों में प्रजाओं में ) राजा को असमर्थ समझा जाता है तथा वह राजा अधर्म के कारण से मरकर तथा अपयश के कारण से यहाँ पर अर्थात् जीता हुआ नष्ट होता है ॥१७१ ॥

ग्राह्य धन लेने आदि से लाभ-स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् ।

बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥ १७२ ॥

भाष्य — स्वस्य न्यायप्राप्तस्यादानम् । शोभनं वाऽऽदानम् । भव्यमेव शोभनम् । वर्णयोरेव संसर्ग समानजातीयैर्वर्णसंसर्गः । द्विष्ठत्वात्संसर्गस्य च सम्बन्धिनोरश्रुतत्वा-द्वर्णानां प्रस्तुतत्वात्तत्रैवापेक्षा युक्ता । यस्तु वर्णानामवान्तरप्रभवैः संसर्गे नासौ वर्णाना-मेव सम्बन्धितया व्यपदेष्टुं शक्यते । कश्चित्तु नकारं पठति — ‘ वर्णासंसर्गादिति ' । सर्वथा वर्णसंकरप्रतिषेधानुवादोऽयम् । दुर्बलानां बलवद्विद्वेषिभिरभिभूयमानानां तेभ्यस्त्राणाद्धेतोः । राज्ञो बलं संजायते । सम्यग्व्यवहारदर्शनं कर्तव्यमधर्मदण्डनं च न कर्तव्यमि-त्येतद्विशेषाः पठिष्यन्ते श्लोकानामर्थवादाः ॥ १७२ ॥

हिन्दी— ( शास्त्रीय वचनानुसार ) ( ग्राह्य धन को लेने तथा सजातियों के साथ विवाहादि ) सम्बन्ध से और दुर्बलों की रक्षा से राजा की शक्ति बढ़ती है और वह मरकर ( स्वर्गादि लाभ से ) तथा यहाँ पर अर्थात् जीते हुए ( ख्याति आदि से ) समृद्धिमान् होता है ॥१७२ ॥

समानभाव से शासन-तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।

वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ १७३ ॥

भाष्य- - तथा चैतदेव प्रपञ्चयति । अयं सेवक आत्मीयोऽतः प्रियः, अचं च केवलं राष्ट्रवासी यस्यैव राष्ट्रं तमेवोपतिष्ठतेऽतोऽप्रियः । तद् हित्वा तद्विदित्वा यम-वत्प्रजासु तुल्यः परिपालने व्यवहारे च स्यात् । ईदृशी हि यमस्य वृत्तिर्दृष्टा । यस्येत्यणो बाधकं तत्रौपसंख्यानिकं यकारमिच्छन्ति । कः पुनर्यमतुल्यतां भजति ॥ जितक्रोधो जितेन्द्रियः । रागद्वेषौ जयेत् — प्रत्यासङ्गाख्यानेन ॥१७३ ॥

पृष्ठ 263

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 263 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २२७ हिन्दी - इसलिए राजा क्रोध तथा इन्द्रियों को वश में करके और अपने प्रिय तथा अप्रिय का त्यागकर यमराज के समान सर्वत्र समव्यवहार रखते हुए वर्ताव करे ॥ १७३ ॥

अधर्मपूर्वक शासन से हानि-यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः ।

अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ १७४ ॥

भाष्य — अधर्मेण यः कार्याणि कुरुते स मोहादेवेह व्यामूढो धर्मं जह्यात् । तस्येदम धर्मजं फलम्— विरक्तप्रकृतितया वशे कुर्वन्ति शत्रवः । विरक्ता हि प्रकृतयः क्रुद्धलुब्धभीतावमानिताः परैरुपजप्येरंस्ततश्च बहुकृत्वो वशे कुर्वन्ति दण्डयन्ति बध्नान्ति घ्नन्ति राष्ट्रमपहरन्ति चेत्येष वशीकारः ॥ १७४ ॥

हिन्दी – जो राजा लोभादि के कारण अधर्म कार्यों को करता है, उस दुरात्मा राजा को शत्रु लोग शीघ्र वश में कर लेते हैं ॥ १७४ ॥

धर्मपूर्वक शासन से लाभ-कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ १७५ ॥

