मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 291–300

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 291–300

पृष्ठ 291

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 291 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २५५ माना जाता है । गान्धर्व विवाह ( ३।३२ ) में हवन, मन्त्रादि का विधान शास्त्र -सम्मत माना गया है और क्षतयोनि पूर्वक भी होनेवाले उस विवाह को मनु ने क्षत्रिय के लिए धार्मिक विवाह माना है ( ३।२३, २५, २६ ); अतएव ' सामान्य विशेष ' न्याय से क्षतयोनि-विषयक यहं अधार्मिक विवाह सम्बन्धी वचन दूसरे के लिए है ॥

सप्तपदी-पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।

तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ २२७ ॥

भाष्य – दारा भार्या, तस्या लक्षणं निमित्तं विवाहमन्त्राः, तैस्तत्र प्रयुक्तै-र्विवाहाख्यः संस्कारो निर्वर्तते । द्विजातीनां पुनर्मन्त्राः । न च शूद्रस्यादारप्रसङ्गः, न हि तस्य मन्त्राः सन्ति — मन्त्रवर्जं सर्वान्येतिकर्तव्यतास्ति । अतो विवाहाख्यसंस्कारोप-लक्षणं मन्त्राः । तेषां मन्त्राणां निष्ठा समाप्तिः सप्तमे पदे विज्ञेया । लाजाहोममभि-निर्वर्त्य त्रिःप्रदक्षिणमग्निमावर्त्य सप्तपदानि स्त्री प्रक्रम्यते " एष एकपदी भव ” इत्यादि यावत् “ सखा सप्तपदी भवेति ” । तस्मिन्प्रक्रान्ते कन्यायाः पदे कन्यापितुर्वोढुर्वानुशयो नास्ति । उन्मादवत्यपि भार्यैव । न त्याज्या । मैथुनवत्यास्तु नैवासौ विवाहः । सत्यपि लाजाहोमादावितिकर्तव्यतास्वरूपे न भार्या सा । अतस्तत्र द्रव्यान्तरवदनुशयः । यथा च शूद्रकर्तृकेणाधानेनाहवनीयो न भवति— सपिण्डायाश्च कृतेऽप्यग्निसंस्कारे न विवाहस्वरूपत्वम् । तत्र तु प्रसिद्धम्— “ संस्कारकरणादेकः प्रायश्चित्तीयते पुमान् ” । कन्या चान्यभ्याप्यविवाह्या वसिष्ठवचनात् । “ यदि प्रजनविघातरोगगृहीतामूढ्वा न त्यजति का तर्हि गतिः । ” ‘ सत्यधिकारे अन्यामुद्वाहयिष्यति । ' सद्यस्त्वप्रियवादिनीति'वत् ( ९ ।८१ ) । कृते तु जातपुत्रायामाधाने यदि क्षयो व्याधिः स्यात्तथापि नैनामधिविन्देदधिवेदननिमित्तानां परिगणनात् ( ९।७७-८५ ) । तत्रापि यदि “ कामतस्तु प्रवृत्तानाम् " इत्येतत्प्रयोजक-मिष्यते न निवारयामः । तेनैव संक्षेपतः कन्यायां धर्मः । यथाऽन्येषां द्रव्याणां दशाहादूर्ध्वमपि साम्म्राप्रत्यर्पणं, नैवं कन्यानां कृतविवाहानाम् । शुल्कदेयानामपि प्राग्विवाहाद्द्रव्यान्तरधर्मः । या तु धर्माय दीयते तस्या नैवानुशय इति वचनात् । तत्रापि “ दत्तामपि हरेत्कन्यां ज्यायांश्चेद्वर आव्रजेत् ” ( याज्ञ ० १।६५ ) इत्यस्त्येवापहार आ सप्तमपदात् । सप्तमे तु पदे दानानिवृत्तेर्गवादिद्रव्यदानवन्नास्त्यपहारः । अथैव केनचित्कस्मै-चिद्गवि दत्तायां न तयोरन्योन्येच्छयाऽनुशयो दानादाने - दानस्य तदानीमेव निर्वृत्त-त्वात् । प्रतिगृहीतं चेद्दात्रे पुनः प्रयच्छेत्तद्दानान्तरमेव तत्स्यात्, न पूर्वदाननिवृत्तिः । एवं

