मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 301–310

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 301–310

पृष्ठ 301

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 301 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २६५ अपराध तथा खेत आदि चरने के व्यतिक्रम होने पर उस नियम ( ८।२३०-२४३ ) को लागू करे ॥२४४ ॥

सीमा का विवाद होने पर—

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।

ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥ २४५ ॥

भाष्य — सीमां प्रति विवादे — सीमानिमित्ते । लक्षणेत्थंभूतेति प्रतेः कर्मप्रवच-नीयत्वाद् द्वितीयानिमित्तमपि लक्षणमिति शक्यते वक्तुम् । ‘ सीमा ’ मर्यादा— ग्रामादीनां विभाग: परिमाणमियत्ता परिच्छेदनमिति यावत् । ज्येष्ठे मासि नयेन्निर्णयः कर्तव्यः । मासविशेषनिर्णये हेतुमाह— सुप्रकाशेषु सेतुषु । सेतवः सीमालिङ्गानि वक्ष्यमाणानि, लोष्ठपाषाणादिविशिष्टजातीयसीमाग्राह्यतृणगुंजादीनि । प्रागस्मात्कालादनुत्थितेषु तृणेषु लोष्ठपाषाणयोरन्यस्याश्च भूमेर्न विशेषो लक्ष्यते । पाषाणलक्षितायां यदा तत्र तृणानि न ज्ञायन्ते तदा सा सीमेति निश्चीयते । एवं वल्लीस्थानादिष्वपि । प्राग्वसंताद्वासंतिके दाहे विशेषो न लक्ष्यते । हेत्वभिधानाच्च यस्मिन्देशे यदा व्यज्यन्ते ततो मासात्कालहरणं कर्तुं नादेयम् । अन्यदा तु लिङ्गज्ञानार्थं कालापेक्षाऽपि भवतीत्येतावत्फलं ज्येष्ठ-ग्रहणे ॥ २४५ ॥

हिन्दी – ( राजा ) दो गाँवों में सीमा का विवाद होने पर ज्येष्ठ मास में सीमा के चिह्नों के स्पष्ट हो जाने पर उसका निर्णय करे ॥२४५ ॥

सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।

शाल्मलीन्सालतालांश्च क्षीरिणश्चैव पादपान् ॥ २४६ ॥

भाष्य – पादपा वृक्षाः । क्षीरिणोऽर्कोदुम्बरप्रभृतयः । एते च चिरस्थायित्वा-सीमादेश एव रोपयितव्या न ग्राममध्ये । सीमादेशादन्यत्र क्रियमाणा न निश्चायकाः ` स्युः ॥२४६ ॥

हिन्दी – ( राजा ) सीमा पर बड़, पीपल, पलाश ( ढाक ), सेमल, साल, ताड़ और दूध वाले ( गूलर आदि ) पेड़ों को ( सीमा के चिह्नों को स्थिर बने रहने के लिए ) लगवावे ॥२४६ ॥

गुल्मान्वेणूंश्च विविधान् शमीवल्लीस्थलानि च ।

शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥ २४७ ॥

हिन्दी— ( राजा ) गुल्म, अनेक प्रकार के बाँस, शमी, लता, ऊँचे - ऊँचे मिट्टी के टीले, मूँज, कुब्ज के गुल्मों को सीमापार करे ( यथायोग्य लगावे या बनवावे ), वैसा करने से सीमा नष्ट नहीं होती है ॥२४७ ॥

पृष्ठ 302

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 302 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६६ मनुस्मृतिः गुप्त वस्तुओं को सीमापार रखना-उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । [ अष्टमः सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ २४८ ॥

भाष्य — संहतप्रकाण्डा वीरुधो गुल्मानि । वेणव आरग्वधादयः । बहुत्वाच्च विविधग्रहणम् । वल्ल्यो व्रततयः दीर्घाङ्कुरास्तृणजातयः । स्थलानि कृत्रिमा शाद्वलादिपिण्डिकाः । कुब्जकस्य गुल्त्वात्पृथगुपदेश आदरार्थः । करीषं शुष्कं गोमयम् । अङ्गारा अग्निदग्धा काष्ठावयवा: । पाषाणकठिना मृदः शर्कराः । कपालिका कलशैकदेशः । अन्यानि उपच्छन्नानि कारयेद्राजा नवग्राम-संनिवेशे कृते निर्णयम् । एवं सीमा न कदाचिन्नश्यति । अन्यथा तं प्रदेशं कश्चित्कर्षणेन नाशयेत् ॥२४८ ॥