भाष्य — सिंधवो नद्यो यथा समुद्रमाश्रयन्त्याश्रिताश्चानुरागिण्यस्तन्मय्यो वसन्ति न ततो निवर्तन्ते एवं कामक्रोधजयाद्राजानं प्रजाः समयोगक्षेमास्तन्मय्यः सम्पद्यन्ते॥१७५ ॥

हिन्दी – जो राजा काम और क्रोध को छोड़कर धर्मपूर्वक कार्यों ( व्यवहारों मुकदमों ) को देखता है; प्रजा उस राजा का अनुगमन इस प्रकार करती है, जिस प्रकार नदियाँ समुद्र का ॥१७५ ॥

विमर्श - इसका गूढाशय यह है कि जिस प्रकार नदियाँ समुद्र में मिलकर फिर वहाँ से वापस नहीं लौटतीं किन्तु तद्रूप होकर उस समुद्र की मर्यादा की वृद्धि तथा रक्षा करती हैं; उसी प्रकार प्रजा भी तद्रूप होकर राजा की मर्यादा की वृद्धि तथा रक्षा करती है ।

स्वेच्छा से धन लेने पर दण्ड-यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे ।

स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् ॥ १७६ ॥

भाष्य — छन्द इच्छा । तेन राजानमज्ञापयित्वा यदा प्रागुक्तैश्चतुर्भिरुपायैः स्वेच्छया धनमार्गेण प्रवृत्तं तथाभूतं वा राजपुरुषैराह्वानेनार्हतरप्रदेशेऽनुरुध्येदं हि धनमिति स च

पृष्ठ 264

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 264 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२८ मनुस्मृतिः [ अष्टमः पृष्टो धारयामीति यत्प्रतिपद्यते स राज्ञा चतुर्थं भागं दण्डापयितव्यः । यावत्तस्मै धारयति तस्य । तत्र सर्वमृणं शतं चेद्धारयति पञ्चविंशतिर्दण्डनीयः शतं तस्य दाप्यः । न त्वियं भ्रान्तिः कर्त्तव्या— शतं राज्ञः पञ्चविंशति शिष्टं धनिकस्य । धनिको हि तथा दण्डितः स्यान्नर्णिकः ॥१७६ ॥

हिन्दी— ( मैं राजा का प्रियपात्र हूँ ' इत्यादि अभिमान से ) धन वसूल करते हु ऋणदाता को जो ऋणी निवेदन ( शिकायत ) करे राजा उसे ऋण धन के चतुर्थांश धन से दण्डित करे तथा उसका वह धन भी दिलवा दे ॥१७६ ॥

धनाभाव होने पर काम से ऋणपूर्ति -कर्मणाऽपि समं कुर्याद्धनिकायाधमर्णिकः ।

समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः ॥ १७७ ॥

--. भाष्य - निर्धनोऽधमर्णो निर्धनत्वान्न मुच्यते किन्तर्हि कर्म कारयितव्यः, प्रेष्य-त्वं व्रजेत्— यावता धनेन तत्कर्म कर्मकरः करोति तत्तस्य प्रविष्टं संसद्यपि कर्तव्यम् । कर्म कुर्वतश्च सलाभधने प्रविष्टे दास्यान्मोक्षः । समं कुर्यात् — उत्तमर्णेन । अथ शुद्धे धने नोत्तमाधमव्यवहारः- एकोऽधमर्णोऽपर उत्तमर्ण इति । एतच्च कार्यते समः-समानजातीयः– अवकृष्टजातिः — हीनजातीयः । श्रेयांस्तूत्तमजातीयो गुणाधिको वा- शनैः क्रमेण यथोत्पादं दद्यात् । नारदे पठ्यते— ' ब्राह्मणस्तु परिक्षीणो शनै-र्दद्याद्यथादशमिति ' ॥ अतो राज्ञा धनिकधनसंशुद्ध्यर्थं परिक्षीणो ब्राह्मणो न पीडयितव्यः, उत्तमर्णश्च रक्षणीयः ॥१७७ ॥

