मनुस्मृति २ हरगोविन्द शास्त्री — पृष्ठ 41–50
मनुस्मृति २ हरगोविन्द शास्त्री · पृष्ठ 41–50
पृष्ठ 41
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ११ वर्षैर्नियतैरोषधीः पाचयन्ति । तद्दण्डभयाशङ्किनः । अन्यथा किमिति सूर्याचन्द्रमसौ धातृपर्जन्यौ वा स्वस्मात्कार्यकालान्नियतान्न विचलेताम् । कदाचिद्वे अहनी त्रीणि वा नोदियात्सूर्यः, सति स्वातन्त्र्ये । दण्डात्तु बिभ्यन्नातिक्रामति मर्यादाम् । तथा च श्रुतिः -“ भयात्सूर्यः प्रतपति भयात्तपति चन्द्रमाः । भयादग्निश्च वायुश्चेति ” । दानवादयश्च यदिदमखिलमहर्निशं न जगदुपघ्नन्ति, दण्डमाहात्म्यमेतत् । पतङ्ग-वयांसि गृहमण्डनाः शुकसारिकादयो यद्वालानामक्षिणो नोत्पाटयन्ति श्येनकाककङ्क-गृध्रादयो यज्जीवतो नादन्ति तदप्येवमेव । उरगाः सर्पाः केवलं क्रोधविषात्मकाः सम्भूय सर्वे न दशन्ति सर्वं प्राणिजातं तद्दण्डसामर्थ्यम् । अतः स्तुतिरेषोच्यते । यद्देवादयो महर्धिका अचेतना वा स्वमर्यादातो न विच-लन्ति भयात् किं पुनर्मनुष्याः । अत्र श्लोकः पूर्वैः पठित: ।
“ दृष्ट्वा तु दैन्यं वनपाटलानां पुष्पप्रगल्भं कुटजप्रहासम् ।
सम्बन्धदानेन तदा जहास, नीचोऽपि रन्ध्रं प्रहरत्यवश्यम् ” ॥ इति ॥ २३ ॥
हिन्दी – देव ( इन्द्र, अग्नि, सूर्य, वायु आदि ), दानव, गन्धर्व, राक्षस, पक्षी और सर्प ( नाग ) – वे भी ( परमात्मा के ) दण्ड के भय से पीड़ित होकर भोग ( वर्षा आदि ) करने के लिए प्रवृत्त होते हैं ॥ २३ ॥
दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः ।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ २४ ॥
भाष्य- - - दण्डस्य विभ्रमोऽकरणमन्यायेन वा करणम् । तस्मिन्सति सर्ववर्णा दुष्येयुः । इतरेतरस्त्रीगमनेन संकरप्रवृत्तेः सेतयो मर्यादाः । ताः सर्वा भिद्येरन् । सर्व-मर्यादापरिलोपः स्यादित्यर्थः । ब्राह्मणाश्च शूद्रवद्वर्तेरञ्छूद्राश्च ब्राह्मणवत् । अतश्च सर्व-लोकप्रकोपः स्यात् । त्रयोऽपि लोका इतरेतरं वृष्ट्यातपादिना नोपकुर्युः ॥ २४ ॥
हिन्दी – दण्ड के विभ्रम ( अभाव या अनुचित प्रयोग ) से सब वर्ण ( ब्राह्मण, क्षत्रिय आदि ) दूषित ( परस्त्री— सम्भोग से वर्णसङ्कर ) हो जाँय, सब मर्यादाएँ ( चतुर्वर्गफल प्राप्ति का कारणभूत नियम ) छिन्न - भिन्न हो जायें और सब लोगों में ( चोरी, डाका, व्यभिचार आदि से ) क्षोभ उत्पन्न हो जाय ॥ २४ ॥
१. तदुक्तं कठोपनिषदि— ' भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ' इति ।
पृष्ठ 42
पाठ पढ़ें पाठ छिपाएँ
१२ मनुस्मृतिः
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ २५ ॥