हिन्दी — संसार में सीमा के विषय में मनुष्यों का मतभेद सर्वदा देखकर ( राजा ) दूसरे प्रकार के ( आगे कहे गये ) गुप्त ( नहीं दिखलायी पड़नेवाले ) सीमा चिह्नों को भी बनवावे ॥२४८ ॥

तडागान्युदपानानि वाप्यः प्रस्त्रवणानि च ।

सीमासन्धिषु कार्याणि देवतायतनानि च ॥ २४ ९ ॥

भाष्य — महांभांसि तडागानि । वाप्यः पुष्करिण्यः । उदपानानि कूपप्रभृ-तीनि । प्रस्रवणान्युदकस्यदन्दा ईषत्स्रवदुदका भूप्रदेशाः । देवतायतनानि यक्षगृहा-दीनि । एतानि प्रकाशानि । न ह्येतानि स्वल्पेनायासेन नाशयितुं शक्यन्ते । नाश्यमानेषु च महान्प्रत्यवायो भवति । सर्वस्य चोदकार्थिनो देवतादर्शनार्थिनश्च तत्र संनिधानात्-सुज्ञातश्च साक्षिणां सीमासन्धिर्भवति ॥२४ ९ ॥ हिन्दी – ( राजा ) तडाग, कुएँ, बावड़ी झरने और देवों के मन्दिरों को दो सीमाओं के सन्धि - स्थल बनवावे ॥ २४ ९ ॥ विमर्श - इन स्थानों पर जल या पूजादि के लिए आनेवालों से बातों को सुनने की परम्परा द्वारा लोग विवाद पड़ने पर साक्षी हो सकते हैं, जिससे निर्णय देने में राजा को सरलता होगी । अश्मनोऽस्थीनि गोवालास्तुषान्भस्मकपालिकाः । करीषमिष्टकाङ्गारांश्छर्करा बालुकास्तथा ॥ २५० ॥

हिन्दी — पत्थर, हड्डियाँ, गौ ( पशुओं ) के बाल, भूसा, राख, खोपड़ियाँ, सूखा गोबर, ईंट, कोयला, कङ्कड़ और रेत —॥२५० ॥

पृष्ठ 303

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 303 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

• अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् । २६७ तानि संधिषु सीमाया अप्रकाशानि कारयेत् ॥ २५१ ॥

भाष्य – गुल्मादीनामुपदेशः प्रदर्शनार्थो न परिसंख्यार्थः । एवम्प्रकाराणिखदि-रसारकालाञ्जनाद्यानि शर्करादितुल्यानि । “ कैवंप्रकारता ”. -अत आह कालाद्भूमिर्न भक्षयेत् । भूमेर्भक्षणमुपमया स्वरूपो-' पादानम् । यथा भक्षितं भेदेन नोपलभ्यते तद्वद्भूमिसादापन्नमिव तादृशं कुर्यात् ॥ २५१ ॥

हिन्दी- - तथा इस प्रकार की जिन वस्तुओं को पृथ्वी बहुत दिनों तक गलाकर अपने में न मिला ले, अर्थात् जो वस्तु पृथ्वी में बहुत दिनों तक गड़े रहने पर भी गलकर मिट्टी न बन जाय ( जैसे उक्त वस्तुओं के अतिरिक्त — कपास अर्थात् रूई, काला • अञ्जन अर्थात् भूमि के नीचे इत्यादि ), उन्हें सीमा पर अप्रकट रूप में स्थापित करे “ गाड़ दे ॥२५१ ॥

विमर्श — ' बड़े - बड़े पत्थरों को छोड़कर शेष हड्डी आदि को घड़ों में रखकर पृथ्वी में गाड़ना चाहिए ऐसा वृहस्पति का वचन है ' यह मन्वर्थमुक्तावलीकार ने कहा है ।

उपभोग के द्वारा सीमा निर्णय-एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः ।

पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥ २५२ ॥

भाष्य — उभयोर्ग्रामयोःशून्यत्वे लिङ्गैर्निर्णेयः । वसतोः पूर्वभुक्त्या सततमवि-1 च्छिन्नयाऽस्मर्यमाणावधिकया— न हि त्रिपुरुषभोगेन । स ह्यत्र प्रतिषिद्धप्रामाण्य “ आधि:ं सीमा ” इत्यत्र ( ८।४ ९ ) । सम्भवति हि तत्रोपेक्षा बहुसाधारण्यात्सीमायाः । ये तु तत्र सीमशब्दं न पठन्ति तेषां भुक्तेः सिद्धमेव प्रामाण्यम् । लिङ्गानां प्रामाण्यस्योक्त-त्वात्प्रमाणान्तरनिवृत्तिराशङ्क्येतेति पुनरुच्यते । “ कोऽयमुदकागमः प्रामाण्येनोच्यते ” । यथाऽन्यानि लिङ्गानि नवसंनिवेशे क्रियन्ते तद्वदेवोदकप्रवाहोऽपि कर्तव्यः । अथवा ययोर्ग्रामयोः प्रदेशान्तरे स एवोदकागमो विभागहेतुः प्रदेशान्तरे च विप्रतिपत्तिस्तत्र स एव प्रमाणम् । अथवा महाग्रामविषयमेतत् । नद्या अपर एको वा वार एकग्रामस्तत्र न पार-वारिणो वक्तव्यं ‘ अस्मदीया भूमिरत्रापि विद्यत ' इति । यदि वा कुतश्चिद् ग्रामात्तादृशेन प्रवाहेणावच्छिन्नापि काचिद् भूस्तथापि स एव विभागहेतुः – स्वल्पेऽपहारे ॥ २५२ ॥

हिन्दी — राजा परस्पर में विवाद करते हुए ग्रामों की सीमा का निश्चय इन ( ८।२४५-२५१ ) चिह्नों से, लोगों के उपभोग से और नदी नाला आदि के प्रवाह से करे ॥२५२ ॥

पृष्ठ 304

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 304 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६८ मनुस्मृतिः सीमा के साक्षियों की प्रामाण्यता-यदि संशयएव स्याल्लिङ्गानामपि दर्शने । निम साक्षिप्रत्यय एव स्यात्सीमावादविनिश्चयः ॥ २५३ ॥

भाष्य— “ कथं पुनर्लिङ्गेषु सत्सु संशयः ” । [ अष्टमः यानि तावत्प्रच्छन्नानि तानि यदि केनचित्कथंचिदागम्य प्रच्छन्नमन्यत्र नीयेरन्नैव निश्चयः स्यात् । येऽपि प्रकाशा न्यग्रोधादयस्तेऽपि न सीमायामेव रोहन्त्यन्यत्रापि जायन्ते ततः संदेह आभासत्वात् । यत्र पुनरियं सम्भावना नास्ति तत्र प्रमाणमेव लिङ्गानि । साक्षिप्रत्ययः साक्षिहेतुकः । साक्षिणः प्रत्ययो यत्रेति । विनिश्चयः तत्त्वाधिगमः । संशयितलिङ्गे अलिङ्गे वा सीमाविवादे साक्षिहेतुको निर्णय इति तात्पर्यम् ॥ २५३ ॥

हिन्दी – यदि सीमा के ( बाहरी ८।२४६-२४८ तथा भीतरी ८।२५० - २५१ ) इन चिह्नों के देखने पर भी सन्देह ही बना रहे तो साक्षी का कहना ही सीमा के विवाद में निर्णय ( प्रमाण ) होता है ॥२५३ ॥

विमर्श — किसी एक पक्ष के द्वारा दूसरे पक्ष पर यहाँ पृथ्वी के भीतर गाड़े गये पत्थर तथा हड्डी, गौओं के बाल आदि से भरे घड़ों को चुपके से उखाड़कर दूसरे स्थान में गाड़ देने का आरोप करने तथा वृक्ष आदि बाहरी चिह्नों का नष्ट होना कहने से सीमा के चिह्नों के देखने पर भी सन्देह बना रह सकता है । 1