हिन्दी - यदि ऋणी ऋण को देने में असमर्थ हो तथा ऋणदाता की जाति वाला या उससे छोटी जाति वाला हो तो वह ऋणी उस ऋणदाता के यहाँ ( अपनी जाति के अनुरूप ) काम करके ऋण को बराबर ( चुकता ) करे तथा यदि ऋणी ऋणदाता से बड़ी जातिवाला हो तो ऋणी को धीरे - धीरे ( किस्तों में ) चुकता करे ॥१७७ ॥

विमर्श — ‘ हीनास्तु दापयेत् ' इस कात्यायनोक्त वचन के अनुसार ब्राह्मण भिन्न समान जाति वाला ऋणी हो तभी वह ऋणदाता के यहाँ अपनी जाति के अनुरूप कार्य करके ऋण चुकता करे, ब्राह्मण जाति का ऋणी हो, तो नहीं ।

अनेन विधिना राजा मिथो विवदतां नृणाम् ।

साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ १७८ ॥

भाष्य — अनेनेति पूर्वोक्तप्रकारप्रत्यवमर्शः । विधिना प्रकारेण । साक्षिप्रत्यय-सिद्धानि । सिद्धशब्दः प्रत्येकमभिसम्बध्यते । साक्षिभि: सिद्धानि निर्णीतानि । ' प्रत्ययः ’ अनुमानं दैवी वा क्रिया । कार्याणि । न केवलमृणादानमन्यदपि । समतां नयेत् ।

पृष्ठ 265

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 265 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २२ ९ अर्थिप्रत्यर्थिविप्रतिपत्तिमपाकुर्यादैक्यमन्यत उत्पादयेत् । उपसंहृतमृणादानम् । समाप्तो व्यवहारः । सर्वत्र जयपराजयप्रकाराणामेवंरूप-त्वात् । न हि साक्ष्यादिभ्य ऋते किंचिदुत्तरेषु विवादेषु प्रतिपत्तिनिरासनिमित्तम् । केवलं दण्डविशेषस्तत्स्वरूपं च वक्तव्यमित्युत्तरः प्रपञ्चः । कीदृशोऽस्वामिविक्रयः कीदृशो-ऽनुशय इति स्वरूपं व्यवस्थाप्यते ॥१७८ ॥

हिन्दी — इस प्रकार आपस में विवाद करते हुए मनुष्यों ( वादियों तथा प्रतिवादियों ) के साक्षियों तथा लेख आदि से निर्णीत कार्य को पूरा करे ॥१७८ ॥

धरोहर रखना—

कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि ।

महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः ॥ १७ ९ ॥

भाष्य — प्रख्याताभिजनः कुलजः । यस्य पितृपितामहा विद्वांसो धार्मिका महा-परिग्रहाः स्वकुलांशनिगृहीता नाकार्ये प्रवर्तते । स हि स्वल्पामपि गर्हणां सोढुमसमर्थः । नितरां च निन्दन्ति जनाः । वृत्तं शीलमाचारो जनापवादभीरुता स्वाभाविकम् । सम्पन्नः तद्युक्तः । धर्मज्ञस्तु स्मृतिपुराणेतिहासाभ्याससंजातुतदर्थावबोधः । सत्यवादी बहु-कृत्वः कार्येषु सम्भाव्यमानो वृत्ताभिधानः । महापक्षः सुहृत्स्वजनराजामात्याद्यनुगृहीत-महिमत्त्वेन दुष्टराजाधिकारिणां गम्यो न भवति । धनी स्वधनरक्षार्थमदृष्टभयाच्च न पर-द्रव्यापहरणे वर्तते— ‘ अस्ति मे पर्याप्तं धनं किं परकीयेन, कथंचिज्ज्ञाते दण्ड्यः स्या-मिति ' । आर्यो धर्मानुष्ठायी ऋजुप्रकृतिर्वा । निक्षेपम् । निक्षिप्यमाणं सुवर्णादिद्रव्यं कर्मसाधनेन घञोच्यते । निक्षिपेद्रक्षार्थं स्थापयेद्बुधः । एवं निक्षिपन्प्राज्ञो भवति । अन्यथा मूर्खः सम्पद्यते । सुहृद्भूत्वोपदिशति दृष्टम् । नायमदृष्टार्थोऽष्टकादिवदुपदेशः । ईदृशि पुरुषे निक्षिप्तस्य न विप्रलयो भवति— एवं विधेन निक्षिप्तमनेनेति शङ्का न भवति । यस्तु नग्नकित-वप्रानशौण्डादिः स केनचिदाकृष्टोऽपि मत्पित्राऽस्य हस्ते निक्षिप्तं मया चेति न शङ्का-स्पदम्— सुवर्णादेर्महतो धनस्य निक्षेपधारक इति । काकणी मात्रिके भियुज्यमाने भवत्येव ॥१७९ ॥