[ सप्तमः भाष्य— एतद्द्वयं मनुष्याणां प्रशस्ततमम् । अतस्तेनासता रूपकभंग्या स्तौति । द्विरूपो दण्डः, दुःखदो भयदश्च । भयहेतुत्वं श्यामतया, दुःखहेतुत्वं लोहिताक्षत्वेन । परिसमाप्ता दण्डस्तुतिः । दण्डोऽवश्यं कर्तव्यः । स च देशाद्यपेक्षयेति । अन्यः सर्वोऽर्थवादः । नेता चेत् । ‘ नेता ’ दण्डस्य नायकः । स चेत्साधु पश्यति । सुनिरूपितं देशकाला-दिकं कृत्वा पालयति । तत्र प्रजा न मुह्यन्ति न केनचिद्दोषेण युज्यन्ते ॥२५ ॥
हिन्दी – श्याम वर्ण ( शरीरवाला ), लाल नेत्रोंवाला ( दण्ड का स्वरूप ऐसा शास्त्रों में वर्णित है ) और पापनाशक दण्ड जिस देश में विचरण करता ( राजा आदि शासकों के द्वारा प्रयुक्त किया जाता है ) है, उस देश में यदि नेता ( राजा आदि शासक ) उचित दण्ड देता है तो ( वहाँ रहनेवाली ) प्रजा दुःखित नहीं होती है ॥२५ ॥
दण्डप्रयोक्ता स्वरूप-तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ २६ ॥
भाष्य — इदं सम्प्रणेतुः साधुदर्शनं सत्यवादिता समीक्ष्यकारिता प्राज्ञता त्रिवर्गे कौशलं च । सत्यवादी, यः शास्त्रानुसारितया दण्डं कृत्वा कुतश्चिन्महाधनत्वं विज्ञाय न तं वर्धयति, न च वल्लभस्य रागादवनं करोति । प्राज्ञो देशादीनां बाध्यबाधकभावार्थमवस्थाविशेषज्ञः । कदाचिद्देशेन कालो बाध्यते कालेन वा देश: । उभौ वा तौ विद्याशक्ती तयोश्च परस्परमुत्सर्गापवादभावज्ञः । कार्य-वशादर्थश्च बाधक एव बाध्यतामित्यतः प्राज्ञत्वमुपयुज्यते । धर्मादीनां च गुरुलघुता-भावः । स्वल्पो यत्र धर्मस्तस्मिन्साध्यमाने महाननर्थो भवति, तत्र धर्मस्त्यज्यते । प्राय-श्चित्तेन समाधास्यत इत्येवमादि बोद्धव्यम् || २६ || हिन्दी— ( मनु आदि महर्षियों ने ) उस दण्ड प्रयोग करनेवाले राजा ( या अन्य राज-नियुक्त शासक ) को सत्यवादी, विचारकर करनेवाला, बुद्धिमान् और धर्म तथा अर्थ का जानकार होना बतलाया है ॥२६ ॥
तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते ।
कामान्धो विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ २७ ॥
पृष्ठ 43
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १३ भाष्य—– कामान्धः रागप्रधानः । विषमः क्रोधनः । समत्वेन दण्डपातनेन शत्रौ मित्रे च वर्धते । क्षुद्रः छलान्वेषाद्दण्डेनैव निहन्यते । प्रकृतिकोपेनादृष्टेन वा दोषेण ॥२७ ॥- ( दण्ड ) का यथायोग्य प्रयोग करता हुआ राजा ( या राज- नियुक्त
पुरुष ) त्रिवर्ग ( अर्थ, धर्म और काम ) से समृद्धियुक्त होता है ( और इससे विपरीत ) विषयाभिलाषी, क्रोधी, क्षुद्र ( नीच स्वभाव होने से विना विचार किये दण्ड प्रयोग करनेवाला ) राजा दण्ड के द्वारा ही मारा जाता है ( अमात्यादि प्रकृति के कोप होने पर नष्ट हो जाता है ) ॥२७ ॥
अनुचित दण्ड प्रयोग से हानि-दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः ।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ २८ ॥