ग्रामेयककुलानां च समक्षं सीनि साक्षिणः ।

प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ २५४ ॥

भाष्य — यद्यप्यसंख्यातपुरुषको ग्रामस्तथापि द्वौ विवादिनौ द्वयोर्ग्रामयोर्भवतस्तयोः समक्षमन्येषां च ग्रामेयककुलानां च ग्रामीणपुरुषसमूहानां समक्षं सीग्नि साक्षिणः प्रष्टव्याः । साक्षिप्रश्नकाले सर्वैर्ग्रामीणैर्दत्तव्यवहारकैरपि संनिहितैर्भवितव्यम् — नार्थि-प्रत्यर्थिनोरन्यतरो वक्तुं लभते — ' आवयोर्विशिष्टार्थं विवादे किमेते संनिधीयन्ते । ' अथवा येऽन्ये सामन्तेभ्यो ग्रामेभ्यः केचिद्वृद्धतमाः साक्ष्ये समुद्दिष्टास्तद्ग्रामीणै-रन्यैः संनिहितैर्भवितव्यम् । यतस्तैर्वृद्धेभ्यः श्रुतं भवति तत्समक्षं पृच्छ्यमाना न विपर्यन्ति वृद्धाः । सीमालिङ्गानि । यत्र लिङ्गान्युभयथा तत्र वृद्धेभ्यो निश्चयः । असत्सु लिङ्गेषु सीम्न्येव साक्ष्यं पृच्छ्यते— काऽत्र सीमेति ॥ २५४ ॥

हिन्दी - ( राजा ) ग्रामवालों तथा सीमा के विषय में विवाद करनेवाले वादियों एवं प्रतिवादियों के सामने साक्षियों से सीमा के चिह्नों को पूछें ॥ २५४ ॥

पृष्ठ 305

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 305 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता सीमा के साक्षियों के कथन को लिखना—

ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।

निबन्धीयात्तथा सीमां सर्वां स्तांश्चैव नामतः ॥ २५५ ॥

२६ ९ भाष्य - ते साक्षिणो यथा यादृशं निश्चयं ब्रूयुः । समस्ताः सर्व एव । न पुनर्वाक्यभेदोक्तौ न्यायः “ द्वैधे च बहूनामिति ” । निबध्नीयात् पत्रके लिखेत्— साक्षिणश्च नाम — विभागेन ॥ २५५ ॥

हिन्दी - ( राजा के ) पूछने पर वे साक्षी सीमा के विषय में जैसा निश्चय कहें, ( राजा ) उस सीमा तथा उन गवाहों के नामों को लिख ले ॥ २५५ ॥

सीमा के साक्षियों से शपथ कराना-शिरोभिस्ते गृहीत्वोर्वी स्रग्विणो रक्तवाससः ।

सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समंजसम् ॥ २५६ ॥

भाष्य- -मूनर्वी पृथ्वीं मृल्लोष्टकान्गृहीत्वा साक्षिणः स्त्रग्विणो यथासम्भवं माल्यधरा रक्तवर्णकुसुमधरा रक्तवाससो लोहिताच्छादनाः । यद्यपि शुल्कस्य वर्णान्त-रापादनेऽपि रञ्जिर्वर्तते भूयांस्तु लोहिते प्रयोगो रक्तो गौर्लोहित इति । भयसञ्जननार्थं चैतत् । लोहितवाससश्च शुद्धा भवन्ति । ' यदस्माकं सुकृतं किंचिदर्जितमस्ति तन्निष्फल-मस्त्विति ' वाच्यन्ते I । स्वैः स्वैरिति वीप्सया विशेषनामभिः सुकृतं कथयेयुः — कस्या-दानं तीर्थस्नानं चेत्यादि । समंजसं क्रियाविशेषणम् । सत्यादनपेतऋजुर्धार्मिको यो मार्गस्तेन नयेयुः । समंजसमृजु स्पष्टमित्येकोऽर्थः । सत्यव्यवहारश्च स्पष्ट इत्युक्तं समं-जसमिति ॥ २५६ ॥

हिन्दी — लाल फूलों की माला तथा लाल कपड़ा पहने हुए वे साक्षी शिर पर मिट्टी ( के ढेलों ) को रखकर अपने - अपने पुण्यों की शपथ ( यदि मैं असत्य वचन इस सीमा-निर्णय के विषय में कहूँ तो मेरे आज तक उपार्जित सब पुण्य नष्ट हो जाँय इस प्रकार शपथ ) कर उस सीमा का यथाशक्ति निर्णय करे ॥ २५६ ॥

-असत्य कहने पर दण्ड–

यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।

विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥ २५७ ॥

भाष्य – प्रमाणान्तरलिङ्गेभ्योऽन्यथासम्भवद्भ्यः प्रत्ययितरपुरुषेभ्यो मिथ्यात्वेऽ-वधारिते— प्रत्येकं द्विशतो दण्डः । एकैकस्य साक्षित्वात्साक्षिणां च दण्ड्यत्वात् । न हि व्यासज्य वदन्ति साक्ष्यम् । सत्यप्रधाना: साक्षिणः सत्यसाक्षिणः । पूयन्ते अनृताभि-