हिन्दी — कुलीन, सदाचारी, धर्मज्ञाता, सत्यवादी, बहुत परिवार वाले, धनी और सज्जन के पास विद्वान् मनुष्य धरोहर रक्खे ॥१७९ ॥

लेने के प्रकार से धरोहर वापस देना-यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः ।

स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ १८० ॥

पृष्ठ 266

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 266 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३० मनुस्मृतिः [ अष्टमः भाष्य — यथेति— यादृशेन प्रकारेण समुद्रममुद्रं ससाक्षिकमसाक्षिकमित्येव-मादि— स तथैवेति । सोऽर्थो निक्षिप्तस्तथैव ग्रहीतव्यः । यथा दायो दीयते निक्षिप्यते तथा गृह्यते । यत्रैतन्निश्चितं भवति सर्वकालमेवास्य हस्ते सोऽमुद्रयित्वा स्था-पयति— तत्र विप्रतिपत्तावमुद्रिते लब्धे धारणको यदि ब्रवीति ' नैष मुद्रयति निक्षिप्य मे बलाद्गच्छति ' तत्रैवं शङ्कास्पदं जीयते । प्रमाणान्तरात्प्रायशो मुद्रणम् । अन्यदा तु मुद्रा-नाशे कियदपहारितमिति परिमाणविशेषज्ञानाय प्रमाणान्तरं व्यापारणीयम् राज्ञा । अप-ह्रवादेव सामान्यदण्डेन दण्डनीयः । निक्षेपदण्डस्तु द्रव्यपरिमाणे निश्चिते द्वितीयः । “ ननु च सर्वापह्नव एव विभावितो जित एव युक्तः । ” सत्यम् । यत्राविनाभावसिद्धम् । यथा मुषिते ग्रामे देवदत्तोऽभियुज्यते ‘ त्वया-ऽन्यैश्चारैः सहामुष्मिन्नहनि स ग्रामो हत ' इति - स आह नैव तस्मिन्नहनि तं ग्राम-महमगमम् ' तत्र साक्षिभिरुक्तं ‘ दृष्टं तस्मिन्नहनि तत्र यन्मुष्टं तत्तु न दृष्टम्'– तत्र देवदत्तेन मोषोऽप्यपह्नुतस्तदहर्ग्रामसन्निधानसिद्धेः । स्फुटे च कारणान्तरे सन्निधावनुप-लभ्यमाने सन्निधानादेशदेशाच्चौरत्वमपि युक्तमनुमातुम् । इह तु प्रमादनष्टानां नराणां मुद्रितनिक्षिप्तममुद्रितमेव नीयते । यथा दायस्तथा ग्रहः । को मेऽभियोगावसर इत्यनया बुद्ध्या सम्भवत्यपह्नवः । न हि शक्नोत्यनुमातुम् । यदापि कथंचिदनुमापयेत्परिमाणं तु न विना प्रमाणान्तरं निक्षिप्तवचनादेव सिध्यतीति युक्तो दिव्यादिना निश्चयः । सर्वथा य एकदेशान्तरेण न सम्भवति तत्रैवैकदेशपराजित इति निश्चयः ॥ १८० ॥