- सुमहद्यत्तेजः स दण्ड: । भाष्य-णि अकृतात्मभिः शास्त्रेण गुरूपासनया सहजेन वा विनयेन येऽनभिविनीतास्तैर्दुर्धरः, न शक्यते सम्यक् प्रणेतुम् । नैवं मन्तव्यमाज्ञामात्रेण दण्डः प्रणीयते का तस्य दुर्धरता? यतो यस्तत्र न जागर्ति प्रयत्नवान्न भवति तं प्रमादिनं सबान्धवं दण्डो हन्ति । न शरीरेण केवलेन राजा नश्यति, यावत्पुत्रपौत्राद्यन्वयेन सह ॥ २८ ॥
हिन्दी— अति तेजस्वी तथा असंयत आत्मावालों से दुर्धर ( कठिनता से धारण करने योग्य ) दण्ड धर्म से भ्रष्ट ( अनुचित दण्डप्रयोग करनेवाले ) राजा को बान्धव सहित नष्ट कर देता है ॥ २८ ॥
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ॥ २ ९ ॥
भाष्य— देशाद्यनपेक्षया यत्र दण्डः प्रणीयते तत्र सराजकस्य जनपदस्य तिर्यक्-क्स्थावरसहितस्य नाशः । ततो मन्त्रिभिर्जनपदैश्च राजा विज्ञापनीयः । त्यक्तव्यो वा तादृशो देश: । देवमुनयः पीड्यन्ते । इतःप्रदानजीवना देवाः । अस्मिंश्चानुष्ठानाद्युच्छेदान्नष्टा एव देवमुनयः । तथा च पुराणकारैः-“ वर्णाश्रमेभ्यः स्थित्वा तु लोकेऽस्मिन्यः प्रवर्तते । स्वर्गादौ देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ ” इति ।
पृष्ठ 44
पाठ पढ़ें पाठ छिपाएँ
१४ मनुस्मृतिः [ सप्तमः प्रथमात् श्लोकादारभ्य यावदयं श्लोकस्तत्रायमर्थसंग्रहः । समवृत्तेन क्षत्रियेण जनपदपरिपालनं कर्तव्यम् । तच्च दण्डेन विना न भवतीति स देशाद्यपेक्षयाऽवश्यं निपुणतो निरूप्य स्वराष्ट्रे परराष्ट्रे वा यथाशास्त्रं प्रणेयः । अन्यथा तु प्रवृत्तावुभयलोक-नाशः । अन्यः सर्वोऽर्थवादः ॥२९ ॥
हिन्दी — फिर अर्थात् सबान्धव राजा को नष्ट करने के बाद ( बिना दोष का विचार किये प्रयुक्त किया गया दण्ड ) किला, राज्य चराचर के सहित पृथ्वी तथा अन्तरिक्षगामी मुनियों एवं देवताओं को ( यज्ञादि भाग न मिलने से ) पीड़ित करता है ॥ २ ९ ॥
दण्डप्रयोग के अयोग्य व्यक्ति-सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ३० ॥
भाष्य — सहायसंग्रहार्थं प्रकरणमिदानीमारभ्यते । यस्य च निरूपणा वक्ष्यमाणा तत्सहायादिगुणयोगिनश्चार्यसभ्यसेनापतिदण्डाधि-कारिणो न सन्ति, तेन स्वयमेव निःशङ्कं नयकालगुणसम्पन्नेनापि न्यायतो न प्रणेतुं शक्यः । ‘ न्यायः ’ शास्त्रानुसारिणी देशाद्यपेक्षया च व्यवस्था । अतः सहायाः शोभनाः कर्तव्याः । यथा स्वयं मूढो विचित्तोऽसंस्कृतबुद्धिरस्ति सक्तो विषयेषु लुब्धो धन-विनियोगं यथावन्न करोति तेन तादृशेनैतैर्दोषैर्युक्तेन न सम्यक् ध्रियते, एवमसहायेनापीति तात्पर्यम् । यस्तु विपरीतस्तेन शक्यते ॥३० ॥
एष एवार्थो वैपरीत्येनोच्यते-— हिन्दी – असहाय, मूर्ख, लोभी, शास्त्र -ज्ञान - हीन और विषयों में आसक्त ( राजा आदि ) के द्वारा न्यायपूर्वक दण्डप्रयोग नहीं किया जा सकता है ॥ ३० ॥
