मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 31–40

मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 31–40

पृष्ठ 31

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 31 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

॥ अथ सप्तमोध्यायः ॥ ि राजधर्म का कथन —

राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।

सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ १ ॥

भाष्य — धर्मशब्दः कर्तव्यतावचन इत्युक्तम् । यद्राज्ञा कर्तव्यं तदिदानीमुच्यत इति प्रतिज्ञा । कर्तव्यं च दृष्टार्थं षाड्गुण्यादि, अदृष्टार्थमग्निहोत्रादि । तत्रेह प्राधान्येन दृष्टार्थमुपदिश्यते । तत्रैव च राजधर्मप्रसिद्धिः । राजशब्दस्तु नेह क्षत्रियजातिवचन: किंतर्ह्यभिषेकाधिपत्यादिगुणयोगिनि पुरुषे वर्तते । अत एवाह । यथावृत्तो भवेन्नृपः । ' नृप ' ग्रहणेन जनपदैश्वर्यवतोऽधिकारमाह । प्रमाणान्तरमूला ह्यत्र धर्मा उच्यन्ते, न सर्वे वेदमूला: । अन्यमूलत्वे च यदत्र धर्मशास्त्राविरुद्धं तदुच्यते । तथा च कात्यायनः “ अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्त-माव्रजेदिति ’ ” । यथावृत्तः यद्वृत्तं यत्प्रकारं वाऽस्येति च बहुव्रीहिः । अन्यपदार्थो राजा । यथार्थप्राधान्येऽव्ययीभावः स्यात् । वृत्तं परिपालनार्थों व्यापारोऽदृष्टार्थश्च । सम्भवश्चोत्पत्तिः । स उक्तो “ राजानमसृजत्प्रभुः ” इत्यादिना ।

परमा— प्रकृष्टा सिद्धिर्विजिगीषोरैकाधिपत्यम् ।

राजवृत्तस्य फलप्रतिज्ञेयम् ॥ १ ॥

हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि- मैं ) राजा ( अभिषिक्त नृपति ) के आचार, उत्पत्ति और इस लोक तथा परलोक में होनेवाली उत्तम सफलता होवे ऐसे राजधर्म ( दृष्टादृष्ट कर्तव्य ) को कहूँगा ॥ १ ॥

कृतसंस्कार राजा का प्रजारक्षण-ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।

सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ २ ॥

भाष्य — ‘ ब्रह्म ’ वेद: । तत्र श्रुतः संस्कारो ' ब्राह्मः ' । स वेदाध्ययन जन्यो ग्रहण-वतोऽर्थलक्षणो वेदस्य; स्वाध्यायविधिनिर्वर्त्य इत्यर्थः । उपनयनं तु ब्रह्मग्रहणार्थत्वाद्-

पृष्ठ 32

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 32 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मनुस्मृतिः [ सप्तमः ब्राह्ममिति युक्तम् । तथा च वक्ष्यति ( ४३ श्लो ० ) " त्रैविद्येभ्यस्त्रयीं विद्यामिति ” । इत-रथा विदितवेदितोपदेशः स्यात् । गर्भाधानादि स्मृतिशास्त्रादष्टाचत्वारिंशसंस्कारम् । क्षत्रियेणेति । एतेन क्षत्रिय एव राज्याधिकारीति सूचितम् । क्षत्रियाभावे तदति-देशोऽपि ग्राह्यः । अन्यथा प्रजालोपः स्यादिति भावः । सर्वस्य करदस्य दीनानाथादेश्च । अस्येति स्वविषयवासिनां यथास्वं जनपदपुरनिर्देशः । यथान्यायम् । न्यायः शास्त्रं धर्मशास्त्ररूपम्, नार्थशास्त्रमौशनसादिप्रणीतम्, तम-नतिक्रम्य । परिरक्षणं परिपालनम् । अपायपरिहारः, दुर्बलानां बलवद्भिरनभिभवः, शास्त्र-मर्यादानतिक्रमश्च । दुःखत्राणं परिरक्षा । शास्त्रातिक्रमे चादृष्टं दुःखम् । अतस्तदनति-क्रमे राजभयेन रक्षिता भवन्ति । राजदण्डे दुःखमिति चेन्महतो नरकादिदुःख : खाद्राज-दण्डनमल्पीय: ।