हिन्दी - जो मनुष्य जिस प्रकार ( मुहर बन्द या बिना मुहर बन्द, गवाह के सामने या एकान्त में इत्यादि ) से जिसके हाथ में जो धन ( धरोहर के रूप में ) रक्खे, उस धन को उसी प्रकार ( मुहरबन्द या बिना मुहरबन्द, गवाह के सामने या एकान्त में ) उसी लेनेवाले के हाथ से वह ( धरोहर रखनेवाला ) वापस ले; क्योंकि जिस रूप में दिया जाता है, उसी रूप में लेना न्यायसङ्गत है ।१८० ॥ विमर्श - मुहरबन्दकर रक्खे हुए सुवर्णादि को उसी प्रकार मुहरबन्द वापस लेने के बाद उस मुहर को तोड़कर धरोहर रखनेवाला यदि कहे कि - ' मेरा द्रव्य तौल या गिनकर दो ' तो वह दण्डनीय होता है । साक्षी के अभाव में धरोहर का निर्णय-यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति । स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसन्निधौ ॥ १८१ ॥

साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः ।

अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ १८२ ॥

पृष्ठ 267

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 267 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २३१ भाष्य — व्यत्यस्तक्रमोऽयं श्लोकः समाम्नाये पठ्यते । प्रथममस्यार्धश्लोकं पठित्वा साक्ष्यभाव इति पठितव्यं, ततः स याच्च इति । एवं पाठो युक्तः । तथा ह्यर्थसङ्गतिर्भवति । साक्ष्यभावाद्दिव्येषु प्राप्तेषु वचनमिदम् । यथा चर्णादानादिषु साक्ष्यभावसमनन्तर-मेव दिव्यानि दीयन्ते न तद्वदत्र । किं तर्हि चरैरस्य वृत्तमनुचारयेत् । तत्र यदि निपुणतश्चार्य-माणो न क्वचिद्वृत्ते स्खलति तदा न शपथैरर्दनीयः । अथाप्यत्र प्रमाद्यति तदा निक्षेप-हरणसम्भावनाऽपि युक्तैव । तदाऽयं दिव्यैः परिशोधनीयः । न पुनरेकनिक्षेपहरणेना-परनिक्षेपहरणं सिध्यति । कदाचिद्गरीयसा प्रयोजनेनैकमपहृत्य कृतप्रयोजन उत्पन्ना-नुशयो वाऽन्यस्य समर्पयति । अतोयं श्लोकसंघातो झटिति निक्षेपधारणकस्य शपथ-निवृत्त्यर्थो न पुनः प्रमाणोपन्यासः । न च प्राड्विवाकनिक्षेपहरणे राजदण्डवदनिश्चिता-परनिक्षेपहरणेऽपि प्रथमाभियोक्तुर्दापयितुं युक्तः । अनिश्चिते हि हरणे दाप्येत यदि शास्त्रेण तदा निर्णयार्थं व्यवहारशास्त्रं स्यात् । ततश्च हेतुभिर्निर्णयः कर्तव्य इति विकल्पितः । तस्मान्न शास्त्रीयोऽयमर्थो न च लौकिकी व्यवस्थेति । साक्ष्यभाव इत्याद्युक्तेन प्रकारेणा-न्यपरतया नेया । पदार्थयोजनामिदानीमनुसरामः । स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ । येन निक्षेप्त्रा रहसि स्थापितम् । साक्षिष्वसत्सु तस्य याचमानस्य धारणको यद्यपह्नुते ‘ न त्वया किञ्चिन्निक्षिप्तमिति ' ततो निक्षेप्त्रा राजा ज्ञापितो न निक्षेपधारिण आकारं दर्शयेत् । किं तर्हि कुर्यात् । प्रणिधिभिश्चारैर्हिरण्यमात्मीयं सुवर्णं रूप्यं वाऽन्यस्य संन्यस्य निक्षिप्य याचितव्योऽर्थनीयः द्वितीयं निक्षेपं प्राड्विवाकेन । प्राड्विवाकग्रहणं निर्णयाधि-कृतपुरुषोपलक्षणार्थम् । किं साक्षादेव याचितव्यो नेत्याह- प्रणिधीनां मुखेन । यैरेव न्यस्तं वयो-रूपसमन्वितैः । वयसा समन्विता येन बाला न भवन्ति - तेषां हि परैः प्रेरितानां मद्वञ्चनार्थो न्यास इति सम्भाव्यते । परिणतवयोभ्यस्तु नाशङ्का भवति । एवं रूपसमन्वयो व्याख्येयः । रूपमेव कस्यचित्तादृशं भवति यस्य दर्शनादेव चापलं प्रतिभाति । तथा च रूपमेतद्व्याचष्टे “ भगवन्वीतरागताम् ” इति । तेनैतदुक्तं भवति — तादृशाः प्रणिधयः कर्तव्या येषां मद्वञ्चनार्थोऽयमुपक्रम इति नाशङ्कते धारणकः । अपदेशैः सव्याजैर्निक्षेपकारणैः राज्ञोपद्रवग्रामगमनादिभिः-सम्प्रति निक्षिपामी’त्यनृतसम्भवात्कारणकथनमपदेशः । — एतच्च सर्वं प्राङ्घ्रिक्षेप्तुरसंनिधौ कर्तव्यम् ॥१८१-१८२ ॥ ‘ अनेन हेतुना त्वयि हिन्दी — यदि धरोहर लेनेवाले से धरोहर देनेवाला स्वामी अपना धरोहर वापस माँगे और वह वापस नहीं दे तो न्यायाधीश धरोहर देनेवाले स्वामी से परोक्ष में धरोहर मनु II 17