पृष्ठ 292

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 292 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५६ मनुस्मृतिः [ अष्टमः सगुणरणेः कन्यावरयोर्नान्योम्येच्छया त्यागोऽस्ति, प्रागपि विवाहात् । विवाहे तु कृते दोषवत्या अपि नास्ति त्यागः कन्यायाः । स्पृष्टमैथुना, या कन्यैव न भवति, अतोऽसौ त्यज्यते— कन्याया यतो विवाहो विहितः । विवाहश्चोपभोगस्थानीयः । यथा परिभुक्तं

वस्त्रमन्तर्द्दशाहमपि नैव विक्रेत्रेऽर्प्यते तथैव कन्या कृतविवाहा ।

पुनश्चायमर्थो निर्णेष्यते “ सकृत्कन्या प्रदीयत ” इत्यत्रान्तरे ( ९ ।४७ ) ॥२२७ ॥

हिन्दी - विवाह - सम्बन्धी मन्त्र भार्यात्व ( सहधर्मिणपन ) में निश्चित रूप से कारण हैं, उन ( विवाह सम्बन्धी मन्त्रों ) की सिद्धि विद्वानों को सप्तपदी होने पर जाननी चाहिये ॥२२७ ॥

यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत् ।

तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ २२८ ॥

भाष्य — न केवलं वणिजां पण्यधर्मोऽयं दशाहिकोऽनुशयः, किं तर्हि, वेतन-संविद्वृद्धिप्रयोगादिषु यस्मिन्यस्मिन्निति वीप्सयाऽशेषकार्यपरिग्रहः अनेन विधानेन दाशाहिकेन विधिना । धर्मादनपेतो धर्म्यः । पन्था मार्गः । निवेशयेत्स्थापयेद्राजा, अतिदेशोऽयम् । कृते कार्य इति प्रक्रान्ते पुनः सर्वेण सर्वनिवृत्तेस्तत्रानुशयाभावः । वाचा निरूपिते स्थापिते वाऽन्तरेऽनुशय्य दशाहप्रतीक्षणम् । यत्र पुनर्वृद्ध्यर्थं धनं नीत-मृत्विक् च वृतो वेतनं च दत्तं - कृतसमये विरोध आरब्धस्तत्र नायं धर्म इति केचित् । न हि कृतमकृतं भवति । एतच्च न कृतं ' कृतं ' निर्वृत्तमुच्यते, न प्रक्रान्तम् । न ह्ययं “ आदिकर्मणि क्तः ” । न हि मुख्यार्थत्यागे कारणमस्ति । यत्तु कृतं नाकृतं भवतीति कृतमपि तत्साध्यकार्यप्रतिषेधादकृतमेव । यथा भुक्तं वांतमिति । लौकिकेष्वपि पदार्थेषु शास्त्रावसेयव्यवस्थाकेषु शास्त्रत एव निवृत्त्यनिवृत्ती विज्ञेये । अथापि वृत्ताः पदार्था-स्तथापि प्रत्याहरणं विधीयते । निष्पन्नेऽपि धनप्रयोगे स्वस्थाननीतेष्वपि रूपकेषु प्रत्या-नयनं कर्तव्यमन्यतरानुशयात् । क्षयव्ययाः शास्त्रधर्मेण नीतेषु वोढव्याः । तथा च गृहीतमात्रेषु मासिकीं वृद्धिमिच्छन्ति । यत्रैवं बन्ध एष भोक्तव्य इयन्तं कालमित्येव-माद्यन्तर्दशाहमनुशये निवर्त्यते । ऋत्विजां तु वरणं विवाह इव कन्यानाम् । संविदे दशाहादूर्ध्वं प्रवर्तितव्यमन्यस्मिन् शास्त्रे सति ॥२२८ ॥

हिन्दी — जिस - जिस कार्य को करने के बाद मनुष्य को पश्चाताप हो, उस - उस कार्य में इसी प्रकार ( दश दिनों के भीतर - ८।२२२ ) धर्म युक्त मार्ग में राजा उसे स्थापित करे ॥ २२८ ॥।

पशु के स्वामी तथा रक्षक का विवाद-पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।

विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः ॥ २२ ९ ॥

पृष्ठ 293

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 293 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २५७ भाष्य – गवादिपशुविषये व्यतिक्रमे स्वामिनां पालानां च गोपालादीनां यो विवादः - - ‘ गौस्त्वया मे नाशिता तां मे देहीति ' - पालोऽपि विप्रतिपद्यते— ' मदीयो दोषो नाभवत्’– इत्यत्र वादपदे यद्धर्मतत्त्वं यादृशी व्यवस्था तां यथावन्निपुणतो वक्ष्यामीत्यवधानार्थः पिण्डीकृतप्रकरणोपन्यासः ॥ २२ ९ ॥ हिन्दी - ( भृगु मुनि ऋषियों से कहते हैं कि - ) अब मैं पशुओं के मालिकों तथा रक्षकों ( रखवाली करनेवालों या चरवाहों ) में मतभेद होने पर धर्म - तत्व के अनुसार यथोचित व्यवहार ( मतभेद दूर करने के मार्ग ) को कहूँगा ॥२२९ ॥

दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।

योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥ २३० ॥

भाष्य - दिवा पशूनां योगक्षेमे दोष उत्पन्ने ' नष्टं विनष्टम् ' इत्यादिके वक्ष्य-माणे— पाले वक्तव्यता कुत्सनीयता । तेन स दोषो निवोढव्यः 1 । रात्रौ स्वामिनो दोष उद्बन्धनादिमृतानाम् । तद्गृहे स्वामिगृहे यदि पालेन प्रवेशिता भवन्ति । अन्यथा चेत्तु — यदि रात्रावपि पालेन न प्रवेशिता अरण्य एव वर्तते तदा पालो दोषभाक् स्यात् । एतदुक्तं भवति । पालहस्तगता गावो यदा क्षेत्रे कस्यचित्सस्यं भक्षयन्ति केन-चिद्वा हन्यन्ते तदा पालस्य, अथ पालेन समर्पितास्तदा स्वामिनः । अयोगक्षेमे योग-क्षेमशब्दः प्रयुक्तो लक्षणया — यथाऽन्धे चक्षुष्मानिति ॥२३० ॥

कोऽसौ योगक्षेमः । अतः प्रपञ्चयति— हिन्दी – स्वामी द्वारा ( रखवालों को सौंपे गये पशुओं के योगक्षेम की निन्दा दिन में रखवालों की तथा रखवालों द्वारा स्वामी को घर में सौंपे गये पशुओं के योगक्षेम की निन्दा रात में स्वामी की होती है, अन्यथा ( स्वामी के घर में पशु रखवालों द्वारा नहीं सौंपे गये हों अर्थात् रखवालों के जिम्मे ही रात में भी वे पशु हों तब ) उनके योगक्षेम की निन्दा रखवालों की ही होती है ॥२३० ॥

विमर्श — यहाँ ‘ योगक्षेम ' शब्द का अभिप्राय यह है कि — रखवालों के प्रमाद से पशुओं को अथवा पशुओं द्वारा किसी के खेत आदि के चरने से किसी दूसरे व्यक्ति को कोई हानि नहीं पहुँचे । स्वामी या रखवाले की निन्दा होने का तात्पर्य पूर्वोक्त हानि होने पर वे दोषी समझे जाते हैं ।

दुग्ध वेतन का निर्णय-गोषः क्षीरभृतो यस्तु स दुह्याद्दशतोवराम् ।

गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ॥ २३१ ॥

भाष्य — गाः पाति गोपः गोपालकः । स कदाचिद्भक्तादिनाभ्रियतेकदाचित्क्षीरेण

पृष्ठ 294

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 294 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५८ मनुस्मृतिः [ अष्टमः तत्र क्षीरभृतोदशभ्यो वराम् श्रेष्ठाम्, अवरां वा– संहितायामकारप्रश्लेषात् । रक्षाया-मनुरूपकता । यस्य नान्यदन्नं स एकस्या गोः क्षीरमादद्यात् दशतः । अनया कल्पनया न्यूनाधिकरक्षणे भृतिः कल्पयितव्या । एवं दोह्यादोह्यधेनुवत्सतरीदम्यवत्सकादि-वारणे क्वचित्त्रिभागः क्षीरस्य क्वचिच्चतुर्भाग: स्वामिभिः कल्पयितव्यः । दिङ्मात्रप्रदर्शनार्थश्लोकोऽयम् । देशव्यवस्था त्वाश्रयणीया । भृतिं निरूपयि-ष्यामीति ग्रामगोपालेन यदि गावस्त्यक्ता भवन्ति न तेन स्वामिनमननुज्ञाप्य दशमी गौर्दोह्येति । भक्तभृतोऽपि ‘ क्षीरेण विनिमयेयमिति ' बुद्ध्या दुहीत – तन्निवृत्त्यर्थमुक्तं गोस्वा-म्यनुमत इति । स्वामिनोऽनुमतिमन्तरेण प्रवर्त्तमानो दण्ड्यः । सा- अनन्तरोक्ता । अभृते भक्तादिना - भृतिर्भवेत् । क्षीरभृतो वा एषा वृत्तिः । ' भृत्यो ' भरणार्थं न धर्माय प्रवृत्ती गोरक्षायाम् । अथवा स्वेच्छया दशम्या गोः क्षीरमाददानश्चोरः स्यात् । अस्मिंस्त्वनुज्ञाते भृतिस्तस्येयमिति न दोषः । अत्रापि स्वामिनोऽननुमत्या दोष एवेति चेत्सत्यम् — कल्प्या काचिद्दंडमात्रा न