कर्तव्यमिति विधिः ।

अधिकारश्चाष्टमे निरूपितः ॥२ ॥

हिन्दी – शास्त्रानुसार वेद को प्राप्त ( उपनयन संस्कार से युक्त ) क्षत्रिय ( अभिषिक्त राजा ) न्यायपूर्वक ( अपने राज्य में रहनेवाली ) सब प्रजा की रक्षा करे ॥ २ ॥

विमर्श - इस वचन से क्षत्रिय का ही मुख्यतः प्रजापालन कर्तव्य बतलाया है । आपत्तिकाल में ब्राह्मण भी क्षत्रिय - वैश्यवृत्ति कर सकता है; वैश्य क्षत्रियवृत्ति कर सकता है और शूद्र भी क्षत्रिय - वैश्यवृत्ति कर सकता है; किन्तु ब्राह्मण शूद्रवृत्ति और शूद्र ब्राह्मणवृत्ति आपत्तिकाल में भी नहीं कर सकते, इसी विषय को आगे ( १०।८१-८३ ) में कहेंगे I । महर्षि नारद ' ने भी यही कहा है । अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ३ ॥

- इस संसार को बिना राजा के होने पर बलवानों के डर से ( प्रजाओं के )

हिन्दी-१ - ' तथाह नारदः-: -' न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम् ।

वृषलः कर्म ब्राह्मं च पतनीये हि ते तयोः ॥

उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।

मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥

रक्षणं वेदधर्मार्थं तपः क्षत्रस्य रक्षणम् । ' इति ( म ० मु ० )

पृष्ठ 33

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 33 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३ इधर - उधर भागने पर सम्पूर्ण चराचर की रक्षा के लिए भगवान् ने राजा की सृष्टि की ॥३ ॥

इन्द्रादि के अंश से राजा की सृष्टि-इन्द्रानिलयमाकाणामग्नेश्च वरुणस्य च ।

चन्द्रवित्ते शयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥४ ॥

भाष्य — विद्रुते पीडितेऽप्रतिष्ठिते वा । प्रभुः प्रजापतिः । स्तुतिरियम् ॥३ ॥

अनिलो वायुः । वित्तेशो धनपतिर्वैश्रवणः । मात्रा अवयवाः । शाश्वतीः सार-भूताः । निर्हृत्य निष्कृष्य ॥४ ॥

हिन्दी— ( ईश्वर ने ) इन्द्र, वायु, यम, सूर्य, अग्नि, वरुण, चन्द्रमा और कुबेर का सारभूत नित्य अंश लेकर ( राजा की सृष्टि की ) ॥ ४ ॥

यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥५ ॥

- एषामिन्द्रादीनां सुरश्रेष्ठानां मात्राभिस्तेजोशैर्निर्मितस्तस्माद्धेतोरभि-भाष्य-भवति दुर्निरीक्ष्यमुखो भवति । तेजसा हेतुना । निष्कृष्य निर्मित उत्पादित: यत: ' कृषि'रुत्पादने धातुर्वर्तते । तेनापायावधित्वान्-मात्राभ्य इति पञ्चमी तृतीया वा पठितव्या ॥ ५ ॥

हिन्दी — चूँकि राजा इन्द्र आदि सब देवों के नित्य अंश से रचा गया है, इस कारण यह ( राजा ) से सब जीवों को अभिभूत ( पराजित ) करता है ॥५ ॥