पृष्ठ 306

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 306 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७० मनुस्मृतिः [ अष्टमः धानेन पापेन न सम्बध्यन्त इति । यथोक्तेन याथातथ्येन । न हि शब्दात्मकस्य वचन-स्यात्रावसरः । प्रमाणान्तरसंवादमात्रमनेन लक्ष्यते । अथवा यथाशास्त्रमुक्तेन सत्येनेति यावत् । शास्त्रे हि सत्यं वक्तव्यमित्येवमुक्तमतो यथोक्तेन सत्येनेत्युक्तं भवति ॥ २५७ ॥

हिन्दी – शास्त्रानुसार सत्य कहनेवाले वे साक्षी निर्दोष होते हैं तथा असत्य

कहनेवालों पर ( राजा ) दो सौ पण ( ८।१३७ ) दण्ड करे ॥ २५७ ॥

उक्त साक्षी के अभाव कर्तव्य-साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः ।

सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ ॥ २५८ ॥

भाष्य — ग्रामसामन्ताः सीमान्तवासिनः प्रष्टव्याः । तेषां वचने निश्चयं कुर्यात् । प्रयताः – साक्षिधर्मेण शास्त्रान्तरेण । राजसंनिधाविति श्लोकपूरणम् । न तु सामन्ताः स्वेच्छया राजवनिश्चिन्वन्ति ॥ २५८ ॥

हिन्दी - सीमा के साक्षी के नहीं मिलने पर समीपस्थ चार ग्रामों के निवासी शुद्धचित्त होकर राजा के सामने सीमा का निर्णय करें ॥ २५८ ॥

सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् ॥ २५ ९ ॥ भाष्य – सामन्तानां मौलानामिति विशेषणविशेष्यभावः स्तुत्यर्थः । ग्राम-प्रतिष्ठानकाले भवा उत्पत्तिसहभुवो मौला उच्यन्ते । ते च सामन्ता नित्याः, नित्यसंनि-हितत्वात् । तेषामप्यभावः कथंचिदुच्छन्नत्वात् । तदा का गतिः । तदेमानपि वक्ष्य-माणान् पृच्छेत् । अथवा मौला अनुभाविनः - सामन्ता व्याख्याताः - व्यवहर्तव्याः । मौलानां पूर्वोक्तानां अभावे सामन्ताः प्रमाणम् । तद्भागे वनगोचरान्विनियुञ्जीत निपुणतः पृच्छेत् ॥२५ ९ ॥ हिन्दी - समीपस्थ चार ग्रामों में तथा ग्राम निर्माण के समय से वंश परम्परा द्वारा निवास करनेवालों के अभाव में ( साक्षी करने के लिए उपस्थित नहीं होने पर ) राजा इन ( ८।२६० में कथित ) वनेचर ( सर्वदा या प्राय: वन में ही रहनेवाले ) पुरुषों से भी पूछे ॥२५ ९ ॥ उन वनेचरों के नाम-व्याघांश्छाकुनिकान्गोपान्कैवर्तान्मूलखानकान् । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥ २६० ॥

पृष्ठ 307

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 307 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा’हिन्दीटीकासहिता २७१ भाष्य — एते वनानि भ्राम्यन्ति I । ग्राममध्येन गच्छन्तः कदाचित्तवृत्तं विद्युः । ते हि तेन पथा गच्छन्तो विवादास्पदं प्रदेशं पूर्वं कांश्चित्पुरुषान्कृषतो दृष्ट्वा पृच्छेयुः ‘ कोऽयं ग्रामो यो भवद्भिः कृष्यत ' इति । एवमादिना सम्भवति पूर्वानुभवः । व्याधा मृगयाजीविनः । तेषामपि वनाद्भ्रष्टमृगमनुधावतां भवति ग्रामसम्बन्ध: । एवं शाकुनिकाः शकुनिबन्धजीविनः । तदन्वेषणे ये सर्वान्यामानागोचरयन्ति । गोपा गवां तृणविशेषज्ञानाय तत्र तत्र परिभ्राम्यन्ति । कैवर्ता दाशास्तडागखननादिजीविनस्तत्र तत्र गच्छन्ति क्वास्माकीनं कर्मोपयुज्यते । मूलखानका मूलं वृक्षादे: खनयन्ति स्थूल-काशादेः । व्यालग्रहाः सर्पग्राहिणः - जीविकार्थं तेऽपि सर्पास्तं तं प्रदेशमन्विच्छन्ति । अत: तेषामपि पारिग्रामिकैर्बहुभिः सम्बन्धः । उञ्छवृत्तयोऽपि दरिद्रा अनेकग्राम-पर्यटनेन पात्रमात्रं निर्वर्तयन्ति । अन्यांश्च फलकुसुमेन्धनार्थिनः ॥२६० ॥