चौरो भवति । अस्मिंस्तु चौरो निक्षेपहारी वा स्यात् ।

अयं श्लोक आदौ वक्तव्यः । अतोऽनन्तरः क्वचित्पठ्यते ॥ २३ ९ ॥

हिन्दी — जो गोरक्षक गायों के स्वामी से वेतन के स्थान में धन नहीं लेकर दूध लेता हो वह दश गायों में एक अच्छी गौ चुनकर वेतन के बदले उसी का दूध लिया करे ॥२३१ ॥

विमर्श – ऐसे गोरक्षक ( रखवाले ) को वेतन के बदले दश गायों में से इच्छानुसार चुनी हुई श्रेष्ठ गौ का केवल दूध ही मिलता है, अन्न या रुपया - पैसा नहीं मिलता । इस प्रकार एक गाय के दूध लेने से दश गायों की रखवाली करने का उत्तरदायित्व उस पर रहता है । पशु के नष्ट होने पर दण्ड–

नष्टं विनष्टं कृमिभिः श्वहतं विषये मृतम् ।

हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥ २३२ ॥

भाष्य — नष्टं दृष्टिपथादपेतं न ज्ञायते क्व गतम् । विनष्टं कृमिभिः । आरोहक-नामानः कृमयो गवां प्रजनवर्त्मनाऽनुप्रविश्य नाशयन्ति । श्वभिर्हतम् । प्रदर्शनार्थ-मेतत् । तेन गोमायुव्याघ्रादिहतानामेषैव स्थितिः । विषये श्वभ्रदरीशिलादिसंकटादौ मृतम् । प्रदद्यात्पाल एव । हीनं पुरुषकारेण । ' पुरुषकारः ' पुरुषव्यापारः । पालस्य

पृष्ठ 295

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 295 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २५ ९ तत्र संनिधानात् वृकनिवारणं च दण्डादिना प्रवृत्तिः । तेनापेतम् । यदि व्याप्रियमाणो व्याघ्रादेर्निवारणे नैव समर्थ: - सहसैव वोत्पत्य कश्चित् पशुर्वेगेन श्वभ्रं गच्छेदनु-गच्छताऽपि न शक्यः प्रत्यावर्तयितुं — न पाले दोषः ॥२३२ ॥

हिन्दी – यदि कोई पशु भूल जाय, कृमि आदि से; कुत्ते के काटने से, ऊँचे - नीचे स्थान या मार्ग में गिरने से या फँसने से मर जाय, अथवा रखवाले की ( उपेक्षा-जन्य ) पुरुषार्थ - शून्यता से मर या भाग जाय तो उस पशु का देनदार रखवाला ही होता है ॥२३२ ॥

पशु का अपहरण होने पर—

विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति ।

यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ २३३ ॥

भाष्य - विघुष्याऽऽघुष्य पटहान् चौरैर्हृतं पशुं पालो न दाप्यते । विघोषणं च पालस्याशक्त्युपलक्षणार्थम् । यदि बहवश्चोराः प्रसह्य च मुष्णन्ति तदा पालो मुच्यते । सोऽपि यदि प्राप्तकालं तस्यामेव वेलायां स्वामिनः कथयति । देशे यत्र स्वामी संनिहितः । " कथं विज्ञातस्तत्र अथवा निवासदेशे स्वामिनः । " तत्र यद्यसावसंनिहि-तोऽपि भवति तथापि तत्स्थानीयो भवति — यो राजानमधिकारिणं वा ज्ञापयित्वा चौरानभिद्रवति । स्वस्येति राजनिवृत्त्यर्थम् । स्वोहि स्वामी स्वद्रव्यमोक्षणे यत्नं कुरुते न तथा पालज्ञापितो राजा । दुष्करा च राजज्ञापना पालस्य । अथ मुषित्वा गतेषु ज्ञापये-द्दुष्येदेव ॥२३३ ॥

हिन्दी – यदि घोषणाकार पशु के चोरी होनेके स्थान के पास में रहने पर रखवाला -जोर से स्वामी को उसकी चोरी होने की उसी समय सूचना दे दे ( अथवा- चिल्लाकर स्वामी को सूचित कर दे ), तब वह उस चुराये गये पशु का देनदार नहीं होता है ॥२३३ ॥

