मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 281–290

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 281–290

पृष्ठ 281

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 281 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २४५ अश्वं वृषमन्यं वा । कासुचिच्छाखास्वाधान एता दक्षिणाः । अतः सोमक्रये यच्छकटं तदुद्गातुः । तत्र शकटेऽन्यतरोऽनड्वान्युक्तः स्यात् अन्यतरो वियुक्त इत्यपि पठ्यते ।

तेन च सोमः क्रीत उपाह्रियते ।

अन्येत्वपूर्वमन आहुर्न सोमोपाहरणार्थम्, न हि क्रयेण शक्यते विशेषयितुम्॥२०९ ॥

एवं तावत्पुरुषविशेषसंयोगिनीनामङ्गदक्षिणानां विधिरुक्तः । प्रधानदक्षिणानां सामा-न्यतः श्रुतानामिदानीं विभागमाह— हिन्दी — किन्हीं शाखावालों के आधान में अध्वर्यु रथ को, ब्रह्मा तेज घोड़े को, होता घोड़े को तथा उद्गाता सोमलता को खरीदने पर उसे वहन करने ( ढोने या लाने ) वाली गाड़ी को प्राप्त करता है ॥२०९ ॥

विमर्श - यह दक्षिणा प्राप्त करने की व्यवस्था आम्नायविशेषानुसार है, पक्षान्तर यह है कि जिसके लिए जो दक्षिण शास्त्रों में कही गयी है, उसे वे अध्वर्यु आदि प्राप्त करें ।

सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे ।

तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥ २१० ॥

भाष्य — सर्वेषामृत्विजां ये मुख्यास्तेऽर्धिनः । यावती तस्मिन्क्रतौ सामस्त्येन दक्षिणाऽऽम्नाता तस्यास्तेऽर्द्धिनोऽर्द्धहराः । सोमयागेषु हि षोडशर्त्विजस्तत्र चत्वारो मुख्या होताऽध्वर्युर्ब्रह्मोद्गातेति, तेषामर्धम् । ' तस्य द्वादशशतं दक्षिणेति ' ततोर्धषट्पञ्चा-शत् । तदर्धेन अष्टाविंशत्याऽर्धिनस्तद्वन्तः - अपरे येषां ततोऽनन्तरं वरणमाम्नातं मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारः । तृतीयिनः तृतीयांशाः । अंशशब्दोऽर्ध-शब्देन समानार्थोऽर्धशब्दश्च नावश्यं समप्रविभाग एव- किंचिन्न्यूनेऽधिकेऽपि सामी-प्येन वर्तते 1 । तेन तृतीयो भागः षट्पञ्चाशतः षोडश गृह्यन्ते । एकैकस्य चतस्रो भवन्ति । समस्तृतीयं भागं प्रयच्छन्ति षट्पञ्चाशतस्तृतीयं च । होतुरच्छावाकोध्वर्योर्नेष्टा ब्रह्मणोग्निदुद्गातुः प्रतिहर्ता । ये च पादिनस्ते चतुर्थं भागं कर्मणः कुर्वन्तीति ‘ पादिनः ’ । चतुर्थे च स्थाने मैत्रावरुणस्थानान्ते । चतुर्थांशाः । द्वादशसमुदाये पूर्ववत् । एवं “ तं शतेन दीक्षयन्ती ” त्यत्रापि क्लृप्तिः कर्तव्या— ' अर्धिनो दीक्षयति ' ' पादिनो दीक्षयती'-त्येवमादिभिः शब्दैः । तत्र द्वादशक्रमविधिरेव । अन्यत्र श्रुतो व्यवहार इहापि तयैव रीत्या कृत इति ॥२१० ॥

हिन्दी- - सब ऋत्विजों में प्रथम मुख्य चार ऋत्विज सब दक्षिणा का आधा भाग द्वितीय चार ऋत्विज् उन प्रथम चार ऋत्विजों से अर्धांश, तृतीय चार ऋत्विज् तृतीयांश और चतुर्थ चार ऋत्विज् चतुर्थांश दक्षिणा प्राप्त करते हैं ॥२१० ॥