पृष्ठ 268

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 268 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३२ मनुस्मृतिः [ अष्टमः रखनेवाले से ( इस वक्ष्यमाण ( ८।१८१ ) प्रकार से ) धरोहर वापस मांगे । दिये गये धरोहर के साक्षी नहीं होने पर न्यायाधीश वय ( बचपन को छोड़कर युवा वृद्ध आदि ) तथा रूप ( सौन्दर्य आदि ) से युक्त गुप्तचरों से चोरी होने या राजा के छीन लेने आदि उपद्रवों का बहाना कराकर वास्तविक सुवर्ण या रुपया आदि को उसी धरोहर लेनेवाले के यहाँ धरोहर के रूप में रखवा दे तथा उस धरोहर लेनेवाले से उस धरोहर को माँगे अर्थात् उन गुप्तचरों से माँगने को कहे ॥ १८२ ॥

स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।

न तत्र विद्यते किंचिद्यत्परैरभियुज्यते ॥ १८३ ॥

भाष्य- - स यदि । निक्षेपधारी यदि प्रतिपद्येत — वाढमस्ति गृहाणेत्यंगीकृत्य दद्यात् । यथान्ट'स्तं तथा कृतं समुद्रं अमुद्रं - यथाकृतं वस्त्रादि संवर्तितममुद्रित-मन्यद्वा अलंकाराद्यनुपभुक्तं परिमलशून्यं गृहमुद्रया स्वचिह्नेन स्थापितम् — तादृशमेव चेद्दद्यान्न तत्र विद्यते किंचिदसत्यं यत्परैः पूर्ववेदिकैरभियुज्येत— एतेनास्माकीन: साक्ष्यभावान्निक्षेपोऽ भेदः । ऽह्नयत इति । यथान्यस्तं यथाकृतमिति गूढागूढचिह्नकृतेन अथवा ग्रहीतृनिक्षेप्तृव्यापारभेदेन भेदः । यथाकृतं यथागृहीतम् — निर्विकल्पम-विलम्बं च गृहीतं तथैव प्रतिदातव्यं प्रतिदाने यत्र कालग्रहणं न क्रियत इत्यर्थः ॥ १८३ ॥

हिन्दी — फिर यदि धरोहर लेनेवाला वह व्यक्ति ज्यों का त्यों उसे वापस कर दे तो न्यायाधीश समझे कि पहले धरोहर वापस नहीं देने की शिकायत करनेवाले व्यक्ति ने उसके यहाँ धरोहर नहीं रक्खा था ॥ १८३ ॥

तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि ।

स निगृह्योभयं दाप्य इति धर्मस्य धारणा ॥ १८४ ॥

भाष्य — तेषां प्राड्विवाकप्रयुक्तनिक्षेप्तॄणां यदि द्रव्यं निक्षिप्तं न दद्यात् । यथा-विधीति यथाकृतपदेन व्याख्यातम् । स धारणकोऽवष्टभ्य राजपुरुषैरुभयमर्थिनो राजनिक्षेपं च दाप्यः । इति धर्मस्य धारणा व्यवस्था । तात्पर्यमत्र व्याख्यातम् ॥१८४ ॥