विमर्श - घोषणा करने से चोरों की प्रबलता तथा अधिकता समझी जाती है । ऐसी अवस्था में विवश होने के कारण तथा चिल्लाकर सूचित करने पर भी सहायतार्थ स्वामी या समीप के लोगों को सूचित कर देने के कारण रखवाला पशुरक्षा के उत्तरदायित्व से मुक्त हो जाता है ।

स्वयं मरे पशु के कान आदि दिखाना-कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् ।

पशुषु स्वामिनां दद्यान्मृतेष्वङ्कांश्च दर्शयेत् ॥ २३४ ॥

भाष्य – आयुषः क्षयान्मृतेषु पशुषु स्वामिनः कर्णाद्यर्पणीयम् । गोरोचनां

पृष्ठ 296

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 296 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६० मनुस्मृतिः [ अष्टमः गवां शृङ्गेषु चूर्णं भवति । बस्तिरङ्गविशेषः । अङ्काः कर्णादयः, स्वामिविशेषज्ञानार्थं चिह्नानि । तानपि दर्शयेत् । एवं पालस्य शुद्धिः । अङ्कदर्शनेन हि प्रत्यभिज्ञा भवत्ययं स पशुरिति ॥२३४ ॥

हिन्दी – पशुओं ( या एक पशु ) के स्वयं मरने पर रखवाला उस ( पशु ) के कान, चमड़ा बाल पूँछ के बाल ), चर्बी गोरोचन और अन्य चिह्न ( खुर, सींग आदि ) लाकर गो-स्वामी को दिखलावे ॥२३४ ॥

भेड़ - बकरी के भेड़िया द्वारा अपहरण करने पर -अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥ २३५ ॥

भाष्य- -अजा चाविका चाजाविके । अविरेवाविकैडका । एते वृकैः शृगाल-प्रभृतिभिः संरुद्धे अवष्टब्धे, न प्रथमपात एव हते । अस्मिंश्चान्तरे सत्यामोक्षणेऽहत-त्वात् । न च पाल आयाति मोक्षयितुम् । अनायत्यनागच्छति पाले । यत् तत्र प्रसह्य बलेनाभिभूय वृको हन्यात्पालस्य स दोषः । स्वामिनो दापयितव्यः । प्रायश्चित्तं चरेत् । गोर्महत्त्वाद्गोमायुना न शक्यते संरोद्धुमित्यजाविके इत्युच्यते, न पुनस्तद्रूपम् । अतश्च बालानां गोवत्सानामेष एव न्याय: ॥२३५ ॥

हिन्दी - बकरी या भेड़ को, भेड़िया द्वारा रोके जाने पर यदि रखवाला बचाने के लिए नहीं आवे और उस बकरी या भेड़ को भेड़िया बलात्कारपूर्वक ले जाय तो उसका दोषी रखवाला होता है ॥२३५ ॥

तासां चेदवरुद्धानां चरन्तीनां मिथो वने ।

यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥ २३६ ॥

भाष्य — ‘ अजाविके ’ पूर्वश्लोके जात्यपेक्षं द्विवचनम् । पशुशकुनिद्वन्द्वत्वाद्वि-भाषितैकवद्भावः इह तु तासामिति व्यक्त्यपेक्षो बहुवचने परामर्शः । अवरुद्धानां मिथ एकत्र प्रदेशे स्थापितानां संहतीभूतानां दिग्भ्यो विदिग्भ्यश्च निरुद्धगमनानां वने चरन्तीनां दृष्टिगोचराणां – यदि कुतश्चन कुञ्जात्संचरणोत्पतना-नुक्रमेण निष्क्रम्य वृको हन्यान्न पालो दोषभाक् । अशक्यं ह्यनेकवृक्षक्षुपशरवल्ली-गहनं वनं निर्विवरीकर्तुम्, छिद्रानुसारिणश्च वृकाः । मिथोग्रहणाच्चातिदूरविप्रकृष्टासु वधे दोष एव । पालहस्तगताः पशवस्तदुपेक्षायां यदि दोषमाप्नुयुः स पालेनैव समाधेय इति सिद्धे एष प्रपञ्चः सुखावबोधार्थः ॥२३६ ॥

हिन्दी — रखवाले के द्वारा घेरने पर वन में झुण्ड बनाकर चरती हुई बकरी या भेड़ को यदि छलाँग मारता हुआ ( या चुपचाप अर्थात् धीरे से एकाएक ) आकर भेड़िया मार