पृष्ठ 282

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 282 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४६ मनुस्मृतिः [ अष्टमः विमर्श — इसका स्पष्ट आशय यह है- १. होता, २. अध्वर्यु, ३. ब्रह्मा, ४. उद्गाता; ५. मैत्रावरुण, ६. प्रतिप्रस्थाता, ७. ब्राह्मणाच्छंसी, ८. प्रस्तोता, ९. अच्छावाक्, १०. नेष्टा, ११. आग्नीध्र, १२. प्रतिहर्ता, १३. ग्रावस्तुत्, १४. उन्नेता १५. पोता और १६. सुब्रह्मण्य, ये १६ ऋत्विज् होते हैं । इनमें ' होता ' आदि प्रथम चार मुख्य ऋत्विज् सम्पूर्ण दक्षिणा का आधा भाग अर्थात् ४८ गायें ८४ ÷ ४ - १२, इस प्रकार प्रत्येक ऋत्विज् १२-१२ गायें ), ' मैत्रावरुण ' आदि द्वितीय चार ऋत्विज् उन प्रथम चार ऋत्विजों को आधा भाग अर्थात् ४८ ÷ २ - २४ गायें ( २४ ÷ ४ = ६ ) इस प्रकार ऋत्विज् ६-६ गायें; ‘ अच्छावाक् ’ आदि तृतीय चार ऋत्विज् प्रथम चार ऋत्विजों का तृतीय भाग ( तिहाई ), अर्थात् ४८ ÷ ३ = १६ गायें ( १६’४ = ४, इस प्रकार प्रत्येक ऋत्विज् ४-४ गायें ), तथा ‘ ग्रावस्तुत आदि अन्तिम चार ऋत्विज् प्रथम बार ऋत्विजों का चौथा भाग ( चौथाई ) अर्थात् ४८ ÷ ४ = १२ गायें ( १२ ÷ ४ = ३, इस प्रकार प्रत्येक ऋत्विज् ३-३ गायें ) दक्षिणा में प्राप्त करते हैं । इसके अनुसार ( ४८ + २४ + १६ + १२ 1 गायें ) १०० दक्षिणा में उन १६ ऋत्विजों को दी जाती हैं । यही बात ' तं शतेन दीक्षयति ' इस श्रुति से भी प्रमाणित होती है । यद्यपि ' सर्वेषामर्धिनो मुख्याः ' ' होता ' आदि प्रथम चार मुख्य ऋत्विजों को सब दक्षिणा का आधा भाग कहने से ( १००: २ = ५० ) गायें दक्षिणा में मिलनी चाहिये तथापि ४८ संख्या को ५० संख्या के समीपवर्ती होने से आधा कहा गया है । सम्मिलित कार्य करने पर—

सम्भूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः ।

अनेन विधियोगेन कर्तव्यांऽशप्रकल्पना ॥ २११ ॥

भाष्य - यथा यज्ञे यो बहूनि कर्माणि कायक्लेशकरणे विद्वत्तातिशयसाध्ये च नियुक्तो भूयसी दक्षिणां लभते न्यूनकर्मकारी तु न्यूनां तद्वल्लौकिकेषु गृहचैत्यादिकारिषु सम्भूय संहत्य वर्धकिस्थपतिसूत्रधारादिषु स्वसमयप्रसिद्धो यावानंशः सूत्रधारस्य यावा-न्स्थपतेस्त त्रानेन विधियोगेन । ' विधि'वैदिकोऽर्थः तत्प्रसिद्धा व्यवस्था ' विधि-योगेन ' वैदिक्या यज्ञगतया व्यवस्थयेत्यर्थः । एवं नाटकादिप्रेक्षायां नर्तनगायनवादकेषु भागप्रक्लृप्तिः । यद्यपि सर्वे विद्वांसः सर्वकर्मानुष्ठानशक्ताश्च तथापि कर्मानुरूप्येण भागो न पुरुषानुरूप्येणेति सम्भूय-समुत्थानम् ॥२११ ॥

हिन्दी — मिलकर काम करनेवाले मनुष्यों ( कारीगरों आदि ) को इसी विधि ( पूर्वोक्त यज्ञ - दक्षिणा भाग के अनुसार ) ( विज्ञान, व्यापार, कला आदि की कुशलता का ध्यान रखते हुए ) हिस्से का बटवारा कर देना चाहिये ॥ २११ ॥

पृष्ठ 283

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 283 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता दानद्रव्य को लौटाने का नियम—