दण्डप्रयोग के योग्य व्यक्ति-शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा ।
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ३१ ॥
भाष्य- - शुचिरलुब्धः । सत्यसन्धः सत्यप्रधानः । सत्यमेव पुरोधाय सर्व-क्रियासु प्रवर्तते स विजितेन्द्रियः । अजितेन्द्रियस्य कुतः सत्यम् । यथाशास्त्रमनु-सरति वर्तते । सुसहायः शोभनाः सहायो अस्येति । अमूखैर्भक्त्यनुरक्तैः सहायै-र्युक्तः । धीमता प्राज्ञेन । योऽसौ मूढः प्रागुक्तस्तस्यायं प्रतिपक्षतयोक्तः । अतः पञ्चभिर्दोषैर्हीनस्तावद्भिरेव गुणैर्युक्तो दण्डप्रणयनेऽधिकृतो दृष्टादृष्टफलाति-शयभाग्भवतीति श्लोकद्वयस्यार्थः || ३१ ||
पृष्ठ 45
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १५ हिन्दी — धनादि के विषय में शुद्ध, सत्यप्रतिज्ञ, शास्त्रानुसार व्यवहार करने-वाला, अच्छे सहायकोंवाला और बुद्धिमान् ( राजा आदि ) के द्वारा दण्ड का प्रयोग किया जा सकता है || ३१ ||
दण्डप्रयोग का प्रकार-स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ३२ ॥
भाष्य – पितृपितामहादिक्रमागतो देशो व्यपदेशहेतुः । काश्मीरकस्य काश्मीर:, पाञ्चालस्य पाञ्चालाः स्वराष्ट्रम् । तत्र न्यायप्रवृत्तो न्यायेन वर्तेत, न्याययोगाद्द्वृत्त-न्याय: । अतो बहुव्रीहिः । न्यायवृत्तिरिति वा पाठः । एतत्पूर्वसिद्धमनूद्य शत्रुषु भृशदण्डता विधीयते । परराष्ट्राणि पुनः पीडयेन्न तत्र विघ्नाद्यपेक्षणीयम् । राष्ट्रीयोपरोधो वा । तथाकुर्वतः प्रताप उपजायते । प्रतापधनस्य शत्रवो नमन्ति ब्राह्मणेषु सर्वत्र क्षमान्वितः । अपराधेष्वपि साम्ना दण्डः प्रयोज्यः, न क्रोधेन । परराष्ट्रवासिनोऽपि राष्ट्रघातकाले यदि शक्यन्ते रक्षितुं तदा न हन्यन्ते ।
स्निग्धेषु सुहृत्सु अजिह्मोऽकुटिलबुद्धिः कार्यसिद्धिकृत्तत्कार्यप्रधानः स्यात् ।
समानाभ्युदयप्रत्यवायाः सुहृदः ' स्निग्धाः ' ॥ ३२ ॥
हिन्दी - अपने राज्य में न्यायानुसार दण्ड प्रयोग करे, शत्रुओं के देश में कठोर दण्ड का प्रयोग करे, स्वाभाविक मित्रों में सरल व्यवहार करे और ( छोटे अपराध करने पर ) ब्राह्मणों में क्षमा को धारण करे ॥ ३२ ॥
न्यायी राजा की प्रशंसा-एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ३३ ॥
भाष्य – प्रक्रान्तवृत्तेः स्तुतिरियम् । शिलोच्छेनापि जीवतोऽत्यन्तक्षीणकोशस्य विस्तीर्यते यशः प्रथते । ततश्च परराष्ट्राणि स्वयं नमन्ते स्वराष्ट्रिकश्चानुरागादविचलितो भवति ॥३३ ॥
हिन्दी - इस प्रकार व्यवहार न्याय से ( दण्ड प्रयोग ) करनेवाले, शिलोञ्छ ( ४।५ टिप्पणी ) वृत्ति से भी जीविका करनेवाले अर्थात् ऐश्वर्यहीन भी राजा का यश पानी में तेल की बूँद के समान संसार में फैलता है ॥३३ ॥