पृष्ठ 297

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 297 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता डाले ( या ले जाय ) तो उसका दोषी चरवाहा नहीं होता है ॥२६६ ॥

ग्रामादि के पास त्याज्य गोचर भूमि का प्रमाण-धनुः शतं परीहारो ग्रामस्य स्यात्समन्ततः । शम्यापातास्त्रयो वाऽपि त्रिगुणो नगरस्य तु ॥ २३७ ॥

२६१ भाष्य- - चतुर्हस्तं धनुस्तेषां शतम् । चत्वारि हस्तशतानि । समंततश्चतसृषु-दिक्षु | ग्रामस्य परीहारः कर्तव्यः । अनुप्तसस्या भूमिः पशूनां सुखप्रचारार्था कर्तव्या । शम्या दण्डयष्टिः सा बाहुवेगेन प्रेरिता यत्र पतति ततः प्रदेशादुद्धृत्य पुनः पातयितव्या— यावत्त्रिस्तस्य परिमाणो वा शम्यापातः परीहारः ।

त्रिगुण नगरस्य । ग्रामनगरे प्रसिद्धे ।

शम्यायाः पाताः प्रेरिताया वेगसंस्कारक्षयो भूमौ स्थानादि ॥२३७ ॥

हिन्दी- - ग्राम के चारों तरफ १०० धनुष अर्थात् ४०० हाथ तक या तीन बार छड़ी फेंकने से जितनी दूर जाय उतनी दूर तक नगर के चारों तरफ ग्राम से तिगुनी भूमि पशुओं के घूमने - फिरने के लिए छोड़नी चाहिये ( उतनी दूरी तक कोई पौधा या फसल नहीं बोनी चाहिये ) ॥२३७ ॥

उक्त गोचर भूमि में फसल नष्ट करने पर—

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।

न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणम् ॥ २३८ ॥

भाष्य - तत्र परीहारस्थाने क्षेत्रं न कर्तव्यम् । अथ कृतं कस्माद्वृतिर्न कृता । अतः क्षेत्रिण एवापराध्यन्ति, न पशुपालाः । न हि पाल एकैकं पशुं हस्तबन्धेन नेतुं शक्नोति । न च पशूनामन्यो निर्गमोऽस्ति ॥२३८ ॥

हिन्दी — उतनी ( ८।२३७ ) भूमि के भीतर काँटे आदि का घेरा बनाकर बौये गये धान्य आदि को यदि कोई पशु नष्ट कर दे तो राजा पशु के रखवाले को दण्डित न करे ॥ २३८ ॥

वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् ।

छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम् ॥ २३ ९ ॥

भाष्य — कंटकशाखादीनां प्राकारविन्यासः पशुप्रवेशवारणार्थः क्षेत्रारामादीनां वृतिरुच्यते । या क्वचित्पर्णिकेति प्रसिद्धा - वारणाद् ' वृतिः ' । तस्या उन्नतिरियती कर्तव्या ययोष्ट्रो नावलोकयति । “ किमियं द्वितीया तृतीयार्थे यामुष्ट्र इति ' ' । नेति ब्रूमः ।

पृष्ठ 298

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 298 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६२ मनुस्मृतिः " कथं तर्हि वृतिमुष्ट्रो न पश्यति ” । [ अष्टमः महोत्सेधाया द्वितीयपार्श्वस्यादर्शनाददृष्टैव वृतिः । छिद्रं च विवरं वारयेत्सर्वम् । श्वसूकरमुखेन यदनुगम्यते— तन्मुखपरिमाणम् । तथा कुर्याद्यथा श्वमुखं न माति । तन्मुखादप्यल्पच्छिद्रमित्यर्थः ॥२३९ ॥

तथा कृतायां वृतौ— हिन्दी – उतनी ( ८।२३७ ) भूमि के भीतर धान्य आदि बोये गये खेत का घेरा यदि इतना ऊँचा हो कि बाहर से ऊँट धान्य को नहीं देख सके तथा उस घेरे के छिद्र से कुत्ते या सूअर का मुँह भीतर नहीं जा सके इस प्रकार खेत का स्वामी छिद्रों को बंद कर दे ॥२३९ ॥

पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः ।

सपालः शतदण्डार्हो विपालान् वारयेत्पशून् ॥ २४० ॥

भाष्य – परिवृतेपथिक्षेत्रे ग्रामसमीपवर्तिनि च परीहारमध्यगते । अन्तशब्दः समीपवचनः । यदि भक्षयेत्पशुः । सपालश्च स्यात् । सन्निहितः पालः शतदण्डार्हः पशोर्दण्डासम्भवात् । पालेऽसन्निहितेऽपि गृहे यदा- प्रसिद्धो न पुन-- नाप्यसौ पालः स्तत्प्रेषितो वारिको रूपकमात्रवेतन: । विपालाः पशवो वारयितव्या दण्डादिना — न तु दण्डनीया: । विपालाश्चोत्सृष्ट-वृषादयः अन्येषां तु विपालानां स्वामिनो दण्डः । अथवा अपरिवृत इति प्रश्लेष: । क्षेत्रसम्बन्धाच्च गम्यमान: क्षेत्रस्वामी ' सपाल ’ इत्यन्यपदार्थतयाऽभिसम्बध्यते— ' सह पालेनेति ' । क्षेत्रे को दण्ड्यः । उभौ दण्ड्यौ । पालः क्षेत्रिकश्च । क्षेत्रिकस्तावत्किल किमिति पथि क्षेत्रे वृतिं न कृतवान् । पालेनापि वृतौ चासत्यां किं क्षेत्रं स्वादयितव्यम् । विपालं प्रमादाद्यूथच्युतं वारयेत् । तथा च गौतम: ( १२/२१ ) “ पथि क्षेत्रेऽनावृते पालक्षेत्रि-कयोः ” इति ॥ २४० ॥

हिन्दी - रास्ते या ग्राम वा नगर के पास उक्त ( ७।२३ ९ ) घेरेवाले खेत के धान्यादि फसल को पशु, रखवाले के रोकने से, किसी प्रकार घुसकर चरने लगे तो राजा उस रखवाले को सौ पण ( ८।१३६ ) से दण्डित करे तथा यदि रखवाले के नहीं रहने पर उक्त खेत में पशु चरने लगे तो खेत का स्वामी उसे भगा दे ॥२४० ॥

अन्य खेत में पशु के चरने पर दण्ड विधान—

क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति ।

सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ २४१ ॥

पृष्ठ 299

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 299 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २६३ भाष्य – पथिक्षेत्रग्रामान्तीयेभ्योऽन्यानि क्षेत्राणि— तद्भक्षणे सपादपणो दण्डः । “ ननु चात्र स्वल्पेन दण्डेन भवितव्यं दूरक्षेत्रात्सन्निहिते क्षेत्रे । यत्तु पन्थानमतिक्रम्य क्षेत्रं बहिर्ग्रामं वा, तत्र महान् दण्डो युक्तः । किमिति गवां पालो गन्तुं तत्र ददाति ” । नैष दोषः । यद्यत्र महादण्डो नोच्येत तदा प्रत्यहं प्रवेशनिर्गमैर्गवां भक्षयन्तीनां ग्रामान्तरक्षेत्राण्युत्सीदेयुः । तण्डात्तुमहतो बिभ्यतो यत्नेन रक्षन्ति । अन्यत्र गास्तृण-विशेषार्थं कथंचिन्नयतः स्वल्पो दण्डः । अत्रापि विपालानां वारणमेव । सर्वत्र क्षेत्रस्वामिनः सदफले देये, कुशलैः च ते परिमाणेन कल्पिते । क्षेत्रिकस्य । क्षेत्रमस्यास्तीति । व्रीह्यादित्वाट्ठक् । इति धारणैष निश्चय इत्यर्थः । सर्वत्रग्रहणाच्च विपालेऽपि पशौ क्षेत्रिकस्य सदलाभ: । यद्यपि पशुशब्दः सामान्यशब्दो महिष्यजाव्युष्ट्रगर्दभादिषु वर्तते तथापि स्मृत्य-न्तरदर्शनाद्गोष्वयं दण्ड इति मन्यते । तथा च गौतम: ( १२।२४-२५ ) “ अश्वम-हिष्योर्दशअजाविषु द्वावित्यादि ” अन्यत्र कल्पना || २४१ ॥ अत्रापवाद: -— हिन्दी - रास्ता तथा ग्राम या नगर के दूर ( ८।२३७ ) प्रमाण के बाद खेत में पशु के चरने पर रखवाले को सवा पण ( ८।१३७ ) से दण्डित करना चाहिये तथा सम्पूर्ण ( या अत्यधिक ) खेत के पशुद्वारा चरे जाने पर ( अपराध के अनुसार ) रखवाले से या पशुस्वामी से पूरी क्षति को खेत के स्वामी के लिए दिलवाना चाहिये ऐसा निश्चय है ॥२४१ ॥