धर्मार्थं येन दत्तं स्यात्कस्मैचिद्याचते धनम् ।

प्रश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ २१२ ॥

२४७ भाष्य — यः कश्चिदाह ‘ सान्तानिकोऽहं यियक्षुर्वा देहि मे किंचिदिति ' – तस्मै यदि दत्तं भवेत्— स च न यजेत न विवाहकर्मणि प्रवर्तेत — तद्धनं द्यूतेन वेश्याभिर्वा क्षपयेदन्यत्र वा विनियुञ्जीत वृद्धिलाभकृष्यादौ – न देयं तस्य तद्दत्तस्य । दानप्रतिषेधो नोपपद्यते— अतः प्रत्याहरणीयमिति वाक्यार्थः । अथवा दत्तान्तो गौणो व्याख्येयः - दत्तं प्रतिश्रुतं न देयम् । तथा च गौतमः ( ५।२१ ) ‘ प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात् ” । किंपुनरत्र युक्तम् । उभयमित्याह । दत्तस्य प्रत्याहरणं प्रतिश्रुतस्य वाऽदानम् । तथा च स्मृत्यन्तर उभयं पठितम् । आह हि नारदः ( ८।१०-११ ) “ कर्त्ताहमेतत्कर्मेति ” उपक्रम्य “ यद्दत्तं स्यादविज्ञानाददत्तं तदपि स्मृतम् ” इति । प्रयोजनविशेषोद्देशेन यद्दत्तं तस्मिन्ननिर्वर्त्यमाने व्यवस्थितमपि प्रतिग्रहीतुर्गृहादाहर्त्तव्यम् । दानस्योपक्रममात्रं तदानीं समर्पणं समाप्तिस्तु निर्वृत्तप्रयोजनेति नारदस्य मतम् ॥२१२ ॥

हिन्दी — धमार्थ ( यज्ञादि कार्य के लिए ) माँगनेवाले किसी को धन दे दिया गया हो ( अथवा देने का वचन दिया गया हो ) और वह धन धर्मकार्य में नहीं लगाया जाय तो दाता उस दिये गये धन को वापस ले लेवे ( अथवा देने का वचन दिया हो तो मत देवे ) ॥२१२ ॥

उक्त नियमानुसार वापस नहीं देने पर दण्ड–

यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः ।

राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः ॥ २१३ ॥

भाष्य - संसाधनं राजनिवेदनादिना ऋणवत्प्रतिश्रुतस्य मार्गणं — स्वीकृतस्य प्रतियाच्यमानस्य राजनिवेदनं— अयं मह्यं दत्वा प्रतिजिहीर्षतीति सिद्धस्य दृढी-करणं— संसाधनमेतदेतत् । दर्पाल्लोभेनेति कारणानुवादः । एवं कुर्वतो दण्डः सुवर्णं स्यात्तस्य स्तेयस्य निष्कतिरिति । चौरदण्डमाशङ्क-मानः सुवर्णं विधत्ते । अचौरशङ्कया च दत्तं किल तेन तस्मै न स्वयं हृतं कथमयं चौर: स्यादिति शङ्कां निवर्तयितुं स्तेयशब्दः प्रयुक्तः । सत्यपि चौरत्वे वाचनिक: सुवर्ण-दण्डोऽन्यासु क्रियासु चौरवद्व्यवहर्तव्यः ॥२१३ ॥

मनु II 18

पृष्ठ 284

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 284 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४८ मनुस्मृतिः [ अष्टमः हिन्दी – यदि धर्मार्थ कहकर लिया हुआ धन वह ( याचक धर्मकार्य में नहीं लगाते हुए भी ) दाता को मांगने पर मद या लोभ के कारण वापस नहीं लौटावे ( अर्थात् स्वीकृत धन को दाता से बलपूर्वक ग्रहण करे ) तो राजा उसे चोरी के पाप की निवृत्ति ( दूर करने ) के लिए उसे ( उक्त धन नहीं लौटानेवाले को ) एक सुवर्ण ( ८।१३४ ) से दण्डित करे ( और दाता को उक्त धन दिलवा ही दे ) ॥ २१३ ॥

दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया ।

अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ २१४ ॥

भाष्य- - पूर्वेणार्धेन पूर्वविवादोपरसंहारः । उत्तरेण वक्ष्यमाणोपक्रमः । दत्तस्यैषा-ऽनपक्रियोदिता । ' अपक्रिया ' क्रियापायः । तस्य नञा प्रतिषेधः । दानमेवं न चलितं भवति- - एषैव दाने स्थितिरिति यावत् । धर्मादनपेता धर्म्या । कथं प्रतिश्रुत्यादीयमाने धर्मो न नश्यतीति नैषा शङ्का कर्तव्या । एष एवात्र धर्मो यन्न दीयते दत्तं चं प्रत्यादीयते । उदिता उक्ता । यथावच्छ्ब्दसमुदाय एव याथातथ्ये वर्त्तते । सम्यङ्निरूपितेत्यर्थः । अथवा यथाशब्दो योग्यतायां वर्तते— तामर्हतीति वतिः कर्तव्यः । वेतनं भृतिः— तस्यानपक्रिया । वेतनेन स्वकर्म कुर्वतां यो धर्मः स इदानीमुच्यत इति प्रतिज्ञा ॥२१४ । हिन्दी— ( महर्षि भृगुजी ऋषिओं से कहते हैं कि ) दिये गये धन को नहीं लौटाने पर यह धर्मयुक्त विधान कहा, इसके बाद वेतन नहीं देने पर विधान को मैं कहूँगा || २१४ ॥ स्वस्थ कर्मचारी को काम नहीं करने पर दण्ड-भृतो ऽनार्त्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ २१५ ॥