पृष्ठ 46
पाठ पढ़ें पाठ छिपाएँ
१६ मनुस्मृतिः
अन्यायी राजा की निन्दा-अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ३४ ॥
भाष्य – अतो वृत्ताद्विपरीतस्य चलितस्य ।
-अत्र हेतुरजितात्मता । यथाशास्त्रमनियतात्मा यः ॥ ३४ ॥
[ सप्तमः हिन्दी — इस ( ७।३१ ) के प्रतिकूल दण्ड प्रयोग करनेवाले, अजितेन्द्रिय राजा का यश पानी में घी के बूँद के समान संक्षिप्त होता ( घटता ) है ॥ ३४ ॥
स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः ।
वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ ३५ ॥
भाष्य — स्वधर्माणां च राजा सृष्टोऽभिरक्षिता । स्वधर्मनिष्ठानामपालने राज्ञः प्रत्यवायः । धर्मच्युतास्तु यदि केनचिदुपहन्येरन् न तत्र राज्ञोऽतीव दोष इति स्वे स्वे धर्म इत्यनेन दर्शयति । अथवा ‘ न ’ श्लिष्यते— ‘ अनिविष्टानामिति ' । ये तु शास्त्रान्मित्राद्युपदेशाद्वा स्व-धर्मायत्ताः न तेषां राजा द्वैधेन वर्तेत । वर्णग्रहणं स्त्रीबालवृद्धानां रक्षार्थम् । न हि ते आश्रमस्थाः । आश्रमग्रहणं तर्हि किमर्थम्? प्राधान्यार्थम् । ब्राह्मणवसिष्ठवत् । प्रयोजननिर्देशो वाऽयम् । आश्रमसन्ध्योपासनादिधर्माच्चलितुमेषान्न देयः । न चैवं दण्डाद्यपघातः कर्तुमेतेषां देयः । इतरथा बाघापरिहारः । एवं ' रक्षा ' विज्ञेया । सन्ध्यो-पासनाद्यकरणेषु नामान्यस्य कस्यचिद्भवति (? ) द्विरूपा राज्ञः कर्तव्यतेति वर्णाश्रम-ग्रहणम् । एतदेवोक्तं “ वर्णानाश्रमांश्च न्यायतोऽभिरक्षेदिति ” ॥३५ ॥
हिन्दी — अपने - अपने धर्म में संलग्न सभी वर्णों और आश्रमों की रक्षा करनेवाले राजा को ब्रह्मा ने बनाया है ॥३५ ॥
तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः ।
तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ३६ ॥
भाष्य — वक्ष्यमाणावबोधार्थः श्लोकः । तेन राज्ञा सभृत्येन तदीयैः सहायैर्यत्कर्तव्यं प्रजारक्षणार्थं तदिदानीमुच्यते ॥३६ ॥
हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि — ) भृत्यों ( अपने अधीनस्थ,
पृष्ठ 47
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १७ अमात्यादि ) के साथ प्रजा की रक्षा करनेवाले राजा का जो - जो कर्तव्य है, वह - वह क्रम सेशास्त्रानुसार मैं आप लोगों से कहूँगा ॥ ३६ ॥
वृद्ध विद्वान् ब्राह्मणों की सेवा-ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः ।
त्रैविद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने ॥ ३७ ॥