हिन्दी – व्याध, बहेलिया ( चिड़ियामार ), गायों ( या भैंस आदि पशुओं ) का रखवाला, मल्लाह, जड़ खोदकर जीविका करनेवाला अर्थात् कन्द - मूल ( या जड़ी - बूटी बेचनेवाला ) सपेरा, शिल तथा उञ्छ ( ४।५ ) करनेवाला तथा दूसरे प्रकार के भी बनवासी, इनसे राजा सीमा के विषय में प्रश्न करे ॥ २६० ॥

तेपृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।

तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः ॥ २६१ ॥

भाष्य - ते धर्मेण पृष्टा इति योजना । सीमाश्च ताः सन्धयश्च सीमासन्धयः ।

ग्रामद्वयसंयोगः ‘ सन्धिः ’ । स च सीमैव । लक्षणं ज्ञापकम् ॥२६१ ॥

हिन्दी – ( राजा के ) पूछने पर वे लोग दो ग्रामों की सीमा की सन्धि ( मिलने का स्थान ) पर जैसा चिह्न बतलावें, राजा उस सीमा को धर्मानुसार उसी प्रकार स्थापित करे ॥२६१ ॥

एकग्रामवासियों में सीमा विवाद होने पर -क्षेत्रकूपतडागानामारामस्य गृहस्य च ।

सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ २६२ ॥

भाष्य – श्रीराम उद्यानभूमिः शाकवाटश्च । सामन्तप्रमाणकस्तत्र निश्चयः । व्याधादिनिवृत्त्यर्थमिदमुच्यते । सीमासेतुः सीमाबन्धः । सीमाविभावनार्थं य आबध्यते स्थाप्यते॥२६२ ॥

हिन्दी – एक ग्राम में ही खेत, कुआँ, तालाब, बगीचा तथा घर की सीमा का विवाद उपस्थित होने पर राजा उस ग्राम में रहनेवाले सब लोगों के कहने के अनुसार चली आ रही सीमा के चिह्न निश्चय करे ॥ २६२ ॥

पृष्ठ 308

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 308 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७२ मनुस्मृतिः असत्य वक्ता ग्राम - सामन्तों को दण्ड-सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् । [ अष्टमः सर्वे पृथक् पृथक्दण्ड्या राज्ञा मध्यमसाहसम् ॥ २६३ ॥

भाष्य – पूर्वेभ्यः सामन्तानामधिको दण्डः । पृथक्पृथगित्यनुवादः । उक्तत्वा-न्यायस्य | क्षेत्रादिप्रातिवेश्या अवश्यं ज्ञातारो भवन्ति । प्रत्यासन्नतरतः एषां दण्ड-महत्त्वम् । सामन्तानां तु परकीयसीमावेदनं नावश्यमिति द्विशतो दमोऽनुवर्त्यः । तेन ग्रामसीमायां द्रष्टृणां सामन्तानां च द्विशतः । ये तु सामन्तशब्दमाश्रित्य ग्रामक्षेत्रादिसीमयोः सामन्तत्वात्तुल्यदण्डत्वमाहुस्ते न्यायविरोधादुपेक्षणीयाः ॥२६३ ॥

हिन्दी – दो ग्रामवासियों में परस्पर सीमाविषयक विवाद उपस्थित होने पर सामन्त ( समीपस्थ ग्रामवासी ) यदि असत्य कहें तो राजा उनमें से प्रत्येक को मध्यम साहस ( ८।१३८ ) से दण्डित करे ॥२६३ ॥