भाष्य — उद्दिष्टेन मूल्येनोद्दिष्टं कर्म करोति स इह भृतोऽभिप्रेतः, भृत्यकर्मविशेषेण स्वीकृतो भृत्यः- देहि मे पञ्चरूपकाणीदं ते कर्म कर्ताऽस्मीयता कालेनेत्याभाष्य प्रविष्टः । स चेत्कर्म न समापयति — कृष्णलानि सौवर्णानि ताम्ररजतयोर्वा कर्मस्वरूप-मनुबन्धादि च ज्ञात्वा दण्ड्यते । तानि च रूपकाणि वेतनार्थं कल्पितानि न लभेत । यद्यनार्तोदर्पान्न करोति यथोदितं कर्म । व्याध्यादिनाऽपीडितस्य दर्पादकुर्वतो भृतिहानिर्दण्डनं च । अतः स एवं वक्तुं न लभते — यावन्मया कर्मांशः कृतस्तदानुरूप्येण देहीति । -ऋत्विजामप्येव दण्डं केचिदिच्छन्ति स्वेच्छया त्यजताम् । तदयुक्तम् । अत्र हि महाननर्थो यजमानस्य सामिकृत्ये यजमानेऽतो दण्डो महानत्र युक्त: - - यजमानस्य च यन्नष्टं तद्दापनीयाः— दीक्षोपसद्देवव्रतैः शरीरापचये समुत्थातव्यम् ।

पृष्ठ 285

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 285 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २४ ९ अन्यो यः शिल्पी कंचनकर्मणि प्रवर्तयति तडागखनने देवस्य गृहकरणे ' अहं ते ‘ समापयिता प्रवर्तस्वेति’- पश्चाच्चापसरेत्तेन स्वामिनः क्षयव्ययायासाः सर्वे संवोढव्या भाण्डवाहवणिग्न्यायेन । एष हि न्याय: कात्यायनेन सर्वत्रातिदिष्टः । भाण्डवाहकदोषेण वणिजो यदि द्रव्यं नश्येत्तद्भांडवाहको वहेत् । “ यो वाऽन्यः कस्यचित्कर्मणिधनमा-बध्यार्धतो निवर्तेतेति ” कात्यायनीये सूत्रे धनमाबध्याऽऽसज्य धनव्ययं कारयित्वा यद्यर्द्धकृते निवर्तेत सोऽपि तद्वदित्यनुषङ्गः । एवं योऽपि षाण्मास्यः सांवत्सरो वा यथोपपादककर्मकारी भक्तदासस्तस्याप्येष एव न्यायः । आह च नारदः ( ६।५ ) —

“ कर्माकुर्वन्प्रतिश्रुत्य कार्यो दत्वा भृतिं बलात् ।

भृतिंगृहीत्वाऽकुर्वाणो द्विगुणं भृतिमावहेत् ॥

कालेऽपूर्णे त्यजन्कर्म भृतिनाशनमर्हति ॥ २१५ ॥

अनार्त्तस्य दण्ड उक्तो भृतिहरणं च । आर्त्तस्येदानीमुच्यते-हिन्दी — वेतन पानेवाला जो कर्मचारी स्वस्थ रहता हुआ भी कहने के अनुसार काम नहीं करे तो राजा उसे आट कृष्णल ( रत्ती ) सुवर्ण आदि से दण्डित कर और उसका वेतन नहीं दिलवावे ॥२१५ ॥

आर्तस्तु कुर्यात्स्वस्थः सन् यथाभाषितमादितः ।

स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम् ॥ २१६ ॥

भाष्य — आतॊ भृतोऽर्द्धकृतं कर्म यदि हित्वा गच्छेत्स स्वस्थः सन्पुनरागत्य यथोक्तमादौ तत्कुर्यात् । बहुनाऽपि कालेन पीडया मुक्तः प्रत्यागतः कृतकर्मशेषे लभेतैव वेतनम् ॥ २१६ ॥

हिन्दी — वेतन पानेवाले जो कर्मचारी रोगी रहता हुआ काम नहीं करे तथा पुनः स्वस्थ होकर कहने के अनुसार करने लगे तो वह बहुत समय के बाद भी आरम्भ से वेतन पाता है ॥२१६ ॥

यथोक्तमार्त्तः सुस्थो वा यस्तत्कर्म न कारयेत् ।

न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ २१७ ॥

भाष्य- -अथवा स्वामी न वारयति, येन च तत्कर्म कारितं स्यात्स्वां भृतिं दत्वा तदा तत्सममसौ स्वस्थः कारयितव्यः । अथापि स्वामी ब्रूयान्न मे किञ्चित्कर्तव्यमस्तीति— तत्रापि कृतानुरूपेण लभेतैव यथोक्तमात्राम् ॥२१७ ॥