भाष्य – प्रातरुत्थाय शयनं त्यक्त्वा यथाविधानं कृतसन्ध्योपासनः, प्रथमं ब्राह्मणानां दर्शनं दद्यात् । उपासनमन्तिकोपवेशनकुशलप्रश्नादिकरणम् । परिः पादपूरण: । तिष्ठेत्तेषां च शासने । आज्ञाकरणं तेषां ' शासनम् ' । यदि कस्यचिदुपकाराया-विशेयुस्तद्विरुद्धं न शङ्खयम्, नाप्यनर्थकमनुतिष्ठेत् । त्रैविद्यवृद्धान् । तिसृणां विद्यानां समाहारः त्रैविद्यम्, तदधीतिनः त्रैविद्या रूढ्या ऋग्वेदादिवेदत्रयाध्यायिन उच्यन्ते । विदुषस्तदर्थवेदिनश्च । एवं विधा ये ब्राह्मण-स्तानुपासीत तदीयामाज्ञां कुर्यात् । वृद्ध्यस्त्रैविद्यानां श्रेष्ठाः प्रकर्षवन्तोऽध्ययन-विज्ञानयोः ॥३७ ॥
हिन्दी — राजा ( प्रतिदिन ) प्रातः काल उठकर ऋग्यजुः सामके ज्ञाता और विद्वान् ( नीतिशास्त्र के ज्ञाता ) ब्राह्मणों की सेवा करे और उनके शासन में रहे ( उनके कहने के अनुसार कार्य करे ) ॥ ३७ ॥
वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् ।
वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ ३८ ॥
भाष्य – वृद्धान्वयस्थब्राह्मणान् । एतदपूर्वं अन्यत्पूर्वसिद्धं विप्रानित्यादि । शुचीन् निरुपाधीन् । एतदप्यपूर्वम् । यथैबाध्ययनविज्ञाने उपास्यत्वकारणमेवं शुचित्वमपि । द्वितीयश्लोकार्थार्थवादः । रक्षोभिः । रक्षांसि निर्दयानि महाबलानि सर्वधर्मशून्यानि । तान्यपि वृद्धसेविनं पूजयन्ति ॥३८ ॥
हिन्दी— ( ज्ञान तथा तपस्या से ) वृद्ध, वेदज्ञाता और शुद्ध हृदयवाले उन ब्राह्मणों की नित्य सेवा ( आदर - सत्कार ) करे; क्योंकि वृद्धों की सेवा करनेवाले की राक्षस ( क्रूर प्रकृति वाले ) भी पूजा करते हैं ( फिर मनुष्यों की क्या बात है ) ॥३८ ॥
पृष्ठ 48
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः १८ विनयी होना-अविनय - निन्दा तथा विनय- प्रशंसा-बहवोऽविनयान्नष्टा राजानः सपरिग्रहाः । अविनय से नष्ट होने का दृष्टान्त—
वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ।
वाख्यानानि ज्ञेयानि ॥४१ ॥
[ सप्तमः श्रीहि ) figy हिन्दी — अविनय के कारण वेन, नहुष, पिजवन के पुत्र, सुदा, सुमुख और नेमि राजा नष्ट हो गये ॥४१ ॥
तेभ्योऽधिगच्छेद्विनयं विनीतात्माऽपि नित्यशः ।
विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥ ३ ९ ॥
भाष्य- –वृद्धसेवायाः प्रयोजनमाह । तेभ्यो विद्वद्ब्राह्मणेभ्यो वृद्धेभ्यः विनयं राजवृत्तमधिगच्छेच्छिक्षेत् । विनीतात्मा । यद्यपि स्वयंबुद्ध्याऽपि विनीतोऽर्थशास्त्रैर्वा, तथापि वृद्धोपदेशे यत्न-वान् स्यात् । दृष्टकर्माणः । शास्त्रज्ञेभ्यो निपुणतराः । अथवा पाटवातिशयजननार्थं विनीते-नापि स्वभावतो वृद्धेभ्य आर्येभ्य आत्मा विनेयः । स्वभावशुद्धस्य सुवर्णस्य तेज: संयोगा-दिनाऽऽधीयमानसंस्कारो विशुद्धतररूपवानसौ दृश्यते । अस्य विनयाधानस्य फलं न विनश्यतीति ॥ ३ ९ ॥ हिन्दी- - उन ( वृद्ध ब्राह्मणों ) से पहले से विनययुक्त भी राजा सर्वदा ( और अधिक ) विनय सीखे; क्योंकि विनययुक्त राजा कभी नष्ट नहीं होता है ॥ ३ ९ ॥ वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥ ४० ॥