बल से गृहादि के स्वाधीन करने पर दण्ड–

गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।

शतानि पञ्च दण्ड्यः स्यादज्ञानाद्विशतो दमः ॥ २६४ ॥

भाष्य — क्षेत्रादिप्रसङ्गादिदमुच्यते । भीग्रहणं निमित्तोपलक्षणार्थम् । अस्यैवैत-न्निश्चितमित्येवं जानतो हरत: पञ्चशतो दण्डः । मध्यमसाहसे प्रकृते पञ्चशतग्रहणं निमित्त-भेदे न्यूनाधिकदण्डार्थम् । पूर्वत्र वा संख्यानमविवक्षितं मन्यन्ते । ' व्यवहारं लेखयामि ’ ‘ राज्ञा दण्डयामि ’ ‘ चौरैर्दोषयामीति ' भयप्रदर्शनेन हरति । तस्यां दण्डो निमित्ता-न्तरानुकल्पः ॥२६४ ॥

हिन्दी – यदि कोई भय दिखाकर घर, तडाग, बगीचा और खेत ले ले ( स्वाधीन कर ले ), तो राजा उसे ५०० पणों से दण्डित करे तथा अज्ञान से स्वाधीन करने पर

२०० पणों ( ८।१३६ ) से दण्डित करे ॥२३४ ॥

सबके अभाव में राजा द्वारा सीमा निर्णय-सीमायामविषह्यायां स्वयं राजैव धर्मवित् ।

प्रदिशेद्भूमिमेकोमुपकषारादिति स्थितिः ॥ २६५ ॥

भाष्य- -अविषह्या निश्चेतुमशक्या— लिङ्गसाक्ष्यभावात् । राजैव स्वेच्छया भूमिं प्रदिशेद्दद्यात्— ' इयं वो भूमिरियं व ' इति । धर्मवित् — पक्षपातो नैव कस्यचित्कर्तव्य इति । एतदाह उपकारात् हेतोः । यया सीमया द्वावपि ग्रामौ समोपकारौ भवतः । तेन

पृष्ठ 309

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 309 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २७३ यदि न्यूनाऽपि कस्यचिद्भूमिः स्यात्क्षेत्रं चेत्सुगुणं बहूत्पत्तिकं तदपेक्षः प्रदेशः । ल्य-ब्लोपे पञ्चमी— उपकारमपेक्ष्य । अथवैकेषां प्रदिशेत् — परेषामनिश्चितामपहरेत् । यदि विवादिग्रामस्तां सीमां यावद्वक्तुं न शक्नुयादितरे च शक्तास्तदान्येभ्यः प्रदिशेत् । एवमात्मनो बहूनां च ग्रामीणा-नामुपकृतं भवति ॥ २६५ ॥

हिन्दी — चिह्नों ( ८।२४५ - २५१ ) तथा साक्षियों के अभाव में सीमा का निर्णय नहीं होने पर धर्मज्ञ राजा ही ग्रामवासियों के उपकार को लक्ष्यकर स्वयं सीमा का निर्णय कर दे, ऐसी शास्त्रमर्यादा ॥ २६५ ॥

[ ध्वजिनी, मत्सिनी चैव निधानी भयवर्जिता । राजशासननीता च सीमा पञ्चविधा स्मृताः ॥ १ ९ ॥ ] [ हिन्दी – ध्वजिनी, मत्सिनी, निधानी, भयवर्जिता और राजशासननीता - सीमा के ये पाँच भेद हैं ॥१९ । ] कटु वचन कहने पर दण्ड–

एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।

अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ २६६ ॥

भाष्य--पूर्वोपसंहारोऽपरसंक्षेपोपन्यासः श्लोकार्थः । ‘ दण्डवाचिक ’ इत्युक्त्वा ( ६ ) क्रमभेदो लाघवाद्वाक्पारुष्यं स्यात्ततो दण्डव्यापारः । द्वन्द्वे चेतरेतरयोगाद्व्यस्तक्रमसमासार्थप्रतिपत्तेरेकैकस्योभयार्थप्रतिपादनाद्दण्डशब्देन वागर्थोऽप्युपात्त इति कः क्रमभेदः । तथा च यथासंख्यसूत्रारम्भो ( पा ० १।३।१० ) महाभाष्यकारेण समर्थित:: - - एतमेव दर्शनमाश्रित्य संज्ञासमासनिर्देशादिति ॥ २६६ ॥

हिन्दी – ( महर्षि भृगुजी ऋषियों से कहते हैं कि — ) सीमा के निश्चय करने में सब धर्मों को मैंने कहा, अब कठोर वचन के निश्चय को कहूँगा ॥२६६ ॥