राजा की प्रशंसा-तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च ।

न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ ६ ॥

भाष्य — तपति तपतीव सम्मुखोऽशक्यदर्शनत्वादेवमुच्यते । तदाह । न चैनं भुवि शक्नोति । ब्राह्मणजात्युत्कृष्टा ब्रह्मवर्चस्विनोऽपि नैनमभिमुखं वीक्षितुं शक्नु-वन्ति । तदुक्तं “ तमुपर्यासीनमधस्तादुपासीरन् ” ॥६ ॥

हिन्दी — यह राजा देखनेवालों के नेत्र तथा मन को सूर्य के समान संतप्त करता है । अतः पृथ्वी पर कोई भी इसे देखने में समर्थ नहीं होता ॥ ६ ॥

सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।

स कुबेरः स वरुणः स चेन्द्रः स्वप्रभावतः ॥७ ॥

भाष्य — अग्न्यादिदेवतानां मात्राशयत्वात्तच्छक्तियोगितयैवमुच्यते ।

पृष्ठ 34

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 34 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मनुस्मृतिः प्रभावोऽलौकिकी या शक्तिः ॥ ७ ॥

हिन्दी – यह राजा प्रभाव ( अपनी अधिक शक्ति ) से अग्निरूप है, -[ सप्तमः वायुरूप सूर्य रूप है, चन्द्ररूप है, धर्मराज ( यम ) रूप है, कुबेररूप है और चन्द्र रूप है ॥

राजापमान का निषेध-बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।

महती देवता ह्येषा नररूपेण तिष्ठति ॥८ ॥

भाष्य — मनुष्योऽयमित्येवं बालोऽपि भूमिपो राजा नावमन्तव्यः । किंतर्हि? महती काचिदेषा देवतैतेन मानुषेण रूपेण स्थितेति । अतो दृष्टेनापि दोषेण राजन्य-वज्ञा न युज्यते ॥८ ॥

हिन्दी— ( अतएव ) ‘ यह मनुष्य ही तो है ' ऐसा मानकर बालक राजा का भी अप-मान न करे; क्योंकि यह राजा के रूप में बड़ा देवता ( दैवीशक्ति ) स्थित रहता है ॥ ८ ॥

विमर्श - बालक राजा का भी अपमान करने से बड़े देव के अपमान करने का दोष होता है, अत: बालक राजा का भी अपमान न करे, फिर वयस्क एवं वृद्ध राजा के लिए क्या कहना? इस वचन से राजापमान करने का अदृष्ट दोष कहा गया है ।

एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।

कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥ ९ ॥

भाष्य — अस्य विधेरर्थवादश्लोका एते । राजधर्मोऽपि सन् सर्वपुरुषार्थोऽयम् । योऽग्निं हस्तादिना स्पृशति, समिद्धस्याप्यन्तिकवर्ती भवति, स ‘ दुरुपसर्पी ’ नरः प्रमादस्खलितो दह्यते । राता तु क्रुद्धः सपुत्रधनदारबान्धवं दहति । कुलं— ये केचिद् ज्ञातय: स्वजनाश्च तानप्यपराधसम्बन्धात्पशुभिर्धनसञ्चयैश्च सह नाशयति ॥ ९ ॥

हिन्दी – ( अब राजापमान का दृष्ट दोष कहते हैं - ) अग्नि केवल असावधानी से स्पर्श करनेवाले को ही जलाती है, किन्तु राजाग्नि ( क्रुद्धराजस्वरूप अग्नि ) चिरसञ्चित पशु तथा धन के सहित समस्त कुल ( वंश ) को ही जला देती है ॥९ ॥

प्रायोजनानुसार राजा की विविधरूपता-कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥१० ॥

भाष्य— नैतन्मन्तव्यं बन्धुर्मे राजा सुहृद्वेति । “ कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि । ” प्रयोजनापेक्षया च शत्रौ मित्रवदाचरन्ति मित्रे शत्रुवत् । तथाऽशक्ता: कञ्चिदपराधं क्षमन्ते, शक्तिं प्राप्योन्मूलयन्ति । एवं देशकालावपि । अतो ‘ धर्मसिद्ध्यर्थं ’