हिन्दी - और यदि उन गुप्तचरों के दिये हुए सुवर्णादि धरोहर को लेनेवाला व्यक्ति ज्यों का त्यों वापस नहीं दे तो न्यायाधीश ताडन आदि दण्ड से उसे ( धरोहर लेनेवाले व्यक्ति को ) वश में करके धरोहर के उन दोनों धनों को दिलवावे, यह धर्म का निर्णय है ॥१८४ ॥

पुत्रादि को धरोहर देने का निषेध-निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।

नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥ १८५ ॥

पृष्ठ 269

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 269 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २३३ भाष्य – प्रत्यनन्तर उच्यते निक्षेप्तुः पुत्रो भ्राता भार्या वा । यस्य निक्षेप्तुर्द्रव्ये स्वाम्यमस्ति — भार्यायास्तावत्स्वाम्यमुक्तमेव – पुत्रस्यापि पैतामहे भ्रातुश्चैकधनस्य । तत्र तेषां कश्चिद्याचते क्षेप्तर्यसंनिहिते ' देहि नोऽस्माकीनमेतदिति ' । तत्र कश्चिदनया बुद्ध्या दद्यात् ‘ साधारणमेतदेकेन निक्षिप्तमपरेण नीतमिति को दोष इति । अत उच्यते न दे t निक्षेपोपनिधी प्रत्यनन्तरे । अत्रैवार्थवादं हेतुसरूपमाह । नश्यतो विनिपाते तौ । विनिपातोऽन्यथात्वं— प्रत्यनन्तरस्य देशान्तरे गमनादि - तस्मिन् सति तौ हीयेते । यदि तेन नीत्वा निक्षेप्तुर्न दत्तं तदा तेन पर्यनुयुक्तस्य धारणकस्य किमुत्तरम्? ' त्वदीयेन भ्रात्रैतद्धनं साधारणस्वामिना नीतमिति ’ नैतदुत्तरम् । “ यथा दायस्तथा ग्रह ” इत्युक्तम् — येनैव निक्षिप्तं स्वामिनाऽ-स्वामिना वा तस्मा एव देयम् — तस्यैवायं प्रपञ्चः । यदि तु प्रत्यनन्तरो विक्रियां न गच्छेत्तदा तद्दानेऽपि न दोषः । तदाह अनिपाते त्वनाशिनौ । तत्र ह्यस्त्युत्तरं माऽनशत्तस्मादर्पयामि । प्रत्यनन्तरेण नीते विनिपाते च तस्य निक्षेत्रे याचमानाय स्वधनं दातव्यमिति

श्लोकार्थः ॥ १८५ ॥

हिन्दी — निक्षेप तथा उपनिधि पिता के जीवित रहने पर उसके पुत्र या अन्य उत्तराधिकारी को नहीं देना चाहिये; क्योंकि उसके देनेवाले के मर जाने पर वे ( निक्षेप तथा उपनिधि ) नष्ट हो जाते हैं और जीवित रहने पर कभी नष्ट नहीं होते ( इ अनर्थ होने के भय से वैसा न करे ) ॥ १८५ ॥

( इस कारण विमर्श - गिनकर या बिना मुहरबन्द किये जो द्रव्य दिया जाता है, उसे ' निक्षेप ' कहते हैं तथा बिना गिने या मुहरबन्दकर जो द्रव्य दिया जाता है, उसे ‘ उपनिधि ’ कहते हैं । धरोहर स्वयं लौटाने पर राजादि का कर्तव्य-स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे । न स राज्ञाऽभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ १८६ ॥

भाष्य — जीवतस्तस्मान्निक्षेप्तुः प्रत्यनन्तरदानं नास्तीत्युक्तम् । मृतस्य तु यस्तद्धन-मस्तीत्यविजानते स्वयं दद्यान्न स व्यवहारलेखनादिक्लेशनीयोऽन्यदप्यस्ति न वेद वेति । यदि तस्याभविष्यदधिकमिदमिव तदप्यदास्यदिति न क्लिश्यते । अत्राप्याशङ्का यदि न निवर्तेत — ‘ महाधनोऽसावभून्न चान्येन समं प्रयुज्यते ' – प्रमाणान्तरं निश्चयाय विचा-रणीयम्, विषाग्न्यादिभिः शपथैर्नार्दनीयः । घटकोशसत्यतण्डुलास्तु न विरुध्यन्ते । न हि ते अतिक्लेशकराः । साक्ष्यभाव इत्यत्र द्वितीयो न्यासः । यश्च तयोर्न्यासः स इहापि द्रष्टव्यः ॥१८६ ॥