हिन्दी – जो कर्मचारी कहे हुए काम को स्वयं रोगी होकर दूसरे से नहीं करावे तथा स्वस्थ होकर स्वयं भी नहीं करे तो वह कुछ किये गये काम का भी वेतन नहीं पाता है ॥२१७ ॥

पृष्ठ 286

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 286 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५० मनुस्मृति:

एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः ।

अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ २१८ ॥

[ अष्टमः भाष्य- - वेतनादानकर्मण इति विवादपरस्यास्य नामधेयमेवमेतत् । तेन न चोद्यमेतत्— कथं वेतनस्यादानकर्मोक्तं यावता दानकर्माप्युक्तं “ न लभेतैव वेतनम् ” इति । नाम्नो हि येन केनचिदन्वितेन सम्बन्धिना नामता न विरुद्धा । न हि यावन्त: सूत्रार्थास्ते सर्वे प्रवर्तन्ते तथा चाग्निहोत्रे यद्यप्यग्निप्रजापत्योर्होमस्तथाप्यग्निहोत्रमिति नाम प्रवर्तत एव । तदुक्तं तत्रैवं स्थूणादर्शे या च समा नीचा स्यादिति । समयः संवित् सङ्केतः— इदं मया भवतामनुमते निश्चितं कर्तव्यमित्यभ्युपगमः । तं भिन्दन्ति व्यतिक्रामन्ति ते समयभेदिनः । " संविदश्च व्यतिक्रमः ” ( ८।५ ) इति

यदुद्दिष्टं तदिदानीमुच्यते ।

पूर्वेणार्द्धेन पूर्वप्रकरणोपसंहारोऽपरेण यथोद्दिष्टप्रकरणांतरसूचनम् ॥२१८ ॥

हिन्दी— ( महर्षि भृगुजी ऋषियों से कहते हैं कि — वेतन लेकर काम करने वालों का यह ( ८।२१५-२१७ ) सम्पूर्ण धर्म मैंने कहा, अब आगे समय भङ्ग करने ( शर्त तोड़ने ) वालों का धर्म ( दण्डादि की व्यवस्था ) कहता हूँ ॥२१८ ॥

समय ( शर्त ) भंग करने पर दण्ड–

यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।

विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ २१ ९ ॥

भाष्य- य - शालासमुदायो ग्रामः । तन्निवासिनो मनुष्या गृह्यन्ते । तेषामेव संविदः सम्भवात् । एवं ग्रामसमुदायो देशसंघ एकधर्मानुगतानां नानादेशवासिनां नानाजातीयाना-मपि प्राणिनां समूहः । यथा भिक्षूणां संघो वणिजां संघश्चातुर्विद्यानां संघ इति । ग्रामा-दीनां यत्कार्यं— यथा ' पारग्रामिकैर्ग्रामो नोऽपहतप्रायः अस्माकीने गोप्रचारे गाश्चारयन्ति उदकं च भित्त्वा नयन्ति । तद्यदि वो मतं तदद्य एतदेषां कर्तुं न दद्मः । एवं नः प्रति-वन्धतां यदि तैः सह दण्डादण्डिर्भवति राजकुले वा व्यवहारस्तत्र सर्वे वयमेककार्याः । नो चेदुपेक्षामहे ' । तत्र ये संविदते— ' वाढम् — किमिति प्राक्तनी ग्रामस्थितिस्तैर्व्यति-क्रम्यते ' इत्येवं प्रोत्साह्य विसंवदेद्वलात्तैरेव सह सङ्गच्छेत स्वेषु वा नाभ्यन्तरः स्यात्— स राज्ञा स्वराष्ट्रान्निर्वासयितव्यो निष्कासयितव्यः । स्वविषयेऽस्य वस्तुं न देयम् । एवं वणिङ्मठब्राह्मणादिकार्ये ईदृशे कृतसंवित्तेन नातिक्रमितव्यम् । यत्कार्यं ग्रामाद्युपकारकं शास्त्राचारप्रसिद्धं पुरराष्ट्राविरोधि तत्संविद्व्यतिक्रमे दण्डोऽयम् । लोभादिति स्वेनोपकारगन्धेन परग्रामणीकृतेनास्वातन्त्र्यं ‘ लोभः ’ | अज्ञानात्तु विसम्वदमानस्यान्यः कल्पः ॥२१९ ॥