ब्राह्मण कटु वचन कहने पर दण्ड–

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।

वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ २६७ ॥

भाष्य – परुषवचनमाक्रोशः । स च बहुधा नृशंसाश्लीलभाषणान्मर्मणि तोदः अभिशाप: ‘ अकरणहन्ता वृषलभूयाः ' । असत उपन्यसनं " कन्या ते गर्भिणोति ” । पातकोपपातकैर्याजनमिति । तत्र द्वयोर्ब्राह्मणाक्रोशे क्षत्रियवैश्ययोग्यं दण्डः । अन्यत्र “ पतनीये कृते क्षेपे दण्डो मध्यमसाहसः " इत्यादि ( याज्ञ ० व्य ० २१० ) स्मृत्यन्तरोक्तः ।

पृष्ठ 310

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 310 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७४ मनुस्मृतिः [ अष्टमः शूद्रस्य त्रधः ताडनजिह्वाछेदनमारणादिरूप आक्रोशभेदाद् वेदितव्यः ॥ २६७ ॥

हिन्दी — ब्राह्मण से ( ' तुम चोर हो ' इत्यादि ) कटु वचन कहनेवाला क्षत्रिय सौ पण, वैश्य डेढ़ सौ या दो सौ पण और शूद्र ( तारण - मारण आदि ) वध से दण्डनीय होते हैं ॥२६७ ॥

क्षत्रियादि से कटु वचन कहने पर ब्राह्मण को दण्ड–

पञ्चाशब्द्द्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।

वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ २६८ ॥

भाष्य — अभिशंसनं सर्वप्रकार आक्रोशः, पतनीयादन्यः— तत्र दण्डान्तरं-विधानात् निमित्तसप्तमी चैषा । वैश्य इति विषयसप्तमी । ब्राह्मणस्याक्रोष्टुराक्रुश्य-मानस्य च दण्ड उक्त: । क्षत्रियादीनां त्वितरेतरं स्मृत्यन्तरमन्वेषणीयम् । तथा च गौतम: ( १२।११ ) “ ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ ' । परस्पराक्रोशे क्षत्रियश्चे-द्वैश्यमाक्रोशेत्पञ्चाशतं दण्ड्यः, वैश्यः क्षत्रियं शतम् । एवं क्षत्रियः शूद्रमाक्रोशेत्पञ्च-विंशतिर्दण्ड्यः । वैश्यः पञ्चाशतम् । शूद्रस्य तु तदाक्रोशे गुणापेक्षिको दण्डो वक्ष्यते ॥२६८ ॥

हिन्दी — ब्राह्मण ( ' तुम चोर हो ' इत्यादि ) कटुवचन क्षत्रिय से कहे तो पचास पण, वैश्य से कहे तो पच्चीस पण और शूद्र से कहे तो बारह पण से वह दण्डनीय होता है ॥२६८ ॥

समवर्ण वालों से कटु वचन कहने पर दण्ड-समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।

वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ २६ ९ ॥

भाष्य — द्विजातिग्रहणमतन्त्रम् । समवर्णे व्यतिक्रमे परस्पराक्रोशे द्वादश दण्डः । समत्वं च जातिवित्तबन्धुवयः कर्मविद्याभिः, विशेषानुपदेशात् । तत्र समानजातीये वित्ताधिके द्विगुणं– तस्मिन्नेव बन्धुत्वाधिके त्रिगुणं— यावत्सर्वगुणे निर्गुणस्य षड्-गुणम् । वादा आक्रोशा अवचनीया अत्यन्तनृशंसा मातृभगिनीभार्यादिगताः । तदेव द्विगुणं दण्डपरिमाणम् । नपुंसकलिङ्गात्सर्वशेषोऽयं न समवर्णविषय एव । अथवा तदेव शतमिति योजना लिङ्गसामर्थ्याच्छतस्य च प्रथमश्लोके श्रुतत्वात् । अतोऽवच-नीयेषु समवर्णेष्वपि द्विशतो दमः । लिङ्गोपपत्त्यर्थं परिमाणपदश्रुतमध्याहर्तव्यम् । शते तु व्यवहित कल्पना ज्यायसी ॥२६९ ॥

हिन्दी — समान वर्णवाले से ( ' तुम चोर हो ' इत्यादि ) कंटु वचन कहनेवाला द्विज ( ब्राह्मण, क्षत्रिय और वैश्य ) बारह पण से दण्डनीय होता है तथा निन्दनीय कटु वचन