पृष्ठ 35

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 35 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता कार्यसिद्ध्यर्थं ‘ विश्वरूपं ’ कुरुते । क्षणान्मित्रं क्षणेन शत्रुः, नैकरूप एव राजा भवति । अतो न विश्वसितव्यं राजनि । मैत्र्याद्वाल्लभ्यात्सौजन्याद्वा तत्तुल्यवयोदृष्ट्या न वर्तितव्यम्, अपि तु सर्वदा नयेन द्रष्टव्यः ॥ १० ॥

हिन्दी — वह ( राजा ) प्रयोजन के अनुसार कार्य तथा शक्ति का वास्तविक विचार करे । धर्म ( कार्य ) सिद्धि के लिए बार - बार अनेक रूप धारण करता है ॥ १० ॥

विमर्श — स्वयं असमर्थ रहने पर क्षमा करता ( दब जाता — चुप रह जाता ) है फिर समर्थ होकर समूल नष्ट कर देता है; और एक ही व्यक्ति में प्रयोजन ( अपने मतलब ) के अनुसार कभी शत्रुता, कभी मित्रता और कभी उदासीनता रखता है, अत: अपने को राजा का प्रियपात्र कदापि नहीं समझना चाहिये ।

यस्य प्रसादे पद्माश्रीर्विजयश्च पराक्रमे ।

मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ११ ॥

भाष्य — प्रसन्न आराधनया श्रियं ददाति । क्रुद्धो मृत्युना योजयति । अतः श्रीकामे-नाराधनीयः । न केवलं श्रिया योजयति, यावदस्य शत्रवः सन्ति तानपि पराक्रम्य परि-तोषितो हन्ति । अतः शत्रुवधकामेन यथावत्परिचरणीयः । पद्मा । श्रीः पर्यायोऽपि पद्माशब्दो महत्त्वप्रतिपादनार्थः प्रयुक्तः, महतीं श्रियं ददातीत्यर्थः । एते चार्था राज्ञः प्राप्यन्ते । यतः सर्वतेजोमयोऽसौ अग्न्यादित्यचन्द्रमसां तेजो बिभर्ति ॥११ ॥

हिन्दी — जिस ( राजा ) की प्रसन्नता से लक्ष्मी, पराक्रम में विजय और क्रोध में मरण रहते हैं, अत: वह राजा सर्वतेजोमय है ॥ ११ ॥

राजद्वेष का कुपरिणाम–

तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् ।

तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ १२ ॥

भाष्य — प्रत्यवायाद्यथा नश्यति जनो नैवमभिप्रेतार्थलोभेनात: पुन: पुनराह । तं राजानं यो द्वेष्टि, प्रातिकूल्येन वर्तते तस्मिन् स त्वसंशयं नश्यति । तस्य ह्याशु विनाशाय । अन्यः कश्चिदपराधं क्षमते अशक्यराजनिवेदनेन । तत्र व्यवहारभागस्य धनपरिक्षयो भवति । भूतोऽप्यर्थः साक्षिणां चित्तवैचित्र्यादन्यथात्वमायाति — इत्यपेक्ष-माणः कश्चित्क्षमेतापि । राजा तद्विनाशार्थमपराधेन मनसि स्थितेन बाध्यत एवासौ शक्ति-मत्वाद्राज्ञः प्रयतमानस्य स्वतन्त्रविरोधो जायते ॥१२ ॥

हिन्दी – जो कोई अज्ञानवश होकर राजा के साथ द्वेष करता है, वह निःसन्देह

पृष्ठ 36

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 36 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ मनुस्मृतिः [ सप्तमः शीघ्र: ही नष्ट हो जाता है; क्योंकि राजा उसके विनाश के लिए मन को नियुक्त करता ( चेष्टायुक्त होता ) है ॥१२ ॥