पृष्ठ 270

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 270 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३४ मनुस्मृतिः [ अष्टमः हिन्दी — धरोहर देनेवाले के मर मर जाने पर यदि उसके पुत्र या उत्तराधिकारी के लिए उस धरोहर को लेनेवाला स्वयं वापस लौटा दे तो राजा या धरोहर देनेवाले स्वामी के उत्तराधिकारी बान्धवादि या पुत्र को धरोहर वापस करनेवाले उस व्यक्ति पर अन्य द्रव्य के बाकी रह जाने का आक्षेप नहीं करना चाहिये ॥१८६ ॥

मुहरबन्द धरोहर देने पर—

अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम् ।

विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ १८७ ॥

निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने ।

समुद्रे नाप्नुयात्किंचिद्यदि तस्मान्न संहरेत् ॥ १८८ ॥

भाष्य - निक्षेपेषूपचयमानेष्वनन्तरोक्तो विधि ः ' साक्ष्यभाव ' इत्यादिः परिसाध-नार्थो विज्ञेयः । समुद्रे निक्षेपेऽन्यदप्यस्मिन्भांडे द्रव्यमभून्नाशितं कृमिभिरित्यादिकं पर्य-नुयोगं नाप्नुयान्निक्षेपधारी तत्र धारणकस्य । एवं मूषकादिनाशे द्रष्टव्यम् । यदि दारुमये भाण्डे वस्त्रादि स्थापितं तीक्ष्णदशनैर्मूषकैर्दारु भित्वा भक्ष्येत न निक्षेपधारिणो दोषः । तत्रापि वासनपरिवेष्टितः स्थूलपोट्टलको मुद्रितो यदि निक्षिप्येत यत्तदीये दारुभाण्डे नैव माति तदा बहिर्मूषकादिभक्षितेऽपि हि न दोषः । यदि चैतन्निक्षेप्तुर्ज्ञानं भवति धारकेण परिभाषितं न मम भाण्डमन्यदस्ति, चरित्रज्ञो वाऽस्य निक्षेप्ता कदाचित्प्रत्यासन्नो भवति ॥१८७-१८८ ॥ हिन्दी— ( उस धरोहर वापस लौटानेवाले पर और धरोहर बाकी रह जाने का संदेह होने पर उस धरोहर देनेवाले व्यक्ति का बान्धवादि उत्तराधिकारी ) निष्कपट होकर प्रेम-पूर्वक ही उस शेष बचे हुए धरोहर का निश्चय करे तथा उसके व्यवहार को विचार कर अर्थात् ' यह धर्मात्मा है ' ऐसा मानकर साम के प्रयोग से ही निर्णय करे । सब प्रकार के धरोहरों के देने को अस्वीकार करने पर उसका निर्णय करने के लिए उक्त विधान ( ‘ साक्ष्यभावे— ' ) ( ८।१८२ ) आदि कहा गया है । यदि मुहरबन्द धरोहर लेनेवाला ज्यों ता त्यों ( ठीक - ठीक मुहरबन्द ) धरोहर को वापस कर दे तथा उसे खोलने पर उसमें से कुछ नहीं ले तो धरोहर देनेवाले स्वामी को कुछ नहीं मिलता हैं ॥१८७-१८८ ॥

धरोहर के चोरी आदि होने पर-चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा ।

न दद्याद्यदि तस्मात्स न संहरति किंचन ॥ १८ ९ ॥

भाष्य - चौरास्तु वेदिता अवेदिता वा सुरङ्गभिदादिना यदि मुष्णीयुः कृतरक्षा-संविधाने धारणिके स्वामिन एव नाशः । जलेनोढमुदकेन देशान्तरं नीतम् || १८ ९ ॥