साँड आदि के चरने पर दण्डाभाव—

अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा ।

संपालान्वा विपालान्वा न दण्ड्यान्मनुब्रवीत् ॥ २४२ ॥

भाष्य- — गोग्रहणान्महिष्यादिषु दोषः । वृषाः उक्षाणः । देवपशवो देवयागार्थं यजमानेन कल्पिताः प्रत्यासन्नयागाः । अथवेष्टकादिकूटस्थापिताः । हरिहरादीनां प्रति-कृतयो ‘ देवा ’ उच्यन्ते— तेषां ' पशव: ' - तानुद्दिश्य केनचिदुत्सृष्टाः । तदा ह्यस्य देवानां पशूनां च स्वस्वामिसम्बन्धस्य सम्भवात् । देवायतनमण्डनानां चैष धर्मः । न तु तत्पालकैर्वाहदोहाद्यर्थं ये देवगृहेषु धार्यन्ते । यतः पालका एव तेषां देवानामर्थं विनियुञ्जते । अतस्तत्र पालका एव स्वामिनः 1 । अतो युक्तः स्वामिवतामन्येषां यो धर्मः मनु.II 19

पृष्ठ 300

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 300 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६४ मनुस्मृतिः [ अष्टमः स तत्र । आयतनमण्डनास्त्वपरिगृहीता अव्यवधानेन देवपशुबुद्धिमुत्पादयन्ति । वृषोत्सर्गादिविधानोत्सृष्टा ‘ वृषा: ’ कैश्चित्परिगृह्यन्ते । — ततः सपाला अथ वापरिगृहीतास्ततो विपालाः- उभयेषामदण्डः ॥२४२ ॥

हिन्दी — दश दिन के भीतर व्याई हुई गाय, ( चक्रत्रिशूल से चिह्नित कर वृषोत्सर्ग में छोड़ा गया ) साँड और ( काली, शिव या विष्णु आदि ) देवताओं के उद्देश्य से छोड़ा गया पशु रखवाले के साथ हो या बिना रखवाले के हो और खेत को चर जाय तो रखवाला दण्डनीय नहीं होता है ऐसा मनु भगवान ने कहा है ॥ २४२ ॥

राजदेय भाग की हानि करने पर -क्षेत्रिकस्यात्यये दण्डो भागाद्दशगुणो भवेत् ।

तत ì ऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ २४३ ॥

भाष्य — क्षेत्रस्वामिनः स्वक्षेत्रेऽत्ययोऽतिक्रमोऽपराधो यदि भवेत्स्वकृते— अकाले वापनं, निदानमयोग्यबीजवाप:, स्वपशुभिर्भक्षणं गिरणं वा, विदितफलके प्राश इत्यादि— तदा राज्ञो यावान्भाग आगच्छति तं दशगुणं दण्डनीयः । अथ तस्याज्ञातमेतत् तत्प्रयुक्तैर्भृत्यैः क्षेत्रजागर्यानियुक्तैर्वा अपराद्धं तदाऽर्ध-दण्डः । भृत्यानामत्यये क्षेत्रिकस्य दण्ड इति सम्बन्धः । क्षेत्रप्रसङ्गादत्रेदमुक्तम् ॥२४३ ॥

हिन्दी —– किसान के दोष से उसी के पशुद्वारा खेत चर जाने के कारण अथवा असमय में बोने के कारण जितने राजदेय भाग ( राजा को कररूप में देने योग्य अन्न ) की हानि हो, उसका दशगुना दण्ड उस किसान को होता है तथा यदि किसान की अजानकारी में उसके नौकरों के दोष से उक्त प्रकार की हानि हो तो उस हानि का पाँच गुना दण्ड उस किसान को होता है ॥२४३ ॥

विमर्श - पूर्वकाल में राजा को खेतों से अन्न के रूप में मालगुजारी ( लगान ) मिलती थी, जैसा कि अब भी कहीं - कहीं सिकमी खेत किसान को देकर उससे अन्न लेने की प्रथा है । जहाँ पर नगद रुपया लगान मिलता है, वहाँ पर यह विधान लागू नहीं होता; क्योंकि वहाँ तो अन्न पैदा नहीं होने पर भी किसान से राजकर्मचारी नियत लगान प्रायः वसूल कर ही लेता है । एतद्विधानमातिष्ठेद्धार्मिकः

पृथिवीपतिः ।

स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ २४४ ॥

भाष्य – सुबोधोऽयं श्लोकः ॥२४४ ॥

हिन्दी — धर्मात्मा राजा पशुओं के स्वामी तथा रखवालों से पशु - रक्षा नहीं होने के