) राजकृत नियम का उल्लंघन—

तस्माद्धर्मं यभिष्टेषु स व्यवस्येन्नराधिपः ।

अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ १३ ॥

भाष्य — यतः सर्वतेजोमयो राजा तस्माद्धेतोरिष्टेषु वल्लभेषु मन्त्रिपुरोहितादिषु कार्यगत्या धर्मं कार्यव्यवस्थां शास्त्राचाराविरुद्धां व्यवस्येन्निश्चित्य स्थापयेन्न विचाल-येत् । सा तादृशी राज्ञोऽनुज्ञा नातिक्रमणीया । ' अद्य पुरे सर्वैरुत्सवः कर्तव्यः I । मन्त्रिगेहे विवाहो वर्तते । तत्र सर्वैः सन्निधातव्यम् । तथा पशवो नाद्य सैनिकैर्हन्तव्याः । न शकु-नयो बन्धयितव्याः । नर्तिका धनिकैराराधनीया एतावन्त्यहानि ' । एवमनिष्टेष्वपि । ‘ एतेन संसर्गो न कर्तव्यः । एतस्य गृहे प्रवेशो न देय: ' । एवंविधोऽत्र धर्मः पटहघोषादिना राज्ञाऽऽदिष्टो नातिक्रमणीयः । न त्वग्निहोत्रादि-धर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति । स्मृत्यन्तरविरोधप्रसङ्गात् । अविरोधे चास्मि-न्विषये वचनस्यार्थवत्वात् ॥१३ ॥

हिन्दी – अत एव वह राजा ( शास्त्रमर्यादा के अनुसार ) अपेक्षित कार्यों में जिस धर्म की व्यवस्था करता ( जिस कानून को बनाता है, उसे नहीं चाहनेवालों को अनिष्ट ( अनभिलषित ) भी उस धर्म का उल्लंघन नहीं करना चाहिये अर्थात् उस कानून को तोड़ना नहीं चाहिये ॥१३ ॥

दण्ड की सृष्टि-तदर्थं सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥ १४ ॥

भाष्य — उक्ता राजोत्पत्तिः । दण्डोत्पत्तिरिदानीमुच्यते । तस्मा इदं तदर्थम् । राज्ञः प्रयोजनसिद्धये दण्डमसृजदीश्वरः प्रजाप्रतिः । को राज्ञोऽर्थो दण्डेन? उच्यते । गोप्तारं सर्वभूतानाम् । ' गोप्ता ' रक्षिता दण्ड एव । न दण्डेन विना राजा रक्षितुं शक्नोति । अतो राजत्वसिद्ध्यर्थ एव दण्डः सृष्टः । धर्ममात्मजं ब्रह्मतेजोमयमिति दण्डस्तुतिः । न यागदानादि ‘ धर्म: ', किं तर्हि दण्ड एव । न चायं प्राणधनहारित्वादधर्मो विज्ञेयः, अपि त्वेष एव धर्म आत्मजः शरीरादेव

पृष्ठ 37

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 37 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] जातः प्रजापतेः । ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

न च पाञ्चभौतिकः, किं तर्हि ब्रह्मणो यत्केवलं तेजस्तेन निर्मितः ।

' पूर्वं ' राजसृष्टेः ॥ १४ ॥

हिन्दी — उस ( राजा ) की कार्यसिद्धि के लिए भगवान ने सम्पूर्ण जीवों के रक्षक, धर्मस्वरूप पुत्र, ब्रह्मा के तेजोमय दण्ड की सृष्टि की ॥१४ ॥

दण्डभय से स्व - स्वभोगप्राप्ति-तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।

भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ १५ ॥

७ भाष्य — तस्य दण्डस्य भयात् । सम्बन्धिमात्रविवक्षायां भयहेतुत्वं नास्तीति षष्ठी । दण्डभ्यात्स्थावराणि भूतानि भोगाय फलकुसुमच्छायादिभिर्भागार्थं कल्पन्ते, तत्समर्था भवन्ति । यो हि स्थावरः फलं न ददाति स परिशोष्यते । न चेत्परिशुष्यति, सर्वतो व्याप्तदेशत्वाच्छित्वांऽगारीक्रियते । एतया वृक्षोपमया दण्ड्यस्य राजापथ्यकारिणः पुरुषस्यैवं कर्तव्यम्, छेदन-मूलोत्पाटनादिना दण्डः प्रणेयः । स्थावरग्रहणं स्तुत्या दृष्टान्तार्थमीदृशोऽयं दण्डो यत्स्थावरा अपि दण्ड्यन्ते, किं

पुनश्चराः । न तु स्थावराणां दण्डोऽयमित्येषा बुद्धिरस्ति ।

स्वधर्मान्न चलन्ति अकाले न पुष्यन्ति न प्रसुवते ॥ १५ ॥

हिन्दी – उस ( दण्ड ) के भय से स्थावर तथा जङ्गम सभी जीव ( अपने - अपने ) भोग ( को भोगने ) के लिए समर्थ होते हैं और अपने - अपने धर्म ( राजनियम ) से विचलित ( भ्रष्ट ) नहीं होते हैं ॥ १५ ॥

विमर्श - बलवान् व्यक्ति से पीड़ित दुर्बल व्यक्ति अपने भोग को नहीं भोगने पाता और वह बलवान व्यक्ति भी अपने से बलवान दूसरे किसी व्यक्ति से पीड़ित होकर भोग को नहीं भोग सकता; इस प्रकार सर्वत्र अव्यवस्था का साम्राज्य छा जाता है । जङ्गम पशु, पक्षी और स्थावर वृक्ष, लतादि जीव भी बलवान् व्यक्ति से किये गये मारण तथा छेदन आदि के द्वारा अपने - अपने भोग को नहीं भोगने पाते । इसके लिए ही राजदण्ड की रचना की गयी, जिससे समस्त जीव अपने - अपने कर्म को नियत रूप से करते रहें । अन्यायियों को दण्ड देना-तं देशकालौ शक्तिं च विद्यां चाबेक्ष्य तत्त्वतः । यथार्थतः मनु.II 3 सम्प्रणयेन्नरेष्वन्यायवर्तिषु ॥ १६ ॥

पृष्ठ 38

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 38 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ मनुस्मृतिः [ सप्तमः भाष्य — अन्यायवर्तिनो ये राजापथ्यकारिणो महामात्यादयस्तेषामयं दण्ड उच्यते । अन्येषां तु परस्परव्यवहारिणाम् ' अनुबन्धं परिज्ञाये ' त्यत्रोच्यते । तत्रैव चायं श्लोको व्याख्यातः । विद्याऽत्राधिका सा च वेदार्थविषया । यथार्हतः यथार्हं यो यस्य योग्य इत्यर्थः । सम्प्रणयेत् प्रवर्तयेत्कुर्यादिति यावत् । एतत्सर्वमवेक्ष्य निरूप्य तत्तदपेक्षो दण्डः कर्तव्यः । अन्यथाप्रणीतो राज्ञो दृष्ट-मनर्थमावहेत् । दृष्टादृष्टभेदेन स्वप्रकृतिजनपदभेदेन सप्तमाष्टमयोर्दण्डमातृकाश्लोकयोर्भेदः॥१६ ॥

हिन्दी – ( राजा ) देश, काल, दण्डशक्ति और विद्या ( जिस अपराध के लिए जो दण्ड उचित हो उसका ज्ञान ) का ठीक - ठीक विचारकर अन्यायवर्ती ( अपराधी ) व्यक्तियों में शास्त्रानुसार दण्ड को प्रयुक्त करे अर्थात् अपराधियों को उचित दण्ड दे ॥ १६ ॥