भाष्य - पूर्वोक्त एवार्थः श्लोकत्रयेण दृढीक्रियते । अविनीताः सपरिग्रहा नष्टाः । पुत्रदारहस्त्यश्वादिपसम्पत्परिग्रहः । ये तु विनयिन:, न ते राष्ट्रं प्राप्य हारयन्ति । यावत्ते दूरस्था वनस्था अपि, कोश-हीना अपि, राज्यं प्रतिपेदिरे लब्धवन्तः ॥ ४० ॥
हिन्दी — अविनय के कारण बहुत - से राजा घोड़ा, हाथी आदि साधनों के सहित नष्ट हो गये और विनय के कारण वन में रहनेवाले ( घोड़ा, हाथी आदि साधनों से रहित ) भी राज्यों को पा गये ( अत: विनयी होना परमावश्यक है ) ॥४० ॥
सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥ ४१ ॥ ६ ।
भाष्य — उभयत्राप्युदाहरणानि लोकसिद्धानि वर्णयन्ति । एतानि महाभारतादा-
पृष्ठ 49
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता किड विनय से समृद्धिमान् होने का दृष्टान्त-पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ४२ ॥
भाष्य - ब्राह्मण्यं चैव गाधिजः । १ ९ “ ननु राज्याधिकारे को ब्राह्मण्यप्राप्त्युपन्यासावसरः? राष्ट्रप्राप्तिरेव यथापूर्वं वर्णयितव्या " । उच्यते । धनैश्वर्यादपि जात्युत्कर्षो दुष्प्रापः सर्वाधिकारहेतुत्वात् । " ननु च कथं तस्य विनयो हेतुः? षाड्गुण्यप्रयोगः अप्रमादः अतिव्ययवर्जनं अलोभ: व्यसनासेवनं एवमादीनि ' विनय: ' । तदेतद्द्वब्राह्मण्यस्यैकमपि न कारणम् । तपो हि तत्र कारणत्वेन श्रुतं विश्वामित्रस्तपस्तेपे नानृषेः पुत्रः स्यामित्येवमादि ” । उच्यते । नार्थशास्त्रोत्तवनीतिर्नयः । किं तर्हि? शास्त्रीयो विधिर्लोकाचारश्च । शास्त्रे च तपसा जात्युत्कर्षो जन्मान्तरे प्राप्यते इति विहितमेव । विश्वामित्रस्य ब्राह्मण्यं तु तस्मिन्नेव जन्मनि क्षत्रियस्य सत इत्याख्यातमेव ॥४२ ॥
हिन्दी — विनय के कारण पृथु और मनु ने राज्य, कुबेर ने धन, ऐश्वर्य और विश्वामित्र ने ( क्षत्रिय होकर भी ) ब्राह्मणत्व को प्राप्त किया ॥४२ ॥
विद्याग्रहण—
त्रैविद्येभ्यस्त्रयीं विद्यात् दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥४३ ॥
भाष्य-– विद्यामितिद्वितीयान्तपाठेऽधिगच्छेदित्यनुषञ्जनीयम् । समाप्तब्रह्मचर्यस्य राज्योपदेशात् त्रय्यर्थाधिगमेन तन्निष्पत्तेरभ्यासार्थोऽयमुपदेशः । त्र्यवयवा विद्या त्रिविद्या, तामधीयते । त्रैविद्यास्तेभ्यस्त्रयीमृग्वेदादिवेदत्रयं विद्यात् । सन्दिग्धेषु पदार्थेषु वेदेभ्यो निर्णयं कुर्यात् । तैः सह वेदार्थं चिन्तयेदिति यावत् । न राजत्वाभिमानान्मदावलेपेन सर्वज्ञोऽहमिति बुद्ध्या संदिह्यमानानर्थानुपेक्षेत । दण्डनीति च । दण्डविषया नीतिः । “ दण्डो दमनमित्याहुः ” येन शत्रवः स्व-प्रकृतयो किंयवासिनश्चान्यायकारिणो दम्यन्ते स दण्डोऽमात्यादिसम्पत् । नीतिस्तस्य प्रयोजनं तत्र विधिस्तं शिक्षेत । तद्भियश्चाणक्यादिग्रन्थविद्भयः । शाश्वतीमिति स्तुतिः । यद्यपि दण्डनीत्याऽप्यस्य सर्वलोकः शक्यते` ज्ञातुम्, अन्वयव्यतिरेकमूलत्वाद-