पृष्ठ 287

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 287 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २५१ हिन्दी – ग्रामवासी, देशवासी या व्यापारी आदि के समुदाय ( कम्पनी आदि ) का जो व्यक्ति सत्यादि के शपथपूर्वक किये गये समय ( ' यह काम मैं इतने दिनों में पूरा करूँगा ' इत्यादि रूप में शर्त - ठेका ) को लोभ आदि के कारण भंग करे; उसे देश से निकाल दे ॥२१९ ॥

निगृह्य

दापयेच्चैनं समयव्यभिचारिणम् ।

चतुः सुवर्णान् षण्णिष्कांश्छतमानं च राजतम् ॥ २२० ॥

भाष्य — निगृह्यावष्टभ्य पीडयित्वा काललाभमकारयित्वा दण्ड्यः चत्वारि सुवर्णानि येषां निष्काणां परिमाणं ते चतुः सुवर्णा निष्काः । यद्यपि चतु: सुवर्णिको निष्क इत्यत्रोक्तं ( १३७ ) तथापि शास्त्रान्तरात् " साष्टं शतं सुवर्णानां निष्कमाहुर्महाधियः ” इत्येवमादि-परिमाणान्तरं पश्यन् विशिनष्टि । “ संज्ञाकारणसामर्थ्यादेव लभ्यत " इति चेत् पद्यग्रन्थ-त्वान्न दोषः । अन्ये तु सहार्थे बहुव्रीहिं कृत्वा त्रीन् दण्डानाहुः । चतुर्भिः सुवर्णै: सह षण्णि-ष्कान् दण्डनीयः । दश निष्काः प्रतिपादिता भवन्ति । बहुव्रीहिसिद्ध्यर्थं सहार्थे कथंचिन्मत्वर्थो योजितव्यः । न हि चित्राभिर्गोभिः सहितश्चित्रगुर्देवदत्त इति भवति । एते च त्रयो दण्डा यदि च त्रिभिरेक इति कार्यापेक्षया

योजनम् ।

निर्वासनदण्डेन विकल्प्यते दण्डोऽयम् ॥२२० ॥

हिन्दी - अथवा उक्त समय भंग करने ( शर्त तोड़ने ) वाले को राजा निग्रहकर उससे चार ‘ सुवर्ण ’ ( ८।१३४ ) ' छः निष्क ' ( ८।१३७ ) या ' शतमान ' ( ८।१३७ ) अर्थात् ३२० रत्ती चाँदी का दण्ड ( जुर्माना ) दिलावे ॥ २२० ॥

विमर्श – इस तीन प्रकार के दण्डों से अपराध के अनुसार पृथक् - पृथक् या सम्मिलित तीनों दण्डों से राजा अपराधी को दण्डित करे ।

एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः ।

ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ २२१ ॥

भाष्य- जातिसमूहेषु च नानाजातीयानां समानजातीयानां वा संघेषु तद्विषयो

व्यभिचारो येषामित्यर्थः ।

प्रकरणोपसंहारः ॥२२१ ॥

हिन्दी— ( महर्षि भृगुजी ऋषियों से कहते हैं कि — ) धर्मात्मा राजा ग्राम या जाति समूह में समय भंग करने ( शर्त तोड़ने वालों के लिए यह ( ८।२१ ९ -२२० ) दण्ड विधान करे ॥२२१ ॥

पृष्ठ 288

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 288 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५२ मनुस्मृतिः [ अष्टमः क्रय - विक्रय करने पर मूल्य वापस लेना या देना-क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा ॥ २२२ ॥