दण्ड की प्रशंसा-स राजा पुरुषो दण्डः स नेता शासिता च सः ।

चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥१७ ॥

भाष्य- स एव वस्तुतो राजा । तस्मिन्सति राजशक्तिः । स एव पुरुषः । येन बलीयसोऽपि पुरुषान् स्त्रीवन्यक्कृत्य वशीकरोति । स नेता । कार्याणि तेन नीयन्ते । शासिता । शासनं राजाज्ञा, तस्याः शासनीभावः दण्डे सति । धर्मतः कर्तृत्व-मौपचारिकम् । चतुर्णामाश्रमाणां यो धर्मस्तत्र स प्रतिभूरिव । यथा प्रतिभूश्चलितुं न ददाति, तद्वद्दण्डोऽपि ॥१७ ॥

हिन्दी - वह दण्ड ही राजा है ( क्योंकि दण्ड में ही राज करने की शक्ति है ) वह दण्ड पुरुष ( मर्द ) है ( और अन्य सभी लोग उस दण्ड के विधेय ) ( विनय ग्रहण में शासनीय ) होने से स्त्री तुल्य हैं ), वह दण्ड नेता है ( उस दण्ड के द्वारा ही सब कार्य यथावत् प्राप्त होते हैं; अत: वह नेता - प्राप्त करानेवाला है ), वह दण्ड शासन करनेवाला है ( क्योंकि दण्ड की आज्ञा से ही सब अपने - अपने कर्म में संलग्न हैं ) और वह दण्ड चारों आश्रमों ( ६।८७ ) के धर्म के प्रति ( जामिन्दार, मध्यस्थ मनु आदि महर्षियों के द्वारा ) कहा गया है ॥ १७ ॥

पृष्ठ 39

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 39 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ १८ ॥

९ भाष्य — न राजा शास्त्रं शास्ति कर्तव्याकर्तव्ययोर्विधिनिषेधयोः किं तर्हि दण्डे एव । दण्ड एवाभिरक्षति बलवद्भयो दुर्बलान् । सुप्तेषु राजपुरुषेषु दण्डभयादेव न

यथाकामं लोको व्यवहरति ।

द्विविधो दण्डो राजदण्डो यमदण्डश्च ॥१८ ॥

हिन्दी- - दण्ड ही सब प्रजाओं का शासन करता है, दण्ड ही सब ( प्रजाओं ) की रक्षा करता है, सबके सोते रहने पर दण्ड ही जागता है ( क्योंकि उसी दण्ड के भय से चोर आदि चोरी आदि दुष्कर्म नहीं करते ); विद्वान् लोग दण्ड को धर्म ( का हेतु ) समझते हैं ॥१८ ॥

उचित दण्ड से प्रजानुरञ्जन-समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।

असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ १ ९ ॥

भाष्य- - धृतः प्रणीतः प्रवर्तित: समीक्ष्य पूर्वोक्त कालाद्यपेक्ष्य समीक्ष्य रञ्च-यत्यनुरागं प्रजासु जनयति । विपरीतं प्रणीयमानो न केवलं स्वकार्यं न करोति, यावद्दुरुप-युक्तो विषवद्विनाशयत्यर्थं जनस्य ॥१ ९ ॥ हिन्दी — शास्त्रानुसार यथावत् विचार कर दिया गया दण्ड सब प्रजाओं को अनुरत करता है और बिना विचार किये धनलोभ या प्रमाद से दिया गया दण्ड सब तरफ से ( धन - जन का ) नाश करता है ॥१ ९ ॥