पृष्ठ 50
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः २० १. तदुक्तं कामन्दके— ' आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । लोकसंस्थितिहेतवः ॥ ' इति । विद्या ह्येताश्चस्रस्तु तासां विषयानाह तत्रैव । तद्यथा— ' आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ । [ सप्तमः हिण्ड fisnik PRIPR buny अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ । ' इति । स्यार्थस्य, तथाऽप्यबुधबोधनार्थानि तानि शास्त्राणि, बुधानां च संवादार्थानीति, युक्तो दण्डनीतिशास्त्राधिगमः । एवं आन्वीक्षिक्यपि तर्कविद्यार्थशास्त्रादिका । आत्मविद्याऽध्यात्मविद्या । विशेषण-विशेष्ये वा पदे । आत्मने या हिताऽऽन्वीक्षिकी सा तर्काश्रया । तां शिक्षेत् । सा ह्युप-युज्यते व्यसनाभ्युदयोपरमचित्तसंक्षोभोपशमाय । या तु बौद्धचार्वाकादितर्कविद्या सा नातीवकृत्वा क्वचिदुपयुज्यते । प्रत्युतास्तिक्यमुपहन्ति, यो नातिनिपुणमतिः । यदा तु स्वतन्त्रामान्वीक्षिकीं वेद, तदा तस्य दूतसंवादादिषु वाक्यवैशद्यानामुपयोगो नोपहास्यो भवति । वार्तारम्भाश्च पण्यानामर्थपरिज्ञानं वाणिज्यकौशलम्, समयेन बार्हस्पत्येन तत्र परिज्ञानं वार्ता । तन्निमित्ता आरम्भा ' वार्तारम्भाः ' । वार्तास्वरूपं ज्ञात्वा तद्विषयकार्या प्रवृत्तिः ‘ आरम्भः ’ । एतल्लोकतो विद्यात् । वणिज्याजीवनोऽत्र ' लोको ' ऽभिप्रेतः । ते हि तत्र कुशला भवन्ति । लोकत इति च पूर्वयोरनुषङ्गः कर्तव्यस्तेन सर्वत्र तद्विद्भ्य इति लभ्यते || ४३ || हिन्दी - ( राजा ) त्रिवेदों के ज्ञाता विद्वानों से त्रयी विद्या, नित्य दण्डनीति विद्या, आन्वीक्षिकी विद्या और लोकव्यवहार से वार्ता विद्या को सीखे ॥ ४३ ॥
विमर्श - ' त्रयी ' विद्या से धर्म विषयक ज्ञान होता है, उसे वेदज्ञाता विद्वान् ब्राह्मणों से ग्रहण करना चाहिए । ' दण्डनीति ' विद्या से नीति और अनीति — अर्थशास्त्र का ज्ञान होता है । ' आन्वीक्षिकी ' विद्या से विज्ञान- तर्कविज्ञान का ज्ञान होता है । ' आत्मविद्या ' से उन्नति तथा दुःख में क्रमशः हर्ष तथा शोकका निग्रह ( रुकावट ) होता है और ' वार्ता ’ विद्या से अर्थ और अनर्थ - खेती, व्यापार एवं पशुपालन आदि के लिए धनादि संग्रह तथा तद्विषयक उपायों का ज्ञान होता है । किसान, व्यापारी आदि से सीखना चाहिए । शास्त्रकारों ने आन्वीक्षिकी, त्रयी, वार्ता और दण्डनीति; इन चार विद्याओं को धर्म स्थिति का कारण बतलाया है ।