भाष्य- - यद्द्द्रव्यं प्रचुरक्रयविक्रयं व्यवहारकाले न गच्छति न नश्यति मूल्यतश्च नापचीयते त्रपुताम्रभाण्डादि स्थिरार्धं तादृशस्यानुपभुक्तस्य दशाहमध्ये आदानप्रत्यर्पणे । यत्तु विरलक्रयविक्रयं देवयात्रोत्सवादौ विक्रीयते अनियतार्थं च तस्य तदहरपरेद्युर्वा । फलकुसुमादौ तु तत्क्षण एवानुशयः । पश्चादपि — ' क्रीत्वा यस्यानुशयो न ममैतदुपयुज्यते ' स दशाहमध्ये दद्यात् । विक्रेता प्रतिगृह्णीयात् । विक्रेतुरनुशये— ' न भया साधु कृतं यद्विक्रीतमिति’— क्रेता तस्मै प्रतिपादयितव्यः । एकस्थानवासिनां चैष कालः । देशान्तरवासिनां तात्कालिकी प्रतिनिवृत्तिः । केचिद्गोभूम्यादिविषयं विधिमिममिच्छन्ति, न वस्त्रादौ । स्मृत्यन्तरे हि वणिक्पण्येऽन्यो विधिराम्नायते । एवं हि नारदः पठति ( ९।२-३ ) “ क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतमिति मन्यते । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्वयविक्षतम् ” । “ द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्र्यंशांशमावहेत् । द्विगुणं तत्तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥ ” इति विक्रयार्थं यद्द्रव्यं तत् ‘ पण्यं ' यद्विक्रीय तदुत्पन्नेन द्रव्यान्तरक्रयादिना पुरुषो व्यवहरति जीविकाधनमर्जयितुं — तथा पणभूमौ प्रसारितमप्रसारितं च भवति वणिजाम् । तत्रेह पण्यग्रहणात्कश्चिद्विशेषो विवक्षितः । इतरथा क्रीत्वा मूल्येन इत्येतावदपेक्ष्यम् । कः पुनरसौ विशेषः? उच्यते । यत्क्रीतमपि पण्यत्वमजहद्वणिग्भिर्विक्रीयते तर्हि विक्रयार्थमेव क्रीणन्ति । तेषां वणिजामितरेतरं क्रीणतां विक्रीणतां च नारदीयो विधिः, अन्येषां मानव इति केचित् । किं पुनरत्र युक्तम् । पण्यधर्मादेर्व्यवस्था वाऽनुसरणीया । तथा चाश्वानां बलसञ्चारो हस्तिनामङ्कुशारोहणं विक्रयविभावकमित्यादिना व्यवहारस्तेषु पण्येषु सिद्धो भवति । ‘ अविक्षत ' मविनष्टमुपनिध्यादौ वस्त्रादेर्यावन्नात्र नाशस्तावतो मूल्य-मुपनिधात्रे दीयते, द्रव्यं तु गृह्णाति । इह त्वीषन्नाशेऽपि सर्वं मूल्यं देयं क्रेतुः || २२२ ॥ हिन्दी – कोई वस्तु ( शीघ्र नष्ट होनेवाली अचल सम्पत्ति या बहुत समय बाद नष्ट होनेवाली भूमि, घर, बगीचा आदि अचल सम्पत्ति ) खरीदकर या बेचकर जिसको पश्चात्ताप होने लगे तो वह दश दिन के भीतर ( यदि सामान खरीदा हो तो ) वापस कर दे तथा ( यदि बेचा हो तो ) वापस ले ले ॥२२२ ॥

पृष्ठ 289

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 289 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २५३

परेण तु दशाहस्य न दद्यान्नापि दापयेत् ।

आददानो ददच्चैव राज्ञा दण्ड्यौ शतानि षट् ॥ २२३ ॥

भाष्य — दशाहात्परतो न क्रीतानुशयः । जातानुशयश्चापि क्रेता विक्रेता वा यदि राजनि विवदतां तौ ततः षट् शतानि दण्ड्यौ । न दद्यादिति नायमदृष्टार्थः प्रतिषेधः । किं तर्हि ज्ञायते । स्थितिरीदृशी । अनिच्छन्क्रेता दशाहादूर्ध्वं न त्याजनीयो नापि विक्रेता ग्राहयितव्यः । अतश्च यदि साम्नोभयेच्छायां दानादाने स्यातां तत्र न कश्चिद्दोषः ॥ २२३ ॥

हिन्दी – दश दिन के बाद तो ( खरीदी हुई वस्तु को ) नहीं वापस दे और बेची ( हुई वस्तु को राजा ) नहीं वापस दिलवावे । ( बेची हुई वस्तु को ) बलात्कार से लेता हुआ और खरीदी हुई वस्तु को ) देता हुआ ६० पण ( ८।१३६ ) से राजा द्वारा दण्डनीय होता है ॥२२३ ॥

बिना कहे दोषयुक्त कन्या का दान करने पर दण्ड–

[ स्याच्चतुर्विंशतिपणे दण्डस्तस्य व्यतिक्रमे ।

पणस्य दशमे भागे दाप्यः स्यादतिपातिनि ॥ १६ ॥

क्रीत्वा विक्रीय वा पण्यमगृह्णन्न ददतस्तथा ।

पणा द्वादश दाप्यश्च मनुष्याणां च वत्सरान् ॥ १७ ॥

पणा द्वादश दाप्यः स्यात्प्रतिबोधे न चेद्भवेत् । पशूनामप्यनाख्याने विपदादर्पणं भवेत् ॥ १८ ॥ ]

यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।

तस्य कुर्यान्नृपो दण्डं स्वयं षण्डवतिं पणान् ॥ २२४ ॥

भाष्य - या कन्या दोषैर्युक्ता सा च दात्रा वराय नाख्यायते न प्रकाश्यत एवमेव दीयते तत्र दातुर्दण्डो विदिते राज्ञा कार्यः । स्वयंग्रहणमादरार्थम् । कन्यादोषाश्च धर्म-प्रजासामर्थ्यविघातहेतवः क्षयो व्याधिर्मैथुनसम्बन्धश्च । नोन्मत्ताया इत्येतत्प्रकरणोक्तो दण्डोऽयं वा ॥ २२४ ॥