दण्ड न देने से अव्यवस्था-यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।

शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ २० ॥

भाष्य — अप्रणयनाद्दण्डस्य ये बलवत्तरा बलीयांसो बलेनाधिका महाप्राणतया शस्त्रहस्तमनुष्या भूयस्त्वेन वा, ते दुर्बलानपक्ष्यन् शूले मत्स्यानिव । यथा मत्स्या शूलाक्रियन्ते भोजनार्थमेवमशक्तो जनोऽधिकशक्तिभिरुपहीयेत, धनशरीरदारहरणा-दिना । तस्माद्दण्डार्हानतन्द्रितोऽनलसो दण्डयेत् । ' कुतो मया समीक्षा दण्डं करोमीति ' नैवं बुद्धिः कर्तव्या ॥२० ॥

साक्षा शक्या कर्तुं नैव हिन्दी - यदि राजा आलस्य छोड़कर दण्ड के योग्यों ( अपराधियों ) में दण्ड का

पृष्ठ 40

मनुस्मृति २ हरगोविन्द शास्त्री, पृष्ठ 40 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० मनुस्मृतिः [ सप्तमः प्रयोग नहीं करता, तो बलवान् लोग दुर्बलों को, जैसे मछलियों को लोहे के छड़ में छेदकर पकाते हैं, वैसे पकाने लगते - ॥२० ॥

अद्यात्काकः पुरोडाशं श्वाऽवलिह्याद्धविस्तथा ।

स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् ॥ २१ ॥

भाष्य — श्वकाकादयोऽप्यत्यन्ताधमा देवैः सह संस्पर्धेरन् । देवेभ्यो दातव्यं हविश्चरुपुरोडाशादि तत्ते अद्युर्यदि दण्डेन न निवार्येरन् । अन्यदपि यत्स्वाम्यं स्वस्वामिभावः स न स्यात् । जायापत्योः, पितापुत्रयोः । जायायाः पतिर्न स्यात्स्वातन्त्र्येण स्त्रियः प्रवर्तेरन् । अधरोत्तरम् । यत् अधरं ’ वृषलादि तत् ' उत्तरं ' प्रधानं स्यात् । यदुत्तरं ब्राह्मणादि

तदवरतां निकृष्टतामियात् । शूद्रा धर्ममुपदिशेयुः । वैदिको धर्मो नानुष्ठीयेत ॥२१ ॥

हिन्दी – ( यदि राजाअपराधियों में दण्ड ड- - प्रयोग नहीं करता, तो ) कौवा पुरोडाश ( यज्ञान्न ) को खाने लगता, कुत्ता हविष्यान्न को चाटने लगता ( अनधिकारी वेदबाह्य मूर्ख यज्ञ को दूषित करने लगते ), किसी पर किसी का प्रभुत्व नहीं रह जाता ( बलवान् दुर्बल की सम्पत्ति छीन या लूटकर स्वयं मालिक बन बैठता ) और नीच लोग ही बड़े बनने लगते ॥२१ ॥

दण्ड की पुनः प्रशंसा-सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।

दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ २२ ॥

भाष्य — स्वभावेनैव प्रकृत्यैव शुचिः शुद्धो धर्मार्थकामेषु स तादृशो नरो दुर्लभः, दुःखैर्लब्धुं शक्यः । किन्तु दण्डजितो दण्डेन जीयते, पथि स्थाप्यते । तद्भयान्न

यथाकामं प्रवर्तते ।

जगद्भोगायेति प्रागुक्तमेव ॥२२ ॥

हिन्दी- - सब लोग दण्ड से जीते गये हैं ( दण्ड के भय से ही नियमित होकर अपने - अपने कार्य में लगे हैं ), ( बिना दण्ड के ) स्वभाव से ही शुद्ध मनुष्य दुर्लभ हैं, दण्ड के भय से ही सम्पूर्ण संसार ( अपने - अपने धनादि को ) भोगने के लिए समर्थ होता है ॥२२ ॥

देवदानवगन्धर्वा रक्षांसि

पतगोरगाः ।

तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ २३ ॥

भाष्य — ये देवाः पर्जन्यो वायुरादित्य इत्यादयः । भोगाय कल्पन्ते शीतोष्ण-