हिन्दी - जो दोषयुक्त कन्या के दोष को नहीं कहकर उस कन्या का दान कर दे अर्थात् उसके साथ विवाह करा दे, राजा उसको स्वयं ९ ६ पण ( ८।१३६ ) दण्डित करे ॥२२४ ॥

कन्या के असत्य दोष कहने पर दण्ड-अकन्येति तु यः कन्यां ब्रूयाद्द्द्वेषेण मानवः ।

स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥ २२५ ॥

पृष्ठ 290

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 290 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५४ मनुस्मृति: [ अष्टमः भाष्य — अकन्या वृत्तमैथुनसम्बन्धेति यो वदेत्तं च दोषं न भावयेत्तदा शतं कार्षापणं दण्ड्यः । अन्ये मन्यन्तेऽल्पत्वाद्दण्डस्य महत्त्वाच्चाक्रोशस्येतिकरणस्य च पदार्थविपर्यया-शक्तत्वेन दर्शनादकन्येति शब्दस्वरूपं विवक्षितम् । अकन्येयमित्येतेनैव शब्देनाक्रोशे तस्य शतं दण्डः । कः पुनरत्र विशेष:? उच्यते । स इदंवादी पृच्छ्यते— कथमि-यमकन्येति । स चेद्ब्रूयान्निर्लज्जा नृशंसाऽश्लोलवादिनी— नैष कन्यानां धर्मः । एतच्च न साधयेत्तदाऽयं दण्डः कन्यागुणनिषेध उक्ते सति । अथवा कन्याशब्दं प्रथमवयो-वचनमाश्रित्य परोक्षे प्रार्थयमानस्य ब्रूयात्किंतावन्नासौ कन्या अतिस्वल्पा वृद्धा वा – तत्र कन्यादाता यदि राजानं ज्ञापयेदभिरूपतमा कन्या मदीया प्रार्थ्यमानाऽनेन तस्याम-भिलाषः एवमुक्त्वाऽथ पराजितः, तत्र प्राप्तकालायां यद्येवमुक्तं तदा पराजितस्यायं दण्डः ॥२२५ ॥

हिन्दी - जो मनुष्य द्वेष से कन्या को ' यह कन्या नहीं है ' अर्थात् क्षतयोनि हो गयी है ऐसा कहे, ( और पूछने पर ) वह उस कन्या का दोष नहीं प्रमाणित करे तब उसको

राजा सौ पण ( ८।१३६ ) से दण्डित करे ॥२२५ ॥

दोषयुक्त कन्या की निन्दा-पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः ।

नाकन्यासु क्वचिन्तॄणां लुप्तधर्मक्रिया हिताः ॥ २२६ ॥

भाष्य — ‘ पाणिग्रहणं ’ विवाहो दारकर्म, मन्त्राणां तत्र विद्यमानत्वात् । तत्र विद्य-मानत्वात्सचाग्निमयक्षतेत्येताभ्यां सम्बन्धेनासां विवाहे कर्तृत्वं दर्शयति । परमार्थतस्तु विवाहविधौ कन्यामुपयच्छेदिति विहितं — तादृशमेवार्थं मन्त्रा अभिवदन्ति । न पुन-र्मन्त्रेषु कन्याशब्दश्रवणात्कन्यानां विवाहः, मन्त्राणामविधायकत्वात् । एष एवार्थ-स्तद्विपरीतप्रतिषेधमुखेन दृढीक्रियते । न कन्यासु क्वचिन्तॄणाम् । न कस्यांचिद्वेदशाखायां मनुष्याणामकन्याविषयो विवाहः श्रुतः । लुप्तक्रियाः- यासां धर्मेऽग्निहोत्रादाव-पत्योत्पादनविधौ चाधिकारो नास्त्यतस्ता न विवाह्याः ।

अत: कन्यामकन्येति वदन्महता दण्डेन योजनीय इति पूर्वश्लोकादनन्तरमुच्यते ।

अप्राप्तमैथुना स्त्री कन्योच्यते ॥२२६ ॥

हिन्दी – विवाह - सम्बन्धी मन्त्र कन्याओं के ही विषय में नियत हैं, अकन्याओं के ( क्षतयोनि होने से दूषित कन्याओं ) के विषय में कहीं ( किसी शास्त्रों में ) भी नहीं, क्योंकि वे ( दूषित कन्याएँ ) धर्म कार्य से हीन हैं ॥२२६ ॥

विमर्श - दूषित कन्या का विवाह मन्त्रों से करने पर भी वह विवाह धर्म युक्त नहीं